अनुषङ्ग ऊहो ऽध्याहारश्च
- मन्त्रेष्व् अनुषङ्गाः […. ] इति चिहिताः। अनुषङ्गा नाम पूर्वतो वोत्तरतो वा ऽऽकृष्यमाना मन्त्रखण्डा ये स्फुटम् उच्यन्ते विनियोगे। यथा - अमृता॑ अ॒मृते॑न॒ [+उत्पु॑नामि] स्वाहा॑ राज॒सूया॑य॒ चिता॑नाः ॥ अत्र उत्पुनामि इत्ययमध्याहृतभागः ॥
- मन्त्रेषु +ऊहाः {…} इत्य् आवरणभागे निर्दिष्टः । यथा 1/8-25 इत्यत्र एकस्मिन् मन्त्रे द्विवचनं पठ्यते । परन्त्व् अध्याहार्यं क्रियापदमेकवचनमस्ति । तत्र द्विवचननिर्देश ऊह्यः । यथा - “त्रिणवत्रयस्त्रिँ॒शौ स्तोमौ॑ {त्वामवताम्} शाक्वररैव॒ते साम॑नी॒ {त्वामवताम्}” इत्यादि।
- मन्त्रेष्व् अध्याहाराः +++(…)+++ इति दर्शिताः।
अनुषङ्गमन्त्रविशेषाः
- १. रुद्राध्याये ४ प्रपाठके ५ अनुवाके मन्त्रोयम् सहस्राणि सहस्रशो ये रुद्रा अधिभूम्याम् । तेषाँ॑ सहस्रयोज॒नेऽव॒ धन्वा॑नि तन्मसि । इति । अत्र तेषां सहस्रयोजने इत्याद्युत्तरार्धस्यानुषङ्गः उत्तरत्र पठितानां अष्टमन्त्राणां प्रत्येकशः क्रियते । तेन दशमन्त्रसम्पादनं भवति ।
- २. नमो॑ रु॒द्रेभ्यो॒ ये पृ॑थि॒व्याय्ँये॑ऽन्तरि॑क्षे॒ ये दि॒वि येषा॒मन्नव्ँ॒वातो॑ व॒र्षमिष॑व॒स्तेभ्यो॒ दश॒ प्राची॒र्दश॑ दक्षि॒णा दश॑ प्र॒तीची॒र्दशोदी॑ची॒र्दशो॒र्ध्वास्तेभ्यो॒ नम॒स्ते नो॑ मृडयन्तु॒ ते यन्द्वि॒ष्मो यश्च॑ नो॒ द्वेष्टि॒ तव्ँवो॒ जम्भे॑ दधामि इत्यत्र मन्त्रत्रयं विहितमस्ति । प्रथमः - नमो रुद्रेभ्यो ये पृथिव्यां येषामन्नमिषवस्तेभ्यो .. इति, नमो रुद्रेभ्यो ये अन्तरिक्षे येषां वात इषवस्तेभ्यो .. इति द्वितीयः । नमो रुद्रेभ्यो ये दिवि येषां वर्षमिषवस्तेभ्यो .. इति च तृतीयः । रुद्राध्याये अयं मन्त्रविभागः पाठक्रमे कथञ्चिदपि न ज्ञातुं शक्यः । रुद्राभिषेकादौ केचिद्विद्वांस एवैवं पठन्ति ।
प्रतीकविस्तारः
पाठक्रमे पूर्वम् एकदा आनुपूर्व्येणागतानां द्वित्राणां बहूनां वा मन्त्राणाम् उत्तरत्र विनियोगावसरे पुनः पठितव्यानां ज्ञापनार्थं मन्त्रप्रतीकमात्रं यत्र पठ्यते स प्रतीकपाठः । यथा - त्वं नो अग्ने, सत्वं नो अग्ने । उदुत्यं चित्रं, इमं मे वरुण, तत्वायामि इत्यादि । एतादृशस्थलेषु भाष्ये, व्याख्यातं पूर्वत्र इत्याद्युच्यते । अत्र अध्ययनानुकूल्याय एतादृशप्रतीकस्थलेषु समग्रमन्त्रः सटीक उद्धृतः । एकस्यैव द्वित्रिवारं प्रयोगे सर्वत्रापि उत्तरोत्तरागतटीकाभागोपि पूर्वतनस्थलेषु निर्दिष्टः।
प्रतीकविस्तार-योग्यता
- मन्त्रप्रतीकपाठे तावन्-मात्रस्य प्रतीकस्य मन्त्रत्वाभावात् प्रतीक-मात्र-पठनं निरर्थकम् एव । ज्ञापन-मात्रार्थम् एव तत्र तत्-प्रतीक-पठनम् इति चेत् तावन्-मात्रस्य पद-क्रमादि-पठनम् अकिञ्चित्करम् एव ।
- प्रतीक-मात्रस्यैव पद-क्रमादि-पठन-पद्धतिर् अस्ति । अथाध्ययनमात्रे तथा पठितेपि प्रयोगे समग्रमन्त्र पाठोस्ति । तस्मान् न दोषः इति केचित् । तदप्य् असङ्गतम् एव । “यं यं क्रतुम् अधीते तेन तेनास्येष्टं भवति” इति श्रुतेः स्वाध्यायाध्ययने ब्रह्मयज्ञादौ च तत्-तद्-यज्ञीय-मन्त्र-पठन-मात्रेण तत्-तद्-यज्ञानिष्पत्ति-दर्शनात् ।
- यथा ऋग्वेदे तु समानरूपेण पठितानाम् ऋचां गणन्तपाठो न शास्त्रीयः, तावन्-मन्त्रावयव-विच्छेदात्, तथा प्रतीक-मात्र-पाठोपि न शास्त्रीय इति केषाञ्चिद् आशयः ।