३० ऐन्द्रो अतिग्राह्यग्रहः

३० ऐन्द्रो अतिग्राह्यग्रहः ...{Loading}...

गायत्री। सोमऋषिः


भास्करोक्त-विनियोगः

1अथैन्द्रं गृह्णाति - उत्तिष्ठन्निति गायत्र्या ॥

विश्वास-प्रस्तुतिः ...{Loading}...

उ॒त्तिष्ठ॒न्न् ओज॑सा स॒ह
पी॒त्वा, शिप्रे॑+++(=हनू)+++ अवेपयः
सोम॑म् इन्द्र च॒मू+++(←चमु अदने)+++ सु॒तम् ॥

सर्वाष् टीकाः ...{Loading}...
Keith

Arising in might,
Thou didst move thy jaws, O Indra,
When thou hadst drunk the cup-pressed Soma.

मूलम्

उ॒त्तिष्ठ॒न्नोज॑सा स॒ह पी॒त्वा शिप्रे॑ अवेपयः ।
सोम॑मिन्द्र च॒मू सु॒तम् ॥

भट्टभास्कर-टीका

हे इन्द्र सुतम् अभिषुतं सोमं पीत्वा ओजसा बलेन महता सह उत्तिष्ठन् शिप्रे हनू । कीदृग्भूते? चमू अदन-करण-भूते अवेपयः वेपय आचूषणिकान्तां तृप्तिं जनयन् हनुयुगळं चालय ।

चमु छमु अदने, औणादिक ऊप्रत्ययः ॥

उपयामगृहीतः ...{Loading}...
भास्करोक्त-विनियोगः

इमामनुद्रुत्य ‘उपयामगृहीतोसि विश्वेभ्यस्त्वा देवेभ्यः’ इति गृह्णाति ॥

उपयामगृहीतः ...{Loading}...
विश्वास-प्रस्तुतिः

उ॒प॒या॒म-गृ॑हीतो ऽसि।

Keith

Thou art taken with a support/ foundation.

मूलम्

उ॒प॒या॒मगृ॑हीतोऽसि।

भट्टभास्कर-टीका

उपयम्यन्ते स्वात्मन्येव नियम्यन्ते भूतजातान्यस्मिन् अभिन्नेधिकरणे इत्युपयामः पृथ्वी । ‘इयं वा उपयामः’ इति ब्राह्मणम् । ‘हलश्च’ इति घञ्, थाथादिस्वरेणान्तोदात्तत्वम् । तेन गृहीतस्त्वमसि ; कोन्यस्त्वां गृहीतुं क्षम इति भावः ; पृथिव्यापो गृहीष्यामीतिवत् । ‘तृतीया कर्मणि’ इति पूर्वपदप्रकृतिस्वरत्वम् । यद्वा - उपयामार्थं पृथिव्यर्थं गृहीतोसीति ; हे सोम ।

ननु ‘स्वाहा त्वा सुभवस्सूर्याय’ इति मन्त्रवर्णनात् सूर्यदेवत्यः कथं पृथिवीदेवत्यः स्यात् ? नैतद्देवताभिधानं ; पृथिवीवासिनां प्रजानां यागद्वारेण स्थित्यर्थं गृहीतोसीति स्तूयते । यद्वा - पृथिव्यपि देवतैवास्य ‘उपयामगृहीतोसीत्याहादितिदेवत्यास्तेन’ इति, अदितिः पृथ्वी । ‘चतुर्थी’ इति योगविभागात्समासः । ‘क्ते च’ इति पूर्वपदप्रकृतिस्वरत्वम् । ‘इयं वा उपयामस्तस्मादिमां प्रजा अनु प्रजायन्ते’ इति ब्राह्मणम् ॥


उपयामगृहीतोसीति व्याख्यातम् । ‘इयं वा उपयामः’ तयैव गृहीतोसीति ।

विश्वास-प्रस्तुतिः

[विश्वे॑भ्यस्त्वा दे॒वेभ्यः॑]

मूलम्

[विश्वे॑भ्यस्त्वा दे॒वेभ्यः॑]

भट्टभास्कर-टीका

अस्य ग्रहणमन्त्रस्य साकाङ्क्षत्वात्सादनमन्त्रे श्रुतं विश्वेभ्यस्त्वेति सम्बध्यते ॥


भास्करोक्त-विनियोगः

2अधिवदते ॥

मूलम् (संयुक्तम्)

आग्रय॒णो॑ऽसि॒ स्वा॑ग्रयणो॒ जिन्व॑ य॒ज्ञञ्जिन्व॑ य॒ज्ञप॑तिम॒भि सव॑ना पाहि॒ विष्णु॒स्त्वाम्पा॑तु॒ विश॒न्त्वम्पा॑हीन्द्रि॒येण

विश्वास-प्रस्तुतिः

आ॒ग्र॒य॒णो॑ऽसि ।
स्वा॑ग्रयणो॒ जिन्व॑ ।
य॒ज्ञञ्जिन्व॑ य॒ज्ञप॑तिम् +++(जिन्व)+++ ।

Keith

thou art the leader,
thou art the good leader;
quicken the sacrifice,
quicken the lord of the sacrifice;

मूलम्

आ॒ग्र॒य॒णो॑ऽसि ।
स्वा॑ग्रयणो॒ जिन्व॑ ।
य॒ज्ञञ्जिन्व॑ य॒ज्ञप॑तिम् +++(जिन्व)+++ ।

भट्टभास्कर-टीका

आग्रयणोसि आग्रयणाख्यो ग्रहस्त्वमस्ति । अग्रे इर्यते गृह्यत इत्यग्रयणः ग्रहाणामग्रेसरोसि । ‘ते देवा आग्रयाणाग्रान्ग्रहानपश्यन्’ इति ब्राह्मणम् । शकन्ध्वादित्वात्पररूपत्वम् । अग्रयाण एवाग्रयणाः । ‘सान्नाय्यानुजावर’ इत्यादिना स्वार्थिकोण्निपातितः । यद्वा - वाचा अग्रे प्रथममीयत इत्याग्रयणः । ‘वाग्वै देवेभ्यः’ इत्यादि ब्राह्मणं ‘तदाग्रयणस्याग्रयणत्वम्’ इत्यन्तम् ।

स्वाग्रयाणः, अग्र्यं श्रैष्ठ्यं यन्ति प्राप्नुवन्त्यनेनेत्याग्रयणः, शोभन आग्रयणस्स्वाग्रयणः । त्वां गृहीत्वा देवा अग्रं पर्यायन् । तथा यजमानोपि त्वां गृहीत्वा समानानामग्रं पर्येत्विति भावः । ‘अग्रमेव समानानां पर्येति’ इति ब्राह्मणम् । यस्मादीदृशस्त्वमसि तस्माज्जिन्व प्रीणय यज्ञं, यज्ञपतिं च जिन्व । उभयत्रापि वाक्यादित्वान्न निहन्यते । जिवि प्रीणने ।

विश्वास-प्रस्तुतिः

अ॒भि सव॑ना पाहि ।
विष्णु॒स् त्वाम् पा॑तु ।
विश॒न् त्वम् पा॑हीन्द्रि॒येण॑।

Keith

guard the pressings;
let Visnu guard thee,
do thou guard the folk with thy power;

मूलम्

अ॒भि सव॑ना पाहि ।
विष्णु॒स्त्वाम्पा॑तु ।
विश॒न् त्वम् पा॑हीन्द्रि॒येण॑।

भट्टभास्कर-टीका

सवना सवनानि, अभि पाहि आभिमुख्येन पालय तवाक्षीणतया । त्वयि हीक्षीणे प्रायश्चित्तप्रसङ्गादरक्षितानि सवनानि स्युः; तस्मान्मा क्षेष्ठा इत्यर्थः ।

तथा भगवान् विष्णुस्त्वां पातु यस्सर्वं पाति ।

तमपि विशं प्रजां यजमानस्य स्वभूतां पाहि सर्वां वा, इन्द्रियेणेत्थंभूतां प्रजामविकलेन्द्रियां कुर्वित्यर्थः ॥


भास्करोक्त-विनियोगः

3एवमनुद्रुत्य ‘एष ते योनिर्विश्वेभ्यस्त्वा देवेभ्यः’ इति सादयति ।

विश्वास-प्रस्तुतिः

ए॒ष ते॒ योनि॒र्, विश्वे॑भ्यस् त्वा दे॒वेभ्यः॑ ॥ [11]

Keith

this is thy birthplace; to the All-gods thee!

मूलम्

ए॒ष ते॒ योनि॒र्विश्वे॑भ्यस्त्वा दे॒वेभ्यः॑ ॥ [11]

भट्टभास्कर-टीका

‘वैश्वदेवो ह्येष देवतया’ इति ब्राह्मणम् । ‘आत्मा वा एष यज्ञस्य यदाग्रयणः’ इत्यादि च ॥

विश्वास-प्रस्तुतिः

इन्द्रा॑य॒ त्वौज॑स्वते ।

Keith

to Indra the mighty thee!

मूलम्

इन्द्रा॑य॒ त्वौज॑स्वते।


भास्करोक्त-विनियोगः

(सादनम्)

विश्वास-प्रस्तुतिः

ए॒ष ते॒ योनि॒रिन्द्रा॑य॒ त्वौज॑स्वते ॥ [31] +++(सादनमन्त्रः)+++

Keith

This is thy birthplace;
to Indra the mighty thee!

मूलम्

ए॒ष ते॒ योनि॒रिन्द्रा॑य॒ त्वौज॑स्वते ॥ [31] +++(सादनमन्त्रः)+++

भट्टभास्कर-टीका

2-3ग्रहणसादने व्याख्याते ॥