५१ सप्तच्छन्दः प्रपञ्चनम्

१२ सप्तच्छन्दः प्रपञ्चनम् ...{Loading}...

आध्वरब्राह्मणम्

नक्षत्रेष्टिकाण्डम्‌

विश्वास-प्रस्तुतिः

तस्यावा॑चो ऽवपा॒दाद् अ॑बिभयुः ।

मूलम्

तस्यावा॑चो ऽवपा॒दाद् अ॑बिभयुः ।

भट्टभास्कर-टीका

1 तस्यावाच इत्यादि ॥ उक्तमेकविंशेनादित्यस्य मात्रामिन्द्रो गत इति । तस्य आदित्यात्मन इन्द्रस्य अवाचोऽवपादात् अधः पतनात् अबिभयुः कदाचिदयमवाक्पतेदिति देवा भीतिं गताः । पद्यतेर्घञ्, थाथादिना उतरपदान्तोदात्तत्वम् ।

विश्वास-प्रस्तुतिः

तम् ए॒तेषु॑ स॒प्तसु॒ छन्द॑स्स्व् अश्रयन् ।

मूलम्

तम् ए॒तेषु॑ स॒प्तसु॒ छन्द॑स्स्व् अश्रयन् ।

भट्टभास्कर-टीका

अथ तमेतेषु गायत्र्यादिषु सप्तसु छन्दस्सु अश्रयन् स्थापितवन्तः सप्तछन्दांस्याश्रयमकुर्वन् साम्नि । तत् तस्मात्तदाधारस्य सामविशेषस्य श्रायन्तीयत्वम् ।

मूलम्

यदश्र॑यन् । तच्छ्रा॑य॒न्तीय॑स्य श्रायन्तीय॒त्वम् ।

विश्वास-प्रस्तुतिः

यद् अश्र॑य॒न्न् तच् छ्रा॑य॒न्तीय॑स्य श्रायन्तीय॒त्वम् ।

मूलम्

यद् अश्र॑य॒न्न् तच् छ्रा॑य॒न्तीय॑स्य श्रायन्तीय॒त्वम् ।

भट्टभास्कर-टीका

श्रयत्यनेन छन्दांस्यादित्य इति श्रायन्तीयम् ।

मूलम्

यदवा॑रयन् । तद्वा॑रव॒न्तीय॑स्य वारवन्तीय॒त्वम् ।

विश्वास-प्रस्तुतिः

यद् अवा॑रय॒न्न् तद् वा॑रव॒न्तीय॑स्य वारवन्तीय॒त्वम् ।
तस्यावा॑च ए॒वाव॑पा॒दाद् अ॑बिभयुः ।

मूलम्

यद् अवा॑रय॒न्न् तद् वा॑रव॒न्तीय॑स्य वारवन्तीय॒त्वम् ।
तस्यावा॑च ए॒वाव॑पा॒दाद् अ॑बिभयुः ।

भट्टभास्कर-टीका

यत् यस्माच्चावाक्पतनादादित्यं अवारयन् निवारितवन्तो देवाः, तद्वारवन्तीयस्य सामविशेषस्य वारवन्तीयत्वम् ॥

विश्वास-प्रस्तुतिः

तस्मा॑ ए॒तानि॑ स॒प्त च॑तुरुत्त॒राणि॒ छन्दाँ॒स्य् उपा॑दधुः ।

मूलम्

तस्मा॑ ए॒तानि॑ स॒प्त च॑तुरुत्त॒राणि॒ छन्दाँ॒स्य् उपा॑दधुः ।

भट्टभास्कर-टीका

2-3 तस्मात् सामद्वारेण गायत्र्यादीनि सप्त चतुरुत्तराणि छन्दांस्युपादधुः समन्तादुत्तम्भनत्वेन स्थापितवन्तः, चतुर्भिश्च चतुर्भिरुत्तरैः पूर्वस्मात्पूर्वस्मादुत्तराणि उद्गततराणीति । चतुर्विंशत्यक्षरा गायत्री, अष्टाविंशत्यक्षरा उष्णिगित्यादि ।

विश्वास-प्रस्तुतिः

तेषा॒म् अति॒ त्रीण्य् अ॑रिच्यन्त ।

मूलम्

तेषा॒म् अति॒ त्रीण्य् अ॑रिच्यन्त ।

भट्टभास्कर-टीका

अथ तेषां छन्दसां मध्ये त्रीणि पङ्क्त्यादीनि छन्दांसि आदित्यं अत्यरिच्यन्त अतिक्रम्य स्थितानि । तेन तमुत्तम्भयितुमयोग्यानि ।

विश्वास-प्रस्तुतिः

न त्रीण्य् उद॑भवन्न् ॥ 55 ॥

मूलम्

न त्रीण्य् उद॑भवन्न् ॥ 55 ॥

भट्टभास्कर-टीका

अथ त्रीणि गायत्र्यादीनि छन्दांसि आदित्यं नोदभवन् न प्राप्नुवन् ऊनप्रमाणत्वादादित्यमप्राप्य स्थितानि तेन तान्यप्युत्तम्भनासमर्थानि ।

मूलम्

स बृ॑ह॒तीमे॒वास्पृ॑शत् । द्वाभ्या॑म॒क्षरा॑भ्याम् । अ॒हो॒रा॒त्राभ्या॑मे॒व ।

विश्वास-प्रस्तुतिः

स बृ॑ह॒तीम् ए॒वास्पृ॑श॒द् “द्वाभ्या॑म् अ॒क्षरा॑भ्याम् अहोरा॒त्राभ्या॑म्” ए॒व ।

मूलम्

स बृ॑ह॒तीम् ए॒वास्पृ॑श॒द् “द्वाभ्या॑म् अ॒क्षरा॑भ्याम् अहोरा॒त्राभ्या॑म्” ए॒व ।

भट्टभास्कर-टीका

अथ मध्ये स्थितां बृहतीमेव आदित्यः अस्पृशत् अन्यूनानतिरिक्तत्वात् उत्तम्भकत्वेनास्पृशत् । स एवैनमधारयत् इति यावत् ।

केन प्राकारेण बृहतीमादित्योऽस्पृशदित्पाह - द्वाभ्यामक्षराभ्यामित्वादि । द्वाभ्यां अविनाशाभ्यां नित्यप्रपृत्ताभ्यामेव क्वचित् बृहती सम्पद्यते । संवत्सरात्मकाहोरात्रसमुदायस्य बृहतीत्वेन रूपणात् तदवयवयोरहोरात्रयोः अक्षरत्वेन रूपणं क्रियते । बृहत्येव इत्थं भूत्वा आदित्यं देवं धारयितुं समर्था तस्मात् स बृहतीमेवास्पृशदिति । अन्यानि छन्दांसि नैवमहोरात्र्यां अन्येनैव [रात्राभ्यामनन्येनैव?] प्रकारेण आदित्यं स्पृशन्ति । तस्मात् तानि न्यूनान्यतिरिक्तानि चेत्युक्तम् । बृहत्यां तु षट्त्रिंशदक्षरसममितषट्त्रिंशदहोरात्रविशेषसमासादितबृहती एव [हतीसमभावक?] संवत्सरात्मिकां [संवत्सरात्मकस्य?] देवस्य आदित्यस्य सङ्ख्यातानुरूप्यं वहन्त्यां आदित्यः प्रतितिष्ठति ।

मूलम्

तदा॑हुः । क॒त॒मा सा दे॒वाक्ष॑रा बृह॒ती । यस्या॒न्तत्प्र॒त्यति॑ष्ठत् ।

विश्वास-प्रस्तुतिः

तद् आ॑हुᳵ “कत॒मा सा दे॒वाक्ष॑रा बृह॒ती”, यस्या॒न् तत् प्र॒त्यति॑ष्ठत् ।

मूलम्

तद् आ॑हुᳵ “कत॒मा सा दे॒वाक्ष॑रा बृह॒ती”, यस्या॒न् तत् प्र॒त्यति॑ष्ठत् ।

भट्टभास्कर-टीका

कतमा सा देवाक्षरा बृहती यस्यामादित्यः प्रतितिष्ठतीति,

विश्वास-प्रस्तुतिः

“द्वाद॑श पौर्णमा॒स्यः॑ । द्वाद॒शाष्ट॑काः । द्वाद॑शामावा॒स्याः॑ ।

मूलम्

“द्वाद॑श पौर्णमा॒स्यः॑ । द्वाद॒शाष्ट॑काः । द्वाद॑शामावा॒स्याः॑ ।

मूलम्

ए॒षा वाव सा दे॒वाक्ष॑रा बृह॒ती ॥ 56 ॥
यस्या॒न्तत्प्र॒त्यति॑ष्ठ॒दिति॑ ।

विश्वास-प्रस्तुतिः

ए॒षा वाव सा दे॒वाक्ष॑रा बृह॒ती”,
यस्या॒न् तत् प्र॒त्यति॑ष्ठ॒द् इति॑ ।

मूलम्

ए॒षा वाव सा दे॒वाक्ष॑रा बृह॒ती”,
यस्या॒न् तत् प्र॒त्यति॑ष्ठ॒द् इति॑ ।

भट्टभास्कर-टीका

एवं पृष्टे उत्तरं - द्वादशेत्यादि । देवाः आदित्याः, ते च द्वादश, ते च त्रिरावृत्ताः षट्त्रिंशत् । बृहती च षट्त्रिंशदक्षरा । तिथयोऽप्येता द्वादशद्वादश संवत्सरे संभूय षट्त्रिंशदित्येवं देवनिरूप्याक्षरा बृहती इति उत्तरं ब्रूयात् ॥

मूलम्

यानि॑ च॒ छन्दाँ॑स्य॒त्यरि॑च्यन्त । यानि॑ च॒ नोदभ॑वन् । तानि॒ निर्वी॑र्याणि ही॒नान्य॑मन्यन्त ।

विश्वास-प्रस्तुतिः

यानि॑ च॒ छन्दाँ॑स्य् अ॒त्यरि॑च्यन्त॒,
यानि॑ च॒ नोदभ॑व॒न्न् ,तानि॒ निर्वी॑र्याणि ही॒नान्य् अ॑मन्यन्त ।

मूलम्

यानि॑ च॒ छन्दाँ॑स्य् अ॒त्यरि॑च्यन्त॒,
यानि॑ च॒ नोदभ॑व॒न्न् ,तानि॒ निर्वी॑र्याणि ही॒नान्य् अ॑मन्यन्त ।

भट्टभास्कर-टीका

4 यानि चेत्यादि ॥ अन्यानि यानि छन्दांसि न्यूनातिरिक्तानि निर्वीर्याणि कार्यं कर्तुमसमर्थानि तानि हीनानि वयं स्मः इति अमन्यन्त उत्तम्भनकार्यात् गळितानि निर्वीर्याण्यभवन् ।

मूलम्

साऽब्र॑वीद्बृह॒ती । मामे॒व भू॒त्वा । मामुप॒ सँश्र॑य॒तेति॑ ।

विश्वास-प्रस्तुतिः

सा ऽब्र॑वीद् बृह॒ती - “माम् ए॒व भू॒त्वा मामुप॒ सँश्र॑य॒ते"ति॑ ।

मूलम्

सा ऽब्र॑वीद् बृह॒ती - “माम् ए॒व भू॒त्वा मामुप॒ सँश्र॑य॒ते"ति॑ ।

भट्टभास्कर-टीका

अथ सा बृहती छन्दांसि अब्रवीत् मामेव भूत्वा मद्रूपमेव प्राप्य । भू प्राप्तौ । मया तुल्याक्षरतां प्राप्य मामुपसंश्रयत मत्समीपे मया तुल्यकार्याणि वर्तध्वं इति । ततः छन्दोभिः ओं तथेत्यनुमते स्वयमेव बृहती तेषामक्षरसाम्यमकरोत् ॥

विश्वास-प्रस्तुतिः

च॒तुर्भि॑र् अ॒क्षरै॑र् अनु॒ष्टुग्-बृ॑ह॒तीन् नोद॑भवत् ।

मूलम्

च॒तुर्भि॑र् अ॒क्षरै॑र् अनु॒ष्टुग्-बृ॑ह॒तीन् नोद॑भवत् ।

भट्टभास्कर-टीका

5 चतुर्भिरित्यादि ॥ द्वात्रिंशदक्षराऽनुष्टुप् षट्त्रिंशदक्षरा बृहती बृहत्यात्मानं आदित्यं चतुर्भिरक्षरैः नोदभवत् ।

विश्वास-प्रस्तुतिः

च॒तुर्भि॑र् अ॒क्षरै॑ᳶ प॒ङ्क्तिर् बृ॑ह॒तीम् अत्य॑रिच्यत ।

मूलम्

च॒तुर्भि॑र् अ॒क्षरै॑ᳶ प॒ङ्क्तिर् बृ॑ह॒तीम् अत्य॑रिच्यत ।

भट्टभास्कर-टीका

पङ्क्तिः चतुश्चत्वारिंशदक्षरा चतुर्भिरक्षरैः बृहतीमत्यरिच्यत

विश्वास-प्रस्तुतिः

तस्या॑म् ए॒तानि॑ च॒त्वार्य् अ॒क्षरा॑ण्य् अप॒च्छिद्या॑दधात् ॥ 57 ॥

मूलम्

तस्या॑म् ए॒तानि॑ च॒त्वार्य् अ॒क्षरा॑ण्य् अप॒च्छिद्या॑दधात् ॥ 57 ॥

भट्टभास्कर-टीका

अथ एतानि पङ्क्त्या अधिकानि चत्वार्यक्षराणि अतोऽपच्छिद्य तस्यां अनुष्टुभि अदधात् ।

मूलम्

ते बृ॑ह॒ती ए॒व भू॒त्वा । बृ॒ह॒तीमुप॒ सम॑श्रयताम् ।

विश्वास-प्रस्तुतिः

ते बृ॑ह॒ती ए॒व भू॒त्वा बृ॑ह॒तीम् उप॒ सम॑श्रयताम् ।

मूलम्

ते बृ॑ह॒ती ए॒व भू॒त्वा बृ॑ह॒तीम् उप॒ सम॑श्रयताम् ।

भट्टभास्कर-टीका

एवं कृते ते द्वे अपि अनुष्टुप्पङ्क्ती बृहती बृहत्यौ बृहतीतुल्याक्षरे एव भूत्वा बृहत्या समेत्य तुल्यकार्ये अभूताम् ॥

विश्वास-प्रस्तुतिः

अ॒ष्टा॒भिर् अ॒क्षरै॑र् उ॒ष्णिग्-बृ॑ह॒तीन् नोद॑भवत् ।

अ॒ष्टा॒भिर् अ॒क्षरै॑स् त्रि॒ष्टुग् बृ॑ह॒तीम् अत्य॑रिच्यत ।
तस्या॑म् ए॒तान्य् अ॒ष्टाव् अ॒क्षरा॑ण्य् अप॒च्छिद्या॑दधात् ।

मूलम्

अ॒ष्टा॒भिर् अ॒क्षरै॑र् उ॒ष्णिग्-बृ॑ह॒तीन् नोद॑भवत् ।

अ॒ष्टा॒भिर् अ॒क्षरै॑स् त्रि॒ष्टुग् बृ॑ह॒तीम् अत्य॑रिच्यत ।
तस्या॑म् ए॒तान्य् अ॒ष्टाव् अ॒क्षरा॑ण्य् अप॒च्छिद्या॑दधात् ।

मूलम्

ते बृ॑ह॒ती ए॒व भू॒त्वा । बृ॒ह॒तीमुप॒ सम॑श्रयताम् ।

विश्वास-प्रस्तुतिः

ते बृ॑ह॒ती ए॒व भू॒त्वा बृ॑ह॒तीम् उप॒ सम॑श्रयताम् ।

मूलम्

ते बृ॑ह॒ती ए॒व भू॒त्वा बृ॑ह॒तीम् उप॒ सम॑श्रयताम् ।

भट्टभास्कर-टीका

6 अष्ठाभिरित्यादि ॥ अष्टाविंशत्यक्षरा उष्णिक् । चक्षुश्चत्वारिंशदक्षरा त्रिषुप् । तयोः अष्टाक्षरापच्छेदादानाभ्यां बृहतीप्रकारः कृतः ॥

विश्वास-प्रस्तुतिः

द्वा॒द॒शभि॑र् अ॒क्षरै॑र् गाय॒त्री बृ॑ह॒तीन् नोद॑भवत् ।
द्वा॒द॒शभि॑र् अ॒क्षरै॒र् जग॑ती बृह॒तीम् अत्य॑रिच्यत ।
तस्या॑म्‌ ए॒तानि॒ द्वाद॑शा॒क्षरा॑ण्य् अप॒च्छिद्या॑दधात् ॥ 58 ॥

मूलम्

द्वा॒द॒शभि॑र् अ॒क्षरै॑र् गाय॒त्री बृ॑ह॒तीन् नोद॑भवत् ।
द्वा॒द॒शभि॑र् अ॒क्षरै॒र् जग॑ती बृह॒तीम् अत्य॑रिच्यत ।
तस्या॑म्‌ ए॒तानि॒ द्वाद॑शा॒क्षरा॑ण्य् अप॒च्छिद्या॑दधात् ॥ 58 ॥

मूलम्

ते बृ॑ह॒ती ए॒व भू॒त्वा । बृ॒ह॒तीमुप॒ सम॑श्रयताम् ।

विश्वास-प्रस्तुतिः

ते बृ॑ह॒ती ए॒व भू॒त्वा बृ॑ह॒तीम् उप॒ सम॑श्रयताम् ।

मूलम्

ते बृ॑ह॒ती ए॒व भू॒त्वा बृ॑ह॒तीम् उप॒ सम॑श्रयताम् ।

भट्टभास्कर-टीका

7 द्वादशभिरिति ॥ चतुर्विंशत्यक्षरा गायत्री । अष्टाचत्वारिंशदक्षरा जगती, तस्मात् तयोः द्वादशाक्षरापच्छेदादानाभ्यां बृहतीभावमकरोत् । अथ सर्वैश्छन्दोभिः उत्तम्भित आदित्यस्तिष्ठतीति ॥

विश्वास-प्रस्तुतिः

सो॑ ऽब्रवीत् प्र॒जाप॑तिः ।
“छन्दाँ॑सि॒ रथो॑ मे भवत । यु॒ष्माभि॑र् अ॒हम् ए॒तम् अध्वा॑न॒म् अनु॒ सञ्च॑रा॒णी"ति॑ ।

मूलम्

सो॑ ऽब्रवीत् प्र॒जाप॑तिः ।
“छन्दाँ॑सि॒ रथो॑ मे भवत । यु॒ष्माभि॑र् अ॒हम् ए॒तम् अध्वा॑न॒म् अनु॒ सञ्च॑रा॒णी"ति॑ ।

भट्टभास्कर-टीका

8 सोऽब्रवीदित्यादि ॥ आदित्यः प्रजापतिरित्येके । अध्वा लोकरक्षामार्गः । युष्माभिः रथभूतैः अनु क्रमेण सञ्चराणि । ‘समस्तृतीया युक्तात्’इति व्यत्ययेन न प्रवर्तते ।

विश्वास-प्रस्तुतिः

तस्य॑ गाय॒त्री च॒ जग॑ती च प॒क्षाव् अ॑भवताम् ।

मूलम्

तस्य॑ गाय॒त्री च॒ जग॑ती च प॒क्षाव् अ॑भवताम् ।

भट्टभास्कर-टीका

पक्षौ चक्रे बाह्ये गायत्रीजगत्यौ ।

विश्वास-प्रस्तुतिः

उ॒ष्णिक् च॑ त्रि॒ष्टुप् च॒ प्रष्ट्यौ॑ +++(अ॑भवताम् )+++।

मूलम्

उ॒ष्णिक् च॑ त्रि॒ष्टुप् च॒ प्रष्ट्यौ॑ +++(अ॑भवताम् )+++।

भट्टभास्कर-टीका

अथाभ्यन्तरेण प्रष्टयौ बहिर्युजावश्वौ । उष्णिक्त्रिष्टुभौ ।

विश्वास-प्रस्तुतिः

अ॒नु॒ष्टुप् च॑ प॒ङ्क्तिश् च॒ धुर्यौ॑ +++(अ॑भवताम् )+++।
बृ॒ह॒त्य् ए॑वोद्धिर् अ॑भवत् ।

मूलम्

अ॒नु॒ष्टुप् च॑ प॒ङ्क्तिश् च॒ धुर्यौ॑ +++(अ॑भवताम् )+++।
बृ॒ह॒त्य् ए॑वोद्धिर् अ॑भवत् ।

भट्टभास्कर-टीका

अथ तयोरन्तरा धुर्यौ अन्तर्युजावश्वौ अनुष्टुप् पङ्क्तिश्च [बृहती] उद्धिः ऊर्ध्वा स्थापनीया उपवेशनफलकरूपा अभवत् ।

मूलम्

स ए॒तञ्छ॑न्दोर॒थमा॒स्थाय॑ । ए॒तमध्वा॑न॒मनु॒ सम॑चरत् ।

विश्वास-प्रस्तुतिः

स ए॒तञ् छ॑न्दोर॒थम् आ॒स्थायै॒तम् अध्वा॑न॒म् अनु॒ सम॑चरत् ।

मूलम्

स ए॒तञ् छ॑न्दोर॒थम् आ॒स्थायै॒तम् अध्वा॑न॒म् अनु॒ सम॑चरत् ।

भट्टभास्कर-टीका

स प्रजापतिस्तादृशं रथमारुह्यानुदिनमेतन्मार्गं संचरति ।

मूलम्

ए॒तँ ह॒ वै छ॑न्दोर॒थमा॒स्थाय॑ । ए॒तमध्वा॑न॒मनु॒ सञ्च॑रति ।

विश्वास-प्रस्तुतिः

ए॒तँ ह॒ वै छ॑न्दोर॒थम् आ॒स्थायै॒तम् अध्वा॑न॒म् अनु॒ सञ्च॑रति ।
येनै॒ष ए॒तत् स॒ञ्चर॑ति ।

मूलम्

ए॒तँ ह॒ वै छ॑न्दोर॒थम् आ॒स्थायै॒तम् अध्वा॑न॒म् अनु॒ सञ्च॑रति ।
येनै॒ष ए॒तत् स॒ञ्चर॑ति ।

भट्टभास्कर-टीका

यः पुमान् एवं रथमनुसंदधानः सोमेन यजते यश्च एनं रथं एवं ध्यायति स एष उभयविधोपि पुरुषः येन अध्वना एषः प्रजापतिः एतत् दृश्यमानं स्थानं संचरति तमेतमेवाध्वानं छन्दोरथमारूढोऽनुदिनं संचरति ।

विश्वास-प्रस्तुतिः

य ए॒वव्ँ वि॒द्वान्त् सोमे॑न॒ यज॑ते ।
य उ॑ चैनम् ए॒वव्ँ वेद॑ ॥ 59 ॥

मूलम्

य ए॒वव्ँ वि॒द्वान्त् सोमे॑न॒ यज॑ते ।
य उ॑ चैनम् ए॒वव्ँ वेद॑ ॥ 59 ॥

भट्टभास्कर-टीका

अत्र एवंशब्देन ‘देवासुराः’ इत्याद्यनुवाकचतुष्टयोक्तस्साङ्गः सोमयागप्रकारः परामृश्यते । अतोऽयं सोमयागस्य प्रयोगविधिर्द्रष्टव्यः ॥ इति श्रीभट्टक्षभास्करविरचिते पारक्षुद्रभाष्ये प्रथमाष्टकस्य पञ्चमे प्रपाठके द्वादशोऽनुवाकः ॥ प्रपाठकश्च समाप्तः ॥