१६ वैश्वदेवग्रहः ...{Loading}...
गायत्री । सोमऋषिः
भास्करोक्त-विनियोगः
1शुक्रपात्रेण वैश्वदेवं कलशाद् गृह्णाति - ओमास इति त्रिपदया गायत्र्या ॥
विश्वास-प्रस्तुतिः ...{Loading}...
ओ᳓मासश्+++(=अवितारः)+++ चर्षणी-धृतो
वि᳓श्वे देवास आ᳓ गत+++(=गच्छत)+++ ।
दाश्वां᳓सो+++(←दाशृ दाने)+++ दाशु᳓षः सुत᳓म् +++(प्रति)+++॥
007 ...{Loading}...
अधिमन्त्रम् - sa
- देवता - विश्वे देवाः
- ऋषिः - मधुच्छन्दा वैश्वामित्रः
- छन्दः - गायत्री
Thomson & Solcum
ओ᳓मासश् चर्षणीधृतो
वि᳓श्वे देवास आ᳓ गत
दाश्वां᳓सो दाशु᳓षः सुत᳓म्
Vedaweb annotation
Strata
Strophic
Pāda-label
genre M;; Oldenberg’s gāyatrī-corpus, cf. Oldenberg (1888: 9f.).
genre M;; Oldenberg’s gāyatrī-corpus, cf. Oldenberg (1888: 9f.).
genre M;; Oldenberg’s gāyatrī-corpus, cf. Oldenberg (1888: 9f.).
Morph
ā́ ← ā́ (invariable)
carṣaṇīdhr̥taḥ ← carṣaṇīdhŕ̥t- (nominal stem)
{case:VOC, gender:M, number:PL}
ūmāsaḥ ← ū́ma- (nominal stem)
{case:VOC, gender:M, number:PL}
ā́ ← ā́ (invariable)
devāsaḥ ← devá- (nominal stem)
{case:VOC, gender:M, number:PL}
gata ← √gam- (root)
{number:PL, person:2, mood:IMP, tense:AOR, voice:ACT}
víśve ← víśva- (nominal stem)
{case:VOC, gender:M, number:PL}
dāśúṣaḥ ← dāśváṁs- (nominal stem)
{case:GEN, number:SG}
dāśvā́ṁsaḥ ← dāśváṁs- (nominal stem)
{case:NOM, gender:M, number:PL}
sutám ← √su- (root)
{case:ACC, gender:M, number:SG, non-finite:PPP}
पद-पाठः
ओमा॑सः । च॒र्ष॒णि॒ऽधृ॒तः॒ । विश्वे॑ । दे॒वा॒सः॒ । आ । ग॒त॒ ।
दा॒श्वांसः॑ । दा॒शुषः॑ । सु॒तम् ॥
Hellwig Grammar
- omāsaś ← omāsaḥ ← oma
- [noun], vocative, plural, masculine
- carṣaṇīdhṛto ← carṣaṇī
- [noun], feminine
- carṣaṇīdhṛto ← dhṛtaḥ ← dhṛt
- [noun], vocative, plural, masculine
- “maintaining.”
- viśve ← viśva
- [noun], vocative, plural, masculine
- “all(a); whole; complete; each(a); viśva [word]; completely; wholly.”
- devāsa ← devāsaḥ ← deva
- [noun], vocative, plural, masculine
- “Deva; Hindu deity; king; deity; Indra; deva [word]; God; Jina; Viśvedevās; mercury; natural phenomenon; gambling.”
- ā
- [adverb]
- “towards; ākāra; until; ā; since; according to; ā [suffix].”
- gata ← gam
- [verb], plural, Aorist imperative
- “go; situate; enter (a state); travel; disappear; [in]; elapse; leave; reach; vanish; love; walk; approach; issue; hop on; gasify; get; come; die; drain; spread; transform; happen; discharge; ride; to be located; run; detect; refer; go; shall; drive.”
- dāśvāṃso ← dāśvāṃsaḥ ← dāś
- [verb noun], nominative, plural
- “sacrifice; give.”
- dāśuṣaḥ ← dāś
- [verb noun], genitive, singular
- “sacrifice; give.”
- sutam ← suta
- [noun], accusative, singular, masculine
- “Soma.”
सायण-भाष्यम्
हे विश्वे देवासः एतन्नामका देवविशेषाः दाशुषः हविर्दत्तवतो यजमानस्य सुतम् अभिषुतं सोमं प्रति आ गत आगच्छत । ते च देवाः ओमासः रक्षकाः चर्षणीधृतः मनुष्याणां धारकाः दाश्वांसः फलस्य दातारः । ‘मनुष्याः’ इत्यादिषु पञ्चविंशतिसंख्याकेषु मनुष्यनामसु चर्षणिशब्दः ( नि. २. ३. ८) पठितः । ‘अश्विनौ’ इत्यादिष्वेकत्रिंशत्संख्याकेषु देवविशेषनामसु • विश्वेदेवाः साध्याः’ (नि, ५. ६. २७ ) इति पठितम् । एतामृचं यास्क एवं व्याख्यातवान्-‘ अवितारो वावनीया वा मनुष्यधृतः सर्वे च देवा इहागच्छत दत्तवन्तो दत्तवतः सुतमिति तदेतदेकमेव वैश्वदेवं गायत्रं तृचं दशतयीषु विद्यते यत्तु किंचिद्बहुदैवतं तद्वैश्वदेवानां स्थाने युज्यते यदेव विश्वलिङ्गमिति शाकपूणिः । (निरु. १२. ४० ) इति । अत्र विश्वशब्दः सर्वशब्दपर्याय इति यास्कस्य मतम् । देवविशेषस्यैवासधारणं लिङ्गमिति शाकपूणेर्मतम् । अवन्ति इति ओमासः देवाः । ‘मन् ’ इत्यनुवृत्तौ ‘अविसिवि सिशुषिभ्यः कित्’ (उ. सू. १. १४१ ) इति मन्प्रत्ययः । ज्वरत्वरस्रिव्यविभवामुपधायाश्च’ (पा. सू. ६. ४. २०) इति ऊठ् । मनः कित्त्वेऽपि बाहुलकत्वाद्गुणः । ‘आज्ज़सेरसुक्’ (पा. सू. ७. १.५०) इति जसेः असुगागमः। आमन्त्रिताद्युदात्तत्वम्। चर्षणयो मनुष्याः। तान् वृष्टिदानादिना धारयन्तीति चर्षणीधृतः देवाः । पूर्वस्यामन्त्रितस्य सामान्यवचनस्य ‘विभाषितं विशेषवचने बहुवचनम् ’ ( पा. सू. ८. १, ७४ ) इति अविद्यमानवत्वप्रतिषेधात् अपादादित्वेन निघातः । ननु अत एव विद्यमानवत्वात् ‘सुबामन्त्रिते°’ ( पा. सू. २. १. २) इति पराङ्गवत्वेनैकपदीभावात् पदादपरत्वेन कथं निघात इति चेत् , न । ‘वत्करणं स्वाश्रयमपि यथा स्यात् ’ ( पा. म. ८. १.७२ ) इति वचनात् पदभेदप्रयुक्तस्य । निघातस्याप्युपपत्तेः । ऐकपद्येऽप्याद्युदात्तत्वे ’ अनुदात्तं पदमेकवर्जम् ’ (पा. सू. ६. १. १५८ ) इति सुतरामेव निघातो भविष्यति। इत्थमेव तर्हि द्रवत्पाणी शुभस्पती’ इत्यत्रापि पराङ्गवत्त्वेनैकपद्यादुत्तरस्य शेषनिघातप्रसङ्ग इति चेत्, न । तत्र पराङ्गवद्भावस्य परेण ’ आमन्त्रितं पूर्वमविद्यमानवत् ’ ( पा. सू. ८. १. ७२ ) इत्यविद्यमानवद्भावेन बाधितत्वात् । इह पुनः ‘विभाषितं विशेषवचने बहुवचनम् । इत्यविद्यमानवत्त्वस्य निषेधात् । पूर्वस्याप्यामन्त्रितस्य विद्यमानवत्वात् पराङ्गवत्त्वं स्वीकृतमिति वैषम्यम् । विश्वे । पादादित्वादाद्युदात्तः । गणदेवतावचनश्चात्र विश्वशब्दो न सर्वं शब्दपर्याय इति विशेष्यपरतया सामान्यवचनत्वात् ओमासः इत्यनेन न सामानाधिकरण्यम् । सामानाधिकरण्ये हि पूर्वस्य पादस्य पराङ्गवद्भावे सति ‘मित्रावरुणावृतावृधौ ’ इत्यादाविव अत्राप्यामन्त्रिताद्युदात्तता न स्यात् । विश्वे इत्यस्य विशेषणं देवासः इति । दीव्यन्तीति देवाः प्रकाशवन्तः । ननु अवयवप्रसिद्धेः समुदायप्रसिद्धिर्बलीयसी’ (परिभा° ९८) इति रूढ एवार्थों देवशब्दस्य ग्राह्यो न यौगिकः । यौगिकत्वे ह्यवयवार्थानुसंधानव्यवधानेन प्रतिपत्तिर्विक्षिप्ता स्यात् । समुदायप्रसिद्धौ तु न विक्षेप इति चेत्, न । समुदायप्रसिद्धौ हि देवशब्दस्य सामान्यपरतया विशेषवचनत्वाभावात् ‘विभाषितं विशेषवचने बहुवचनम्’ इत्यनेनानिषिद्धत्वात् विश्वे इत्यस्याविद्यमानवत्वेन शुभस्पती इति पदवत् देवासः इत्यस्यापि आद्युदात्तत्वं स्यात् । स्वरानुसारेण च रूढित्यागेनापि देवशब्दस्य योगस्वीकारो युक्त एव । आ गत आगच्छत । ‘बहुलं छन्दसि’ (पा. सू. २. ४. ७३) इति शपो लुकि सति ‘अनुदात्तोपदेश’ (पा. सू. ६. ४. ३७ ) इत्यादिना मकारलोपः । आङः पदात्परत्वात् निघातः । दाश्वांसः । ‘दाशृ दाने ’ इत्यस्य क्वसौ “ दाश्वान् साह्वान् मीढ्वांश्च ’ (पा. सू. ६. १. १२ ) इति निपातनात् क्रादिनियमप्राप्तः इडागमो (पा. सू. ७. २. १३) द्विर्वचनं च न भवति । प्रत्ययस्वरेण क्वसोरुदात्तत्वम् । दाशुष इत्यत्र ‘वसोः संप्रसारणम् ’ ( पा. सू. ६. ४. १३१ ) इति संप्रसारणम् । ‘ संप्रसारणाच्च’ (पा. सू. ६ १. १०८) इति पूर्वरूपत्वम् । “ आदेशप्रत्यययोः’ (पा. सू. ८. ३. ५९ ) इति षत्वम् ॥
भट्टभास्कर-टीका
हे ओमासः अवितारः प्रजानां रक्षितारः । अवतेर् मन्-प्रत्ययान्तात् ‘ज्वरत्वर’ इत्यादिना ऊठादेशे गुणः, आज्जसेरसुक् ।
चर्षणीधृतः, चर्षणयो मनुष्याः, तेषां प्रतिष्ठाद्यनु प्रदानेन धारयितारः । ‘अन्येषामपि दृश्यते’ इति पूर्वपदस्य दीर्घः, ‘विभाषितं विशेषवचने बहुवचनम्’ इति पूर्वस्याविद्यमानत्वनिषेधान्निहन्यते ।
विश्वे इति पादादित्वान् न निहन्यते । देवास इति पूर्ववन्निहन्यते, पूर्ववद् असुक् ।
हे इर्दृशा विश्वे देवाः आगत आगच्छत । पूर्ववच्छपो लुक् । आमन्त्रितानामविद्यमानत्वेपि आङः परत्वान्न निहन्यते ।
दाश्वांसो यूयम् । दाशृ दाने, लिटः क्वसुः ‘दाश्वान्साश्वान्’ इति निपातितः । यजमानेभ्यो धनानि दत्तवन्तः दाशुषो ऽस्य यजमानस्य सुतं सोमं प्रत्यागच्छत । अयं हि यजमानो युष्मभ्यं हवींषि दत्तवान् ददाति दास्यति । तेन युष्मदुपकारिणोस्य सुतं प्रति दानशीला यूयं प्रत्यागच्छत ।
यद्वा - चतुर्थ्यर्थे षष्ठी, यो नाम कश्चिद्युष्मभ्यं हवींषि ददाति तस्मै दाशुषे दाश्वांसो यूयं धनानि दत्तवन्तो यूयम् । यद्वा - ‘छन्दसि लुङ्लङ्लिटः’ इत्युभयत्र वर्तमाने लिट् । युष्मभ्यं हवींषि ददतोस्य सुतं प्रति यूयमपि धनानि ददत एवागच्छत इति ॥
Wilson
English translation:
“Universal Gods, protectors and supporters of men, bestowers (of rewards) come to the libation of the worshipper.”
Commentary by Sāyaṇa: Ṛgveda-bhāṣya
Viśvedevas = divinities in genitive ral; sometimes, they are a class connected with the elements
Jamison Brereton
O helpers, supporters of the peoples, you All Gods—come here as pious ones to the pressed soma of the pious man.
Jamison Brereton Notes
On the voc. of víśva- see comm. ad X.15.6.
Griffith
Ye Visvedevas, who protect, reward, and cherish men, approach
Your worshipper’s drink-offering.
Keith
Ye dread ones, guardians of men,
O All-gods, come ye,
Generous, to the pressed drink of the generous one.
Geldner
Schützende Völker-Erhalter, Allgötter, kommet her, als Spender zum Soma des Spenders!
Grassmann
Vereint, o menschenschirmende, ihr Götter alle, kommt herbei, Ihr frommen, in des frommen Haus.
Elizarenkova
Помощники, охраняющие людей,
О Все-Боги, придите
Милостивыми к выжатому (соме) жертвователя!
अधिमन्त्रम् (VC)
- विश्वेदेवा:
- मधुच्छन्दाः वैश्वामित्रः
- गायत्री
- षड्जः
भास्करोक्त-विनियोगः
इमामनुद्रुत्योपयामगृहीतोसि विश्वेभ्यस्त्वा देवेभ्यः इति गृह्णाति ॥
उपयामगृहीतः ...{Loading}...
विश्वास-प्रस्तुतिः
उ॒प॒या॒म-गृ॑हीतो ऽसि।
Keith
Thou art taken with a support/ foundation.
मूलम्
उ॒प॒या॒मगृ॑हीतोऽसि।
भट्टभास्कर-टीका
उपयम्यन्ते स्वात्मन्येव नियम्यन्ते भूतजातान्यस्मिन् अभिन्नेधिकरणे इत्युपयामः पृथ्वी । ‘इयं वा उपयामः’ इति ब्राह्मणम् । ‘हलश्च’ इति घञ्, थाथादिस्वरेणान्तोदात्तत्वम् । तेन गृहीतस्त्वमसि ; कोन्यस्त्वां गृहीतुं क्षम इति भावः ; पृथिव्यापो गृहीष्यामीतिवत् । ‘तृतीया कर्मणि’ इति पूर्वपदप्रकृतिस्वरत्वम् । यद्वा - उपयामार्थं पृथिव्यर्थं गृहीतोसीति ; हे सोम ।
ननु ‘स्वाहा त्वा सुभवस्सूर्याय’ इति मन्त्रवर्णनात् सूर्यदेवत्यः कथं पृथिवीदेवत्यः स्यात् ? नैतद्देवताभिधानं ; पृथिवीवासिनां प्रजानां यागद्वारेण स्थित्यर्थं गृहीतोसीति स्तूयते । यद्वा - पृथिव्यपि देवतैवास्य ‘उपयामगृहीतोसीत्याहादितिदेवत्यास्तेन’ इति, अदितिः पृथ्वी । ‘चतुर्थी’ इति योगविभागात्समासः । ‘क्ते च’ इति पूर्वपदप्रकृतिस्वरत्वम् । ‘इयं वा उपयामस्तस्मादिमां प्रजा अनु प्रजायन्ते’ इति ब्राह्मणम् ॥
उपयामगृहीतोसीति व्याख्यातम् । ‘इयं वा उपयामः’ तयैव गृहीतोसीति ।
विश्वास-प्रस्तुतिः
विश्वे॑भ्यस्त्वा दे॒वेभ्यः॑ ।
Keith
to the All-gods thee!
मूलम्
विश्वे॑भ्यस्त्वा दे॒वेभ्यः॑ ।
एषः ...{Loading}...
भास्करोक्त-विनियोगः
2एष ते योनिर्विश्वेभ्यस्त्वा देवेभ्य इति सादयति ॥ ‘वैश्वदेव्यो वै प्रजा असावादित्यश्शुक्रः’ इत्यादि ब्राह्मणम् ॥
विश्वास-प्रस्तुतिः
ए॒ष ते॒ योनि॒र्, विश्वे॑भ्यस्त्वा दे॒वेभ्यः॑ ॥ [17]
Keith
This is thy birthplace; to the All-gods thee!
मूलम्
ए॒ष ते॒ योनि॒र्विश्वे॑भ्यस्त्वा दे॒वेभ्यः॑ ॥ [17]