- स्मार्ताः प्रारम्भे श्रीगुरुभ्यो नमः इति सर्वानुदात्तं पठन्ति पाठयन्ति च ।
तन्नेष्टं श्रीवैष्णवानाम् - अप्रामाणिकत्वात् अनर्थत्वात् च । आदावन्ते च प्रामाणिकम् उदात्तं, सस्वारञ्च हरिः ओम् इति केचन न वदन्ति च ।
सारस्वत-क्रमः
कथा
पुरा शाखेयम् आर्षेय क्रमेणापाठ्यत।
ततः सारस्वत-पाठ आविर् बभूव।
सा कथा संस्कार-रत्नमालायां दत्ता।
अध्ययन-व्रताचरणम्
सारस्वत-क्रमेण शाखाम् अधीत्य
प्रत्येकं वेदव्रतम् उपक्रम्य
पुनर् एव वेदपारायणं कृत्वा
तत्-तद्-व्रतोत्सर्गम् आचरन्ति केचित्।