१० त्रिवृदादिस्तोमरूपाणि सोमाङ्गानि ...{Loading}...
आध्वरब्राह्मणम्
नक्षत्रेष्टिकाण्डम्
विश्वास-प्रस्तुतिः
स स॑मु॒द्र उ॑त्तर॒तᳶ प्राज्व॑लद् भूम्य॒न्तेन॑ ।
मूलम्
स स॑मु॒द्र उ॑त्तर॒तᳶ प्राज्व॑लद् भूम्य॒न्तेन॑ ।
भट्टभास्कर-टीका
1 स समुद्र इत्यादि ॥ समुद्द्रवत्यस्मादिति समुदेत्यस्मादिति वा समुद्रः स्थानविशेषः । यस्मात्प्रजापतिना उपनिहितः इन्द्र आविर्भवति स्म स तादृशः समुद्र उत्तरतः प्राज्वलत् प्रादुरभूत् । इन्द्रस्यादित्यात्मना रूपयिष्यमाणत्वात् तदभिव्यक्तिस्थानस्य समुद्रत्वेन रूपणा । भूम्यन्तेन भूम्याः पार्श्वे । प्रकृत्यादितृतीया । उत्तरस्माद्वेद्यंसादुदक्प्रक्रमे प्राज्वलत् सामर्त्थ्यात् इन्द्रः प्रादुरभूदिति गम्यते ।
मूलम्
ए॒ष वाव स स॑मु॒द्रः । यच्चात्वा॑लः ।
विश्वास-प्रस्तुतिः
ए॒ष वाव स स॑मु॒द्रो यच् चात्वा॑लः ।
मूलम्
ए॒ष वाव स स॑मु॒द्रो यच् चात्वा॑लः ।
मूलम्
ए॒ष उ॑वे॒व स भू॑म्य॒न्तः । यद्वे॑द्य॒न्तः ।
विश्वास-प्रस्तुतिः
ए॒ष उ॑वे॒व स भू॑म्य॒न्तो यद् वे॑द्य॒न्तः ।
मूलम्
ए॒ष उ॑वे॒व स भू॑म्य॒न्तो यद् वे॑द्य॒न्तः ।
भट्टभास्कर-टीका
कः पुनः समुद्र इत्याह - एष वाव स समुद्रो यत् चात्वालाख्यः प्रदेशः, ‘योनिर्वै यज्ञस्य चात्वालम्’ इति । कस्तर्हि भूम्यन्त इत्याह - एषः उ एष एव वेद्यन्ते भूम्यन्त इत्युच्यते । ‘सा वा इयं सर्वैव वेदिः’ इति । तन्वादित्वादुवङ् । केचिदाहुः - इन्द्रः समुद्रे चात्वाले प्राज्वलत् प्रादुरभवदिति ।
विश्वास-प्रस्तुतिः
तदे॒तत् त्रि॑श॒लन् त्रि॑पूरु॒षम् ।
मूलम्
तदे॒तत् त्रि॑श॒लन् त्रि॑पूरु॒षम् ।
भट्टभास्कर-टीका
तदेतत्त्रिशलं त्रिशलप्रमाणकम् । शलः शल्यकः शलं वितस्तिप्रमाणं प्रमाणप्रत्ययस्य ‘अध्यर्धपूर्वात्’इति लुक् । तदेतत्त्रिशलं त्रिपूरुषत्वेन स्तूयते । त्रयः पुरुषाः प्रमाणमस्येति पूर्ववल्लुक् ।
विश्वास-प्रस्तुतिः
तस्मा॒त् तन् त्रि॑वित॒स् तङ् ख॑नन्ति ।
मूलम्
तस्मा॒त् तन् त्रि॑वित॒स् तङ् ख॑नन्ति ।
भट्टभास्कर-टीका
तस्मात्तं चात्वालं त्रिवितस्तं खनन्ति त्रिवितस्तिप्रमाणम् । पूर्ववल्लुक् । वितस्तिशब्दपर्यायो वितस्तशब्दः । ‘वितस्तिर्द्वादशाङ्गुलः’॥
विश्वास-प्रस्तुतिः
स सु॑वर्ण-रज॒ताभ्या॑ङ् कु॒शीभ्या॒म् परि॑गृहीत आसीत् ।
मूलम्
स सु॑वर्ण-रज॒ताभ्या॑ङ् कु॒शीभ्या॒म् परि॑गृहीत आसीत् ।
भट्टभास्कर-टीका
2 स इत्यादि ॥ स इन्द्रः पूर्वं प्रजापतिना उपनिहितः इदानीं चात्वाले प्रजायमानः सुवर्णरजताभ्यां कुशीभ्यां कोशाभ्यां समुद्भवाधिकरणाभ्यां परिगृहीतः कोशद्वयेन प्रच्छाद्य विनिहित आसीत् आविरासीत् ।
मूलम्
तय्ँयद॒स्या अध्य॒जन॑यन् । तस्मा॑दादि॒त्यः ॥ 44 ॥
विश्वास-प्रस्तुतिः
तय्ँ यद् अ॒स्या अध्य् अ॒जन॑य॒न्न् तस्मा॑द् आदि॒त्यः ॥ 44 ॥
मूलम्
तय्ँ यद् अ॒स्या अध्य् अ॒जन॑य॒न्न् तस्मा॑द् आदि॒त्यः ॥ 44 ॥
भट्टभास्कर-टीका
तं तादृशं इन्द्रं अस्याः पृथिव्याः चात्वालात्मिकाया अधि उपरि अजनयन् इन्द्रमन्विच्छन्तो देवाः । तस्मात् अयं इन्द्रः आदित्यः उच्यते । अदितिः पृथिवी ‘इयं वा अदितिः’ तस्याः प्रादुर्भूत इत्यादित्यः ।
मूलम्
अथ॒ यत्सु॑वर्णरज॒ताभ्या॑ङ्कु॒शीभ्या॒म्परि॑गृहीत॒ आसी॑त् । साऽस्य॑ कौशि॒कता॑ ।
विश्वास-प्रस्तुतिः
अथ॒ यत् सु॑वर्णरज॒ताभ्या॑ङ् कु॒शीभ्या॒म् परि॑गृहीत॒ आसी॒त् सा ऽस्य॑ कौशि॒कता॑ ।
मूलम्
अथ॒ यत् सु॑वर्णरज॒ताभ्या॑ङ् कु॒शीभ्या॒म् परि॑गृहीत॒ आसी॒त् सा ऽस्य॑ कौशि॒कता॑ ।
भट्टभास्कर-टीका
अथ यत् सुवर्णरजताभ्यां कुशीभ्यां परिगृहीत आसीत् साऽस्य कौशिकता । कुश्योर्भवः कौशिकः । अध्यात्मादित्वात् ठक् ॥
विश्वास-प्रस्तुतिः
तन् त्रि॒वृता॒ ऽभि प्रास्तु॑वत ।
मूलम्
तन् त्रि॒वृता॒ ऽभि प्रास्तु॑वत ।
भट्टभास्कर-टीका
3 तं त्रिततेत्यादि ॥ तं इन्द्रं प्रादुर्भूतं त्रिवृता बहिष्पवमानेन अभिप्रास्तुवत प्रथमतोऽभिष्टुतवन्तो देवाः ।
विश्वास-प्रस्तुतिः
तन् त्रि॒वृता ऽद॑दत ।
मूलम्
तन् त्रि॒वृता ऽद॑दत ।
मूलम्
तन्त्रि॒वृताऽह॑रन् । याव॑ती त्रि॒वृतो॒ मात्रा॑ ।
विश्वास-प्रस्तुतिः
तन् त्रि॒वृता ऽह॑र॒न्न् याव॑ती त्रि॒वृतो॒ मात्रा॑ ।
मूलम्
तन् त्रि॒वृता ऽह॑र॒न्न् याव॑ती त्रि॒वृतो॒ मात्रा॑ ।
भट्टभास्कर-टीका
अथाभिष्टुत्य त्रिवृतैव आददत गृहीतवन्तः तं तथाऽऽदाय त्रिवृतैवाहरन् उद्धृतवन्तः उदयच्छन्त । कियदुदाहरन्नित्याह - यावती त्रिवृतो मात्रा प्रमाणं तावत् उदाहरन् सा च वक्ष्यते - ‘यावती त्रिवृतो मात्रा’इति । एवं पञ्चदशादिषु द्रष्टव्यम् ।
विश्वास-प्रस्तुतिः
तम् प॑ञ्चद॒शेना॒भि प्रास्तु॑वत ।
तम् प॑ञ्चद॒शेनाद॑दत ।
मूलम्
तम् प॑ञ्चद॒शेना॒भि प्रास्तु॑वत ।
तम् प॑ञ्चद॒शेनाद॑दत ।
मूलम्
तम्प॑ञ्चद॒शेनाह॑रन् । याव॑ती पञ्चद॒शस्य॒ मात्रा॑ ॥ 45 ॥
विश्वास-प्रस्तुतिः
तम् प॑ञ्चद॒शेनाह॑र॒न्न् याव॑ती पञ्चद॒शस्य॒ मात्रा॑ ॥ 45 ॥
तँ स॑प्तद॒शेना॒भि प्रास्तु॑वत ।
तँ स॑प्तद॒शेनाद॑दत ।
मूलम्
तम् प॑ञ्चद॒शेनाह॑र॒न्न् याव॑ती पञ्चद॒शस्य॒ मात्रा॑ ॥ 45 ॥
तँ स॑प्तद॒शेना॒भि प्रास्तु॑वत ।
तँ स॑प्तद॒शेनाद॑दत ।
मूलम्
तँ स॑प्तद॒शेनाह॑रन् । याव॑ती सप्तद॒शस्य॒ मात्रा॑ ।
विश्वास-प्रस्तुतिः
तँ स॑प्तद॒शेनाह॑र॒न्न् याव॑ती सप्तद॒शस्य॒ मात्रा॑ ।
मूलम्
तँ स॑प्तद॒शेनाह॑र॒न्न् याव॑ती सप्तद॒शस्य॒ मात्रा॑ ।
भट्टभास्कर-टीका
एतैरुपर्युपरि इन्द्रं उद्धृतवन्तः ।
विश्वास-प्रस्तुतिः
तस्य॑ सप्तद॒शेन॑ ह्रि॒यमा॑णस्य॒ तेजो॒ हरो॑ ऽपतत् ।
मूलम्
तस्य॑ सप्तद॒शेन॑ ह्रि॒यमा॑णस्य॒ तेजो॒ हरो॑ ऽपतत् ।
भट्टभास्कर-टीका
तस्य सप्तदशेन ह्रियमाणस्य तेजः तेजिष्ठं हरः दीप्तिः अपतत् । वक्ष्यते चात्र ‘धानाभिरभिषज्यताम्’ इति ।
विश्वास-प्रस्तुतिः
तम् ए॑कविँ॒शेना॒भि प्रास्तु॑वत ।
तम् ए॑कविँ॒शेनाद॑दत ।
मूलम्
तम् ए॑कविँ॒शेना॒भि प्रास्तु॑वत ।
तम् ए॑कविँ॒शेनाद॑दत ।
मूलम्
तमे॑कविँ॒शेनाह॑रन् । याव॑त्येकविँ॒शस्य॒ मात्रा॑ ।
विश्वास-प्रस्तुतिः
तम् ए॑कविँ॒शेनाह॑र॒न्न् याव॑त्य् एकविँ॒शस्य॒ मात्रा॑ ।
मूलम्
तम् ए॑कविँ॒शेनाह॑र॒न्न् याव॑त्य् एकविँ॒शस्य॒ मात्रा॑ ।
भट्टभास्कर-टीका
पुनरपि तमेकविंशेन अभिप्रास्तुवत इत्यादि । समानम् ॥
मूलम्
ते यत्त्रि॒वृता॑ स्तु॒वते॑ ॥ 46 ॥ त्रि॒वृतै॒व तद्यज॑मान॒माद॑दते ।
विश्वास-प्रस्तुतिः
ते यत् त्रि॒वृता॑ स्तु॒वते॑ त्रि॒वृतै॒व तद् यज॑मान॒म् आद॑दते ।
मूलम्
ते यत् त्रि॒वृता॑ स्तु॒वते॑ त्रि॒वृतै॒व तद् यज॑मान॒म् आद॑दते ।
भट्टभास्कर-टीका
4 ते यदित्यादि ॥ यत ऐते उद्गातारः त्रिवृता स्तुवते ततः यजमानं त्रिवृता आददते ।
मूलम्
तन्त्रि॒वृतै॒व ह॑रन्ति । याव॑ती त्रि॒वृतो॒ मात्रा॑ ।
विश्वास-प्रस्तुतिः
तन् त्रि॒वृतै॒व ह॑रन्ति॒ याव॑ती त्रि॒वृतो॒ मात्रा॑ ।
मूलम्
तन् त्रि॒वृतै॒व ह॑रन्ति॒ याव॑ती त्रि॒वृतो॒ मात्रा॑ ।
भट्टभास्कर-टीका
इन्द्रमिव देवा यजमानं त्रिवृता उद्धरन्ति च । यावती त्रिवृतो मात्रा तावद्यजमानमुद्धरन्ति ।
विश्वास-प्रस्तुतिः
अ॒ग्निर् वै त्रि॒वृत् ।
मूलम्
अ॒ग्निर् वै त्रि॒वृत् ।
मूलम्
याव॒द्वा अ॒ग्नेर्दह॑तो धू॒म उ॒देत्यानु॒ व्येति॑ । ताव॑ती त्रि॒वृतो॒ मात्रा॑ ।
विश्वास-प्रस्तुतिः
याव॒द् वा अ॒ग्नेर् दह॑तो धू॒म उ॒देत्यानु॒ व्येति॒ ताव॑ती त्रि॒वृतो॒ मात्रा॑ ।
मूलम्
याव॒द् वा अ॒ग्नेर् दह॑तो धू॒म उ॒देत्यानु॒ व्येति॒ ताव॑ती त्रि॒वृतो॒ मात्रा॑ ।
भट्टभास्कर-टीका
का पुनस्त्रिवृतो मात्रेत्यत आह - अग्निः त्रिवृत् एकस्थानप्रभवत्वात् द्वयोः यावतीः [जनयतः?] प्रजापतेः । तस्य अग्नेर्दहतः दक्षिणतो धूम उदेत्य उत्सृज्य व्याप्य यावत् अनुव्येति अनुविसर्पति तावती अग्नेः मात्रा सैव त्रिवृतो मात्रा अग्नित्वात्त्रिवृतः ।
मूलम्
अ॒ग्नेरे॒वैन॒न्तत् । मात्राँ॒ सायु॑ज्यँ सलो॒कता॑ङ्गमयन्ति ।
विश्वास-प्रस्तुतिः
अ॒ग्नेर् ए॒वैन॒न् तन्मात्राँ॒ सायु॑ज्यँ सलो॒कता॑ङ् गमयन्ति ।
मूलम्
अ॒ग्नेर् ए॒वैन॒न् तन्मात्राँ॒ सायु॑ज्यँ सलो॒कता॑ङ् गमयन्ति ।
भट्टभास्कर-टीका
तस्मादग्नेरेव मात्रां गमयन्ति यजमानं त्रिवृता स्तुवन्त उद्गातारः । तथा सायुज्यं समानयोगतां समानलोकतां च अग्नेः गमयन्ति ।
मूलम्
अथ॒ यत्प॑ञ्चद॒शेन॑ स्तु॒वते॑ । प॒ञ्च॒द॒शेनै॒व तद्यज॑मान॒माद॑दते ॥ 47 ॥
विश्वास-प्रस्तुतिः
अथ॒ यत् प॑ञ्चद॒शेन॑ स्तु॒वते॑ पञ्चद॒शेन+ ए॒व तद् यज॑मान॒म् आद॑दते ॥ 47 ॥
मूलम्
अथ॒ यत् प॑ञ्चद॒शेन॑ स्तु॒वते॑ पञ्चद॒शेन+ ए॒व तद् यज॑मान॒म् आद॑दते ॥ 47 ॥
मूलम्
तम्प॑ञ्चद॒शेनै॒व ह॑रन्ति । याव॑ती पञ्चद॒शस्य॒ मात्रा॑ ।
विश्वास-प्रस्तुतिः
तम् प॑ञ्चद॒शेन+ ए॒व ह॑रन्ति॒ याव॑ती पञ्चद॒शस्य॒ मात्रा॑ ।
मूलम्
तम् प॑ञ्चद॒शेन+ ए॒व ह॑रन्ति॒ याव॑ती पञ्चद॒शस्य॒ मात्रा॑ ।
भट्टभास्कर-टीका
एवं पञ्चदशादिषु द्रष्टव्यम् ।
विश्वास-प्रस्तुतिः
च॒न्द्रमा॒ वै प॑ञ्चद॒शः ।
ए॒ष हि प॑ञ्चद॒श्याम् अ॑प-क्षी॒यते॑ ।
मूलम्
च॒न्द्रमा॒ वै प॑ञ्चद॒शः ।
ए॒ष हि प॑ञ्चद॒श्याम् अ॑प-क्षी॒यते॑ ।
भट्टभास्कर-टीका
चन्द्रमाः पञ्चदशः स्तोमः पञ्चदशसङ्ख्यान्वयात् द्वयोः । पञ्चदशस्तोत्रीयाभिः पञ्चदशः स्तोमः । चन्द्रमाः पञ्चदश्यां तिथौ अत्यन्तं अपक्षीयते कष्णे ।
विश्वास-प्रस्तुतिः
प॒ञ्च॒द॒श्याम् आ॑पू॒र्यते॑ ।
मूलम्
प॒ञ्च॒द॒श्याम् आ॑पू॒र्यते॑ ।
भट्टभास्कर-टीका
तत्र पञ्चदश्यां अत्यन्तं च आपूर्यते शुक्ले ।
मूलम्
च॒न्द्रम॑स ए॒वैन॒न्तत् । मात्राँ॒ सायु॑ज्यँ सलो॒कता॑ङ्गमयन्ति ।
विश्वास-प्रस्तुतिः
च॒न्द्रम॑स ए॒वैन॒न् तन् मात्राँ॒ सायु॑ज्यँ सलो॒कता॑ङ् गमयन्ति ।
मूलम्
च॒न्द्रम॑स ए॒वैन॒न् तन् मात्राँ॒ सायु॑ज्यँ सलो॒कता॑ङ् गमयन्ति ।
भट्टभास्कर-टीका
तस्मात् चन्द्रमस इमां मात्रां तिथिभेदेन लोकस्थितिहेतुं तत् सायुज्यं सलोकतां च यजमानं गमयन्ति ॥
विश्वास-प्रस्तुतिः
अथ॒ यत् स॑प्तद॒शेन॑ स्तु॒वते॑ ।
स॒प्त॒द॒शेन+ ए॒व तद् यज॑मान॒म् आद॑दते ।
मूलम्
अथ॒ यत् स॑प्तद॒शेन॑ स्तु॒वते॑ ।
स॒प्त॒द॒शेन+ ए॒व तद् यज॑मान॒म् आद॑दते ।
मूलम्
तँ स॑प्तद॒शेनै॒व ह॑रन्ति ॥ 48 ॥
याव॑ती सप्तद॒शस्य॒ मात्रा॑ ।
विश्वास-प्रस्तुतिः
तँ स॑प्तद॒शेन+ ए॒व ह॑रन्ति॒ याव॑ती सप्तद॒शस्य॒ मात्रा॑ ।
मूलम्
तँ स॑प्तद॒शेन+ ए॒व ह॑रन्ति॒ याव॑ती सप्तद॒शस्य॒ मात्रा॑ ।
विश्वास-प्रस्तुतिः
प्र॒जाप॑ति॒र् वै स॑प्तद॒शः ।
मूलम्
प्र॒जाप॑ति॒र् वै स॑प्तद॒शः ।
मूलम्
प्र॒जाप॑तेरे॒वैन॒न्तत् । मात्राँ॒ सायु॑ज्यँ सलो॒कता॑ङ्गमयन्ति ।
विश्वास-प्रस्तुतिः
प्र॒जाप॑तेर् ए॒वैन॒न् तन्मात्राँ॒ सायु॑ज्यँ सलो॒कता॑ङ् गमयन्ति ।
मूलम्
प्र॒जाप॑तेर् ए॒वैन॒न् तन्मात्राँ॒ सायु॑ज्यँ सलो॒कता॑ङ् गमयन्ति ।
मूलम्
अथ॒ यद् ए॑कविँ॒शेन॑ स्तु॒वते॑ ।
ए॒क॒विँ॒शेनै॒व तद्यज॑मान॒माद॑दते ।
अथ॒ यद् ए॑कविँ॒शेन॑ स्तु॒वत॑ एकविँ॒शेन+ ए॒व तद् यज॑मान॒म् आद॑दते ।
मूलम्
तमे॑कविँ॒शेनै॒व ह॑रन्ति । याव॑त्येकविँ॒शस्य॒ मात्रा॑ ।
विश्वास-प्रस्तुतिः
तम् ए॑कविँ॒शेन+ ए॒व ह॑रन्ति॒ याव॑त्य् एकविँ॒शस्य॒ मात्रा॑ ।
मूलम्
तम् ए॑कविँ॒शेन+ ए॒व ह॑रन्ति॒ याव॑त्य् एकविँ॒शस्य॒ मात्रा॑ ।
भट्टभास्कर-टीका
5 प्रजापतिर्वा इत्यादि ॥ लोकस्थितिहेतुत्वात् प्रजापतेः । मात्रां लोकस्थितिहेतुतां गमयन्ति यजमानम् ॥
विश्वास-प्रस्तुतिः
अ॒सौ वा आ॑दि॒त्य ए॑कविँ॒शः ।
मूलम्
अ॒सौ वा आ॑दि॒त्य ए॑कविँ॒शः ।
मूलम्
आ॒दि॒त्यस्यै॒वैन॒न्तत् ॥ 49 ॥
मात्राँ॒ सायु॑ज्यँ सलो॒कता॑ङ्गमयन्ति ।
विश्वास-प्रस्तुतिः
आ॒दि॒त्यस्यै॒वैन॒न् तन्मात्राँ॒ सायु॑ज्यँ सलो॒कता॑ङ् गमयन्ति ।
मूलम्
आ॒दि॒त्यस्यै॒वैन॒न् तन्मात्राँ॒ सायु॑ज्यँ सलो॒कता॑ङ् गमयन्ति ।
भट्टभास्कर-टीका
6 योसा प्रकाशोदकदानादिना लोकं धारयति असावादित्यः एव एकविंशः तद्वद्धारकत्वाल्लोकानाम् । तामिमामादित्यस्य मात्रां यजमानं गमयन्ति ऐश्वर्यमात्रां प्रापयन्ति ॥
मूलम्
ते कु॒श्यौ॑ । व्य॑घ्नन् ।
विश्वास-प्रस्तुतिः
ते कु॒श्यौ॑ व्य् अ॑घ्नन् ।
ते अ॑होरा॒त्रे अ॑भवताम् ।
मूलम्
ते कु॒श्यौ॑ व्य् अ॑घ्नन् ।
ते अ॑होरा॒त्रे अ॑भवताम् ।
मूलम्
अह॑रे॒व सु॒वर्णा॑ऽभवत् । र॒ज॒ता रात्रिः॑ ।
विश्वास-प्रस्तुतिः
अह॑र् ए॒व सु॒वर्णा॑ ऽभवद् रज॒ता रात्रिः॑ ।
मूलम्
अह॑र् ए॒व सु॒वर्णा॑ ऽभवद् रज॒ता रात्रिः॑ ।
भट्टभास्कर-टीका
7 ते इत्यादि ॥ अथ यदा एकविंशस्य मात्रां इन्द्रो गमितोऽभूत् तदानीं विश्वमनेन जितमिति मन्यमाना देवाः ते सुवर्णरजते कुश्यौ व्यघ्नन् व्यश्लेषयन्, ते अहोरात्रे अभवताम् ।
अहः सुवर्णा रजता रात्रिः ।
मूलम्
स यदा॑दि॒त्य उ॒देति॑ । ए॒तामे॒व तत्सु॒वर्णा॑ङ्कु॒शीमनु॒ समे॑ति ।
विश्वास-प्रस्तुतिः
स यद् आ॑दि॒त्य उ॒देत्य् ए॒ताम् ए॒व तत् सु॒वर्णा॑ङ् कु॒शीम् अनु॒ समे॑ति ।
मूलम्
स यद् आ॑दि॒त्य उ॒देत्य् ए॒ताम् ए॒व तत् सु॒वर्णा॑ङ् कु॒शीम् अनु॒ समे॑ति ।
भट्टभास्कर-टीका
अथ एतयोः इन्द्रकुश्यौ सुवर्णां कुशीं आदित्योऽनुसमेति यदा उदेति अयमस्योदयः । यदा रजतकुश्यनुप्रवेशस्स्यात् तदा अस्तमयः ।
मूलम्
अथ॒ यद॑स्त॒मेति॑ । ए॒तामे॒व तद्र॑ज॒ताङ्कु॒शीमनु॒सव्ँ वि॑शति ।
विश्वास-प्रस्तुतिः
अथ॒ यद् अ॑स्त॒मेत्य् ए॒ताम् ए॒व तद् र॑ज॒ताङ् कु॒शीम् अनु॒-सव्ँ वि॑शति ।
मूलम्
अथ॒ यद् अ॑स्त॒मेत्य् ए॒ताम् ए॒व तद् र॑ज॒ताङ् कु॒शीम् अनु॒-सव्ँ वि॑शति ।
भट्टभास्कर-टीका
एवं इन्द्रस्याहोरात्रव्याप्तं विश्वविजयित्वमुक्तम् ॥
मूलम्
प्र॒ह्रादो॑ ह॒ वै का॑याध॒वः । वि॒रोच॑नँ॒ स्वम्पु॒त्रमुदा॑स्यत् ।
विश्वास-प्रस्तुतिः
प्र॒ह्रादो॑ ह॒ वै का॑याध॒वो वि॒रोच॑नँ॒ स्वम् पु॒त्रम् उदा॑स्यत् ।
मूलम्
प्र॒ह्रादो॑ ह॒ वै का॑याध॒वो वि॒रोच॑नँ॒ स्वम् पु॒त्रम् उदा॑स्यत् ।
भट्टभास्कर-टीका
8 अथ प्रह्लादेनापनीतस्य विरोचनस्य को वृत्तान्त इत्याह - प्रह्राद इत्यादि ॥पुत्रं उदास्यत् उदक्षिपत् गूढनिहितं पुत्रं तत उद्धृतवान् ।
विश्वास-प्रस्तुतिः
स प्र॑द॒रो॑ ऽभवत् ।
मूलम्
स प्र॑द॒रो॑ ऽभवत् ।
भट्टभास्कर-टीका
विश्वं इदं इन्द्रेण जितमिति सः उद्यतप्रदेशः प्रदरो भूविवरः अभवत् ।
विश्वास-प्रस्तुतिः
तस्मा॑त् प्रद॒राद् उ॑द॒कन् नाचा॑मेत् ॥ 50 ॥
मूलम्
तस्मा॑त् प्रद॒राद् उ॑द॒कन् नाचा॑मेत् ॥ 50 ॥
भट्टभास्कर-टीका
तस्मात्प्रदरादुदकं नाचामेत् असुरच्छिद्रनिर्गतत्वात् । द्रु विदारणे, ‘ऋदोरप्’थाथादिना उत्तरपदान्तोदात्तत्वम् ॥
इति पञ्चमे दशमोऽनुवाकः ॥