१० आग्रहयणग्रहः ...{Loading}...
त्रिष्टुप् । सोमऋषिः
भास्करोक्त-विनियोगः
1आग्रयणं गृह्णाति - ये देवा इति चतुष्पदया पङ्क्त्या ॥
विश्वास-प्रस्तुतिः ...{Loading}...
ये दे॑वा दि॒व्य् एका॑दश॒ स्थ
पृ॑थि॒व्याम् अध्य् एका॑दश॒ स्थ ।
अ॒प्सु॒षदो॑ महि॒ना +एका॑दश॒ स्थ
ते दे॑वा य॒ज्ञम् इ॒मञ् जु॑षध्वम् ॥
+++(अग्रिमे प्रपाठक इमे ३३ रुद्रा इत्य् उच्यते। ३३ देवाः = ८ वसवः + १२ आदित्याः + ११ रुद्राः + २ अश्विनौ। मृगशीर्षेण सम्बन्धोऽस्ति??)+++
सर्वाष् टीकाः ...{Loading}...
Keith
Ye gods that are eleven in the sky,
Eleven on the earth,
Who sit mightily in the waters, eleven in number,
Do ye accept this saerifice.
मूलम्
ये दे॑वा दि॒व्येका॑दश॒ स्थ
पृ॑थि॒व्यामध्येका॑दश॒ स्थ ।
अ॒प्सु॒षदो॑ महि॒नैका॑दश॒ स्थ
ते दे॑वा य॒ज्ञमि॒मञ्जु॑षध्वम् ॥
भट्टभास्कर-टीका
हे देवा ये यूयं दिवि द्युलोके एकादश स्थ एकश्च दश चेत्येकादश । ‘सङ्ख्या’ इति पूर्वपदप्रकृतिस्वरतम् । ये पृथिव्यामधि उपरि एकादश स्थ ये चाप्सुषदोन्तरिक्षसद एकादश स्थ । अप्सु सीदन्तीत्यप्सुषदः । ‘तत्पुरुषे कृति’ इत्यलुक्, सुपामादित्वात्षत्वम् । महिना महत्त्वेन । ‘बहुलमन्यत्रापि’ इति महेरिनच्प्रत्ययः, ‘सुपां सुलुक्’ इति तृतीयैकवचनस्य डादेशः । माहात्म्येन ह्यन्तरिक्षे सीदन्तीति ।
एवं त्रयस्त्रिंशदपि यूयं हे देवा इममाग्रयणसाध्यं यज्ञं जुषध्वम् सेवध्वम् । नन्वस्य ग्रहस्य देवस्सविता पत्नीवानग्निः हरिवानिन्द्रः इति देवताः, न तु विश्वे देवाः । सत्यम्; सवितर्यग्नाविन्द्रे च द्युपृथिव्यन्तरिक्षस्था दश दशान्ये देवा अन्तर्भूता इति तेपि जुषध्वमित्युच्यते । पत्नीवदभिप्रायं वा ॥
उपयामगृहीतः ...{Loading}...
भास्करोक्त-विनियोगः
इमामनुद्रुत्य ‘उपयामगृहीतोसि विश्वेभ्यस्त्वा देवेभ्यः’ इति गृह्णाति ॥
उपयामगृहीतः ...{Loading}...
विश्वास-प्रस्तुतिः
उ॒प॒या॒म-गृ॑हीतो ऽसि।
Keith
Thou art taken with a support/ foundation.
मूलम्
उ॒प॒या॒मगृ॑हीतोऽसि।
भट्टभास्कर-टीका
उपयम्यन्ते स्वात्मन्येव नियम्यन्ते भूतजातान्यस्मिन् अभिन्नेधिकरणे इत्युपयामः पृथ्वी । ‘इयं वा उपयामः’ इति ब्राह्मणम् । ‘हलश्च’ इति घञ्, थाथादिस्वरेणान्तोदात्तत्वम् । तेन गृहीतस्त्वमसि ; कोन्यस्त्वां गृहीतुं क्षम इति भावः ; पृथिव्यापो गृहीष्यामीतिवत् । ‘तृतीया कर्मणि’ इति पूर्वपदप्रकृतिस्वरत्वम् । यद्वा - उपयामार्थं पृथिव्यर्थं गृहीतोसीति ; हे सोम ।
ननु ‘स्वाहा त्वा सुभवस्सूर्याय’ इति मन्त्रवर्णनात् सूर्यदेवत्यः कथं पृथिवीदेवत्यः स्यात् ? नैतद्देवताभिधानं ; पृथिवीवासिनां प्रजानां यागद्वारेण स्थित्यर्थं गृहीतोसीति स्तूयते । यद्वा - पृथिव्यपि देवतैवास्य ‘उपयामगृहीतोसीत्याहादितिदेवत्यास्तेन’ इति, अदितिः पृथ्वी । ‘चतुर्थी’ इति योगविभागात्समासः । ‘क्ते च’ इति पूर्वपदप्रकृतिस्वरत्वम् । ‘इयं वा उपयामस्तस्मादिमां प्रजा अनु प्रजायन्ते’ इति ब्राह्मणम् ॥
उपयामगृहीतोसीति व्याख्यातम् । ‘इयं वा उपयामः’ तयैव गृहीतोसीति ।
विश्वास-प्रस्तुतिः
[विश्वे॑भ्यस्त्वा दे॒वेभ्यः॑]
मूलम्
[विश्वे॑भ्यस्त्वा दे॒वेभ्यः॑]
भट्टभास्कर-टीका
अस्य ग्रहणमन्त्रस्य साकाङ्क्षत्वात्सादनमन्त्रे श्रुतं विश्वेभ्यस्त्वेति सम्बध्यते ॥
भास्करोक्त-विनियोगः
2अधिवदते ॥
मूलम् (संयुक्तम्)
आग्रय॒णो॑ऽसि॒ स्वा॑ग्रयणो॒ जिन्व॑ य॒ज्ञञ्जिन्व॑ य॒ज्ञप॑तिम॒भि सव॑ना पाहि॒ विष्णु॒स्त्वाम्पा॑तु॒ विश॒न्त्वम्पा॑हीन्द्रि॒येण
विश्वास-प्रस्तुतिः
आ॒ग्र॒य॒णो॑ऽसि ।
स्वा॑ग्रयणो॒ जिन्व॑ ।
य॒ज्ञञ्जिन्व॑ य॒ज्ञप॑तिम् +++(जिन्व)+++ ।
Keith
thou art the leader,
thou art the good leader;
quicken the sacrifice,
quicken the lord of the sacrifice;
मूलम्
आ॒ग्र॒य॒णो॑ऽसि ।
स्वा॑ग्रयणो॒ जिन्व॑ ।
य॒ज्ञञ्जिन्व॑ य॒ज्ञप॑तिम् +++(जिन्व)+++ ।
भट्टभास्कर-टीका
आग्रयणोसि आग्रयणाख्यो ग्रहस्त्वमस्ति । अग्रे इर्यते गृह्यत इत्यग्रयणः ग्रहाणामग्रेसरोसि । ‘ते देवा आग्रयाणाग्रान्ग्रहानपश्यन्’ इति ब्राह्मणम् । शकन्ध्वादित्वात्पररूपत्वम् । अग्रयाण एवाग्रयणाः । ‘सान्नाय्यानुजावर’ इत्यादिना स्वार्थिकोण्निपातितः । यद्वा - वाचा अग्रे प्रथममीयत इत्याग्रयणः । ‘वाग्वै देवेभ्यः’ इत्यादि ब्राह्मणं ‘तदाग्रयणस्याग्रयणत्वम्’ इत्यन्तम् ।
स्वाग्रयाणः, अग्र्यं श्रैष्ठ्यं यन्ति प्राप्नुवन्त्यनेनेत्याग्रयणः, शोभन आग्रयणस्स्वाग्रयणः । त्वां गृहीत्वा देवा अग्रं पर्यायन् । तथा यजमानोपि त्वां गृहीत्वा समानानामग्रं पर्येत्विति भावः । ‘अग्रमेव समानानां पर्येति’ इति ब्राह्मणम् । यस्मादीदृशस्त्वमसि तस्माज्जिन्व प्रीणय यज्ञं, यज्ञपतिं च जिन्व । उभयत्रापि वाक्यादित्वान्न निहन्यते । जिवि प्रीणने ।
विश्वास-प्रस्तुतिः
अ॒भि सव॑ना पाहि ।
विष्णु॒स् त्वाम् पा॑तु ।
विश॒न् त्वम् पा॑हीन्द्रि॒येण॑।
Keith
guard the pressings;
let Visnu guard thee,
do thou guard the folk with thy power;
मूलम्
अ॒भि सव॑ना पाहि ।
विष्णु॒स्त्वाम्पा॑तु ।
विश॒न् त्वम् पा॑हीन्द्रि॒येण॑।
भट्टभास्कर-टीका
सवना सवनानि, अभि पाहि आभिमुख्येन पालय तवाक्षीणतया । त्वयि हीक्षीणे प्रायश्चित्तप्रसङ्गादरक्षितानि सवनानि स्युः; तस्मान्मा क्षेष्ठा इत्यर्थः ।
तथा भगवान् विष्णुस्त्वां पातु यस्सर्वं पाति ।
तमपि विशं प्रजां यजमानस्य स्वभूतां पाहि सर्वां वा, इन्द्रियेणेत्थंभूतां प्रजामविकलेन्द्रियां कुर्वित्यर्थः ॥
भास्करोक्त-विनियोगः
3एवमनुद्रुत्य ‘एष ते योनिर्विश्वेभ्यस्त्वा देवेभ्यः’ इति सादयति ।
विश्वास-प्रस्तुतिः
ए॒ष ते॒ योनि॒र्, विश्वे॑भ्यस् त्वा दे॒वेभ्यः॑ ॥ [11]
Keith
this is thy birthplace; to the All-gods thee!
मूलम्
ए॒ष ते॒ योनि॒र्विश्वे॑भ्यस्त्वा दे॒वेभ्यः॑ ॥ [11]
भट्टभास्कर-टीका
‘वैश्वदेवो ह्येष देवतया’ इति ब्राह्मणम् । ‘आत्मा वा एष यज्ञस्य यदाग्रयणः’ इत्यादि च ॥
इति चतुर्थे दशमोनुवाकः ॥