०८ शुक्रग्रहः

०८ शुक्रग्रहः ...{Loading}...

त्रिष्टुप् । सोमऋषिः


भास्करोक्त-विनियोगः

1शुक्रं गृह्णाति - अयं वेन इति त्रिष्टुभा चतुष्पदया ॥

विश्वास-प्रस्तुतिः ...{Loading}...

अयं᳓ वेन᳓श्+++(=शुक्रः)+++ चोदयत् पृ᳓श्नि+++(=तनु)+++-गर्भा
ज्यो᳓तिर्-जरायू+++(=गर्भाच्छादनः)+++ र᳓जसो विमा᳓ने ।
इम᳓म् अपां᳓+++(=प्रातर्-नीहार-बिन्दुनां कर्मणां वा)+++ संगमे᳓ सू᳓र्यस्य
+++(गो-)+++शि᳓शुं न᳓ वि᳓प्रा मति᳓भी रिहन्ति+++(=लिहन्ति)+++ ॥
+++(सन्ध्यासु हि सूर्यसमीपे वर्तते वेनः।)+++

001 ...{Loading}...
अधिमन्त्रम् - sa
  • देवता - वेनः
  • ऋषिः - वेनः
  • छन्दः - त्रिष्टुप्
Thomson & Solcum

अयं᳓ वेन᳓श् चोदयत् पृ᳓श्निगर्भा
ज्यो᳓तिर्जरायू र᳓जसो विमा᳓ने
इम᳓म् अपां᳓ संगमे᳓ सू᳓रियस्य
शि᳓शुं न᳓ वि᳓प्रा मति᳓भी रिहन्ति

Vedaweb annotation

Strata
Cretic


Pāda-label
genre M
genre M
genre M
genre M


Morph
ayám ← ayám (pronoun)
{case:NOM, gender:M, number:SG}

codayat ← √cud- (root)
{number:SG, person:3, mood:INJ, tense:PRS, voice:ACT}

pŕ̥śnigarbhāḥ ← pŕ̥śnigarbha- (nominal stem)
{case:ACC, gender:F, number:PL}

venáḥ ← vená- (nominal stem)
{case:NOM, gender:M, number:SG}

jyótirjarāyuḥ ← jyótirjarāyu- (nominal stem)
{case:NOM, gender:M, number:SG}

rájasaḥ ← rájas- (nominal stem)
{case:GEN, gender:N, number:SG}

vimā́ne ← vimā́na- (nominal stem)
{case:LOC, gender:N, number:SG}

apā́m ← áp- (nominal stem)
{case:GEN, gender:F, number:PL}

imám ← ayám (pronoun)
{case:ACC, gender:M, number:SG}

saṁgamé ← saṁgamá- (nominal stem)
{case:LOC, gender:M, number:SG}

sū́ryasya ← sū́rya- (nominal stem)
{case:GEN, gender:M, number:SG}

matíbhiḥ ← matí- (nominal stem)
{case:INS, gender:F, number:PL}

ná ← ná (invariable)

rihanti ← √rih- (root)
{number:PL, person:3, mood:IND, tense:PRS, voice:ACT}

śíśum ← śíśu- (nominal stem)
{case:ACC, gender:M, number:SG}

víprāḥ ← vípra- (nominal stem)
{case:NOM, gender:M, number:PL}

पद-पाठः

अ॒यम् । वे॒नः । चो॒द॒य॒त् । पृश्नि॑ऽगर्भाः । ज्योतिः॑ऽजरायुः । रज॑सः । वि॒ऽमाने॑ ।
इ॒मम् । अ॒पाम् । स॒म्ऽग॒मे । सूर्य॑स्य । शिशु॑म् । न । विप्राः॑ । म॒तिऽभिः॑ । रि॒ह॒न्ति॒ ॥

Hellwig Grammar
  • ayaṃayamidam
  • [noun], nominative, singular, masculine
  • “this; he,she,it (pers. pron.); here.”

  • venaśvenaḥvena
  • [noun], nominative, singular, masculine
  • “Vena.”

  • codayatcoday√cud
  • [verb], singular, Present injunctive
  • “impel; drive; incite; command; drive; arouse; propel.”

  • pṛśnigarbhāpṛśni
  • [noun], feminine
  • “Pṛśni; beam.”

  • pṛśnigarbhāgarbhāḥgarbha
  • [noun], accusative, plural, feminine
  • “fetus; garbha; inside; cavity; embryo; uterus; child; pit; garbhadruti; filling; pregnancy; room; abdomen; fertilization; inside; hole; baby; calyx; midst.”

  • jyotirjarāyūjyotiḥjyotis
  • [noun], neuter
  • “light; star; luminosity; fire; jyotis [word]; digestion; planet; light; sunlight.”

  • jyotirjarāyūjarāyūjarāyu
  • [noun], accusative, plural, feminine
  • “afterbirth; chorion; placenta.”

  • rajasorajasaḥrajas
  • [noun], genitive, singular, neuter
  • “powder; menorrhea; dust; Rajas; atmosphere; rajas; pollen; passion; rajas [word]; sindūra; rust; tin; impurity; dark; sky.”

  • vimānevimāna
  • [noun], locative, singular, neuter

  • imamidam
  • [noun], accusative, singular, masculine
  • “this; he,she,it (pers. pron.); here.”

  • apāṃapāmap
  • [noun], genitive, plural, neuter
  • “water; body of water; water; ap [word]; juice; jala.”

  • saṃgamesaṃgama
  • [noun], locative, singular, masculine
  • “confluence; sexual intercourse; contact; meeting; association; battle; harmony; rendezvous; coupling; sexual activity.”

  • sūryasyasūrya
  • [noun], genitive, singular, masculine
  • “sun; Surya; sūrya [word]; right nostril; twelve; Calotropis gigantea Beng.; sūryakānta; sunlight; best.”

  • śiśuṃśiśumśiśu
  • [noun], accusative, singular, masculine
  • “child; young; baby; śiśu [word]; Śiśu; male child; fetus.”

  • na
  • [adverb]
  • “not; like; no; na [word].”

  • viprāviprāḥvipra
  • [noun], nominative, plural, masculine
  • “Brahmin; poet; singer; priest; guru; Vipra.”

  • matibhīmatibhiḥmati
  • [noun], instrumental, plural, feminine
  • “intelligence; decision; mind; hymn; purpose; idea; opinion; belief; desire; wish; conviction; plan; devotion.”

  • rihantirih
  • [verb], plural, Present indikative
  • “lick.”

सायण-भाष्यम्

वेनः कान्त एतत्संज्ञो मध्यस्थानो देवः ज्योतिर्जरायुः । ज्योतिर्द्योतमानो मेघो जरायुः । उदरे गर्भो येन वेष्टितोऽवतिष्ठते तज्जरायु । तदिव वेष्टको यस्य स तथोक्तः । मेघमध्ये गर्भवदवस्थित इत्यर्थः । विमाने । विमीयन्ते निर्मीयन्ते अस्मिन्नाप इति विमानमन्तरिक्षम् । रजसः उदकस्य निर्मातर्यन्तरिक्षे स्थितः सन् अयं वेनः पृश्निगर्भाः । पृश्निरादित्यः। तस्य गर्भभूताः । यद्वा । पृश्नयः सप्तोज्ज्वलवर्णाः सूर्यरश्मयः तेषां गर्भभूता अन्तरिक्षस्था अपः चोदयत् । पृथिवीं प्रति प्रेरयति । अपाम् उदकानामान्तरिक्ष्याणां सूर्यस्यसंगमे संगमनेऽन्तरिक्षे स्थितम् इमं वेनं विप्राः मेधाविनः स्तोतारः मतिभिः स्तुतिभिः रिहन्ति । रिहतिरर्चतिकर्मा । अर्चन्ति। पूजयन्ति। स्तुवन्तीत्यर्थः। शिशुं । यथा बालं पुत्रं मातापित्राद्या बान्धवाः स्तुतिपदैरुपलालयन्ति तद्वत् ॥

भट्टभास्कर-टीका

वेनतेः कान्तिकर्मणो वेनः कान्तः वर्षाद्यभीष्टप्रद उच्यते । ज्योतिर्-जरायुः ज्योतिर्जरायुस्थनीयम् आच्छादितं, यस्य जरायुणा गर्भ इव तजसा वेष्टितस्तेजोराशिरित्यथरः । इर्दृशोयं वेनशब्दवाच्य इन्द्रः, पृश्निर् आदित्यः तस्मिन्गर्भाः पृश्निगर्भाः गर्भ्यमाणाः । पचाद्यच् । गर्भवद् वर्धमाना आपः, भूमिगतान्हि रसान्सूर्यरश्मयो वायुना सह सूर्यमण्डले स्थापयन्ति, ते च तस्मिन्वर्धन्ते, आगामिसंवत्सरवृष्ट्यर्थम् । यथोक्तं - ‘समानमेतदुदकम्’ इत्यादि । सप्तमीपूर्वपदप्रकृतिस्वरत्वम् । ताश्च स्वकाले सूर्येण समर्पितश्चोदयत् चोदयति । लेट् । भुवं प्रतिप्रेरयत्ययमादित्यो वेनः । तथा चोक्तम् - ‘यदा खलु वा असावादित्यो न्यङ्रश्मिभिः’ इत्यादि ।

कुत्र स्थितोयमेवं करोतीत्यत आह - रजस उदकस्य विमाने निर्माणस्थाने ऽन्तरिक्षे । कृदुत्तरपदप्रकृतिस्वरत्वम् । य एवं प्रजानाम् उपकरोतीमं वेनं खलु विप्रा मेधाविनो मतिभिर्बुद्धिभिः रिहन्ति लिहन्ति । रलयोरेकत्वं स्मरन्ति । स्तुवन्ति पूजयन्ति बुद्धिपूर्वकमेव ते स्तवादि कुर्वन्तीति भावः । हविःप्रदानादिना संवर्धयन्तो न त्यजन्तीत्यर्थः । ‘मन्त्रे वृष’ इति क्तिन उदात्तत्वम् ।

शिशुं न शिशुमिव यथा शिशुं क्षीरादिदानेन संवर्धयन्ति । किमर्थं ? सूर्यस्यापां च सङ्गमे सङ्गमनाय सूर्यस्याद्भिस्सङ्गमो यथा स्यात् वृद्ध्यर्थं तदर्थमित्यर्थः । ‘ग्रहवृदृनिश्चिगमश्च’ इत्यप्, थाथास्वरेणोत्तरपदान्तोदात्तत्वम् ।

यद्वा - अयं वेनः कमनीयरूपः, ज्योतिर्जरायुः ज्योतिषा जरायुस्थनीयेन वेष्टितः रजसो विमाने स्थितः । रजोनाम गर्भधारणहेतुर्योनिस्थ उदकविशेषः ; तन्निर्माणस्थाने प्रजननस्थानीये स्थितः । पृश्निगर्भाः प्रेरयति काले प्रसूत्यर्थं मातर मिव त्वरयति । गर्भं करोतीति गर्भयिता गर्भः । पचाद्यच् । पृश्निर्गर्भो यासां ताः अपः प्रेरयति काले वृष्ट्यर्थम् । बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम् । ततस्स पुत्रस्थानीयः प्रसूतः पर्जन्यात्मा वर्षति । एनमिमं वेनाख्यं सूर्यस्यापां सङ्गमे संयोगे प्रसूतं शिशुमिव विप्रा मतिभिः पूजयन्तीति । सूर्यो हि भार्यास्थानीया अपस्सङ्गच्छति , वत्सरान्ते चायं जायते, जातश्च वर्षति । वृष्टं चोदकं रश्मय आदाय सूर्याय समर्पयन्ति । स च ता अंपस्सङ्गच्छतीति । यत एवं तस्मादहमपि तत्पूजार्थं शुक्रं गृह्णामीति शेषः ।
ननु शण्डाय गृह्यते ? सत्यं इन्द्रायैव तु हूयते, ‘इन्द्राय सुतमा जुहोमि’ इति होममन्त्रलिङ्गात् । ‘तौ देवा अपनुद्यात्मन इन्द्रायाजुहवुः’ इति च ब्राह्मणम् ॥

Wilson

English translation:

“This Vena, enfolded in the membrane of light, urges on (the waters) the germs of the Sun in the firmament of the water; the sages cherish him at the confluence of the waters, and the sun with endearments likea child.”


Commentary by Sāyaṇa: Ṛgveda-bhāṣya

Deity Vena: Vena is the Sun (RV 1.83.5), kānta, the beloved; madhyasthānadevatā, the divinity ofthe middle region, Indra or Parjanya; candra, the moon (Yajus. 7.16); or, the thunder-cloud; in the firmament ofthe water: at the coming of the rain, at the end of the hot weather; the sages cherish him: the sages cherishSoma

Jamison Brereton

This Seeker here spurs on those females whose embryo is the dappled one—he whose afterbirth is light—in the measuring out of the airy realm.

At the union of the waters and the sun, the inspired poets lick him with their thoughts like an infant (calf).

Griffith

SEE, Vena, born in light, hath driven hither, on chariot of the air, the Calves of Prsni.
Singers with hymns caress him as an infant there where the waters and the sunlight mingle.

Keith

Vena hath stirred those born of Prśni,
He enveloped in light, in the expanse of the welkin+++(=sky)+++;
Him in the meeting-place of the waters, of the sun,
Like a child, the priests tend with their songs.

Geldner

Dieser Seher treibt die mit dem bunten Stiere Schwangeren an, in Licht gehüllt bei dem Durchmessen des Raumes. Bei der Vereinigung der Gewässer und der Sonne lecken die Redekundigen diesen mit Gebeten wie die Kühe ihr Junges.

Grassmann

Der lichtumhüllte, holde trieb die Töchter der bunten Wolke an, die Luft durchmessend; Ihn küssen wie ein Kind mit Lied die Sänger, wenn Sonnenglanz sich einigt mit den Wassern.

Elizarenkova

Этот Вена подгоняет тех, что беременны пестрым,
(Скрытый) оболочкой из света, когда он меряет пространство.
При соединении вод и солнца его
Лижут молитвами вдохновенные, как (коровы) – теленка.

अधिमन्त्रम् (VC)
  • वेनः
  • वेनः
  • निचृत्त्रिष्टुप्
  • धैवतः
ब्रह्ममुनि - विषयः

इस सूक्त में परमात्मा ब्रह्माण्ड का रक्षक, लोगों का चालक, वेद का रचयिता, वेद शाश्वत है, परमात्मा जीवात्मा के हृदयघर में मित्र की भाँति प्रवेश करता है इत्यादि विषय हैं।

ब्रह्ममुनि - पदार्थः

पदार्थान्वयभाषाः - (अयं वेनः) यह कमनीय परमात्मा या विद्युत् देव (ज्योतिर्जरायुः)ज्योति इसकी जरायु है, ऐसे गर्भरूप सब जगत् को रखता है परमात्मा या मेघ को रखता है, विद्युद्देव (रजसः-विमाने) लोकसमूह ब्रह्माण्ड के निर्माणस्थान महाकाश में उदक-जल के निर्माणस्थान अन्तरिक्ष में (पृश्निगर्भाः) उज्ज्वल वर्णवाली रश्मियाँ गर्भ जिनकी हैं, ऐसे ‘आपः’ अप्तत्त्व प्रारम्भिक सूक्ष्म परमाणु-प्रवाहों को (चोदयत्) प्रेरित करता है (अपां सूर्यस्यसङ्गमे)उन सूक्ष्म अपों को सूर्य केसङ्गमन-वर्षाकाल होने पर (विप्राः) विद्वान् जन (मतिभिः) वाणियों द्वारा (इमम्) इस परमात्मा को (शिशुं न) कुमार जैसे को (रिहन्ति) स्तुत करते हैं या प्रशंसित करते हैं ॥१॥

ब्रह्ममुनि - भावार्थः

भावार्थभाषाः - परमात्मा ब्रह्माण्ड का रक्षक है, लोकनिर्माणस्थान महाकाश में परमाणुओं को प्रेरित करता है, सूक्ष्म केसङ्गमन-समागम समय-प्रातरेव विद्वान् स्तुति करते हैं एवं विद्युद्देव मेघ का रक्षक है, वर्षा समय उसकी प्रशंसा करते हैं ॥१॥

ब्रह्ममुनि - विषयः

अस्मिन् सूक्ते परमात्मा ब्रह्माण्डस्य रक्षको लोकानां चालकः वेदज्ञानस्य दाता यश्च वेदः शाश्वतिकः, परमेश्वरो जीवात्मनो हृदयगृहे मित्रवत् प्रवेशं करोतीत्येवमादयो विषयाः सन्ति।

ब्रह्ममुनि - पदार्थः

पदार्थान्वयभाषाः - (अयं वेनः) एष कमनीयः परमात्मा “वेनो वेनतेः कान्तिकर्मणः” [निरु० १०।३९] “वेनात् कमनीयात् परमात्मनः” [ऋ० ४।५८।४ दयानन्दः] यद्वा इन्द्रो विद्युद्देवः “इन्द्रो वै वेनः” [कौ० ८।४] “यदशनिरिन्द्रः” [कौ० ६।९] (ज्योतिर्जरायुः) ज्योतिरस्य जरायुस्थानीयं यस्मिन् सर्वं जगद् गर्भरूपं रक्षति, मेघं रक्षति वा (रजसः-विमाने) रञ्जनात्मकस्य लोकसमूहस्य ब्रह्माण्डस्य निर्माणस्थाने महाकाशे उदकस्य निर्माणस्थानेऽन्तरिक्षे वा (पृश्निगर्भाः-चोदयत्) पृश्निः उज्ज्वलः शुभ्रो वर्णो येषां ते रश्मयो गर्भो गर्भभूता यासां ताः पृश्निगर्भाः-आपः प्रारम्भिक्यः सूक्ष्मास्ताः प्रेरयति (अपां सूर्यस्य सङ्गमे) तासां सूक्ष्माणां सूर्यस्य सङ्गमने वर्षणकाले सति (विप्राः) विद्वांसः (मतिभिः) वाग्भिः “वाग् वै मतिः” “वाचा हीदं सर्वं मनुते” [श० ८।१।२।७] (इमं शिशुं न रिहन्ति) इमं परमात्मानं विद्युद्देवं वा शंसनीयं कुमारमिव स्तुवन्ति प्रशंसन्ति वा “रिहन्ति अर्चतिकर्मा” [निघं० ३।१४] ॥१॥


भास्करोक्त-विनियोगः

इमामनुद्रुत्योपयामगृहीतोसि शण्डाय त्वेति गृह्णाति ॥

उपयामगृहीतः ...{Loading}...
विश्वास-प्रस्तुतिः

उ॒प॒या॒म-गृ॑हीतो ऽसि।

Keith

Thou art taken with a support/ foundation.

मूलम्

उ॒प॒या॒मगृ॑हीतोऽसि।

भट्टभास्कर-टीका

उपयम्यन्ते स्वात्मन्येव नियम्यन्ते भूतजातान्यस्मिन् अभिन्नेधिकरणे इत्युपयामः पृथ्वी । ‘इयं वा उपयामः’ इति ब्राह्मणम् । ‘हलश्च’ इति घञ्, थाथादिस्वरेणान्तोदात्तत्वम् । तेन गृहीतस्त्वमसि ; कोन्यस्त्वां गृहीतुं क्षम इति भावः ; पृथिव्यापो गृहीष्यामीतिवत् । ‘तृतीया कर्मणि’ इति पूर्वपदप्रकृतिस्वरत्वम् । यद्वा - उपयामार्थं पृथिव्यर्थं गृहीतोसीति ; हे सोम ।

ननु ‘स्वाहा त्वा सुभवस्सूर्याय’ इति मन्त्रवर्णनात् सूर्यदेवत्यः कथं पृथिवीदेवत्यः स्यात् ? नैतद्देवताभिधानं ; पृथिवीवासिनां प्रजानां यागद्वारेण स्थित्यर्थं गृहीतोसीति स्तूयते । यद्वा - पृथिव्यपि देवतैवास्य ‘उपयामगृहीतोसीत्याहादितिदेवत्यास्तेन’ इति, अदितिः पृथ्वी । ‘चतुर्थी’ इति योगविभागात्समासः । ‘क्ते च’ इति पूर्वपदप्रकृतिस्वरत्वम् । ‘इयं वा उपयामस्तस्मादिमां प्रजा अनु प्रजायन्ते’ इति ब्राह्मणम् ॥


उपयामगृहीतोसीति व्याख्यातम् । ‘इयं वा उपयामः’ तयैव गृहीतोसीति ।

विश्वास-प्रस्तुतिः

शण्डा॑य त्वा ।

Keith

to Çanda thee!

मूलम्

शण्डा॑य त्वा ।

भट्टभास्कर-टीका

शण्डो नामासुरपुरोहितः ॥


भास्करोक्त-विनियोगः

2एष ते योनिर्वीरतां पाहीति सादयति ॥

विश्वास-प्रस्तुतिः

ए॒ष ते॒ योनि॑र्, वी॒रता॑म् पाहि ॥ [9]

Keith

This is thy birthplace; guard the folk.

मूलम्

ए॒ष ते॒ योनि॑र्वी॒रता॑म्पाहि ॥ [9]

भट्टभास्कर-टीका

वीरता शूरता याग-लक्षण-त्यागं प्रति । ‘बृहस्पतिर्देवानां पुरोहित आसीत्’ इत्यादि ब्राह्मणम् । ‘असौ वा आदित्यश्शुक्रश्चन्द्रमा मन्थी’ इत्यादि, ‘चक्षुषी वा एते यज्ञस्य यच्छुक्रामन्थिनौ’ इत्यादि च ॥

इति चतुर्थेऽष्टमः ॥