४५ एकाहेषु अग्निष्टोमविधिः

०१ एकाहेषु अग्निष्टोमविधिः ...{Loading}...

परिचयः

विश्वास-प्रस्तुतिः

+++(नानाफलक-विकृति)+++प्र॒जन॑न॒ञ् ज्योतिः॑+++(→अग्निष्टोमः)+++ ।


विश्वास-प्रस्तुतिः

+++(कुतो ऽग्निष्टोमो ज्योतिः इति चेत्- )+++
अ॒ग्निर् दे॒वता॑ना॒ञ् ज्योतिः॑ । वि॒राट् छन्द॑सा॒ञ् ज्योतिः॑ ।
वि॒राड्+++(→१०)+++ +++(स्तोमगत)+++वा॒चो॑ ऽग्नौ+++(→अग्निष्टोमाख्ये यज्ञायज्ञीये सामनि)+++ सन्ति॑ष्ठते । वि॒राज॑म् +++(संपद्यमानाम्)+++ अ॒भि +++(अग्निष्टोमोऽपि)+++ सम्प॑द्यते ।
तस्मा॒त् तज्+++(→अग्निष्टोमः)+++ ज्योति॑र् उच्यते ।+++(४)+++
+++(अग्निष्टोमस्य द्वादशस्तोत्रस्य नवतिशतं १९० = 9+60+15+68+17+21 स्तोत्रीया भवन्ति । ताश्च दशभिर् ह्रियमाणाः शुद्धं भागं प्रयच्छन्तीति विराट्-सम्पत्तिः, नैवम् उक्थ्यादीनां दशके सम्पूर्णे समाप्तिरिति ।)+++


Keith

Production of offspring is light.
Agni is the light of the gods; the Viraj is the light of the metres.
The Viraj of speech ends in Agni;
it is produced according to the Viraj.
Therefore it is called light.

स्तोमकलनम्

विश्वास-टिप्पनी

त्रिवृत्-पञ्चदशौ स्तोमौ प्रातः (१ त्रिवृत्, ४ पञ्चदशाः वस्तुतः)। पञ्चदशसप्तदशौ माध्यन्दिनसवने (१ पञ्चदश, ४ सप्तदशाः वस्तुतः)। सप्तदशैकविंशौ तृतीयसवने। आहत्य १२ स्तोमाः, १९० = (9+60)+(15+68)+(17+21) स्तोत्रीयाः।

विश्वास-प्रस्तुतिः

द्वौ +++(त्रिवृत्-पञ्चदशौ)+++ स्तोमौ॑ प्रा॒त॒स् स॒व॒नव्ँ व॑हतो॒, यथा॑ प्रा॒णश् चा॑पा॒नश्च॑ ।
+++(तत्र बहिष्पवमाने नव ३३ = ९ स्तोत्रिया त्रिवृद्वहिष्पवमान इति। पञ्चदशान्याज्यानि; तस्य षष्टिः १५४ = ६० स्तोत्रीयाः ।)+++

मूलम्

द्वौ +++(त्रिवृत्-पञ्चदशौ)+++ स्तोमौ॑ प्रा॒त॒स् स॒व॒नव्ँ व॑हतो॒, यथा॑ प्रा॒णश् चा॑पा॒नश्च॑ ।
+++(तत्र बहिष्पवमाने नव ३३ = ९ स्तोत्रिया त्रिवृद्वहिष्पवमान इति। पञ्चदशान्याज्यानि; तस्य षष्टिः १५४ = ६० स्तोत्रीयाः ।)+++


विश्वास-प्रस्तुतिः

द्वौ +++(पञ्चदशसप्तदशौ)+++ माध्य॑न्दिनँ॒ सव॑नं॒ +++(वहतः)+++ यथा॒ चक्षु॑श्च॒ श्रोत्र॑ञ्च ।
+++( पञ्चदशो माध्यन्दिनः पवमान इति पञ्चदश १५ स्तोत्रीयाः । सप्तदशानि पृष्ठानि; तत्र अष्टषष्टिः १७*४ = ६८ स्तोत्रीयाः ।)+++


विश्वास-प्रस्तुतिः

द्वौ +++(सप्तदशैकविंशौ)+++ तृ॑तीयसव॒नम् +++(वहतः)+++, यथा॒ वाक् च॑ प्रति॒ष्ठा च ।
+++(सप्तदशार्भवः पवमान इति सप्तदश १७ स्तोत्रीयाः । एकविंशम् अग्निष्टोम-सामेति एकविंशतिः २१ स्तोत्रीयाः ।)+++
+++(MT: “aitareya 30th brAhmaNa on the bringing of agni & soma regarding the recitation of the incantation to varuNa asura medhira; it clearly says there 12 mAsa-s+5 R^itu-s+3 loka-s all supported by the +1 Aditya (here ided with varuNa)=21”)+++


विश्वास-प्रस्तुतिः

पुरु॑ष-सम्मितो॒+++(=तुल्यः)+++ वा ए॒ष य॒ज्ञो ऽस्थू॑रिः+++(=अनेकाश्वशकटम् →अग्निष्टोमः इति शाखान्तरादपि, यतः प्रतिसवनं द्वाभ्यां युज्यमानस् स्वकार्यं करोति)+++।

Keith

Two Stomas bear the morning pressing, like expiration and inspiration;
two the midday pressing, like eye and ear;
two the third pressing, like speech and support.

This sacrifice is commensurate with man, and is perfect [1].

फलस्मारणम्

विश्वास-प्रस्तुतिः

यङ् काम॑ङ् का॒मय॑ते, तम् ए॒तेना॒ऽभ्य॑श्ञुते। सर्वँ॒ ह्य् अस्थू॑रिणा ऽभ्यश्ञु॒ते ।

+++(अग्नेस्स्तोमो यज्ञायज्ञीयः, तदन्तः क्रतुरग्निष्टोमः।)+++
अ॒ग्नि॒ष्टो॒मेन॒ वै प्र॒जाप॑तिᳶ प्र॒जा अ॑सृजत ।
ता अ॒ग्नि॒ष्टो॒मेनै॒व पर्य॑गृह्णात्+++(=विधेयीकृतवान्)+++ ।

Keith

Whatever desire a man has, he wins by it,
for one wins all by that which is perfect.

By means of the Agnistoma Prajapati created off spring;
by means of the Agnistoma he grasped them.

अश्वतर-दक्षिणा-योग्यता

विश्वास-प्रस्तुतिः

तासा॒म् परि॑गृहीतानाम् अश्वत॒रो+++(=अश्वायां गर्दभेनोत्पन्नः)+++ ऽत्य् अ॑प्रवत+++(←ज्युङ् प्रुङ् प्लुङ् गतौ)+++ । तस्या॑नु॒हाय॒+++(←ओहाङ् गतौ)+++ रेत॒ आद॑त्त ।
तद् ग॑र्द॒भे न्य॑मार्ट्। तस्मा॑द्गर्द॒भो द्वि॒रेताः॑ +++(यतो गर्दभ्या बडबायाश्च जनयति)+++।+++(४)+++
अथो॑ +++(अन्ये)+++ आहु॒र् वड॑बाया॒न्+++(=अश्व्यां)+++ न्य॑मा॒र्ड् इति । तस्मा॒द् वड॑बा द्वि॒रेता +++(यतो अश्वगर्दभाभ्यां जनयति)+++।
अथो॑ +++(अन्ये)+++ आ॒हु॒र् ओष॑धीषु न्य॑मा॒र्डिति॑ । तस्मा॒द् ओष॑ध॒यो ऽन॑भ्यक्ता+++(→अकृतमैथुना)+++ रेभन्ति+++(→प्रथन्ते)+++ ।
अथो॑ आ॒हु॒ᳶ प्र॒जासु॑ न्य॑मा॒र्डिति । तस्मा॑द् य॒मौ जा॑येते ।+++(४)+++

Keith

When he grasped them the mule escaped. Following it he took its seed,
and placed it in the ass. Therefore the ass has double seed.
They also say, ‘He placed it in the mare.’ Therefore the mare has double seed.
They also say, ‘In the plants [2] he placed it.’ Therefore plants, though not anointed, glisten.
They also say, ‘He placed it in offspring.’ Therefore twins are born.

विश्वास-प्रस्तुतिः

तस्मा॑द् अश्वत॒रो न प्र जा॑यत । आत्त॑-रेता॒ हि तस्मा॑द् ब॒र्हिष्य्+++(→यज्ञे दक्षिणादौ)+++ अन॑वकॢप्तः ।
स॒र्व॒-वे॒द॒से+++(=धनाय [यज्ञाय])+++ वा॑, स॒हस्रे॑+++(→सहस्रदक्षिणाय)+++ वाऽव॑क्ल्प्तः। +++(प्राकृतीर्दक्षिणा)+++ अति॒ ह्य् अप्र॑+++(प्ल)+++वत +++(विकृतियागेषु तु भवति)+++। +++(‘हि च’ इति निघातप्रतिषेधः ।)+++

Keith

Therefore the mule has no offspring, for his seed has been taken from him.
Therefore he is not suitable for the sacrifice, but is suitable if there is a sacrifice when one gives (to the priests) all one’s goods or a thousand, for he escaped.

प्राशस्त्यकथनम्

विश्वास-प्रस्तुतिः

य ए॒वव्ँ वि॒द्वान् +++(स)+++ अ॒ग्नि॒ष्टो॒मेन॒ यज॑ते+++(→यजेत)+++ - प्राजा॑ताᳶ प्र॒जा ज॒नय॑ति॒, परि॒ प्रजा॑ता गृह्णाति।
तस्मा॑दाहुर् - ज्येष्ठय॒ज्ञ इति॑।
प्र॒जाप॑ति॒र् वा+++(वै)+++व ज्येष्ठः॑ । स ह्य् ए॑तेनाऽऽग्रे ऽय॑जत । +++(अतो ऽग्निष्ठोमो ज्येष्ठः।)+++

Keith

He who knowing thus sacrifices with the Agnistoma begets unborn offspring and grasps those that are born. Therefore they say, ‘It is the best of sacrifices [3].’

स्तोमोत्पत्तिः

विश्वास-प्रस्तुतिः

प्र॒जाप॑तिर् अकामयत । प्र जा॑ये॒येति॑।
स मु॑ख॒तस् त्रि॒वृत॒न्+++(=नवस्तोत्रीयं स्तोमं, त्र्यवयवास्तिस्रो वृत्तयोस्येति)+++ निर् अ॑मिमीत ।
तम् अ॒ग्निर् दे॒वताऽन्व॑सृज्यत, गाय॒त्री छन्दो॑, रथन्त॒रँ साम॑, ब्राह्म॒णो म॑नु॒ष्या॑णाम्, अ॒जᳶ प॑शू॒नाम्। तस्मा॒त् ते मुख्याः॑। मुख॒तो ह्यसृ॑ज्य॒न्त । +++(“अग्न॒ आ या॑हि” इत्यादेस् त्र्यर्चस्य भवति।)+++

Keith

Prajapati desired, ‘May I have offspring.’
He meted out the Trivrt from his mouth.
After it the god Agni was created, the Gayatri metre, the Rathantara Saman, of men the Brahman, of cattle the goat; therefore are they the chief, for they were produced from the mouth.

_____
विश्वास-प्रस्तुतिः

उर॑सो बा॒हुभ्या॑म् पञ्चद॒शन् +++(स्तोत्रीयं)+++ निर् अ॑मिमीत ।
तम् इन्द्रो॑ दे॒वताऽन्व॑सृज्यत - त्रि॒ष्टुप् छन्दो॑, बृ॒हत् साम॑, राज॒न्यो॑ मनु॒ष्या॑णा॒म्, अविᳶ॑ पशू॒नाम्। तस्मा॒त्ते वी॒र्या॑वन्तः। वी॒र्या॑द् ध्य् असृ॑ज्यन्त। +++(“त्वामिद्धि हवा॑महे सा॒ता…”)+++

Keith

From the breast and arms he meted out the Pañcadaça Stoma.
After it the god Indra was created, the Tristubh metre, the Brhat [4] Saman, of men the Rajanya, of cattle the sheep. There fore they are strong, for they were created from strength.

_____
विश्वास-प्रस्तुतिः

+++(“यद् द्याव इन्द्र ते”)+++
मध्य॒तस् स॑प्तद॒शन् +++(स्तोत्रीयं)+++ निर् अ॑मिमीत ।
तव्ँ विश्वे॑ दे॒वा दे॒वता॒ अन्व् अ॑सृज्यन्त, जग॑ती॒ छन्दो॑, वैरू॒पँ साम॒, वैश्यो॑ मनु॒ष्या॑णा॒ङ्, गावᳶ॑ पशू॒नाम्।
तस्मा॒त् त आ॒द्याः॑+++(=उपजीव्याः)+++। अन्न॒-धाना॒द् ध्य् असृ॑ज्यन्त।
तस्मा॒द् भूयाँ॑सो॒ +++(स्तोत्राणि)+++ ऽन्येभ्यः॑।
भूयि॑ष्ठा॒ हि दे॒वता॒ अन्व् असृ॑ज्यन्त ।

Keith

From the middle he meted out the Saptadaça Stoma.
After it the All-gods as deities were created, the Jagati metre, the Vairupa Saman, of men the Vaiçya, of cattle cows.

Therefore are they to be eaten, for they were created from the receptacle of food.
Therefore are they more numerous than others, for they were created after the most numerous of the gods.

_____
विश्वास-प्रस्तुतिः

प॒त्त+++(=पद्भ्यां)+++ ए॑क-विँ॒शन् निर् अ॑मिमीत ।
तम॑नु॒ष्टुप्छन्दो॑ऽन्व॑सृज्यत, वै॒रा॒जँ॒ साम॑, शू॒द्रो म॒नुष्या॑णाम्, अश्वᳶ॑ पशू॒नाम्। +++(“पिब सोमम् इन्द्र!?”)+++
तस्मा॒त् तौ भू॑त-सङ्क्रा॒मिणौ॑ अश्व॑श् च शू॒द्रश् च॑ ।
तस्मा॑च् छू॒द्रो य॒ज्ञे +++(दक्षिणात्वेन)+++ ऽन॑वकॢप्तः । +++(यतो)+++ न हि दे॒वता॒ अन्वसृ॑ज्यत । +++(अश्वस् तु याग-योग्य एव - सर्वदेवताधारत्वात्।)+++
तस्मा॒त् पादा॒व् उप॑ जीवतः +++(शूद्राश्वौ)+++। प॒त्तो ह्यसृ॑ज्येताम् ।

Keith

From his feet he meted out the Ekavinça Stoma.
After it the Anustubh metre [5] was created, the Vairaja Saman, of men the Çudra, of cattle the horse.
Therefore the two, the horse and the Çudra, are dependent on others.
Therefore the Çudra is not fit for the sacrifice, for he was not created after any gods.
Therefore they depend on their feet, for they were created from the feet.

_____
विश्वास-प्रस्तुतिः

+++(नवत्वान्वयात्)+++ प्रा॒णा वै त्रि॒वृत्+++(स्तोमानि)+++ ।
+++(दिवसैः)+++ अ॒र्ध॒मा॒साᳶ प॑ञ्च-द॒शः +++(स्तोत्रम्)+++ ।
प्र॒जा-प॑तिस् सप्त-द॒शः +++(स्तोत्रम्)+++।
त्रय॑ इ॒मे लो॒काः ।
अ॒साव् आ॑दि॒त्य ए॑कविँ॒शः +++(स्तोमः)+++। ए॒तस्मि॒न् +++(अग्निष्टोमे)+++ वा ए॒ते +++(प्राणादय आदित्यपर्यन्ताश्)+++ श्रि॒ताः॑ । ए॒तस्मि॒न् प्रति॑ष्ठिताः । य ए॒वव्ँ वेदै॒तस्मि॑न्न् ए॒व श्र॑यते । ए॒तस्मि॒न् प्रति॑ तिष्ठति ॥

Keith

The Trivrt is the breaths;
the Pañcadaça the half-months;
the Saptadaça Prajapati;
these worlds are three;
the Ekavinça is the sun yonder.
In this they rest, in this they find support.
He who knows thus rests on this, finds, support in this.