४३ ४३

१० ...{Loading}...

मूलम् (संयुक्तम्)

दे॒वा वै प्र॒बाहु॒ग्ग्रहा॑नगृह्णत॒ स ए॒तम्प्र॒जाप॑तिरँ॒शुम॑पश्य॒त्तम॑गृह्णीत॒ तेन॒ वै स आ॑र्ध्नो॒द्यस्यै॒वव्ँवि॒दुषो॒ऽँ॒शुर्गृ॒ह्यत॑ ऋ॒ध्नोत्ये॒व

विश्वास-प्रस्तुतिः

दे॒वा वै प्र॒बाहु॒ग् ग्रहा॑नगृह्णत ।
स ए॒तम् प्र॒जाप॑तिरँ॒शुम् अ॑पश्यत् ।
तम॑गृह्णीत ।
तेन॒ वै स आ॑र्ध्नोत् ।
यस्यै॒वव्ँ वि॒दुषो॒ऽँ॒शुर् गृ॒ह्यत॑ ऋ॒ध्नोत्ये॒व ।

मूलम्

दे॒वा वै प्र॒बाहु॒ग् ग्रहा॑नगृह्णत ।
स ए॒तम् प्र॒जाप॑तिरँ॒शुम् अ॑पश्यत् ।
तम॑गृह्णीत ।
तेन॒ वै स आ॑र्ध्नोत् ।
यस्यै॒वव्ँ वि॒दुषो॒ऽँ॒शुर् गृ॒ह्यत॑ ऋ॒ध्नोत्ये॒व ।

भट्टभास्कर-टीका

1देवा वै प्रबाहुगिति ॥ प्रबाहुक् तुल्यस्वभावान् । प्रजापतिस्तु एतं वक्ष्यमाणमंशुग्रहं दृष्ट्वा तद्ग्रहणेन सर्वेभ्य ऋद्धोभवत् । यस्येवमित्यादि ॥ गतम् ॥

मूलम् (संयुक्तम्)

स॒कृद॑भिषुतस्य गृह्णाति स॒कृद्धि स तेनार्ध्नो॒न्मन॑सा गृह्णाति॒ मन॑ इव॒ हि प्र॒जाप॑तिᳶ प्र॒जाप॑ते॒राप्त्या॒ औदु॑म्बरेण गृह्णा॒त्यूर्ग्वा उ॑दु॒म्बर॒ ऊर्ज॑मे॒वाव॑ रुन्द्धे॒ चतु॑स्स्रक्ति भवति दि॒क्षु [36]
ए॒व प्रति॑ तिष्ठति॒ यो वा अँ॒शोरा॒यत॑नव्ँ॒वेदा॒यत॑नवान्भवति वामदे॒व्यमिति॒ साम॒ तद्वा अ॑स्या॒यत॑न॒म्मन॑सा॒ गाय॑मानो गृह्णात्या॒यत॑नवाने॒व भ॑वति॒

विश्वास-प्रस्तुतिः

स॒कृद॑भिषुतस्य गृह्णाति । स॒कृद्धि स तेनाऽर्ध्नो॑त्।
मन॑सा गृह्णाति । मन॑ इव॒ हि प्र॒जाप॑तिः ।
प्र॒जाप॑ते॒राप्त्यै॑ ।
औदु॑म्बरेण गृह्णाति । ऊर्ग्वा उ॑दु॒म्बरः॑ ।
ऊर्ज॑मे॒वाव॑ रुन्धे ।
चतु॑स् स्रक्ति भवति ।
दि॒क्षु ए॒व प्रति॑ तिष्ठति । [36]
यो वा अँ॒शोरा॒यत॑नव्ँ॒ वेदा॒यत॑नवान् भवति ।
वा॒म॒दे॒व्यम् इति॒ साम॒ , तद् वा अ॑स्या॒यत॑न॒म् मन॑सा॒ गाय॑मानो गृह्णाति ।
आ॒यत॑नवान् ए॒व भ॑वति ।

मूलम्

स॒कृद॑भिषुतस्य गृह्णाति । स॒कृद्धि स तेनाऽर्ध्नो॑त्।
मन॑सा गृह्णाति । मन॑ इव॒ हि प्र॒जाप॑तिः ।
प्र॒जाप॑ते॒राप्त्यै॑ ।
औदु॑म्बरेण गृह्णाति । ऊर्ग्वा उ॑दु॒म्बरः॑ ।
ऊर्ज॑मे॒वाव॑ रुन्धे ।
चतु॑स् स्रक्ति भवति ।
दि॒क्षु ए॒व प्रति॑ तिष्ठति । [36]
यो वा अँ॒शोरा॒यत॑नव्ँ॒ वेदा॒यत॑नवान् भवति ।
वा॒म॒दे॒व्यम् इति॒ साम॒ , तद् वा अ॑स्या॒यत॑न॒म् मन॑सा॒ गाय॑मानो गृह्णाति ।
आ॒यत॑नवान् ए॒व भ॑वति ।

भट्टभास्कर-टीका

2सकृदभिषुतस्येत्यादि ॥ अव्ययपर्वूपदप्रकृतिस्वरत्वम् । सकृद्धीति । एकप्रयोगेणैव स प्रजापतिस्तेन अंशुना ऋद्धोभवत् । ‘हि च’ इति निघाताभावे आट उदात्तत्वम् । मन इवेति । अव्यक्तात्मकत्वात्, सर्वगतत्वाद्वा । औदुम्बरेणेति । उदुम्बरविकारेण पात्रेण गृह्णाति । ’ अनुदात्तादेश्च ’ इत्यत् । ऊग्वा इति । तद्धेतुत्वात्ताच्छब्द्यम् । चतुस्स्रक्ति चतुष्कोणम् । यो वा अंशोरित्यादि । आयतनवान् ग्रहवान् । वामदेव्यं सामास्यायतनं स्थानं वामदेव्यस्य ऋचं ‘कया नश्चित्र आभुवत्’ इति मनसा गायन् गृह्णाति । वामदेवेन दृष्टं साम वामदेव्यम् । ‘वाम- देवाड्ड्यड्यौ’ ॥

मूलम् (संयुक्तम्)

यद॑ध्व॒र्युरँ॒शुङ्गृ॒ह्णन्नार्धये॑दु॒भाभ्या॒न्नर्ध्ये॑ताध्व॒र्यवे॑ च॒ यज॑मानाय च॒ यद॒र्धये॑दु॒भाभ्या॑मृध्ये॒त

विश्वास-प्रस्तुतिः

यद॑ध्व॒र्युर् अँ॒शुङ्गृ॒ह्णन्नार्धये॑द् उ॒भाभ्या॒न् नर्ध्ये॑ताध्व॒र्यवे॑ च॒ यज॑मानाय च।
यद॒र्धये॑द् उ॒भाभ्या॑मृध्येत ।

मूलम्

यद॑ध्व॒र्युर् अँ॒शुङ्गृ॒ह्णन्नार्धये॑द् उ॒भाभ्या॒न् नर्ध्ये॑ताध्व॒र्यवे॑ च॒ यज॑मानाय च।
यद॒र्धये॑द् उ॒भाभ्या॑मृध्येत ।

भट्टभास्कर-टीका

3यदध्वर्युरित्यादि ॥ यत् अध्वर्युरंशुं गृह्णन्नार्धयेत् ऋद्धिमन्तमंशुं न कुर्यात् सोंशुरुभाभ्यां नर्ध्येत ऋद्धिहेतुर्न स्यात् नाध्वर्यव एव ग्रहीत्रे । तर्हि कस्मा अन्यस्मा इत्याह - यजमानाय चेति । एवमुभाभ्यां नर्ध्येत । अथ यद्यर्धयेत् अंशुमध्वर्युः तदाऽप्युभाभ्यामृध्येत अध्वर्यवे च यजमानाय च । तस्मात् यथा ऋद्धिहेतुर्भवति तथा यतितव्यम् ॥

मूलम् (संयुक्तम्)

आन॑वानङ्गृह्णाति॒ सैवास्यर्द्धि॒र्हिर॑ण्यम॒भि व्य॑नित्य॒मृतव्ँ॒ वै हिर॑ण्य॒मायुᳶ॑ प्रा॒ण आयु॑षै॒वामृत॑म॒भि धि॑नोति श॒तमा॑नम्भवति श॒तायु॒ᳶ पुरु॑षश्श॒तेन्द्रि॑य॒ आयु॑ष्ये॒वेन्द्रि॒ये प्रति॑ तिष्ठति ॥ [37]

विश्वास-प्रस्तुतिः

आन॑वानङ् गृह्णाति॒ सैवास्यर्धिः॑ ।
हिर॑ण्यम॒भि व्य॑निति॑ ।
अ॒मृतव्ँ॒ वै हिर॑ण्य॒मायुᳶ॑ प्रा॒ण , आयु॑षै॒वामृत॑म॒भि धि॑नोति ।
श॒तमा॑नम् भवति ।
श॒तायु॒ᳶ पुरु॑षश् श॒तेन्द्रि॑यः ।
आयु॑ष्य् ए॒वेन्द्रि॒ये प्रति॑ तिष्ठति ॥ [37]

मूलम्

आन॑वानङ् गृह्णाति॒ सैवास्यर्धिः॑ ।
हिर॑ण्यम॒भि व्य॑निति॑ ।
अ॒मृतव्ँ॒ वै हिर॑ण्य॒मायुᳶ॑ प्रा॒ण , आयु॑षै॒वामृत॑म॒भि धि॑नोति ।
श॒तमा॑नम् भवति ।
श॒तायु॒ᳶ पुरु॑षश् श॒तेन्द्रि॑यः ।
आयु॑ष्य् ए॒वेन्द्रि॒ये प्रति॑ तिष्ठति ॥ [37]

भट्टभास्कर-टीका

4तत्कथमित्याह - अनवानमिति ॥ अनुच्छ्वासम् । सैवास्यांशोः ऋद्धिः । सेति ग्रहणमुच्यते । ऋद्ध्यपेक्षं स्त्रीत्वम् । हिरण्यमित्यादि । उपरिव्यननमभिव्यननम् । प्राण्यापान्य व्यनिति अमृतहेतुं हिरण्यं आयुरात्मना प्राणेन आभिमुख्येन प्रीणयति । शतमानमित्यादि । गतम् ॥

इति षष्ठे षष्ठे दशमोनुवाकः ॥