०९ ...{Loading}...
मूलम् (संयुक्तम्)
दे॒वा वै यद्य॒ज्ञेऽकु॑र्वत॒ तदसु॑रा अकुर्वत॒ ते दे॒वा अदा॑भ्ये॒ छन्दाँ॑सि॒ सव॑नानि॒ सम॑स्थापय॒न्ततो॑ दे॒वा अभ॑व॒न्परासु॑रा॒ यस्यै॒वव्ँवि॒दुषोऽदा॑भ्यो गृ॒ह्यते॒ भव॑त्या॒त्मना॒ परा॑स्य॒ भ्रातृ॑व्यो भवति॒
विश्वास-प्रस्तुतिः
दे॒वा वै यद् य॒ज्ञेऽकु॑र्वत॒ तदसु॑रा अकुर्वत ।
ते दे॒वा अदा॑भ्ये॒ छन्दाँ॑सि॒ सव॑नानि॒ सम॑स्थापयन् ।
ततो॑ दे॒वा अभ॑व॒न् पराऽसु॑राः ।
यस्यै॒वव्ँ वि॒दुषो ऽदा॑भ्यो गृ॒ह्यते॒ , भव॑त्या॒त्मना॒ , परा॑स्य॒ भ्रातृ॑व्यो भवति ।
मूलम्

भट्टभास्कर-टीका
1देवा वै यदित्यादि ॥ अदाम्ये ग्रहे छन्दांसि सवनानि च समस्थापयन् समापयन्देवाः । यस्मात् ‘वसवस्त्वा प्रवृहन्तु गायत्रेण छन्दसा’ इत्येवमादिभिः राज्ञस्त्रीनंशून्प्रवृहति तेनादाभ्य एव सर्वाणि संस्थापितवन्तो देवाः । ततस्तेन प्रयोगेण देवा अभवन् भूतिमन्तस्सपन्नाः । असुरास्तु तदज्ञानात्पराभूता विनष्टाः । यस्यैवामित्यादि । गतम् ॥
मूलम् (संयुक्तम्)
यद्वै दे॒वा असु॑रा॒नदा॑भ्ये॒नाद॑भ्नुव॒न्तददा॑भ्यस्यादाभ्य॒त्वय्ँय ए॒वव्ँ वेद॑ द॒भ्नोत्ये॒व भ्रातृ॑व्य॒न्नैन॒म्भ्रातृ॑व्यो दभ्नोति [34]
विश्वास-प्रस्तुतिः
यद्वै दे॒वा असु॑रा॒नदा॑भ्ये॒नाद॑भ्नुव॒न् , तददा॑भ्यस्यादाभ्य॒त्वम् ।
य ए॒वव्ँ वेद॑ द॒भ्नोत्ये॒व भ्रातृ॑व्य॒न् , नैन॒म् भ्रातृ॑व्यो दभ्नोति । [34]
मूलम्
यद्वै दे॒वा असु॑रा॒नदा॑भ्ये॒नाद॑भ्नुव॒न् , तददा॑भ्यस्यादाभ्य॒त्वम् ।
य ए॒वव्ँ वेद॑ द॒भ्नोत्ये॒व भ्रातृ॑व्य॒न् , नैन॒म् भ्रातृ॑व्यो दभ्नोति । [34]
भट्टभास्कर-टीका
2यद्वा इत्यादि ॥ अदाभ्येन केनापि हिंसितुमशक्येन अनेनासुरानदभ्नुवन् देवाः हिंसितवन्तः । तस्माददम्भनीयत्वाददाभ्यः । यद्वा - दम्भनीया अनेन देवा अभवन्नित्यदाम्यः, दभि प्रकृत्यन्तरमस्तीत्याहुः, ततो “दभेश्चेति वक्तव्यं” इति केचिदाहुः । अवधारणे नकारः, दभ्नुवन्त्येवानेनेत्यदाम्य इति । य एवं वेदेत्यादि । गतम् ॥
मूलम् (संयुक्तम्)
ए॒षा वै प्र॒जाप॑तेरतिमो॒क्षिणी॒ नाम॑ त॒नूर्यददा॑भ्य॒ उप॑नद्धस्य गृह्णा॒त्यति॑मुक्त्या॒ अति॑ पा॒प्मान॒म्भ्रातृ॑व्यम्मुच्यते॒ य ए॒वव्ँ वेद॒ घ्नन्ति॒ वा ए॒तत्सोमय्ँ॒यद॑भिषु॒ण्वन्ति॒ सोमे॑ ह॒न्यमा॑ने य॒ज्ञो ह॑न्यते य॒ज्ञे यज॑मानो
विश्वास-प्रस्तुतिः
ए॒षा वै प्र॒जाप॑तेरतिमो॒क्षिणी॒ नाम॑ त॒नूर् यददा॑भ्य ।
उप॑नद्धस्य गृह्णा॒त्य् अति॑मुक्त्यै ।
अति॑ पा॒प्मान॒म् भ्रातृ॑व्यम् मुच्यते॒ य ए॒वव्ँ वेद ।
घ्नन्ति॒ वा ए॒तत् सोमय्ँ॒ यद॑भिषु॒ण्वन्ति॑ ।
सोमे॑ ह॒न्यमा॑ने य॒ज्ञो ह॑न्यते , य॒ज्ञे यज॑मानः ।

3एषा वा इत्यादि ॥ अत्यन्तं मोक्षः अतिमोक्षः पाप्मानम् । अतीत्य पापानि ससारबन्धनादीनि वा पुंसा मोक्षोतिमोक्षः, तद्वती तत्समर्था । प्रजापतेर्यज्ञात्मनस्तत्र शरीरमदाभ्यो नाम । तस्मादुपनद्धस्य बद्धस्य राज्ञः प्राग्बन्धनमोचनात् गृह्णात्यदाभ्यं, तदतिमुक्त्यै भवति पाप्मनः । एवं वेदिता च पाप्मानं भ्रातृव्यमतीत्य मुक्तो भवति किं पुनः कर्ता । घ्नन्ति वा इत्यादि । गतम् ॥
मूलम् (संयुक्तम्)
ब्रह्मवा॒दिनो॑ वदन्ति॒ किन्तद्य॒ज्ञे यज॑मानᳵ कुरुते॒ येन॒ जीव॑न्त्सुव॒र्गल्ँ लो॒कमेतीति॑ जीवग्र॒हो वा ए॒ष यददा॒भ्योऽन॑भिषुतस्य गृह्णाति॒ जीव॑न्तमे॒वैनँ॑ सुव॒र्गल्ँ लो॒कङ्ग॑मयति॒
विश्वास-प्रस्तुतिः
ब्र॒ह्म॒वा॒दिनो॑ वदन्ति॒ -
“किन् तद् य॒ज्ञे यज॑मानᳵ कुरुते॒ , येन॒ जीव॑न्त् सुव॒र्गल्ँ लो॒कमेति”+ इति॑ ।
जी॒व॒ग्र॒हो वा ए॒ष यददा॒भ्यो ऽन॑भिषुतस्य गृह्णाति ।
जीव॑न्तमे॒वैनँ॑ सुव॒र्गल्ँ लो॒कङ् ग॑मयति ।

4ब्रह्मवादिन इत्यादि ॥ जीवन्नेव सशरीर एव यजमानः स्वर्गं यथा गच्छेदिति जीवग्रहोयं गृह्यते । जीवत् ग्रहो जीवग्रहः । तत्पुनः कथमित्याह - अनभिषुतस्येत्यादि । गतम् ॥
मूलम् (संयुक्तम्)
वि वा ए॒तद्य॒ज्ञञ्छि॑न्दन्ति॒ यददा॑भ्ये सँस्था॒पय॑न्त्यँ॒शूनपि॑ सृजति य॒ज्ञस्य॒ सन्त॑त्यै ॥ [35]
विश्वास-प्रस्तुतिः
वि वा ए॒तद्य॒ज्ञञ्छि॑न्दन्ति॒ यददा॑भ्ये सँस्था॒पय॑न्ति ।
अँ॒शूनपि॑ सृजति य॒ज्ञस्य॒ सन्त॑त्यै ॥ [35]
मूलम्
वि वा ए॒तद्य॒ज्ञञ्छि॑न्दन्ति॒ यददा॑भ्ये सँस्था॒पय॑न्ति ।
अँ॒शूनपि॑ सृजति य॒ज्ञस्य॒ सन्त॑त्यै ॥ [35]
भट्टभास्कर-टीका
5वि वा इत्यादि ॥ यज्ञस्यायं विच्छेदः अदाभ्ये समापनं नाम । ततश्च यज्ञविच्छेदे यजमानोपि हन्यते इति स एव दोष इत्यत आह - अंशूनित्यादि । अदाभ्यांशून्प्रज्ञातान्निधाय प्रतिसवनं महाभिषवेष्वपिसृजति । तद्यज्ञस्य सन्तत्यै अविच्छेदाय भवति ॥
इति षष्ठे षष्ठे नवमोनुवाकः ॥