०६ आश्विनग्रहः ...{Loading}...
गायत्री । सोमऋषिः
भास्करोक्त-विनियोगः
1बहिष्पवमाने स्तुते आश्विनं गृह्णाति - या वां कशेति गायत्र्या त्रिपदया ॥
विश्वास-प्रस्तुतिः ...{Loading}...
या᳓ वां क᳓शा म᳓धुमत्य्
अ᳓श्विना सू-नृ᳓तावती+++(←नृत्)+++ ।
त᳓या यज्ञं᳓ मिमिक्षतम्+++(←मिह्)+++ ॥
003 ...{Loading}...
अधिमन्त्रम् - sa
- देवता - अश्विनौ
- ऋषिः - मेधातिथिः काण्वः
- छन्दः - गायत्री
Thomson & Solcum
या᳓ वां क᳓शा म᳓धुमती
अ᳓श्विना सूनृ᳓तावती
त᳓या यज्ञ᳓म् मिमिक्षतम्
Vedaweb annotation
Strata
Normal
Pāda-label
genre M;; Oldenberg’s gāyatrī-corpus, cf. Oldenberg (1888: 9f.).
genre M;; Oldenberg’s gāyatrī-corpus, cf. Oldenberg (1888: 9f.).
genre M;; Oldenberg’s gāyatrī-corpus, cf. Oldenberg (1888: 9f.).
Morph
káśā ← káśā- (nominal stem)
{case:NOM, gender:F, number:SG}
mádhumatī ← mádhumant- (nominal stem)
{case:NOM, gender:F, number:SG}
vām ← tvám (pronoun)
{case:ACC, number:DU}
yā́ ← yá- (pronoun)
{case:NOM, gender:F, number:SG}
áśvinā ← aśvín- (nominal stem)
{case:VOC, gender:M, number:DU}
sūnŕ̥tāvatī ← sūnŕ̥tāvant- (nominal stem)
{case:NOM, gender:F, number:SG}
mimikṣatam ← √myakṣ- (root)
{number:DU, person:2, mood:IMP, tense:PRS, voice:ACT}
táyā ← sá- ~ tá- (pronoun)
{case:INS, gender:F, number:SG}
yajñám ← yajñá- (nominal stem)
{case:ACC, gender:M, number:SG}
पद-पाठः
या । वा॒म् । कशा॑ । मधु॑ऽमती । अश्वि॑ना । सू॒नृता॑ऽवती ।
तया॑ । य॒ज्ञम् । मि॒मि॒क्ष॒त॒म् ॥
Hellwig Grammar
- yā ← yad
- [noun], nominative, singular, feminine
- “who; which; yat [pronoun].”
- vāṃ ← vām ← tvad
- [noun], genitive, dual
- “you.”
- kaśā
- [noun], nominative, singular, feminine
- “whip.”
- madhumaty ← madhumatī ← madhumat
- [noun], nominative, singular, feminine
- “sweet; honeyed; sweet; pleasant.”
- aśvinā ← aśvin
- [noun], vocative, dual, masculine
- “Asvins; two.”
- sūnṛtāvatī ← sūnṛtāvat
- [noun], nominative, singular, feminine
- “happy; big; auspicious.”
- tayā ← tad
- [noun], instrumental, singular, feminine
- “this; he,she,it (pers. pron.); respective(a); that; nominative; then; particular(a); genitive; instrumental; accusative; there; tad [word]; dative; once; same.”
- yajñam ← yajña
- [noun], accusative, singular, masculine
- “yajña; religious ceremony; Vishnu; yajña [word]; Yajña; Shiva.”
- mimikṣatam ← mikṣ
- [verb], dual, Perfect imperative
- “season.”
सायण-भाष्यम्
अश्विना हे अश्विनौ देवौ वां युवयोः संबन्धिनी या कशा अश्वताडनी विद्यते तया सहागत्य यज्ञम् अस्मदीयं मिमिक्षतं सोमरसेन सेक्तुमिच्छतम् । कशयाश्वान् दृढं ताडयित्वा सहसा समागत्य भवद्विषयां सोमरसाहुतिं निष्पादयितुमुद्युक्तौ भवतमित्यर्थः । कीदृशी कशा । मधुमती।’ अर्णः क्षोदः’ इत्यादिषु एकशतसंख्याकेषु उदकनामसु ‘मधु पुरीषम्’ (नि. १. १२. ११) इति पठितम् । तस्मात् उदकवतीत्युक्तं भवति । अश्वस्य शीघ्रगत्या यत् स्वेदोदकं स्रवति तेनेयं कशा क्लिन्नेत्यर्थः । सूनृतावती प्रियसत्यवाग्युक्ता । तीव्रेण कशाताडनेन यो ध्वनिर्निष्पद्यते ताडनवेलायाम् अश्वारूढेन च य आक्रोशः क्रियते तदुभयं शीघ्रगमनहेतुत्वेन यजमानस्य प्रियम् । यद्वा । ’ श्लोकः धारा’ इत्यादिषु सप्तपञ्चाशद्वाङ्नामसु • कशा धिषणा ’ ( नि. १. ११. ४३ ) इति पठितम् । अश्विनोर्या वाक् मधुमती माधुर्योपेता पारुष्यरहिता सूनृतावती प्रियत्वसत्यत्वोपेता फलप्रदानविषयेत्यर्थः । तया वाचा युक्तौ यज्ञं मिमिक्षतमिति योजनीयम् ॥ कशा ।’ कश गतिशातनयोः ‘। पचाद्यच् । वृषादित्वादाद्युदात्तः । सूनृतावती। ‘ऊन परिहाणे ‘। सुष्ठु ऊनयति अप्रियम् इति सून् । तथाविधम् ऋतं सत्यं यस्यां वाचि सा सुनृता। ‘नञ्सुभ्याम्’ इत्युत्तरपदान्तोदात्तत्वं बाधित्वा • परादिश्छन्दसि बहुलम्’ इति ऋकार उदात्तः । सा यस्या अस्ति सा कशा सूनृतावतीति कशायाः संज्ञा । एवंनामा या कशेत्यर्थः । ‘संज्ञायाम् ’ (पा. सू. ८. २. ११) इति मतुपो वत्वम् । मिमिक्षतम् । मिहेः सन् । हलन्ताच्च ’ ( पा. सू. १. २. १० ) इति कित्वाद्गुणाभावः । ढत्वकत्वषत्वानि ॥
भट्टभास्कर-टीका
हे अश्विना अश्विनौ । पूर्ववदाकारः ।
मधुमती मधुकर-रसवती । सूनृतावती, प्रियं सूनृतं वचनं, तद्वती । ‘अन्येषामपि दृश्यते’ इति दीर्घत्वम् ।
इर्दृशी या वां युवयोः, कशा वाक्-प्रवृत्ति-सूक्ति-लक्षणा युष्मद्-विषया ऽस्माभिः क्रियमाणा, तया हेतुभूतया तां श्रोतुं यज्ञम् इमं मिमिक्षतम् आगत्योत्पादयितुम् इच्छतम् । मिहेस् सनि ढत्वे ‘षढोः कस्सि’ इति कत्वम् । तया वा करणभूतया यज्ञं निर्वर्तयतम् ॥
Wilson
English translation:
“Aśvins, stir up (mimikṣatam = mix intimately, rapidly like a whip) the sacrifice with your whip that is wet the foam (of your horses), and lashing loudly.”
Commentary by Sāyaṇa: Ṛgveda-bhāṣya
Kāśa = whip, may also mean speech; madhumatī and sunṛtāvatī = wet and loud, signifying sweet and veracious–come with such speech, Aśvins and taste the libation
Jamison Brereton
The honeyed whip that is yours, Aśvins, that has a liberal spirit— with that mix the sacrifice.
Griffith
Dropping with honey is your whip, Asvins, and full of pleasantness
Sprinkle therewith the sacrifice.
Keith
That I whip of yours which is rich in sweetness
And full of mercy, O Aśvins,
With that touch the sacrifice.
Geldner
Eure honighaltige, glückbringende Peitsche, ihr Asvin, mit der würzet das Opfer!
Grassmann
Die Peitsche, die von Honig trieft, o Ritter, reich an Gaben ist, Mit der benetzt das Opferwerk.
Elizarenkova
Ваш медовый кнут,
О Ашвины, что дает благо –
Окропите им жертву!
अधिमन्त्रम् (VC)
- अश्विनौ
- मेधातिथिः काण्वः
- पिपीलिकामध्यानिचृद्गायत्री
- षड्जः
दयानन्द-सरस्वती (हि) - विषयः
वे क्रिया में किनसे संयुक्त हो सकते हैं, इस विषय का उपदेश अगले मन्त्र में किया है-
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे उपदेश करने वा सुनने तथा पढ़ने-पढ़ानेवाले मनुष्यो ! (वाम्) तुम्हारे (अश्विना) गुणप्रकाश करनेवालों की (या) जो (सूनृतावती) प्रशंसनीय बुद्धि से सहित (मधुमती) मधुरगुणयुक्त (कशा) वाणी है, (तया) उससे तुम (यज्ञम्) श्रेष्ठ शिक्षारूप यज्ञ को (मिमिक्षतम्) प्रकाश करने की इच्छा नित्य किया करो॥३॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - उपदेश के विना किसी मनुष्य को ज्ञान की वृद्धि कुछ भी नहीं हो सकती, इससे सब मनुष्यों को उत्तम विद्या का उपदेश तथा श्रवण निरन्तर करना चाहिये॥३॥
दयानन्द-सरस्वती (हि) - अन्वयः
अन्वय: हे उपदेष्ट्रुपदेश्यावध्यापकशिष्यौ वां युवयोरश्विनोर्या सूनृतावती मधुमती कशाऽस्ति तया युवां यज्ञं मिमिक्षतं सेक्तुमिच्छतम्॥३॥
दयानन्द-सरस्वती (हि) - विषयः
काभ्यामेतौ सम्प्रयोजितुं शक्यावित्युपदिश्यते।
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - (या) (वाम्) युवयोर्युवां वा (कशा) वाक्। कशेति वाङ्नामसु पठितम्। (निघं०१.११) (मधुमती) मधुरगुणा (अश्विना) प्रकाशितगुणयोरध्वर्य्योः। अत्र सुपां सुलुग्० इत्याकारादेशः। (सूनृतावती) सूनृता प्रशस्ता बुद्धिर्विद्यते यस्यां सा। सूनृतेति वाङ्नामसु पठितम्। (निघं०१.११) अत्र प्रशंसार्थे मतुप्। (तया) कशया (यज्ञम्) सुशिक्षोपदेशाख्यम् (मिमिक्षतम्) सेक्तुमिच्छतम्॥३॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - नैवोपदेशमन्तरा कस्यचित् किञ्चिदपि विज्ञानं वर्धते। तस्मात्सर्वैर्विद्वज्जिज्ञासुभिर्मनुष्यैर्नित्यमुपदेशः श्रवणं च कार्य्यमिति॥३॥
सविता जोशी ← दयानन्द-सरस्वती (म) - भावार्थः
भावार्थभाषाः - उपदेशाशिवाय कोणत्याही माणसाच्या ज्ञानाची थोडीही वृद्धी होऊ शकत नाही. त्यासाठी सर्व माणसांनी उत्तम विद्येचा उपदेश व श्रवण निरंतर केले पाहिजे. ॥ ३ ॥
भास्करोक्त-विनियोगः
इत्यनुद्रुत्य उपयामगृहीतोस्यश्विभ्यां त्वेति गृह्णाति ॥
उपयामगृहीतः ...{Loading}...
विश्वास-प्रस्तुतिः
उ॒प॒या॒म-गृ॑हीतो ऽसि।
Keith
Thou art taken with a support/ foundation.
मूलम्
उ॒प॒या॒मगृ॑हीतोऽसि।
भट्टभास्कर-टीका
उपयम्यन्ते स्वात्मन्येव नियम्यन्ते भूतजातान्यस्मिन् अभिन्नेधिकरणे इत्युपयामः पृथ्वी । ‘इयं वा उपयामः’ इति ब्राह्मणम् । ‘हलश्च’ इति घञ्, थाथादिस्वरेणान्तोदात्तत्वम् । तेन गृहीतस्त्वमसि ; कोन्यस्त्वां गृहीतुं क्षम इति भावः ; पृथिव्यापो गृहीष्यामीतिवत् । ‘तृतीया कर्मणि’ इति पूर्वपदप्रकृतिस्वरत्वम् । यद्वा - उपयामार्थं पृथिव्यर्थं गृहीतोसीति ; हे सोम ।
ननु ‘स्वाहा त्वा सुभवस्सूर्याय’ इति मन्त्रवर्णनात् सूर्यदेवत्यः कथं पृथिवीदेवत्यः स्यात् ? नैतद्देवताभिधानं ; पृथिवीवासिनां प्रजानां यागद्वारेण स्थित्यर्थं गृहीतोसीति स्तूयते । यद्वा - पृथिव्यपि देवतैवास्य ‘उपयामगृहीतोसीत्याहादितिदेवत्यास्तेन’ इति, अदितिः पृथ्वी । ‘चतुर्थी’ इति योगविभागात्समासः । ‘क्ते च’ इति पूर्वपदप्रकृतिस्वरत्वम् । ‘इयं वा उपयामस्तस्मादिमां प्रजा अनु प्रजायन्ते’ इति ब्राह्मणम् ॥
उपयामगृहीतोसीति व्याख्यातम् । ‘इयं वा उपयामः’ तयैव गृहीतोसीति ।
विश्वास-प्रस्तुतिः
अ॒श्विभ्या॑न्त्वा ।
Keith
to the Aśvins thee!
मूलम्
अ॒श्विभ्या॑न्त्वा ।
भास्करोक्त-विनियोगः
2एष ते योनिर्माध्वीभ्यां त्वेति सादयति ॥
विश्वास-प्रस्तुतिः
ए॒ष ते॒ योनि॒र्; माध्वी॑भ्यान् त्वा ॥ [7]
Keith
This is thy birthplace; to the sweet thee!
मूलम्
ए॒ष ते॒ योनि॒र्माध्वी॑भ्यान्त्वा ॥ [7]
भट्टभास्कर-टीका
मध्वस्यास्तीति मध्वम् मधुभाजनं, दृतिरूपम् । ‘यो हि वां मधुनो दृतिः’ इत्यादौ प्रसिद्धम् । तदन्तान्मत्वर्थीय इकारः । ‘ऋत्व्यवास्त्व्यवास्त्व’ इत्यादौ ‘माध्वी’ इति निपात्यते । यद्वा - मध्वेव माध्वी, आग्नीध्रादिवत्स्वार्थेऽञ्, माध्वीभ्यामिति मधुमद्भ्यामित्यर्थः । ‘यज्ञस्य शिरोच्छिद्यत ते देवा अश्विनावब्रुवन्’ इत्यादि ब्राह्मणम् । ‘ते देवा अब्रुवन्नपूतौ वा इमौ’ इत्यादि च ‘तस्माद्बहिष्पवमाने स्तुत आश्विनो गृह्यते’ इत्यन्तम् । ‘वाग्वा ऐन्द्रवायवः’ इत्यादि च ॥
इति चतुर्थे षष्ठोनुवाकः ॥