२६ वैश्वदेवग्रहः ...{Loading}...
सोमऋषिः
भास्करोक्त-विनियोगः
1सवितृ-पात्रेण वैश्वदेवं कलशाद् गृह्णाति - सुशर्मेति यजुषा ॥
मूलम् (संयुक्तम्)
सु॒शर्मा॑ऽसि सुप्रतिष्ठा॒नो बृ॒हदु॒क्षे नमः॑ ।
विश्वास-प्रस्तुतिः
+++(वैश्वदेवगण!)+++ सु॒शर्मा॑ऽसि सुप्रतिष्ठा॒नः।
बृ॒हद् +++(→नमः)+++ उ॒क्षे+++(=सेक्त्रे वृषभाय)+++ नमः॑ ।
Keith
Thou givest good protection, and art well established.
Homage to the great bull!
मूलम्
सु॒शर्मा॑ऽसि सुप्रतिष्ठा॒नः।
बृ॒हदु॒क्षे नमः॑ ।
भट्टभास्कर-टीका
वैश्वदेवो गण उच्यते । सुशर्मा सुसुखः शोभनग्रहो वा त्वमसि । ‘सोर्मनसी’ इत्युत्तरपदाद्युदात्तत्वम् ।
सुप्रतिष्ठानः शोभनं प्रतिष्ठानं प्रतिष्ठा यज्ञाख्या यस्य त्वम् ।
यद्वा - सुष्टु प्रतिष्ठन्ति सर्वे यागाभिनिवृत्तिद्वारेणेति सुप्रतिष्ठानः । ‘मन्क्तिन्व्याख्यान’ इत्यादिना उत्तरपदान्तोदात्तत्वमकारकादावपि भविष्यति ।
तस्मै तुभ्यं उक्षे सेक्त्रे वृष्टिमुत्पादयित्रे । ‘सावेकाचः’ इति चतुर्थ्या उदात्तत्वम् । इदं बृहन् नमः । ‘नञ्सुभ्याम्’ इत्युत्तरपदान्तोदात्तत्वम् । अन्नं सोमाख्यं गृह्यते त्वदर्थं गृह्नीमः । यद्वा - सोम एवोच्यते, हे सोम सुशर्मासीत्यादि समानम् । तादृशस्त्वं बृहन्नमः प्रभूतमन्नं अदनीयमस्मै उक्षे वैश्वदेवाय गणाय गृह्यस इति ॥
एषः ...{Loading}...
भास्करोक्त-विनियोगः
2एष ते योनिर्विश्वेभ्यस्त्वा देवेभ्य इति सादयति ॥ ‘वैश्वदेव्यो वै प्रजा असावादित्यश्शुक्रः’ इत्यादि ब्राह्मणम् ॥
विश्वास-प्रस्तुतिः
ए॒ष ते॒ योनि॒र्, विश्वे॑भ्यस्त्वा दे॒वेभ्यः॑ ॥ [17]
Keith
This is thy birthplace; to the All-gods thee!
मूलम्
ए॒ष ते॒ योनि॒र्विश्वे॑भ्यस्त्वा दे॒वेभ्यः॑ ॥ [17]
भट्टभास्कर-टीका
2एष ते योनिः इत्यादि व्याख्यातप्रायम् । ‘वैश्वदेव्यो वै प्रजा वैश्वदेवः कलशः’ इत्यादि ब्राह्मणम् ॥