४२ षोडशिग्रहः ...{Loading}...
स्वराडनुष्टुप्
विश्वास-प्रस्तुतिः ...{Loading}...
म॒हाँ इन्द्रो॒ वज्र॑बाहुष्
षोड॒शी शर्म॑ यच्छतु ।
स्व॒स्ति नो॑ म॒घवा॑ करोतु॒
हन्तु॑ पा॒प्मानय्ँ॒ यो॑ऽस्मान् द्वेष्टि॑ ॥
सर्वाष् टीकाः ...{Loading}...
Keith
Great is Indra of the Sodaśin,
With the bolt in his arm, may he grant protection;
May the bountiful give us prosperity,
May he smite him who hateth us.
मूलम्
म॒हाँ इन्द्रो॒ वज्र॑बाहुष्षोड॒शी शर्म॑ यच्छतु ।
स्व॒स्ति नो॑ म॒घवा॑ करोतु॒ हन्तु॑ पा॒प्मानय्ँ॒यो॑ऽस्मान्द्वेष्टि॑ ॥
भट्टभास्कर-टीका
1महाँ इन्द्र इत्यादि । इयमप्यनुष्टुप् ॥ महत्त्वादिगुणविशिष्ट इन्द्रः अस्मभ्यं शर्म सुखं यच्छतु ददातु । स्वस्ति अविनाशं चास्माकं करोतु । हन्तु चास्माकं पाप्मानं पापम् । योस्मान्द्वेष्टि तं च हन्तु । यद्वा - योस्मान्द्वेष्टि तं पाप्मानं हन्तु ॥
मूलम् (संयुक्तम्)
उ॒प॒या॒मगृ॑हीतो॒ऽसीन्द्रा॑य त्वा षोड॒शिन॑ ए॒ष ते॒ योनि॒रिन्द्रा॑य त्वा षोड॒शिने॑ ॥
उपयाम-गृहीतः ...{Loading}...
मूलम् (संयुक्तम्)
उ॒प॒या॒मगृ॑हीतो॒ऽसीन्द्रा॑य त्वा षोड॒शिन॑ ए॒ष ते॒ योनि॒रिन्द्रा॑य त्वा षोड॒शिने॑ ॥
भास्करोक्त-विनियोगः
(ग्रहणम्)
उपयामगृहीतः ...{Loading}...
विश्वास-प्रस्तुतिः
उ॒प॒या॒म-गृ॑हीतो ऽसि।
Keith
Thou art taken with a support/ foundation.
मूलम्
उ॒प॒या॒मगृ॑हीतोऽसि।
भट्टभास्कर-टीका
उपयम्यन्ते स्वात्मन्येव नियम्यन्ते भूतजातान्यस्मिन् अभिन्नेधिकरणे इत्युपयामः पृथ्वी । ‘इयं वा उपयामः’ इति ब्राह्मणम् । ‘हलश्च’ इति घञ्, थाथादिस्वरेणान्तोदात्तत्वम् । तेन गृहीतस्त्वमसि ; कोन्यस्त्वां गृहीतुं क्षम इति भावः ; पृथिव्यापो गृहीष्यामीतिवत् । ‘तृतीया कर्मणि’ इति पूर्वपदप्रकृतिस्वरत्वम् । यद्वा - उपयामार्थं पृथिव्यर्थं गृहीतोसीति ; हे सोम ।
ननु ‘स्वाहा त्वा सुभवस्सूर्याय’ इति मन्त्रवर्णनात् सूर्यदेवत्यः कथं पृथिवीदेवत्यः स्यात् ? नैतद्देवताभिधानं ; पृथिवीवासिनां प्रजानां यागद्वारेण स्थित्यर्थं गृहीतोसीति स्तूयते । यद्वा - पृथिव्यपि देवतैवास्य ‘उपयामगृहीतोसीत्याहादितिदेवत्यास्तेन’ इति, अदितिः पृथ्वी । ‘चतुर्थी’ इति योगविभागात्समासः । ‘क्ते च’ इति पूर्वपदप्रकृतिस्वरत्वम् । ‘इयं वा उपयामस्तस्मादिमां प्रजा अनु प्रजायन्ते’ इति ब्राह्मणम् ॥
उपयामगृहीतोसीति व्याख्यातम् । ‘इयं वा उपयामः’ तयैव गृहीतोसीति ।
विश्वास-प्रस्तुतिः
इन्द्रा॑य त्वा षो॒ड॒शिने॑ +++(ग्रहणमन्त्रः)+++ ।
Keith
to Indra of the Sodaśin thee!
मूलम्
उ॒प॒या॒मगृ॑हीतो॒ऽसीन्द्रा॑य त्वा षो॒ड॒शिने॑ +++(ग्रहणमन्त्रः)+++ ।
भट्टभास्कर-टीका
2-3ग्रहणसादने व्याख्याते ।
षोडशिनः षोडशेन स्तोत्रेण शस्त्रेण च तद्-वान् इन्द्रष् षोदशी ।
‘प्रजापतिर्देवेभ्यो यज्ञान्व्यादिशत्सरिरिचानोमन्यत स यज्ञानां षोडशधा’ इत्यादि ब्राह्मणम् ॥
भास्करोक्त-विनियोगः
(सादनम्)
विश्वास-प्रस्तुतिः
ए॒ष ते॒ योनि॒रिन्द्रा॑य त्वा षोड॒शिने॑ ॥ [38] +++(सादनमन्त्रः)+++
Keith
This is thy birthplace; to Indra of the Sodaśin thee!
मूलम्
ए॒ष ते॒ योनि॒रिन्द्रा॑य त्वा षोड॒शिने॑ ॥ [38] +++(सादनमन्त्रः)+++
भट्टभास्कर-टीका
2-3ग्रहणसादने स्पष्टे ॥