०९ सोमशेषभूता इष्टयः ...{Loading}...
अध्वरब्राह्मणम्
नक्षत्रेष्टिकाण्डम्
विश्वास-प्रस्तुतिः
दे॒वा॒सु॒रास् सय्ँय॑त्ता आसन् ।
स प्र॒जाप॑ति॒र् इन्द्र॑ञ् ज्ये॒ष्ठम् पु॒त्रम् अप॒ न्य॑धत्त ।
नेदे॑न॒म् असु॑रा॒ बली॑याँसो ऽहन॒न्न् इति॑ ।
मूलम्
दे॒वा॒सु॒रास् सय्ँय॑त्ता आसन् ।
स प्र॒जाप॑ति॒र् इन्द्र॑ञ् ज्ये॒ष्ठम् पु॒त्रम् अप॒ न्य॑धत्त ।
नेदे॑न॒म् असु॑रा॒ बली॑याँसो ऽहन॒न्न् इति॑ ।
भट्टभास्कर-टीका
अतः परं चत्वारोऽनुवाकाः अध्वरब्राह्मणं सोमार्षेयम्-
1 देवासुरा इत्यादि ॥ अपन्यधत्त देवसमूहसकाशादपकृष्य गूढं निहितवान् नेदेनमसुरा बलीयांसो हन्युरित्यभिप्रायेण ।
मूलम्
प्र॒ह्रादो॑ ह॒ वै का॑याध॒वः । वि॒रोच॑नँ॒ स्वम्पु॒त्रमप॒ न्य॑धत्त । नेदे॑नन्दे॒वा अ॑हन॒न्निति॑ ।
विश्वास-प्रस्तुतिः
प्र॒ह्रादो॑ ह॒ वै का॑याध॒वो वि॒रोच॑नँ॒ स्वम् पु॒त्रम् अप॒ न्य॑धत्त । नेदे॑नन् दे॒वा अ॑हन॒न्न् इति॑ ।
मूलम्
प्र॒ह्रादो॑ ह॒ वै का॑याध॒वो वि॒रोच॑नँ॒ स्वम् पु॒त्रम् अप॒ न्य॑धत्त । नेदे॑नन् दे॒वा अ॑हन॒न्न् इति॑ ।
भट्टभास्कर-टीका
अथ प्रह्रादो नाम कायाधवः कयाधोः पुत्रः कश्चिदसुरो विरोचनाख्यं स्वं पुत्रमपन्यधत्त नैवैनं देवा हन्युरित्यभिप्रायेण । हन्तेर्व्यत्ययेन शप् । कया सामग्र्या धूयते कम्प्यत इति कयाधूः । प्रकर्षेण ह्रादयति शब्दयति पीड्यमानाः प्रजा इति प्रह्रादः । ह्राद अव्यक्ते शब्दे । यद्वा - प्रकर्षेण ह्रादेन नदति सिंहनादं करोतीति प्रह्रादः, पचाद्यचि ‘परादिश्छन्दसि’इत्युत्तरपदान्तोदात्तत्वम् ॥
विश्वास-प्रस्तुतिः
ते दे॒वाᳶ प्र॒जाप॑तिम् उपस॒मेत्यो॑चुः ।
मूलम्
ते दे॒वाᳶ प्र॒जाप॑तिम् उपस॒मेत्यो॑चुः ।
मूलम्
नारा॒जक॑स्य यु॒द्धम॑स्ति । इन्द्र॒मन्वि॑च्छा॒मेति॑ ।
विश्वास-प्रस्तुतिः
“नारा॒जक॑स्य यु॒द्धम् अ॑स्तीन्द्र॒म् अन्व् इ॑च्छा॒मे"ति॑ ।
मूलम्
“नारा॒जक॑स्य यु॒द्धम् अ॑स्तीन्द्र॒म् अन्व् इ॑च्छा॒मे"ति॑ ।
भट्टभास्कर-टीका
2 ते देवा इत्यादि ॥ अराजकस्य बलस्य युद्धं नास्ति । तस्मात् त्वदनुज्ञाता इन्द्रमन्विच्छामेति देवा ऊचुः ।
विश्वास-प्रस्तुतिः
तय्ँ य॑ज्ञ-क्र॒तुभि॒र् अन्व् ऐ॑च्छन्न् ॥ 36 ॥
तय्ँ य॑ज्ञक्र॒तुभि॒र् नान्व॑विन्दन् ।
मूलम्
तय्ँ य॑ज्ञ-क्र॒तुभि॒र् अन्व् ऐ॑च्छन्न् ॥ 36 ॥
तय्ँ य॑ज्ञक्र॒तुभि॒र् नान्व॑विन्दन् ।
भट्टभास्कर-टीका
यज्ञक्रतवो यूपवन्तः ।
विश्वास-प्रस्तुतिः
तम् इष्टि॑भि॒र् अन्व् ऐ॑च्छन् ।
तम् इष्टि॑भि॒र् अन्व् अ॑विन्दन् ।
तद् इष्टी॑नाम् इष्टि॒त्वम् ।
मूलम्
तम् इष्टि॑भि॒र् अन्व् ऐ॑च्छन् ।
तम् इष्टि॑भि॒र् अन्व् अ॑विन्दन् ।
तद् इष्टी॑नाम् इष्टि॒त्वम् ।
भट्टभास्कर-टीका
तदिष्टीनामिति । अन्विष्य अन्वविन्दन्निति ।
मूलम्
एष्ट॑यो ह॒ वै नाम॑ । ता इष्ट॑य॒ इत्याच॑क्षते प॒रोक्षे॑ण ।
विश्वास-प्रस्तुतिः
“एष्ट॑यो” ह॒ वै नाम॒ ता “इष्ट॑य॒” इत्य् आच॑क्षते प॒रोक्षे॑ण । प॒रोक्ष॑-प्रिया इव॒ हि दे॒वाः ।
मूलम्
“एष्ट॑यो” ह॒ वै नाम॒ ता “इष्ट॑य॒” इत्य् आच॑क्षते प॒रोक्षे॑ण । प॒रोक्ष॑-प्रिया इव॒ हि दे॒वाः ।
भट्टभास्कर-टीका
अन्विष्यालम्भि इन्द्र आभिरिति एष्टयः । अन्वर्थे आकारः । यद्वा - आयजनं लाभः, एज्यते लभ्यते आभिरिति एष्टयः । एवमेष्टयोनामैतानि मित्थादृष्ट्या ताः तादृशीः इमा इष्टय इत्याचक्षते परोक्षवृत्त्या । गतमन्यत् ॥
विश्वास-प्रस्तुतिः
तस्मा॑ ए॒तम् आ॑ग्नावैष्ण॒वम् एका॑दशकपालन् दीक्ष॒णीय॒न् निर॑वपन् ।
मूलम्
तस्मा॑ ए॒तम् आ॑ग्नावैष्ण॒वम् एका॑दशकपालन् दीक्ष॒णीय॒न् निर॑वपन् ।
भट्टभास्कर-टीका
3 काभिः पुनरिष्टिभिः तमन्वैच्छत् देवा इत्याह - तस्मा इत्यादि ॥ तस्मै इन्द्राय तमिन्द्रमन्विष्य लब्धुम् । एकादशसु कपालेषु संस्कृत इति तद्धितार्थे द्विगुः, ‘द्विगोर्लुगनपत्ये’इति लुक् । ‘इगन्तकाल’इति पूर्वपदप्रकृतिस्वरत्वम् । तत्रापि ‘संख्या’इति पूर्वपदप्रकृतिस्वरत्वम् । दीक्ष्यते अनेनेति दीक्षणीयम् ।
विश्वास-प्रस्तुतिः
तद् अ॑प॒द्रुत्या॑तन्वत ।
मूलम्
तद् अ॑प॒द्रुत्या॑तन्वत ।
भट्टभास्कर-टीका
अथ तद्देशात् अपद्रुत्य अपेत्य तामिष्टिं अतन्वत अकार्षुः ।
विश्वास-प्रस्तुतिः
तान् प॑त्नीसय्ँया॒जान् त॒ उपा॑नयन्न् ॥ 37 ॥
मूलम्
तान् प॑त्नीसय्ँया॒जान् त॒ उपा॑नयन्न् ॥ 37 ॥
भट्टभास्कर-टीका
अथ तान् पत्नीसंयाजान्ते उपानयन् उपसंप्राप्तान् असुरानकुर्वन् । अय गतौ, भौवादिकः, व्यत्ययेन परस्मैपदम् ।
विश्वास-प्रस्तुतिः
ते तद॑न्तम् ए॒व कृ॒त्वोद॑द्रवन् ।
मूलम्
ते तद॑न्तम् ए॒व कृ॒त्वोद॑द्रवन् ।
भट्टभास्कर-टीका
अथ ते देवाः तदन्तमेव पत्नीसंयाजान्तमेव कृत्वा उदद्रवन् उदतिष्ठन् ।
विश्वास-प्रस्तुतिः
ते प्रा॑य॒णीय॑म् अ॒भि-स॒मारो॑हन् ।
मूलम्
ते प्रा॑य॒णीय॑म् अ॒भि-स॒मारो॑हन् ।
भट्टभास्कर-टीका
अथ ते देवाः प्रायणीयं आदित्यं चरुं अभिसमारोहन् तदुद्दिश्य प्रतिज्ञामारूढवन्तः ।
विश्वास-प्रस्तुतिः
तद् अ॑प॒द्रुत्या॑तन्वत ।
मूलम्
तद् अ॑प॒द्रुत्या॑तन्वत ।
भट्टभास्कर-टीका
तदपद्रुत्येत्यादि । गतम् । प्रथमत ईयते प्राप्यते अनेनेति प्रायणीयः
विश्वास-प्रस्तुतिः
ताञ् छय्ँ॒य्व॑न्त॒ उपा॑नयन् ।
ते तद॑न्तम् ए॒व कृ॒त्वोद॑द्रवन् ।
मूलम्
ताञ् छय्ँ॒य्व॑न्त॒ उपा॑नयन् ।
ते तद॑न्तम् ए॒व कृ॒त्वोद॑द्रवन् ।
भट्टभास्कर-टीका
शंय्वन्ते शंयुवाकान्ते ॥
विश्वास-प्रस्तुतिः
त आ॑ति॒थ्यम् अ॒भि-स॒मारो॑हन् ।
तद् अ॑प॒द्रुत्या॑तन्वत ।
तान् इडा॑न्त॒ उपा॑नयन् ।
ते तद॑न्तम् ए॒व कृ॒त्वोद॑द्रवन् ।
मूलम्
त आ॑ति॒थ्यम् अ॒भि-स॒मारो॑हन् ।
तद् अ॑प॒द्रुत्या॑तन्वत ।
तान् इडा॑न्त॒ उपा॑नयन् ।
ते तद॑न्तम् ए॒व कृ॒त्वोद॑द्रवन् ।
भट्टभास्कर-टीका
4 त इत्यादि ॥ अतिथये आतिथ्यं नवकपालम् । वैष्णवं नवकपालम् । तदित्यादि । गतम् ।
विश्वास-प्रस्तुतिः
तस्मा॑द् ए॒ता ए॒तद॑न्ता॒ इष्ट॑य॒स् सन्ति॑ष्ठन्ते ॥ 38 ॥
मूलम्
तस्मा॑द् ए॒ता ए॒तद॑न्ता॒ इष्ट॑य॒स् सन्ति॑ष्ठन्ते ॥ 38 ॥
भट्टभास्कर-टीका
तस्मादित्यादि । एताः दीक्षणीयाप्रायणीयाऽऽतिथ्याः इष्टयः एतदन्ताः पत्नीसंयाजशंयुवाकेडान्ताः सन्तिष्ठन्ते समाप्यन्ते ।
विश्वास-प्रस्तुतिः
ए॒वँ हि दे॒वा अकु॑र्वत ।
मूलम्
ए॒वँ हि दे॒वा अकु॑र्वत ।
भट्टभास्कर-टीका
एवं एतदन्ता हि एता देवता अकुर्वत । तस्मादेतदन्तास्सन्तिष्ठन्त इति ।
मूलम्
इति॑ दे॒वा अ॑कुर्वत । इत्यु॒ वै म॑नु॒ष्याः॑ कुर्वते ।
विश्वास-प्रस्तुतिः
इति॑ दे॒वा अ॑कुर्व॒तेत्य् उ॒ वै म॑नु॒ष्याः॑ कुर्वते ।
मूलम्
इति॑ दे॒वा अ॑कुर्व॒तेत्य् उ॒ वै म॑नु॒ष्याः॑ कुर्वते ।
भट्टभास्कर-टीका
ननु देवानां तथा कूवता मनुष्यैरस्माभिः कथं कर्तव्यमित्याह - इति देवा इत्यादि । इत्थं देवा अकुर्वत इति एवं प्रतीत्य मनुष्याः तत्कृतमेव कुर्वते । उकारोऽवधारणे । देवैश्च तथा कृतमिति मनुष्यैरपि तथा कर्तव्यमिति ॥
विश्वास-प्रस्तुतिः
ते दे॒वा ऊ॑चुः ।
मूलम्
ते दे॒वा ऊ॑चुः ।
मूलम्
यद्वा इ॒दमु॒च्चैर्य॒ज्ञेन॒ चरा॑म । तन्नोऽसु॑राᳶ पा॒प्माऽनु॑विन्दन्ति । उ॒पाँ॒शू॑प॒सदा॑ चराम ।
विश्वास-प्रस्तुतिः
“यद् वा इ॒दम् उ॒च्चैर् य॒ज्ञेन॒ चरा॑म॒, तन् नो ऽसु॑राᳶ पा॒प्मा ऽनु॑विन्दन्त्य् उपाँ॒शू॑प॒सदा॑ चराम । तथा॒ नो ऽसु॑राᳶ पा॒प्मा नानु॑वेत्स्य॒न्ती"ति॑ ।
मूलम्
“यद् वा इ॒दम् उ॒च्चैर् य॒ज्ञेन॒ चरा॑म॒, तन् नो ऽसु॑राᳶ पा॒प्मा ऽनु॑विन्दन्त्य् उपाँ॒शू॑प॒सदा॑ चराम । तथा॒ नो ऽसु॑राᳶ पा॒प्मा नानु॑वेत्स्य॒न्ती"ति॑ ।
भट्टभास्कर-टीका
5 ते देवा इत्यादि ॥ यत् इदं उच्चैः यज्ञेन चराम यज्ञेन उपसदाख्येन चराम तत् तेन हेतुना नः अस्मान् पाप्मा पापात्मानः असुरा अनुविन्दन्ति अनुक्रमेण लभेरन् अभिभवेयुः तस्मात् उपांशु चराम इति । गतमन्यम् । अनुवेत्स्यन्ति अनुलप्स्यन्ते ।
विश्वास-प्रस्तुतिः
त उ॑पाँ॒शू॑प॒सद॑म् अतन्वत ।
मूलम्
त उ॑पाँ॒शू॑प॒सद॑म् अतन्वत ।
मूलम्
ति॒स्र ए॒व सा॑मिधे॒नीर॒नूच्य॑ ॥ 39 ॥ स्रु॒वेणा॑घा॒रमा॒घार्य॑ । ति॒स्रᳶ परा॑ची॒राहु॑तीर् हु॒त्वा । स्रु॒वेणो॑प॒सद॑ञ्जुह॒वाञ्च॑क्रुः ।
विश्वास-प्रस्तुतिः
ति॒स्र ए॒व सा॑मिधे॒नीर् अ॒नूच्य॑, स्रु॒वेणा॑घा॒रम् आ॒घार्य॑ ति॒स्रᳶ परा॑ची॒र् आहु॑तीर् हु॒त्वा स्रु॒वेणो॑प॒सद॑ञ् जुह॒वाञ् च॑क्रुः ।
मूलम्
ति॒स्र ए॒व सा॑मिधे॒नीर् अ॒नूच्य॑, स्रु॒वेणा॑घा॒रम् आ॒घार्य॑ ति॒स्रᳶ परा॑ची॒र् आहु॑तीर् हु॒त्वा स्रु॒वेणो॑प॒सद॑ञ् जुह॒वाञ् च॑क्रुः ।
भट्टभास्कर-टीका
तिस्र इत्यादि । तिस्रः ऋचः त्रिरनूक्ता अन्वाह ‘उपसद्याय मीदुषे’इत्याद्याः । स्रुवेणाघारमाघार्य तिस्रः आहुतीः अग्निसोमविष्णुभ्यः पराचीः अनावृत्ताः सकृदतिक्रम्येत्यर्थः । स्रुवेणोपसदं जुहवांचक्रुः ‘या ते अग्नेऽयाशया’ इत्यादिभिः । ‘भीह्रीभ्रुहुवां श्लुवच्च’इत्याम् प्रत्ययः ॥
विश्वास-प्रस्तुतिः
“उ॒ग्रव्ँ वचो॒ अपा॑वधीन् त्वे॒षव्ँ वचो॒ अपा॑वधीँ॒ स्वाहे"ति॑ ।
अ॒श॒न॒या॒-पि॒पा॒से ह॒ वा उ॒ग्रव्ँ वचः॑ ।
मूलम्
“उ॒ग्रव्ँ वचो॒ अपा॑वधीन् त्वे॒षव्ँ वचो॒ अपा॑वधीँ॒ स्वाहे"ति॑ ।
अ॒श॒न॒या॒-पि॒पा॒से ह॒ वा उ॒ग्रव्ँ वचः॑ ।
भट्टभास्कर-टीका
6 इदानीं मन्त्रैकदेशं व्याख्यातुमुपादत्ते - उग्रं वच इत्यादि ॥ अशनया बुभुक्षा । ‘अशनायोदन्य’इति निपात्यते, ‘न छन्दस्यपुत्रत्य’इति दीर्घत्वं निवर्तते । पिपासा उदन्या । एतत् द्वयं उग्रं वचः तच्छ्रवणहेतुत्वात् ।
विश्वास-प्रस्तुतिः
एन॑श् च॒ वैर॑हत्यञ् च त्वे॒षव्ँ वचः॑ ।
ए॒तँ ह॒ वाव तच् च॑तुर्धा विहि॒तम् पा॒प्मान॑न् दे॒वा अप॑जघ्निरे ।
मूलम्
एन॑श् च॒ वैर॑हत्यञ् च त्वे॒षव्ँ वचः॑ ।
ए॒तँ ह॒ वाव तच् च॑तुर्धा विहि॒तम् पा॒प्मान॑न् दे॒वा अप॑जघ्निरे ।
भट्टभास्कर-टीका
एनः पापं वैरहत्यं विरघ्नः कर्म वैरहत्यम् । ण्यति रूपम् । यद्वा - वीरस्य हननं वीरहत्या । ‘हनस्त च’इति क्यप् । वीरहत्वैव वैरहत्यम् उत्सादिर्द्रष्टव्यः । एतदुभयं त्वेषं वचः दीप्तं क्रोधादिना तादृशवाक्यश्रवणजन्यमेतदुभयं एतं इत्थं चतुर्धा विहितं चतुर्धाऽवस्थितं पाप्मानं देवा अपहतवन्तः ॥
विश्वास-प्रस्तुतिः
तथो॑ ए॒वैतदे॑वव्ँ॒विद् यज॑मानः ।
मूलम्
तथो॑ ए॒वैतदे॑वव्ँ॒विद् यज॑मानः ।
मूलम्
ति॒स्र ए॒व सा॑मिधे॒नीर॒नूच्य॑ ।
स्रु॒वेणा॑घा॒रमा॒घार्य॑ ॥ 40 ॥
ति॒स्रᳶ परा॑ची॒राहु॑तीर्हु॒त्वा ।
स्रु॒वेणो॑प॒सद॑ञ्जुहोति ।
विश्वास-प्रस्तुतिः
ति॒स्र ए॒व सा॑मिधे॒नीर् अ॒नूच्य॑ स्रु॒वेणा॑घा॒रम् आ॒घार्य॑ ति॒स्रᳶ परा॑ची॒र् आहु॑तीर् हु॒त्वा स्रु॒वेणो॑प॒सद॑ञ् जुहोति ।
“उ॒ग्रव्ँ वचो॒ अपा॑वधीन् त्वे॒षव्ँ वचो॒ अपा॑वधीँ॒ स्वाहे"ति॑ ।
मूलम्
ति॒स्र ए॒व सा॑मिधे॒नीर् अ॒नूच्य॑ स्रु॒वेणा॑घा॒रम् आ॒घार्य॑ ति॒स्रᳶ परा॑ची॒र् आहु॑तीर् हु॒त्वा स्रु॒वेणो॑प॒सद॑ञ् जुहोति ।
“उ॒ग्रव्ँ वचो॒ अपा॑वधीन् त्वे॒षव्ँ वचो॒ अपा॑वधीँ॒ स्वाहे"ति॑ ।
भट्टभास्कर-टीका
7 तथो इत्यादि ॥ तथा उ तथो इति निपातसमुदायः । तथा एतदित्यर्थे वर्तते । एतत् एतस्मिन्कर्मणि एवं वित् एवं वेदैः कृतमिति विद्वान् ।
विश्वास-प्रस्तुतिः
अ॒श॒न॒या॒-पि॒पा॒से ह॒ वा उ॒ग्रव्ँ वचः॑ ।
एन॑श् च॒ वैर॑हत्यञ् च त्वे॒षव्ँ वचः॑ ।
ए॒तम् ए॒व तच् च॑तुर्धा विहि॒तम् पा॒प्मानय्ँ॒ यज॑मा॒नो ऽप॑ हते ।
मूलम्
अ॒श॒न॒या॒-पि॒पा॒से ह॒ वा उ॒ग्रव्ँ वचः॑ ।
एन॑श् च॒ वैर॑हत्यञ् च त्वे॒षव्ँ वचः॑ ।
ए॒तम् ए॒व तच् च॑तुर्धा विहि॒तम् पा॒प्मानय्ँ॒ यज॑मा॒नो ऽप॑ हते ।
भट्टभास्कर-टीका
तिस्र एवेत्यादि । गतम् ॥
विश्वास-प्रस्तुतिः
ते॑ ऽभि॒नीयै॒वाह॑ᳶ प॒शुम् आऽल॑भन्त ।
मूलम्
ते॑ ऽभि॒नीयै॒वाह॑ᳶ प॒शुम् आऽल॑भन्त ।
भट्टभास्कर-टीका
8 तेऽभिनीयैवेत्यादि ॥ ते देवा अहरभिनीयैव गमयित्वैव अपराह्णे पशुं अग्नीषोमीयं आलभन्त ।
विश्वास-प्रस्तुतिः
अह्न॑ ए॒व तद् दे॒वा अव॑र्तिम् पा॒प्मान॑म् मृ॒त्युम् अप॑-जघ्निरे ।
तेना॑भि॒नीये॑व॒ रात्रे॒ᳶ प्राच॑रन् ।
रात्रि॑या ए॒व तद् दे॒वा अव॑र्तिम् पा॒प्मान॑म् मृ॒त्युम् अप॑-जघ्निरे ॥ 41 ॥
तस्मा॑द् अभि॒नीयै॒वाह॑ᳶ प॒शुम् आ ल॑भेत ।
अह्न॑ ए॒व तद् यज॑मा॒नो ऽव॑र्तिम् पा॒प्मान॒म् भ्रातृ॑व्या॒न् अप॑ नुदते ।

तत् तेन प्रयोगेण अवर्तिं दारिद्र्यं पाप्मानं मृत्युं च देवा अह्नोऽपजघ्निरे ।
विश्वास-प्रस्तुतिः
तेना॑भि॒नीये॑व॒ रात्रे॒ᳶ प्राच॑रन् ।
रात्रि॑या ए॒व तद् यज॑मा॒नो ऽव॑र्तिम् पा॒प्मान॒म् भ्रातृ॑व्या॒न् अप॑ नुदते ।
मूलम्
तेना॑भि॒नीये॑व॒ रात्रे॒ᳶ प्राच॑रन् ।
रात्रि॑या ए॒व तद् यज॑मा॒नो ऽव॑र्तिम् पा॒प्मान॒म् भ्रातृ॑व्या॒न् अप॑ नुदते ।
भट्टभास्कर-टीका
तेनेत्यादि । तेन पशुना रात्रेः रात्रेः(त्रौ) अभिनीयेव प्राचरन् रात्रावेव प्रचरणं कृतवन्तः ।
अह्नो रात्रेस्सम्बन्धित्वेन प्राचरन् । गतमन्यत् ।
तस्मादभिनीयैवालभेत् यस्मादभिनीयैव ते अकुर्वन् ॥
विश्वास-प्रस्तुतिः
स ए॒ष उ॑पवस॒थीये ऽह॑न् द्विदेव॒त्य॑ᳶ प॒शुर् आ ल॑भ्यते ।
मूलम्
स ए॒ष उ॑पवस॒थीये ऽह॑न् द्विदेव॒त्य॑ᳶ प॒शुर् आ ल॑भ्यते ।
भट्टभास्कर-टीका
9 स एष इति ॥ उपवसथीये अहन् सौत्यात् पूर्वस्मिन् दिने । अनुप्रवचनादित्वाच्छः । द्विदेवत्यः अग्नीषोमीयः ।
मूलम्
द्व॒यव्ँ वा अ॒स्मिल्ँ लो॒के यज॑मानः । अस्थि॑ च माँ॒सञ्च॑ ।
विश्वास-प्रस्तुतिः
द्व॒यव्ँ वा अ॒स्मिल्ँ लो॒के यज॑मानो॒ ऽस्थि॑ च माँ॒सञ् च॑ ।
अस्थि॑ चै॒व तेन॑ माँ॒सञ् च॒ यज॑मान॒स् सँस्कु॑रुते ।
मूलम्
द्व॒यव्ँ वा अ॒स्मिल्ँ लो॒के यज॑मानो॒ ऽस्थि॑ च माँ॒सञ् च॑ ।
अस्थि॑ चै॒व तेन॑ माँ॒सञ् च॒ यज॑मान॒स् सँस्कु॑रुते ।
भट्टभास्कर-टीका
द्वयं वा इत्यादि । अस्थि च मांसं च इत्युभयं यजमानः यजमानशरीरं विद्वान् स्वयं द्विदेवत्येन द्वयमुभयं संस्कुरुते साधु प्रशस्तं लभते ॥
मूलम्
ता वा ए॒ताᳶ पञ्च॑ दे॒वताः॑ । अ॒ग्नीषोमा॑व॒ग्निर्मि॒त्रावरु॑णौ ॥ 42 ॥
विश्वास-प्रस्तुतिः
ता वा ए॒ताᳶ पञ्च॑ दे॒वता॑ ऽ॒ग्नी-षोमा॑व् अ॒ग्निर् मि॒त्रा-वरु॑णौ ॥ 42 ॥
मूलम्
ता वा ए॒ताᳶ पञ्च॑ दे॒वता॑ ऽ॒ग्नी-षोमा॑व् अ॒ग्निर् मि॒त्रा-वरु॑णौ ॥ 42 ॥
भट्टभास्कर-टीका
10 ता वा इत्यादि ॥ देवताः त्रयाणां पशूनां सम्बन्धिन्यः । अग्नीषोमौ च अग्निः च मित्रवरुणौ चेति ।
विश्वास-प्रस्तुतिः
प॒ञ्च॒-प॒ञ्ची वै यज॑मानः ।
त्वङ् माँ॒सँ स्नावा ऽस्थि॑ म॒ज्जा ।
मूलम्
प॒ञ्च॒-प॒ञ्ची वै यज॑मानः ।
त्वङ् माँ॒सँ स्नावा ऽस्थि॑ म॒ज्जा ।
भट्टभास्कर-टीका
यजमान्श्चायं पञ्चपञ्ची त्वगादिपञ्चकवान् पञ्चभिः पञ्चमानो देहः पञ्चपञ्चः तद्वान् पञ्चपञ्ची । पचि विस्तारे । यद्वा - पञ्चप्रकारैः कोशैः त्वगादिभिः तद्वान् । ‘प्रकारे गुणवचनस्य’इति सङ्ख्याया अपि चोदिते द्विर्वचनम् ।
मूलम्
ए॒तमे॒व तत्प॑ञ्चधाविहि॒तमा॒त्मानव्ँ॑वरुणपा॒शान्मु॑ञ्चति । भे॒ष॒जता॑यै निर्वरुण॒त्वाय॑ ।
विश्वास-प्रस्तुतिः
ए॒तम् ए॒व तत् प॑ञ्चधा विहि॒तम् आ॒त्मानव्ँ॑ वरुणपा॒शान् मु॑ञ्चति भेष॒जता॑यै निर्वरुण॒त्वाय॑ ।
मूलम्
ए॒तम् ए॒व तत् प॑ञ्चधा विहि॒तम् आ॒त्मानव्ँ॑ वरुणपा॒शान् मु॑ञ्चति भेष॒जता॑यै निर्वरुण॒त्वाय॑ ।
भट्टभास्कर-टीका
तदेवाह - पञ्चधा पञ्चप्रकारं विष्ठितं त्वगादिभिः आत्मानं शरीरं वरुणपाशात् वारकेण पापेन यद्बन्धनं ततो मुञ्चति । तच्च भेषजतायै अनिष्टोपशमनाय भवति निर्वरुणत्वाय वरुणपाशमोक्षणाय च भवति ॥
विश्वास-प्रस्तुतिः
तँ स॒प्तभि॒श् छन्दो॑भिᳶ प्रा॒तर् अ॑ह्वयन् ।
मूलम्
तँ स॒प्तभि॒श् छन्दो॑भिᳶ प्रा॒तर् अ॑ह्वयन् ।
भट्टभास्कर-टीका
11 तमित्यादि ॥ तं इन्द्रं सप्तभिः छन्दोभिः प्रातरह्वयन् प्रातरनुवाके आहूतवन्तः ।
विश्वास-प्रस्तुतिः
तस्मा॑त् स॒प्त च॑तुर् उत्त॒राणि॒ छन्दाँ॑सि प्रातर् अनुवा॒के ऽनू॑च्यन्ते ।
मूलम्
तस्मा॑त् स॒प्त च॑तुर् उत्त॒राणि॒ छन्दाँ॑सि प्रातर् अनुवा॒के ऽनू॑च्यन्ते ।
भट्टभास्कर-टीका
तस्मात् चतुरक्षरोत्तराणि । सप्त छन्दांसि गायत्र्यादीनि जगत्यन्तानि सर्वाण्यपि प्रातरनुवाके अनूच्यन्ते ॥
विश्वास-प्रस्तुतिः
तमे॒तयो॑पस॒मेत्योपा॑सीदन् ।
“उपा॑स्मै गायता नर॒” इति॑ ।
मूलम्
तमे॒तयो॑पस॒मेत्योपा॑सीदन् ।
“उपा॑स्मै गायता नर॒” इति॑ ।
भट्टभास्कर-टीका
12 तमेतयेत्यादि ॥ अत एव छन्दोभिरिन्द्रमाहूय उपसमेत्य ‘उपास्मै गायत’ इत्येतया उपासीदन् उपासत ।
विश्वास-प्रस्तुतिः
तस्मा॑द् ए॒तया॑ बहिष्-पवमा॒न उ॑प॒सद्यः॑ ॥ 43 ॥
मूलम्
तस्मा॑द् ए॒तया॑ बहिष्-पवमा॒न उ॑प॒सद्यः॑ ॥ 43 ॥
भट्टभास्कर-टीका
तस्मात् एतया ऋचा बहिष्पवमान उपसद्यः उपसत्तव्यः । सदेः छान्दसः क्यप् ॥
इति पञ्चमे नवमोऽनुवाकः ॥