१२ उक्थ्यग्रहः ...{Loading}...
सोमऋषिः
भास्करोक्त-विनियोगः
1स्थाल्योक्थ्यं गृह्णाति - उपयामगृहीतोसीति यजुरादिकया ‘इन्द्राय त्वा बृहद्वते’ इति चतुष्पदयानुष्टुभा । ऋक्त्वाद्, उपरिष्टाद् उपयामत्वे प्राप्ते, अपवादत्वेन पुरस्ताद् उपयामत्वम् आम्नायते ॥
मूलम् (संयुक्तम्)
उ॒प॒या॒मगृ॑हीतो॒ऽसीन्द्रा॑य त्वा बृ॒हद्व॑ते॒ वय॑स्वत उक्था॒युवे॒ यत्त॑ इन्द्र बृ॒हद्वय॒स्तस्मै॑ त्वा॒ विष्ण॑वे त्वा ।
उपयामगृहीतः ...{Loading}...
भास्करोक्त-विनियोगः
इमामनुद्रुत्य ‘उपयामगृहीतोसि विश्वेभ्यस्त्वा देवेभ्यः’ इति गृह्णाति ॥
उपयामगृहीतः ...{Loading}...
विश्वास-प्रस्तुतिः
उ॒प॒या॒म-गृ॑हीतो ऽसि।
Keith
Thou art taken with a support/ foundation.
मूलम्
उ॒प॒या॒मगृ॑हीतोऽसि।
भट्टभास्कर-टीका
उपयम्यन्ते स्वात्मन्येव नियम्यन्ते भूतजातान्यस्मिन् अभिन्नेधिकरणे इत्युपयामः पृथ्वी । ‘इयं वा उपयामः’ इति ब्राह्मणम् । ‘हलश्च’ इति घञ्, थाथादिस्वरेणान्तोदात्तत्वम् । तेन गृहीतस्त्वमसि ; कोन्यस्त्वां गृहीतुं क्षम इति भावः ; पृथिव्यापो गृहीष्यामीतिवत् । ‘तृतीया कर्मणि’ इति पूर्वपदप्रकृतिस्वरत्वम् । यद्वा - उपयामार्थं पृथिव्यर्थं गृहीतोसीति ; हे सोम ।
ननु ‘स्वाहा त्वा सुभवस्सूर्याय’ इति मन्त्रवर्णनात् सूर्यदेवत्यः कथं पृथिवीदेवत्यः स्यात् ? नैतद्देवताभिधानं ; पृथिवीवासिनां प्रजानां यागद्वारेण स्थित्यर्थं गृहीतोसीति स्तूयते । यद्वा - पृथिव्यपि देवतैवास्य ‘उपयामगृहीतोसीत्याहादितिदेवत्यास्तेन’ इति, अदितिः पृथ्वी । ‘चतुर्थी’ इति योगविभागात्समासः । ‘क्ते च’ इति पूर्वपदप्रकृतिस्वरत्वम् । ‘इयं वा उपयामस्तस्मादिमां प्रजा अनु प्रजायन्ते’ इति ब्राह्मणम् ॥
उपयामगृहीतोसीति व्याख्यातम् । ‘इयं वा उपयामः’ तयैव गृहीतोसीति ।
विश्वास-प्रस्तुतिः
[विश्वे॑भ्यस्त्वा दे॒वेभ्यः॑]
मूलम्
[विश्वे॑भ्यस्त्वा दे॒वेभ्यः॑]
भट्टभास्कर-टीका
अस्य ग्रहणमन्त्रस्य साकाङ्क्षत्वात्सादनमन्त्रे श्रुतं विश्वेभ्यस्त्वेति सम्बध्यते ॥
भास्करोक्त-विनियोगः
2अधिवदते ॥
मूलम् (संयुक्तम्)
आग्रय॒णो॑ऽसि॒ स्वा॑ग्रयणो॒ जिन्व॑ य॒ज्ञञ्जिन्व॑ य॒ज्ञप॑तिम॒भि सव॑ना पाहि॒ विष्णु॒स्त्वाम्पा॑तु॒ विश॒न्त्वम्पा॑हीन्द्रि॒येण
विश्वास-प्रस्तुतिः
आ॒ग्र॒य॒णो॑ऽसि ।
स्वा॑ग्रयणो॒ जिन्व॑ ।
य॒ज्ञञ्जिन्व॑ य॒ज्ञप॑तिम् +++(जिन्व)+++ ।
Keith
thou art the leader,
thou art the good leader;
quicken the sacrifice,
quicken the lord of the sacrifice;
मूलम्
आ॒ग्र॒य॒णो॑ऽसि ।
स्वा॑ग्रयणो॒ जिन्व॑ ।
य॒ज्ञञ्जिन्व॑ य॒ज्ञप॑तिम् +++(जिन्व)+++ ।
भट्टभास्कर-टीका
आग्रयणोसि आग्रयणाख्यो ग्रहस्त्वमस्ति । अग्रे इर्यते गृह्यत इत्यग्रयणः ग्रहाणामग्रेसरोसि । ‘ते देवा आग्रयाणाग्रान्ग्रहानपश्यन्’ इति ब्राह्मणम् । शकन्ध्वादित्वात्पररूपत्वम् । अग्रयाण एवाग्रयणाः । ‘सान्नाय्यानुजावर’ इत्यादिना स्वार्थिकोण्निपातितः । यद्वा - वाचा अग्रे प्रथममीयत इत्याग्रयणः । ‘वाग्वै देवेभ्यः’ इत्यादि ब्राह्मणं ‘तदाग्रयणस्याग्रयणत्वम्’ इत्यन्तम् ।
स्वाग्रयाणः, अग्र्यं श्रैष्ठ्यं यन्ति प्राप्नुवन्त्यनेनेत्याग्रयणः, शोभन आग्रयणस्स्वाग्रयणः । त्वां गृहीत्वा देवा अग्रं पर्यायन् । तथा यजमानोपि त्वां गृहीत्वा समानानामग्रं पर्येत्विति भावः । ‘अग्रमेव समानानां पर्येति’ इति ब्राह्मणम् । यस्मादीदृशस्त्वमसि तस्माज्जिन्व प्रीणय यज्ञं, यज्ञपतिं च जिन्व । उभयत्रापि वाक्यादित्वान्न निहन्यते । जिवि प्रीणने ।
विश्वास-प्रस्तुतिः
अ॒भि सव॑ना पाहि ।
विष्णु॒स् त्वाम् पा॑तु ।
विश॒न् त्वम् पा॑हीन्द्रि॒येण॑।
Keith
guard the pressings;
let Visnu guard thee,
do thou guard the folk with thy power;
मूलम्
अ॒भि सव॑ना पाहि ।
विष्णु॒स्त्वाम्पा॑तु ।
विश॒न् त्वम् पा॑हीन्द्रि॒येण॑।
भट्टभास्कर-टीका
सवना सवनानि, अभि पाहि आभिमुख्येन पालय तवाक्षीणतया । त्वयि हीक्षीणे प्रायश्चित्तप्रसङ्गादरक्षितानि सवनानि स्युः; तस्मान्मा क्षेष्ठा इत्यर्थः ।
तथा भगवान् विष्णुस्त्वां पातु यस्सर्वं पाति ।
तमपि विशं प्रजां यजमानस्य स्वभूतां पाहि सर्वां वा, इन्द्रियेणेत्थंभूतां प्रजामविकलेन्द्रियां कुर्वित्यर्थः ॥
भास्करोक्त-विनियोगः
3एवमनुद्रुत्य ‘एष ते योनिर्विश्वेभ्यस्त्वा देवेभ्यः’ इति सादयति ।
विश्वास-प्रस्तुतिः
ए॒ष ते॒ योनि॒र्, विश्वे॑भ्यस् त्वा दे॒वेभ्यः॑ ॥ [11]
Keith
this is thy birthplace; to the All-gods thee!
मूलम्
ए॒ष ते॒ योनि॒र्विश्वे॑भ्यस्त्वा दे॒वेभ्यः॑ ॥ [11]
भट्टभास्कर-टीका
‘वैश्वदेवो ह्येष देवतया’ इति ब्राह्मणम् । ‘आत्मा वा एष यज्ञस्य यदाग्रयणः’ इत्यादि च ॥
विश्वास-प्रस्तुतिः ...{Loading}...
इन्द्रा॑य त्वा +++(बृहता साम्ना पृष्ठाख्येन)+++ बृ॒हद्-व॑ते॒
वय॑स्वत उक्था॒युवे॑+++(=उक्थ-कामाय)+++ ।
यत् त॑ इन्द्र बृ॒हद्-वय॒स्
तस्मै॑ त्वा॒ विष्ण॑वे त्वा ॥
सर्वाष् टीकाः ...{Loading}...
Keith
To Indra thee, to him of the Brhat (Saman),
The strong, eager for praise.
Thy great strength, O Indra,
To that thee! To Visnu thee!
मूलम्
इन्द्रा॑य त्वा बृ॒हद्व॑ते॒ वय॑स्वत उक्था॒युवे॑ ।
यत्त॑ इन्द्र बृ॒हद्वय॒स्तस्मै॑ त्वा॒ विष्ण॑वे त्वा ॥
भट्टभास्कर-टीका
हे सोम उपयामगृहीतोसि, तस्मात्त्वामिन्द्राय वक्ष्यमाणगुणाय गृह्णामीति शेषः । बृह्द्वते बृहता साम्ना पृष्ठाख्येन तद्वते ।
वयस्वते अन्नवते ।
उक्थायुवे उक्थं शस्त्रं कामयमानाय । ‘क्याच्छन्दसि’ इत्युप्रत्ययः, ‘न च्छन्दस्यपुत्रस्य’ इतीत्वाभावः । ‘जसादिषु वा वचनम्’ इति ‘घेर्ङिति’ इति गुणाभावः । हे इन्द्र तव बृहत् प्रभूतं यद्वयः अन्नं सोमलक्षणं गृह्यमाणं तस्मै तदर्थं तत्पानार्थं त्वां प्रार्थयामह इति शेषः । विष्णवे व्यापकाय तस्मै वयसे त्वां प्रार्थयामह इति । यद्वा - हे सोम विष्णवे भगवते च त्वां गृह्णामीत्येव शेषः । अत्र विष्णुर्ग्रहणकाल एव देवता । यागकाले तु मित्रावरुणाविन्द्राग्नी च । विष्णुर्हि वृत्रवधे साहाय्यकमिन्द्रस्याचरत् । ‘यदेव विष्णुरन्वतिष्ठत जहीति तस्माद्विष्णुमन्वाभजति’ इति ब्राह्मणम् । इन्द्रस्य सखा विष्णुः तस्मै तदर्थं तत्प्रीत्यर्थं इन्द्राय त्वां गृह्णामीति ॥
भास्करोक्त-विनियोगः
2’एष ते योनिरिन्द्राय त्वोक्थायुवे’ इति सादयति । ‘इन्द्रो वृत्राय वज्रमुदयच्छत्’ इत्यादि ब्राह्मणम् । ‘चक्षुर्वा एतद्यज्ञस्य यदुक्थ्यः’ इत्यादि च ॥
विश्वास-प्रस्तुतिः
ए॒ष ते॒ योनि॒र्, इन्द्रा॑य त्वोक्था॒युवे॑+++(=उक्थ-कामाय)+++ ॥ [13]
Keith
This is thy birthplace; to Indra, eager for praise, thee!
मूलम्
ए॒ष ते॒ योनि॒रिन्द्रा॑य त्वोक्था॒युवे॑ ॥ [13]
इति चतुर्थे द्वादशः ॥