५० सवनीयपशुपुरोडाशाः

११ सवनीयपशुपुरोडाशाः ...{Loading}...

आध्वरब्राह्मणम्

नक्षत्रेष्टिकाण्डम्‌

मूलम्

ये वै च॒त्वार॒स्स्तोमाः॑ । कृ॒तन्तत् ।

विश्वास-प्रस्तुतिः

ये वै च॒त्वार॒स् स्तोमा॑ᳵ कृ॒तन् तत् ।

मूलम्

ये वै च॒त्वार॒स् स्तोमा॑ᳵ कृ॒तन् तत् ।

भट्टभास्कर-टीका

1 ये वै चत्वातस्स्तोमा इति ॥ ये त्रिवृदादयः चत्वार एव स्तोमाः स्युः तत् कृतं पुष्कलं पृथुलधर्मकेण कृतेन तुल्यम् ।

मूलम्

अथ॒ ये पञ्च॑ । कलि॒स्सः ।

विश्वास-प्रस्तुतिः

अथ॒ ये पञ्च॒ कलि॒स् सः ।
तस्मा॒च् चतु॑ष्टोमः ।
तच् चतु॑ष्टोमस्य चतुष्टोम॒त्वम् ।

मूलम्

अथ॒ ये पञ्च॒ कलि॒स् सः ।
तस्मा॒च् चतु॑ष्टोमः ।
तच् चतु॑ष्टोमस्य चतुष्टोम॒त्वम् ।

भट्टभास्कर-टीका

अथ ये पञ्च स्युः त्रिवृदादयः कलिः सः क्षीणधर्मकेण कलिना तुल्यं तत् । प्रकृताभा[वभा]वात् यदैवं सम्भवति तदानीमेवं क्रियते । तस्माच्चतुष्टोम एव कर्तव्यः । इदमेव ज्योतिष्टोमस्य चतुष्टोमत्वम् ॥

विश्वास-प्रस्तुतिः

तदा॑हुः ।
“क॒त॒मानि॒ तानि॒ ज्योतीँ॑षि । य ए॒तस्य॒ स्तोमा॒” इति॑ ।

मूलम्

तदा॑हुः ।
“क॒त॒मानि॒ तानि॒ ज्योतीँ॑षि । य ए॒तस्य॒ स्तोमा॒” इति॑ ।

भट्टभास्कर-टीका

2 तदाहुरित्यादि ॥ चत्वारस्स्तोमा इति सामान्योक्त्या विशेषं पृच्छन्ति - य एतस्येति ।

विश्वास-प्रस्तुतिः

त्रि॒वृत् प॑ञ्चद॒शस् स॑प्तद॒श ए॑कविँ॒शः ॥ 51 ॥

मूलम्

त्रि॒वृत् प॑ञ्चद॒शस् स॑प्तद॒श ए॑कविँ॒शः ॥ 51 ॥

मूलम्

ए॒तानि॒ वाव तानि॒ ज्योतीँ॑षि । य ए॒तस्य॒ स्तोमाः॑ ।

विश्वास-प्रस्तुतिः

ए॒तानि॒ वाव तानि॒ ज्योतीँ॑षि॒ य ए॒तस्य॒ स्तोमाः॑ ।

मूलम्

ए॒तानि॒ वाव तानि॒ ज्योतीँ॑षि॒ य ए॒तस्य॒ स्तोमाः॑ ।

भट्टभास्कर-टीका

त्रिवृदादीनां ज्योतिषां प्रसिद्धत्वादेवास्य ज्योतिष्टोमात्मकतासिद्धिरित्याह - वाव तानि ज्योतींषीति ॥ द्योतनहेतुत्वाद्यज्ञस्य एतानि ज्योतींषि एतत्स्तोमत्वात् ज्योतिष्टोमत्वम् ॥

मूलम्

सो॑ऽब्रवीत् । स॒प्त॒द॒शेन॑ ह्रि॒यमा॑णो॒ व्य॑लेशिषि । भि॒षज्य॑त॒ मेति॑ ।

विश्वास-प्रस्तुतिः

सो॑ ऽब्रवीत् - “सप्तद॒शेन॑ ह्रि॒यमा॑णो॒ व्य॑लेशिषि, भि॒षज्य॑त॒ मे"ति॑ ।

मूलम्

सो॑ ऽब्रवीत् - “सप्तद॒शेन॑ ह्रि॒यमा॑णो॒ व्य॑लेशिषि, भि॒षज्य॑त॒ मे"ति॑ ।

भट्टभास्कर-टीका

3 सोऽब्रवीदित्यादि ॥ सः इन्द्रः अब्रवीत् । यदा अहं सप्तदशेन स्तोमेन ह्रियमाणोऽभूवं तदा व्यलेशिषि विलिष्टोऽकार्षं तेजसा अल्पोऽभूवम् । यथोक्तं - ‘तस्य सप्तदशेन ह्रियमाणस्य तेजो हरोऽपतत्’ इति । लिश अल्पीभावे कर्मणि उत्तमपुरुषैकवचनम् । तस्मात् क्षीणतेजसं मा मां भिषज्यत चिकित्सत इति देवानब्रवीत् । भिषज्यतिः कण्ड्वादिः ।

विश्वास-प्रस्तुतिः

तम अ॒श्विनौ॑ धा॒नाभि॑र् अभिषज्यताम् ।
पू॒षा क॑र॒म्भेण॑ +++(अभिषज्यतु)+++।
भार॑ती परिवा॒पेण॑ +++(अभिषच्यतु)+++।
मि॒त्रावरु॑णौ पय॒स्य॑या +++(अभिषज्यताम्)+++।

मूलम्

तम अ॒श्विनौ॑ धा॒नाभि॑र् अभिषज्यताम् ।
पू॒षा क॑र॒म्भेण॑ +++(अभिषज्यतु)+++।
भार॑ती परिवा॒पेण॑ +++(अभिषच्यतु)+++।
मि॒त्रावरु॑णौ पय॒स्य॑या +++(अभिषज्यताम्)+++।

भट्टभास्कर-टीका

अथ धानादिभिरश्विन्यादयोऽभिषज्यन् । तण्डुलप्रभवा लाजा धानाः, दधिसम्मिश्राः सक्तवः करम्भाः, परिवापो लाजाः, पयस्या पयोविकारः ॥

विश्वास-प्रस्तुतिः

तद् आ॑हुः ॥ 52 ॥
“यद् अ॒श्विभ्या॑न् धा॒नाः । पू॒ष्णᳵ क॑र॒म्भः । भार॑त्यै परिवा॒पः । मि॒त्रावरु॑णयोᳶ पय॒स्या ।

मूलम्

तद् आ॑हुः ॥ 52 ॥
“यद् अ॒श्विभ्या॑न् धा॒नाः । पू॒ष्णᳵ क॑र॒म्भः । भार॑त्यै परिवा॒पः । मि॒त्रावरु॑णयोᳶ पय॒स्या ।

मूलम्

मि॒त्रावरु॑णयोᳶ पय॒स्याऽथ॑ । कस्मा॑दे॒तेषाँ॑ ह॒विषा॒मिन्द्र॑मे॒व य॑ज॒न्तीति॑ ।

भट्टभास्कर-टीका

4 तदाहुरिति ॥ एतानि सवनीयादीनि वस्वादिभ्यो निरुप्यन्ते ।

विश्वास-प्रस्तुतिः

अथ॑ कस्मा॑द् ए॒तेषाँ॑ ह॒विषा॒म् इन्द्र॑म् ए॒व य॑ज॒न्ती"ति॑ ।

मूलम्

अथ॑ कस्मा॑द् ए॒तेषाँ॑ ह॒विषा॒म् इन्द्र॑म् ए॒व य॑ज॒न्ती"ति॑ ।

भट्टभास्कर-टीका

अथेदानीं कस्मात् पुनरिन्द्र एवेज्यत इति पर्यनुयोगं आहुः । तृतीयार्थे षष्ठी ।

विश्वास-प्रस्तुतिः

“ए॒ता ह्ये॑नन् दे॒वता॒” इति॑ ब्रूयात् ।
“ए॒तैर् ‌ह॒विर्भि॒र् अभि॑षज्यँ॒ स्तस्मा॒दि"ति॑ ।

मूलम्

“ए॒ता ह्ये॑नन् दे॒वता॒” इति॑ ब्रूयात् ।
“ए॒तैर् ‌ह॒विर्भि॒र् अभि॑षज्यँ॒ स्तस्मा॒दि"ति॑ ।

भट्टभास्कर-टीका

उत्तरं - एता हीति । एता देवता अश्व्यादयः एतैर्हविर्भिः धानादिभिः एनं यस्मात् अभिषज्यन् तस्मादिति ब्रूयात् । ‘तस्मात्’इत्यस्यानन्तरं ‘इति ब्रूयात्’इत्येतत् द्रष्टव्यम् । यस्मादेवं तस्मादिति ब्रूयात् उत्तरमित्यर्थः । एक इतिशब्दो भिषज्याया अग्नित्वे[भिषज्याया अश्व्यादिकृतत्वस्य हेतुत्वे ?] द्वितीयः निर्वापस्य हेतुत्वे । यस्मादेता देवता अभिषज्यन् तस्मादेताभ्यो निरुप्यन्ते, यस्मादेताभ्यो निरुप्यन्ते तस्मादेवमिन्द्रमभिषज्यन्, तस्मादिन्द्र इज्यते इति उभयत्रान्वयः ॥

विश्वास-प्रस्तुतिः

तव्ँ वस॑वो॒ ऽष्टाक॑पालेन प्रातस्-सव॒ने॑ ऽभिषज्यन् ।
रु॒द्रा एका॑दश-कपालेन॒ माध्य॑न्दिने॒ सव॑ने +++(ऽभिषज्यन्न् )+++।
विश्वे॑ दे॒वा द्वाद॑श-कपालेन तृतीयसव॒ने +++(ऽभिषज्यन्न् )+++॥ 53 ॥

5 तं वसव इत्यादि ॥ वस्वादय इव यद्यष्टाकपालादीन् प्रातस्सवनादिषु कुर्यात्

मूलम्

स यद॒ष्टाक॑पालान्प्रातस्सव॒ने कु॒र्यात् । एका॑दशकपाला॒न्माध्य॑न्दिने॒ सव॑ने । द्वाद॑शकपालाँस्तृतीयसव॒ने । विलो॑म॒ तद्य॒ज्ञस्य॑ क्रियेत ।

विश्वास-प्रस्तुतिः

स यद् अ॒ष्टाक॑पालान् प्रातस्-सव॒ने कु॒र्याद् एका॑दशकपाला॒न् माध्य॑न्दिने॒ सव॑ने॒ +++(कु॒र्यात् )+++, द्वाद॑शकपालाँस् तृतीयसव॒ने +++(कु॒र्यात् )+++ विलो॑म॒ तद् य॒ज्ञस्य॑ क्रियेत ।

मूलम्

स यद् अ॒ष्टाक॑पालान् प्रातस्-सव॒ने कु॒र्याद् एका॑दशकपाला॒न् माध्य॑न्दिने॒ सव॑ने॒ +++(कु॒र्यात् )+++, द्वाद॑शकपालाँस् तृतीयसव॒ने +++(कु॒र्यात् )+++ विलो॑म॒ तद् य॒ज्ञस्य॑ क्रियेत ।

भट्टभास्कर-टीका

तत् यज्ञस्य विलोम प्रतिलोम कियते सवनीययागस्यैन्द्रत्वात् ।

मूलम्

एका॑दशकपालाने॒व प्रा॑तस्सव॒ने कु॑र्यात् । एका॑दशकपाला॒न्माध्य॑न्दिने॒ सव॑ने । एका॑दशकपालाँस्तृतीयसव॒ने । य॒ज्ञस्य॑ सलोम॒त्वाय॑ ।

विश्वास-प्रस्तुतिः

एका॑दशकपालाने॒व प्रा॑तस्-सव॒ने कु॑र्या॒द् एका॑दशकपाला॒न् माध्य॑न्दिने॒ सव॑ने॒ +++(कुर्यात्)+++, एका॑दशकपालाँस् तृतीयसव॒ने +++(कुर्यात्)+++, य॒ज्ञस्य॑ सलोम॒त्वाय॑ ।

मूलम्

एका॑दशकपालाने॒व प्रा॑तस्-सव॒ने कु॑र्या॒द् एका॑दशकपाला॒न् माध्य॑न्दिने॒ सव॑ने॒ +++(कुर्यात्)+++, एका॑दशकपालाँस् तृतीयसव॒ने +++(कुर्यात्)+++, य॒ज्ञस्य॑ सलोम॒त्वाय॑ ।

भट्टभास्कर-टीका

तस्मात् एकादशकपालानेव सर्वेषु कुर्यात् इति ॥

मूलम्

यद्वसू॑नाम्प्रातस्सव॒नम् । रु॒द्राणा॒म्माध्य॑न्दिनँ॒ सव॑नम् । विश्वे॑षान्दे॒वाना॑न्तृतीयसव॒नम् ।

विश्वास-प्रस्तुतिः

तदा॑हुः ।
“यद् वसू॑नाम् प्रातस्सव॒नम् , रु॒द्राणा॒म् माध्य॑न्दिनँ॒ सव॑न॒म् , विश्वे॑षान्दे॒वाना॑न् तृतीयसव॒नम् , अथ॒ कस्मा॑द् ए॒तेषाँ॑ ह॒विषा॒म् इन्द्र॑म् ए॒व य॑ज॒न्ती"ति॑ ।

“ए॒ता ह्य् ए॑नन् दे॒वता॒” इति॑ ब्रूयात् ।
“ए॒तैर् ‌ह॒विर्भि॒र् अभि॑षज्यँ॒ स्तस्मा॒दि"ति॑ ॥ 54 ॥

6 तदाहुरित्यादि ॥ गतम् ॥

इति पञ्चमे एकादशोऽनुवाकः ॥