पञ्चाशद्-विभागः
- कण्ठस्थीकरणसौकर्याय +अखिलाम् अपि संहितां (पद-)पञ्चाशत्(→द्राविड्या पञ्जादि)-नामसु भागेषु विभजन्ति।
- एष पाठः प्रकाशितो बहुषु पुस्तकेषु जालक्षेत्रेषु च। एवं हि कण्ठस्थी-कृत्य चानुवदन्ति।
- प्रत्येकस्मिन् संहिताभागे तादृशे नानावाक्यानां मध्ये सन्धिः कृतो दृश्यते।
अनेन क्वचित् स्वरभोदो वर्तते।
यथा “मा॑ हिँसी॒न्, निष॑साद धृ॒तव्र॑तो॒ वरु॑णᳶ …” इति पाठाद् “मा॑ हिँसीत्।”, “निष॑साद धृ॒तव्र॑तो॒ वरु॑णᳶ …” इति विनियोगभेदेन मन्त्रौ निष्पादनीयौ। - यत्र तु पञ्चाशद्-भेद इष्टः,
वाक्यमध्येऽपि संहिताविभागः कृतः!
तेन विनियोगदशायाम् अनुचिताः स्वरा आयान्ति बहुत्र।
मन्त्रार्थावगमने ऽप्यनेन बाधाः सम्भवन्ति।
विनियोगशो वाक्यशश् च विभागः
समस्या-परिचयः - पञ्चाशद्-विभाग-परिचयो ऽन्यत्र दृश्यः।
परिहारपरिचयः -
- अत्र विनियोगं मनस्यवधार्य मन्त्रशो (यजुश्शः [अर्ध]ऋक्शो वा) संहितापाठो विच्छिद्यते संयोज्यतेऽपि वा। विवरणान्यधः।
- विनियोग-दृष्ट्या (नाम, छन्दोऽनुरोधेन, ऽर्थावगमन-दृष्ट्या वा) वाक्यान्ते ऽर्धर्चन्ते पादान्ते वा विरामः स्यान्, नान्यत्रेत्य् अस्मन्-निश्चयः।
परिवर्तनक्रमे -
- विनियोगानुसारेण 1-2-3 इति संख्या भाष्ये निर्दिष्टा पूर्वमुद्रितपुस्तकेषु । परन्तु तत्र वाक्यशो मन्त्रविभागः क्वचन न कृतः । अत्र अध्ययनसौकर्याय मन्त्रविभागः वाक्यव्यवस्था च कृता । सार्थकविनियोगेऽपि भिन्नवाक्यानां मध्ये विरामो गृह्यते, तत्र तेन च सन्धिविच्छेदो भवेदिति मतम्।
- संहितामूले यत्र निगदेषु यजुषाम् ऋचाञ्च समाहारस् तत्रेयं यजुरिति, इयं ऋगिति न स्पष्टं प्रतिभासः । तेन भाष्याध्ययने मन्त्रविभागः निगदे कियत्पर्यन्तम् अनुवर्तत इति न ज्ञायते । अत इदानीमत्र व्याख्यानानुरोधेन मन्त्रविभागः कृतः ।
आश्रितः क्रमः
- विभागसमये आदिम-अन्त्यपदयोः प्रकृतिस्वराः यदि संहितामात्रदर्शनेनास्पष्टाः तत्र पदपाठं पश्यामः। इत्थं प्रकृतिस्वरे ज्ञाते तु यथापेक्षं पाणिनीयनियमान् संहिताभागञ्चावलोक्य स्वरव्यत्ययं सम्पादयामः।
- क्वचित् विनियोगस्यैकत्वेऽपि वाक्यानि भिन्नानि, प्रतीकानि च भिन्नानीत्यस्मात् कारणात् सन्धिविच्छेदः कृतः, यथापेक्षं स्वराश्च परिवर्तिताः । तादृशस्थलेषु अवगाहनाय संयुक्तमन्त्रः इति पीठिकया साकं पूर्णमन्त्रः स्थापितः ।
- क्वचिद् एकस्यैव मन्त्रस्य विनियोगः विभज्योक्तो भाष्ये । तत्र मन्त्रं विच्छिद्य विनियोगानुसारेण पादशः, अर्धर्चशः, पादोनर्क्-शः मन्त्रा विभज्य निर्दिष्टाः । पञ्चमप्रपाठके विनियोगद्वयस्योदाहरणं दृश्यते - **त्रय॑स्त्रिँश॒त्तन्त॑वो॒ ये वि॑तत्नि॒रे य इ॒मय्ँ य॒ज्ञँ स्व॒धया॒ दद॑न्ते । तेषा॑ञ्छि॒न्नम्प्रत्ये॒तद्द॑धामि॒ स्वाहा॑। तं घ॒र्मो दे॒वाँ अप्ये॑तु ॥ [46] इति मन्त्रस्य टीका -“13 .त्रयस्त्रिंशदिति त्रिष्टुभा च”’ इति । अयं पूर्वमन्त्रस्य विनियोगभागः । तथा " 14अन्यं कपालं तेषु विसृजति - घर्म इति ॥"’ अयं चोत्तरविनियोगभाष्यभागः । अत्र वस्तुतः 13-14 मिलित्वा त्रिष्टुप् भवति ।
- क्वचिद् भाष्ये अनुष्टुप्, जगती, इत्यादि दिशा छन्दांसि सूचितानि । तेषां छन्दसां सुज्ञानायाक्षरगणनया मन्त्रेषु विभागः कृतः । एतदर्थं संहितान्तरमपि क्वचिदवलोक्तम्।