०५ मैत्रावरुणग्रहः ...{Loading}...
गायत्री । सोमऋषिः
भास्करोक्त-विनियोगः
1मैत्रावरुणं गृह्णाति - अयं वामिति गायत्र्या त्रिपदया ॥
विश्वास-प्रस्तुतिः ...{Loading}...
अयं᳓ वां मित्रा-वरुणा
सुतः᳓ सो᳓म ऋता-वृधा ।
म᳓मे᳓द् इह᳓ श्रुतं+++(=श्रृणुतम्)+++ ह᳓वम्+++(=ह्वानम्)+++ ॥
004 ...{Loading}...
अधिमन्त्रम् - sa
- देवता - मित्रावरुणौ
- ऋषिः - गृत्समद (आङ्गिरसः शौनहोत्रः पश्चाद्) भार्गवः शौनकः
- छन्दः - त्रिष्टुप्
Thomson & Solcum
अयं᳓ वाम् मित्रावरुणा
सुतः᳓ सो᳓म ऋतावृधा
म᳓मे᳓द् इह᳓ श्रुतं ह᳓वम्
Vedaweb annotation
Strata
Normal
Pāda-label
genre M
genre M;; repeated line
genre M
Morph
ayám ← ayám (pronoun)
{case:NOM, gender:M, number:SG}
mitrāvaruṇā ← mitrā́váruṇa- (nominal stem)
{case:VOC, gender:M, number:DU}
vām ← tvám (pronoun)
{case:ACC, number:DU}
r̥tāvr̥dhā ← r̥tāvŕ̥dh- (nominal stem)
{case:VOC, gender:M, number:DU}
sómaḥ ← sóma- (nominal stem)
{case:NOM, gender:M, number:SG}
sutáḥ ← √su- (root)
{case:NOM, gender:M, number:SG, non-finite:PPP}
hávam ← háva- (nominal stem)
{case:ACC, gender:M, number:SG}
ihá ← ihá (invariable)
ít ← ít (invariable)
máma ← ahám (pronoun)
{case:GEN, number:SG}
śrutam ← √śru- (root)
{number:DU, person:2, mood:IND, tense:AOR, voice:ACT}
पद-पाठः
अ॒यम् । वा॒म् । मि॒त्रा॒व॒रु॒णा॒ । सु॒तः । सोमः॑ । ऋ॒त॒ऽवृ॒धा॒ ।
मम॑ । इत् । इ॒ह । श्रु॒त॒म् । हव॑म् ॥
Hellwig Grammar
- ayaṃ ← ayam ← idam
- [noun], nominative, singular, masculine
- “this; he,she,it (pers. pron.); here.”
- vām ← tvad
- [noun], dative, dual
- “you.”
- mitrāvaruṇā ← mitrāvaruṇa
- [noun], vocative, dual, masculine
- “Varuna; Mitra.”
- sutaḥ ← su
- [verb noun], nominative, singular
- “press out; su.”
- soma ← somaḥ ← soma
- [noun], nominative, singular, masculine
- “Soma; moon; soma [word]; Candra.”
- ṛtāvṛdhā ← ṛtāvṛdh
- [noun], vocative, dual, masculine
- “sincere.”
- mamed ← mama ← mad
- [noun], genitive, singular
- “I; mine.”
- mamed ← id
- [adverb]
- “indeed; assuredly; entirely.”
- iha
- [adverb]
- “here; now; in this world; now; below; there; here; just.”
- śrutaṃ ← śrutam ← śru
- [verb], dual, Aorist imperative
- “listen; come to know; hear; hear; listen; study; heed; learn.”
- havam ← hava
- [noun], accusative, singular, masculine
- “invocation.”
सायण-भाष्यम्
मित्रावरुणा हेमित्रावरुणौ वांयुवाभ्यां अयंसोमः सुतः अभिषुतः ऋतावृधा हेसत्यस्य यज्ञस्यवावर्धकौ ममेत् ममैवइहास्मिन्यज्ञे हवमाह्वानं श्रुतं श्रृणुतम् ॥ ४ ॥
भट्टभास्कर-टीका
हे मित्रावरुणा मित्रावरुणौ, ऋतावृव्धा ऋतावृधौ, ऋतस्य सत्यस्य यज्ञस्य वा वर्धयितारौ । उभयत्र ‘सुपां सुछुक्’ इत्याकारः । ‘वृधेः क्विप्’ ‘अन्येषामपि दृश्यते’ इत्युपपदस्य दीर्घः । अयं सोमः वां युवयोः अर्थाय सुतः अभिषुतः । इदिति हेतौ । यस्मादेवं तस्मादिहास्मिन्कर्मणि मम हवमाह्वानं श्रुतं श्रुणुतम् । श्रुत्वा चागत्य सोमं पिबतमित्यर्थः । ‘भावेनुपसर्गस्य’ इति ह्वयतेरप्सम्प्रसारणं च । शृणोतेर्लेटि ‘बहुलं छन्दसि’ इति शपो लुक् ॥
Wilson
English translation:
“This libation is offered to you, Mitra and Varuṇa, cherishers of truth; hear, verily, this my present invocatioṇ”
Jamison Brereton
Here is the soma pressed for you, o Mitra and Varuṇa, who are strong through truth.
Heed just my call here.
Griffith
This Soma hath been shed for you, Lawstrengtheners, Mitra-Varuna!
Listen ye here to this my call.
Keith
This Soma is pressed for you, O Mitra and Varuna,
Who prosper holy order;
Hearken ye now to my supplication.
Geldner
Dieser Soma ist für euch, Mitra und Varuna, gepreßt, ihr Wahrheitsmehrer. Höret hier auf meinen Ruf!
Grassmann
O heil’ge Mitra-Varuna, gepresst ist dieser Soma euch; O höret recht auf meinen Ruf.
Elizarenkova
Этот сома выжат для вас,
О Митра-Варуна, умножающие (вселенский) закон.
Только мой зов услышьте здесь!
अधिमन्त्रम् (VC)
- मित्रावरुणौ
- गृत्समदः शौनकः
- गायत्री
- षड्जः
दयानन्द-सरस्वती (हि) - विषयः
फिर उसी विषय को कहते हैं।
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (तावृधा) सत्य से बड़े हुए (मित्रावरुणा) प्राण और उदान के समान वर्त्तमान अध्यापको ! जो (अयम्) यह (वाम्) तुम दोनों से (सोमः) ओषधियों का रस (सुतः) उत्पन्न हुआ उसको पीके (इत्) ही (इह) यहाँ (मम) मेरे (हवम्) आह्वान को (श्रुतम्) सुनिये ॥४॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - जैसे वायु सबसे रस को ग्रहण कर वर्षाते हैं, वैसे ही सत्य विद्याओं को सुनकर सबके लिये सुख देना चाहिये ॥४॥
दयानन्द-सरस्वती (हि) - अन्वयः
अन्वय: हे तावृधा मित्रावरुणा योऽयं वा सोमः सुतस्तत्पीत्वेदिह मम हवं श्रुतम् ॥४॥
दयानन्द-सरस्वती (हि) - विषयः
पुनस्तमेव विषयमाह।
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - (अयम्) (वाम्) युवाभ्याम् (मित्रावरुणा) प्राणोदानवद्वर्त्तमानौ (सुतः) निष्पादितः (सोमः) (तावृधा) सत्येन वृद्धौ (मम) (इत्) (इह) (श्रुतम्) (हवम्) ॥४॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - यथा वायवः सर्वस्माद्रसं गृहीत्वा वर्षयन्ति तथैव सत्या विद्याः श्रुत्वा सर्वेभ्यः सुखं देयम् ॥४॥
सविता जोशी ← दयानन्द-सरस्वती (म) - भावार्थः
भावार्थभाषाः - जसे वायू सर्वांकडून रस ग्रहण करून वृष्टी करतात तसेच सत्य विद्येचे श्रवण करून सर्वांना सुख दिले पाहिजे. ॥ ४ ॥
उपयामगृहीतः ...{Loading}...
विश्वास-प्रस्तुतिः
उ॒प॒या॒म-गृ॑हीतो ऽसि।
Keith
Thou art taken with a support/ foundation.
मूलम्
उ॒प॒या॒मगृ॑हीतोऽसि।
भट्टभास्कर-टीका
उपयम्यन्ते स्वात्मन्येव नियम्यन्ते भूतजातान्यस्मिन् अभिन्नेधिकरणे इत्युपयामः पृथ्वी । ‘इयं वा उपयामः’ इति ब्राह्मणम् । ‘हलश्च’ इति घञ्, थाथादिस्वरेणान्तोदात्तत्वम् । तेन गृहीतस्त्वमसि ; कोन्यस्त्वां गृहीतुं क्षम इति भावः ; पृथिव्यापो गृहीष्यामीतिवत् । ‘तृतीया कर्मणि’ इति पूर्वपदप्रकृतिस्वरत्वम् । यद्वा - उपयामार्थं पृथिव्यर्थं गृहीतोसीति ; हे सोम ।
ननु ‘स्वाहा त्वा सुभवस्सूर्याय’ इति मन्त्रवर्णनात् सूर्यदेवत्यः कथं पृथिवीदेवत्यः स्यात् ? नैतद्देवताभिधानं ; पृथिवीवासिनां प्रजानां यागद्वारेण स्थित्यर्थं गृहीतोसीति स्तूयते । यद्वा - पृथिव्यपि देवतैवास्य ‘उपयामगृहीतोसीत्याहादितिदेवत्यास्तेन’ इति, अदितिः पृथ्वी । ‘चतुर्थी’ इति योगविभागात्समासः । ‘क्ते च’ इति पूर्वपदप्रकृतिस्वरत्वम् । ‘इयं वा उपयामस्तस्मादिमां प्रजा अनु प्रजायन्ते’ इति ब्राह्मणम् ॥
उपयामगृहीतोसीति व्याख्यातम् । ‘इयं वा उपयामः’ तयैव गृहीतोसीति ।
भास्करोक्त-विनियोगः
इमामनुद्रुत्य उपयामगृहीतोसि मित्रावरुणाभ्यां त्वेति गृह्णाति ॥
उपयामगृहीतः ...{Loading}...
विश्वास-प्रस्तुतिः
उ॒प॒या॒म-गृ॑हीतो ऽसि।
Keith
Thou art taken with a support/ foundation.
मूलम्
उ॒प॒या॒मगृ॑हीतोऽसि।
भट्टभास्कर-टीका
उपयम्यन्ते स्वात्मन्येव नियम्यन्ते भूतजातान्यस्मिन् अभिन्नेधिकरणे इत्युपयामः पृथ्वी । ‘इयं वा उपयामः’ इति ब्राह्मणम् । ‘हलश्च’ इति घञ्, थाथादिस्वरेणान्तोदात्तत्वम् । तेन गृहीतस्त्वमसि ; कोन्यस्त्वां गृहीतुं क्षम इति भावः ; पृथिव्यापो गृहीष्यामीतिवत् । ‘तृतीया कर्मणि’ इति पूर्वपदप्रकृतिस्वरत्वम् । यद्वा - उपयामार्थं पृथिव्यर्थं गृहीतोसीति ; हे सोम ।
ननु ‘स्वाहा त्वा सुभवस्सूर्याय’ इति मन्त्रवर्णनात् सूर्यदेवत्यः कथं पृथिवीदेवत्यः स्यात् ? नैतद्देवताभिधानं ; पृथिवीवासिनां प्रजानां यागद्वारेण स्थित्यर्थं गृहीतोसीति स्तूयते । यद्वा - पृथिव्यपि देवतैवास्य ‘उपयामगृहीतोसीत्याहादितिदेवत्यास्तेन’ इति, अदितिः पृथ्वी । ‘चतुर्थी’ इति योगविभागात्समासः । ‘क्ते च’ इति पूर्वपदप्रकृतिस्वरत्वम् । ‘इयं वा उपयामस्तस्मादिमां प्रजा अनु प्रजायन्ते’ इति ब्राह्मणम् ॥
उपयामगृहीतोसीति व्याख्यातम् । ‘इयं वा उपयामः’ तयैव गृहीतोसीति ।
विश्वास-प्रस्तुतिः
मि॒त्रावरु॑णाभ्यान्त्वा ।
Keith
to Mitra and Varuna thee!
मूलम्
मि॒त्रावरु॑णाभ्यान्त्वा ।
भट्टभास्कर-टीका
‘देवताद्वन्द्वे च’ इति पूर्वोत्तरपदयोर्युगपत्प्रकृतिस्वरत्वम् ॥
भास्करोक्त-विनियोगः
2एष ते योनिर् ऋतायुभ्यां त्वेति सादयति ॥
एष ते ...{Loading}...
विश्वास-प्रस्तुतिः
ए॒ष ते॒ योनिः॑।
Keith
This is thy birthplace;
मूलम्
ए॒ष ते॒ योनिः॑।
भट्टभास्कर-टीका
एष ते योनिः स्थानम् ।
विश्वास-प्रस्तुतिः
ऋ॒ता॒युभ्या॑न्त्वा ॥ [6]
Keith
to the righteous thee!
मूलम्
ऋ॒ता॒युभ्या॑न्त्वा ॥ [6]
भट्टभास्कर-टीका
ऋतं सत्यं यज्ञं वा आत्मनो यजमानानां वा इच्छतीति ऋतायुः । ’ छन्दसि परेच्छायामापै’ इति क्यच्, ‘न च्छन्दस्यपुत्रस्य’ इतीत्वप्रति षेधः, ‘क्याच्छन्दसि’ इत्युप्रत्ययः । ‘मित्रं देवा अब्रुवन्’ इत्यादि ब्राह्मणम् । ‘सोब्रवीद्वरं वृणै मह्यं चैवैष मित्राय च’ इत्यादि च । ‘तावब्रूतां वरं वृणावहा एक एवावत्पूर्वो ग्रहो गृह्यातै’ इत्यादि च ॥
इति चतुर्थे पञ्चमः ॥