४४ ४४

११ ...{Loading}...

मूलम् (संयुक्तम्)

प्र॒जाप॑तिर्दे॒वेभ्यो॑ य॒ज्ञान्व्यादि॑श॒त्स रि॑रिचा॒नो॑ऽमन्यत॒ स य॒ज्ञानाँ॑ षोडश॒धेन्द्रि॒यव्ँवी॒र्य॑मा॒त्मान॑म॒भि सम॑क्खिद॒त्तत्षो॑ड॒श्य॑भव॒न्न वै षो॑ड॒शी नाम॑ य॒ज्ञो॑ऽस्ति॒

विश्वास-प्रस्तुतिः

प्र॒जाप॑तिर्दे॒वेभ्यो॑ य॒ज्ञान् व्यादि॑शत् ।
स रि॑रिचा॒नो॑ऽमन्यत ।
स य॒ज्ञानाँ॑ षोडश॒धेन्द्रि॒यव्ँ वी॒र्य॑म् आ॒त्मान॑म॒भि सम॑क्खिदत् ।
तत् षो॑ड॒श्य॑भवत् । न वै षो॑ड॒शी नाम॑ य॒ज्ञो॑ऽस्ति ।

मूलम्

प्र॒जाप॑तिर्दे॒वेभ्यो॑ य॒ज्ञान् व्यादि॑शत् ।
स रि॑रिचा॒नो॑ऽमन्यत ।
स य॒ज्ञानाँ॑ षोडश॒धेन्द्रि॒यव्ँ वी॒र्य॑म् आ॒त्मान॑म॒भि सम॑क्खिदत् ।
तत् षो॑ड॒श्य॑भवत् । न वै षो॑ड॒शी नाम॑ य॒ज्ञो॑ऽस्ति ।

भट्टभास्कर-टीका

1प्रजापतिर्देवेभ्य इत्यादि ॥ रिरिचानः रिक्तोहमित्यमन्यत प्रजापतिः । अथ तथा मन्यमानस्सः यज्ञानामिन्द्रियं च वीर्यं च षोडशधा षोडशप्रकारभिन्नं समक्खिदत् समुदपादयत् । क्खिद दैन्ये, व्यञ्जनद्वयादिः । किमर्थम् ?आत्मानमभिलक्ष्य, आत्मार्थमिति यावत् । लक्षणे अभेः कर्मप्रवचनीयत्वम् । तत्तथा षोडशधा कृतमिन्द्रियादिकं षोडशीनाम क्रतुरभवत्, न खल्वन्यः षोडशी नाम संज्ञिभूतः क्रतुरस्ति मुक्त्वेमं षोडशधा कृतं यज्ञम् ॥

मूलम् (संयुक्तम्)

यद्वाव षो॑ड॒शँ स्तो॒त्रँ षो॑ड॒शँ श॒स्त्रन्तेन॑ षोड॒शी तत्षो॑ड॒शिन॑ष्षोडशि॒त्वय्ँयत्षो॑ड॒शी गृ॒ह्यत॑ इन्द्रि॒यमे॒व तद्वी॒र्यय्ँ॑यज॑मान आ॒त्मन्ध॑त्ते

विश्वास-प्रस्तुतिः

यद्वाव षो॑ड॒शँ स्तो॒त्रँ षो॑ड॒शँ श॒स्त्रन् तेन॑ षोड॒शी ।
तत् षो॑ड॒शिन॑ष् षोडशि॒त्वम् ।
यत् षो॑ड॒शी गृ॒ह्यत॑ , इन्द्रि॒यमे॒व तद्वी॒र्यय्ँ॑ यज॑मान आ॒त्मन् ध॑त्ते ।

मूलम्

यद्वाव षो॑ड॒शँ स्तो॒त्रँ षो॑ड॒शँ श॒स्त्रन् तेन॑ षोड॒शी ।
तत् षो॑ड॒शिन॑ष् षोडशि॒त्वम् ।
यत् षो॑ड॒शी गृ॒ह्यत॑ , इन्द्रि॒यमे॒व तद्वी॒र्यय्ँ॑ यज॑मान आ॒त्मन् ध॑त्ते ।

भट्टभास्कर-टीका

2इदानीं कस्य षोडशधा करणेन षोडशी यज्ञस्समभवदित्याह - यद्वा वेत्यादि ॥ गतम् । षोडशानां पूरणं षोडशं, तेन तद्वान् षोडशी, सामर्थ्यात् षोडशस्तोत्रशस्त्रयोगात् षोडशित्त्वमस्येत्युक्तं भवति । नान्येन षोडशेन तद्वानिति । तदेतद्यज्ञस्य षोडशित्वम् । यदित्यादि । गतम् ॥

मूलम् (संयुक्तम्)

दे॒वेभ्यो॒ वै सु॑व॒र्गो लो॒कः [38]
न प्राभ॑व॒त्त ए॒तँ षो॑ड॒शिन॑मपश्य॒न्तम॑गृह्णत॒ ततो॒ वै तेभ्य॑स्सुव॒र्गो लो॒कᳶ प्राभ॑व॒द्यत्षो॑ड॒शी गृ॒ह्यते॑ सुव॒र्गस्य॑ लो॒कस्या॒भिजि॑त्या॒

विश्वास-प्रस्तुतिः

दे॒वेभ्यो॒ वै सु॑व॒र्गो लो॒को न प्राभ॑वत् ।[38]
त ए॒तँ षो॑ड॒शिन॑मपश्यन् । तम॑गृह्णत ।
ततो॒ वै तेभ्य॑स् सुव॒र्गो लो॒कᳶ प्राभ॑वत् ।
यत् षो॑ड॒शी गृ॒ह्यते॑ सुव॒र्गस्य॑ लो॒कस्या॒भिजि॑त्यै ।

मूलम्

दे॒वेभ्यो॒ वै सु॑व॒र्गो लो॒को न प्राभ॑वत् ।[38]
त ए॒तँ षो॑ड॒शिन॑मपश्यन् । तम॑गृह्णत ।
ततो॒ वै तेभ्य॑स् सुव॒र्गो लो॒कᳶ प्राभ॑वत् ।
यत् षो॑ड॒शी गृ॒ह्यते॑ सुव॒र्गस्य॑ लो॒कस्या॒भिजि॑त्यै ।

भट्टभास्कर-टीका

3देवेभ्य इत्यादि ॥ न प्राभवत् न पर्याप्त आसीत् । गतमन्यत् ॥ +++( सम्पादकटिप्पनी - विस्तृतं व्याख्यानमन्यत्र मृग्यम् । )+++

मूलम् (संयुक्तम्)

इन्द्रो॒ वै दे॒वाना॑मानुजाव॒र आ॑सी॒त्स प्र॒जाप॑ति॒मुपा॑धाव॒त्तस्मा॑ ए॒तँ षो॑ड॒शिन॒म्प्राय॑च्छ॒त्तम॑गृह्णीत॒ ततो॒ वै सोऽग्र॑न्दे॒वता॑ना॒म्पर्यै॒द्यस्यै॒वव्ँवि॒दुष॑ष्षोड॒शी गृ॒ह्यते॑ [39]
अग्र॑मे॒व स॑मा॒नाना॒म्पर्ये॑ति

विश्वास-प्रस्तुतिः

इन्द्रो॒ वै दे॒वाना॑मानुजाव॒र आ॑सीत् ।
स प्र॒जाप॑ति॒म् उपा॑धावत् ।
तस्मा॑ ए॒तँ षो॑ड॒शिन॒म् प्राय॑च्छत् । तम॑गृह्णीत ।
ततो॒ वै सोऽग्र॑न् दे॒वता॑ना॒म् पर्यै॑त् ।
यस्यै॒वव्ँ वि॒दुष॑ष् षोड॒शी गृ॒ह्यते , ऽग्र॑मे॒व स॑मा॒नाना॒म् पर्ये॑ति ।[39]

मूलम्

इन्द्रो॒ वै दे॒वाना॑मानुजाव॒र आ॑सीत् ।
स प्र॒जाप॑ति॒म् उपा॑धावत् ।
तस्मा॑ ए॒तँ षो॑ड॒शिन॒म् प्राय॑च्छत् । तम॑गृह्णीत ।
ततो॒ वै सोऽग्र॑न् दे॒वता॑ना॒म् पर्यै॑त् ।
यस्यै॒वव्ँ वि॒दुष॑ष् षोड॒शी गृ॒ह्यते , ऽग्र॑मे॒व स॑मा॒नाना॒म् पर्ये॑ति ।[39]

भट्टभास्कर-टीका

4इन्द्रो वा इत्यादि ॥ अनुजावरः कनिष्ठैश्वर्योपजीवी, स एवानुजावरः । स्वार्थिकोण् । गतमन्यत् । अग्रं प्राधान्यं देवतानां पर्यैत् अगच्छत् ॥

मूलम् (संयुक्तम्)

प्रातस्सव॒ने गृ॑ह्णाति॒ वज्रो॒ वै षो॑ड॒शी वज्रᳶ॑ प्रातस्सव॒नँ स्वादे॒वैनय्ँ॒योने॒र्निर्गृ॑ह्णाति॒ सव॑नेसवने॒ऽभि गृ॑ह्णाति॒ सव॑नात्सवनादे॒वैन॒म्प्र ज॑नयति तृतीयसव॒ने प॒शुका॑मस्य गृह्णीया॒द्वज्रो॒ वै षो॑ड॒शी प॒शव॑स्तृतीयसव॒नव्ँ वज्रे॑णै॒वास्मै॑ तृतीयसव॒नात्प॒शूनव॑ रुन्द्धे॒

विश्वास-प्रस्तुतिः

प्रा॒त॒स्स॒व॒ने गृ॑ह्णाति । वज्रो॒ वै षो॑ड॒शी ।
वज्रᳶ॑ प्रातस् सव॒नम् ।
स्वादे॒वैनय्ँ॒ योने॒र् निर्गृ॑ह्णाति ।
सव॑नेसवने॒ऽभि गृ॑ह्णाति ।
सव॑नात् सवनाद् ए॒वैन॒म् प्र ज॑नयति ।
तृ॒ती॒य॒स॒व॒ने प॒शुका॑मस्य गृह्णीयात् ।
वज्रो॒ वै षो॑ड॒शी , प॒शव॑स् तृतीयसव॒नम् ।
वज्रे॑णै॒वास्मै॑ तृतीयसव॒नात् प॒शूनव॑ रुन्धे ।

मूलम्

प्रा॒त॒स्स॒व॒ने गृ॑ह्णाति । वज्रो॒ वै षो॑ड॒शी ।
वज्रᳶ॑ प्रातस् सव॒नम् ।
स्वादे॒वैनय्ँ॒ योने॒र् निर्गृ॑ह्णाति ।
सव॑नेसवने॒ऽभि गृ॑ह्णाति ।
सव॑नात् सवनाद् ए॒वैन॒म् प्र ज॑नयति ।
तृ॒ती॒य॒स॒व॒ने प॒शुका॑मस्य गृह्णीयात् ।
वज्रो॒ वै षो॑ड॒शी , प॒शव॑स् तृतीयसव॒नम् ।
वज्रे॑णै॒वास्मै॑ तृतीयसव॒नात् प॒शूनव॑ रुन्धे ।

भट्टभास्कर-टीका

5प्रातस्सवनेत्यादयः पक्षभेदाः । वज्रो वा इत्यादि । वज्रवदनिष्टनिवारणहेतुत्वात् । स्वादेव योनेः कारणात् निर्गृह्णाति निष्कृष्यैनं गृह्णाति । सवनेसवने इत्यादि । गतम् । तृतीयसवने इति । एवकारसंयोगः खादिरीष्विवेति केचित् । अनियम इत्यन्ये ॥

मूलम् (संयुक्तम्)

नोक्थ्ये॑ गृह्णीयात्प्र॒जा वै प॒शव॑ उ॒क्थानि॒ यदु॒क्थ्ये॑ [40]
गृ॒ह्णी॒यात्प्र॒जाम्प॒शून॑स्य॒ निर्द॑हेदतिरा॒त्रे प॒शुका॑मस्य गृह्णीया॒द्वज्रो॒ वै षो॑ड॒शी वज्रे॑णै॒वास्मै॑ प॒शून॑व॒रुध्य॒ रात्रि॑यो॒परि॑ष्टाच्छमय॒त्य्

विश्वास-प्रस्तुतिः

नोक्थ्ये॑ गृह्णीयात् । प्र॒जा वै प॒शव॑ उ॒क्थानि ।
यदु॒क्थ्ये॑ गृ॒ह्णी॒यात् प्र॒जाम् प॒शून॑स्य॒ निर्द॑हेत् । [40]
अ॒ति॒रा॒त्रे प॒शुका॑मस्य गृह्णीयात् ।
वज्रो॒ वै षो॑ड॒शी ।
वज्रे॑णै॒वास्मै॑ प॒शून॑व॒रुध्य॒ रात्रि॑यो॒परि॑ष्टाच् छमय॒ति ।

मूलम्

नोक्थ्ये॑ गृह्णीयात् । प्र॒जा वै प॒शव॑ उ॒क्थानि ।
यदु॒क्थ्ये॑ गृ॒ह्णी॒यात् प्र॒जाम् प॒शून॑स्य॒ निर्द॑हेत् । [40]
अ॒ति॒रा॒त्रे प॒शुका॑मस्य गृह्णीयात् ।
वज्रो॒ वै षो॑ड॒शी ।
वज्रे॑णै॒वास्मै॑ प॒शून॑व॒रुध्य॒ रात्रि॑यो॒परि॑ष्टाच् छमय॒ति ।

भट्टभास्कर-टीका

6नोक्थ्य इति ॥ निषेधविधिः । गतः । अतिरात्रे पशुकामत्येति । … वेद्येति गम्यते । वज्रेण पशूनवरुद्ध्य रात्रिया रात्रिपर्यायैः उपरिष्ठादूर्ध्वकालं शमयति पशून्, वज्राभिपीडितानां शान्ति सुखं करोति ॥

मूलम् (संयुक्तम्)

अप्य॑ग्निष्टो॒मे रा॑ज॒न्य॑स्य गृह्णीयाद्व्या॒वृत्का॑मो॒ हि रा॑ज॒न्यो॑ यज॑ते सा॒ह्न ए॒वास्मै॒ वज्र॑ङ्गृह्णाति॒ स ए॑नव्ँ॒वज्रो॒ भूत्या॑ इन्द्धे॒ निर्वा दहत्येकविँ॒शँ स्तो॒त्रम्भ॑वति॒ प्रति॑ष्ठित्यै॒ हरि॑वच्छस्यत॒ इन्द्र॑स्य प्रि॒यन्धाम॑ [41]
उपा॑प्नोति॒

विश्वास-प्रस्तुतिः

अप्य॑ग्निष्टो॒मे रा॑ज॒न्य॑स्य गृह्णीयात् ।
व्या॒वृत्का॑मो॒ हि रा॑ज॒न्यो॑ यज॑ते ।
सा॒ह्न ए॒वास्मै॒ वज्र॑ङ् गृह्णाति ।
स ए॑नव्ँ॒ वज्रो॒ भूत्या॑ इन्द्धे॒ निर्वा दहति ।
ए॒क॒विँ॒शँ॒ स्तो॒त्रम् भ॑वति॒ , प्रति॑ष्ठित्यै ।
हरि॑वच्छस्यते ।
इन्द्र॑स्य प्रि॒यन्धामोपा॑प्नोति ।[41]

मूलम्

अप्य॑ग्निष्टो॒मे रा॑ज॒न्य॑स्य गृह्णीयात् ।
व्या॒वृत्का॑मो॒ हि रा॑ज॒न्यो॑ यज॑ते ।
सा॒ह्न ए॒वास्मै॒ वज्र॑ङ् गृह्णाति ।
स ए॑नव्ँ॒ वज्रो॒ भूत्या॑ इन्द्धे॒ निर्वा दहति ।
ए॒क॒विँ॒शँ॒ स्तो॒त्रम् भ॑वति॒ , प्रति॑ष्ठित्यै ।
हरि॑वच्छस्यते ।
इन्द्र॑स्य प्रि॒यन्धामोपा॑प्नोति ।[41]

भट्टभास्कर-टीका

7अप्यग्निष्टोम इति ॥ अग्निष्टोमे राजन्यस्य क्षत्रियस्य गृह्णीयात् । हेतुमाह - व्यावृत्काम हान । प्राधान्यकामो हि राजन्यो यजते । ततस्स एकाहे एकस्मिन्नेव दिने अस्मै एतदर्थं वज्रं गृह्णाति । योग्निष्टोम एकाहे गृह्णाति स च ग्रहणं वज्र एव भूत्वा भूत्यर्थं व्यावृत्यर्थं च इन्धे दीपयति निर्दहति नितरां दहति वा । तत्र एकविंशं एकविंशतिस्तोत्रीयं स्तोत्रं एव भवति, तत्प्रतिष्ठित्यै, अनिर्दाहाय च भवति । हरिशब्दवत् शस्त्रं शस्यते तस्य । तथा सति इन्द्रस्य प्रियं धामोपाप्नोति उपागच्छति ॥

मूलम् (संयुक्तम्)

कनी॑याँसि॒ वै दे॒वेषु॒ छन्दाँ॒स्यास॒ञ्ज्यायाँ॒स्यसु॑रेषु॒ ते दे॒वाᳵ कनी॑यसा॒ छन्द॑सा॒ ज्याय॒श्छन्दो॒ऽभि व्य॑शँस॒न्ततो॒ वै तेऽसु॑राणाल्ँ लो॒कम॑वृञ्जत॒ यत्कनी॑यसा॒ छन्द॑सा॒ ज्याय॒श्छन्दो॒ऽभि वि॒शँस॑ति॒ भ्रातृ॑व्यस्यै॒व तल्लो॒कव्ँवृ॑ङ्क्ते॒

विश्वास-प्रस्तुतिः

कनी॑याँसि॒ वै दे॒वेषु॒ छन्दाँ॒स्यास॒ञ् ज्यायाँ॒स्यसु॑रेषु ।
ते दे॒वाᳵ कनी॑यसा॒ छन्द॑सा॒ ज्याय॒श् छन्दो॒ऽभि व्य॑शँसन् ।

ततो॒ वै तेऽसु॑राणाल्ँ लो॒कम॑वृञ्जत ।

यत्कनी॑यसा॒ छन्द॑सा॒ ज्याय॒श् छन्दो॒ऽभि वि॒शँस॑ति॒ ,
भ्रातृ॑व्यस्यै॒व तल्लो॒कव्ँ वृ॑ङ्क्ते ।

मूलम्

कनी॑याँसि॒ वै दे॒वेषु॒ छन्दाँ॒स्यास॒ञ् ज्यायाँ॒स्यसु॑रेषु ।
ते दे॒वाᳵ कनी॑यसा॒ छन्द॑सा॒ ज्याय॒श् छन्दो॒ऽभि व्य॑शँसन् ।

ततो॒ वै तेऽसु॑राणाल्ँ लो॒कम॑वृञ्जत ।

यत्कनी॑यसा॒ छन्द॑सा॒ ज्याय॒श् छन्दो॒ऽभि वि॒शँस॑ति॒ ,
भ्रातृ॑व्यस्यै॒व तल्लो॒कव्ँ वृ॑ङ्क्ते ।

भट्टभास्कर-टीका

8कनीयांसि वा इत्यादि ॥ अल्पतराक्षराणि गायत्र्यादीनि, ज्यायांसि प्रवृद्धाक्षराणि पाङ्क्तादीनि । अथ ते देवाः कनीयसा छन्दसा ज्यायश्छन्दोभिव्यशंसन् अभिक्रम्य विहृत्याशंसन् । गायत्रीं पङ्क्ता, उष्णिहं बृहत्या, विराजं त्रिष्टुभा । ततस्ते देवाः असुराणां लोकमवृञ्जत । यदित्यादि । गतम् । विहृतषोडशिनमधिकृत्येदमुच्यते ॥

मूलम् (संयुक्तम्)

षड॒क्षरा॒ण्यति॑ रेचयन्ति॒ षड्वा ऋ॒तव॑ ऋ॒तूने॒व प्री॑णाति च॒त्वारि॒ पूर्वा॒ण्यव॑ कल्पयन्ति [42]
चतु॑ष्पद ए॒व प॒शूनव॑ रुन्द्धे॒ द्वे उत्त॑रे द्वि॒पद॑ ए॒वाव॑ रुन्द्धेऽनु॒ष्टुभ॑म॒भि सम्पा॑दयन्ति॒ वाग्वा अ॑नु॒ष्टुप्तस्मा॑त्प्रा॒णानाव्ँ॒वागु॑त्त॒मा स॑मयाविषि॒ते सूर्ये॑ षोड॒शिन॑स्स्तो॒त्रमु॒पाक॑रोत्ये॒तस्मि॒न्वै लो॒क इन्द्रो॑ वृ॒त्रम॑हन्त्सा॒क्षादे॒व वज्र॒म्भ्रातृ॑व्याय॒ प्र ह॑रत्यरुणपिश॒ङ्गोऽश्वो॒ दक्षि॑णै॒तद्वै वज्र॑स्य रू॒पँ समृ॑द्ध्यै ॥ [43]

विश्वास-प्रस्तुतिः

षड॒क्षरा॒ण्य् अति॑ रेचयन्ति ।
षड्वा ऋ॒तवः॑ । ऋ॒तूने॒व प्री॑णाति ।
च॒त्वारि॒ पूर्वा॒ण्य् अव॑ कल्पयन्ति ।[42]
चतु॑ष्पद ए॒व प॒शूनव॑ रुन्द्धे॒ , द्वे उत्त॑रे द्वि॒पद॑ ए॒वाव॑ रुन्धे ।

मूलम्

षड॒क्षरा॒ण्य् अति॑ रेचयन्ति ।
षड्वा ऋ॒तवः॑ । ऋ॒तूने॒व प्री॑णाति ।
च॒त्वारि॒ पूर्वा॒ण्य् अव॑ कल्पयन्ति ।[42]
चतु॑ष्पद ए॒व प॒शूनव॑ रुन्द्धे॒ , द्वे उत्त॑रे द्वि॒पद॑ ए॒वाव॑ रुन्धे ।

भट्टभास्कर-टीका

9षडक्षराणीत्यादि ॥ कनीयसा ज्यायश्छन्दसि अनुष्टुभाकारे शंसन्तश्शंसितारः षडक्षराणि अस्मिन् शस्त्रे अतिरेचयन्ति तेन ऋतवः प्रीता भवन्ति । अथ षण्णामक्षराणामवयुत्य वादः - चत्वारीत्यादि । पूर्वाणि पूर्वस्यामृचि भवानि, उत्तरे उत्तरस्यामृचि भवे द्वे अक्षरे अतिरिक्ते भवतः ।

विश्वास-प्रस्तुतिः

अ॒नु॒ष्टुभ॑म् अ॒भि सम्पा॑दयन्ति ।
वाग्वा अ॑नु॒ष्टुप् ।
तस्मा॑त् प्रा॒णानाव्ँ॒ वाग् उ॑त्त॒मा ।
स॒म॒या॒वि॒षि॒ते सूर्ये॑ षोड॒शिन॑स् स्तो॒त्रम् उ॒पाक॑रोति ।

मूलम्

अ॒नु॒ष्टुभ॑म् अ॒भि सम्पा॑दयन्ति ।
वाग्वा अ॑नु॒ष्टुप् ।
तस्मा॑त् प्रा॒णानाव्ँ॒ वाग् उ॑त्त॒मा ।
स॒म॒या॒वि॒षि॒ते सूर्ये॑ षोड॒शिन॑स् स्तो॒त्रम् उ॒पाक॑रोति ।

भट्टभास्कर-टीका

अनुष्टुभमिति । अनुष्टुप्संपत्तिमभिलक्ष्य आनुष्टुभेनैव छन्दसा शस्त्रं संपादयन्ति । तथा पङ्क्त्या सह गायत्री पङ्क्त्या सह चतुष्षष्टिरक्षराणि द्वे अनुष्टुभौ । तथा उष्णिक् बृहत्या सह । तथैव विराट् द्विपदा त्रिष्टुभा सह । समयाविषिते अर्धास्तमिते सूर्ये षोडशिनो ग्रहस्य स्तोत्रमुपाकरोति । समयेत्यर्धनाम, विषितः विपूर्वात्स्यतेः निष्ठातः ।

विश्वास-प्रस्तुतिः

ए॒तस्मि॒न् वै लो॒क इन्द्रो॑ वृ॒त्रम॑हन् ।
सा॒क्षादे॒व वज्र॒म् भ्रातृ॑व्याय॒ प्र ह॑रति ।
अ॒रु॒ण॒पि॒श॒ङ्गो ऽश्वो॒ दक्षि॑णा ।
ए॒तद्वै वज्र॑स्य रू॒पँ , समृ॑द्ध्यै ॥ [43]

मूलम्

ए॒तस्मि॒न् वै लो॒क इन्द्रो॑ वृ॒त्रम॑हन् ।
सा॒क्षादे॒व वज्र॒म् भ्रातृ॑व्याय॒ प्र ह॑रति ।
अ॒रु॒ण॒पि॒श॒ङ्गो ऽश्वो॒ दक्षि॑णा ।
ए॒तद्वै वज्र॑स्य रू॒पँ , समृ॑द्ध्यै ॥ [43]

भट्टभास्कर-टीका

एतस्मिन् लोके स्थाने अवकाशे पूर्वमिन्द्रो वृत्रं हतवान्, तस्मात्कालविशेषलाभात् वृद्ध्यै भवति यागः । किं च साक्षादव्यवधानेन वज्रं भ्रातृव्याय प्रहरति । अरुणपिशङ्गः अरुणमिश्रः पिशङ्गः, ‘वर्णो वर्णेष्वतेन’ इति व्यत्ययेन न प्रवर्त ते । एतद्वज्रस्य रूपम् । अश्वो दक्षिणा, समृद्ध्यै ॥

इति श्रीभट्टभास्करमिश्रविरचिते यजुर्वेदभाष्ये ज्ञानयज्ञाख्ये षष्ठकाण्डे षष्ठप्रश्ने एकादशोनुवाकः ॥

प्रपाठकः काण्डश्च समाप्तः ॥

ओम् ॥