४१ ४१

०८ ...{Loading}...

मूलम् (संयुक्तम्)

दे॒वा वा इ॑न्द्रि॒यव्ँवी॒र्यं  व्य॑भजन्त॒ ततो॒ यद॒त्यशि॑ष्यत॒ तद॑तिग्रा॒ह्या॑ अभव॒न्तद॑तिग्रा॒ह्या॑णामतिग्राह्य॒त्वय्ँयद॑तिग्रा॒ह्या॑ गृ॒ह्यन्त॑ इन्द्रि॒यमे॒व तद्वी॒र्यय्ँ॑यज॑मान आ॒त्मन्ध॑त्ते॒ तेज॑ आग्ने॒येने॑न्द्रि॒यमै॒न्द्रेण॑ ब्रह्मवर्च॒सँ सौ॒र्येण

विश्वास-प्रस्तुतिः

दे॒वा वा इ॑न्द्रि॒यव्ँ वी॒र्यं  व्य॑भजन्त ।
ततो॒ यद॒त्यशि॑ष्यत॒ तद॑तिग्रा॒ह्या॑ अभवन् ।
तद॑तिग्रा॒ह्या॑णामतिग्राह्य॒त्वम् ।
यद॑तिग्रा॒ह्या॑ गृ॒ह्यन्त॑ ,इन्द्रि॒यमे॒व तद्वी॒र्यय्ँ॑ यज॑मान आ॒त्मन् ध॑त्ते ।
तेज॑ आग्ने॒येने॑न्द्रि॒यम् ऐ॒न्द्रेण॑ ब्रह्मवर्च॒सँ सौ॒र्येण॑ ।

मूलम्

भट्टभास्कर-टीका

1देवा वा इन्द्रियमित्यादि ॥ इन्द्रियं च वीर्यं चात्मीयं व्यभजन्त देवाः । ततो विभक्तात् यदत्यशिष्यत अतिशिष्टमभूत् विभक्तुमशक्यं तदतिग्राह्या ग्रहा अभवन् । तस्मात्तेषामतिग्राह्यत्वम् । अतिशिष्टेन ग्रहणादतिग्राह्याः । तस्मादतिग्राह्याणां ग्रहणेन इन्द्रियं वीर्यं च यजमान आत्मनि धत्ते । तत्क्रममाह - तेन इत्यादि । गतम् ॥

मूलम् (संयुक्तम्)

उ॑प॒स्तम्भ॑नव्ँ॒वा ए॒तद्य॒ज्ञस्य॒ यद॑तिग्रा॒ह्या॑श्च॒क्रे पृ॒ष्ठानि॒ यत्पृष्ठ्ये॒ न गृ॑ह्णी॒यात्प्राञ्चय्ँ॑ य॒ज्ञम्पृ॒ष्ठानि॒ सँ शृ॑णीयु॒र्यदु॒क्थ्ये॑ [30]
गृ॒ह्णी॒यात्प्र॒त्यञ्चय्ँ॑ य॒ज्ञम॑तिग्रा॒ह्याः॑ सँ शृ॑णीयुर्विश्व॒जिति॒ सर्व॑पृष्ठे ग्रहीत॒व्या॑ य॒ज्ञस्य॑ सवीर्य॒त्वाय॑

विश्वास-प्रस्तुतिः

उ॒प॒स्तम्भ॑नव्ँ॒ वा ए॒तद् य॒ज्ञस्य॒ , यद॑तिग्रा॒ह्या॑श् च॒क्रे पृ॒ष्ठानि॑ ।
यत् पृष्ठ्ये॒ न गृ॑ह्णी॒यात् प्राञ्चय्ँ॑ , य॒ज्ञम् पृ॒ष्ठानि॒ सँ शृ॑णीयुः ।
यदु॒क्थ्ये॑ गृ॒ह्णी॒यात् प्र॒त्यञ्चय्ँ॑ , य॒ज्ञम॑तिग्रा॒ह्याः॑ सँ शृ॑णीयुः । [30]
वि॒श्व॒जिति॒ सर्व॑पृष्ठे ग्रहीत॒व्या॑ य॒ज्ञस्य॑ सवीर्य॒त्वाय॑ ।

2उपस्तम्भनमित्यादि ॥ उत्तम्भनकाष्ठमुपस्तम्भनम् । तत्स्थानीया अतिग्राह्याः । चक्रे चक्रस्थानीयानि पृष्ठानि सामानि यज्ञस्य रथस्य । तस्माद्यदि पृष्ठ्ये षडहे अतिग्राह्यान्न गृह्णीयात् तानि पृष्ठानि प्राञ्चं संशृणीयुः प्राग्भागवर्तिनं यज्ञं कुर्युः , उत्तम्भनाभावात् । संशरणं हिंसा । शॄ हिंसायाम्, क्रैयादिकः, ष्वादित्वाद्ध्रस्वत्वम् । अथ यदुक्थ्ये यज्ञे अतिग्राह्यान् गृह्णीयात्, तानि पृष्ठानि अतिग्राह्या यज्ञं तं प्रत्यञ्चं संशृणीयुः प्रत्यङ् पातयित्वा हिंस्युः अस्थानोत्तम्भनानीव पटलमापातयेयुः । विश्वजितीत्यादि । गतम् ॥

मूलम् (संयुक्तम्)

प्र॒जाप॑तिर्दे॒वेभ्यो॑ य॒ज्ञान्व्यादि॑श॒त्स प्रि॒यास्त॒नूरप॒ न्य॑धत्त॒ तद॑तिग्रा॒ह्या॑ अभव॒न्वित॑नु॒स्तस्य॑ य॒ज्ञ इत्या॑हु॒र्यस्या॑तिग्रा॒ह्या॑ न गृ॒ह्यन्त॒ इत्यप्य॑ग्निष्टो॒मे ग्र॑हीत॒व्या॑ य॒ज्ञस्य॑ सतनु॒त्वाय॑

विश्वास-प्रस्तुतिः

प्र॒जाप॑तिर्दे॒वेभ्यो॑ य॒ज्ञान् व्यादि॑शत् ।
स प्रि॒यास् त॒नूरप॒ न्य॑धत्त ।
तद॑तिग्रा॒ह्या॑ अभवन् ।
वित॑नु॒स् तस्य॑ य॒ज्ञ इत्या॑हु॒र् यस्या॑तिग्रा॒ह्या॑ न गृ॒ह्यन्त॒ इति॑ ।
अप्य॑ग्निष्टो॒मे ग्र॑हीत॒व्या॑ य॒ज्ञस्य॑ सतनु॒त्वाय॑ ।

3प्रजापतिर्देवेभ्य इत्यादि ॥ आदेशनं पृथक्पृथक् दानम् । यज्ञस्य प्रियास्तनूश्शरीराणि अपन्यधत्त अपनीय निभृतं स्थापितवान् । तदतिग्राह्यत्वेन संपन्नम् । तस्मादतिग्राह्याग्रहणे वितनुर्यज्ञस्स्यादित्याहुर्ब्रह्मवादिनः । तस्मादग्निष्टोमेऽप्यतिग्राह्या ग्रहीतव्या यज्ञस्य सतनुत्वलाभाय ॥

मूलम् (संयुक्तम्)

दे॒वता॒ वै सर्वाः॑ स॒दृशी॑रास॒न्ता न व्या॒वृत॑मगच्छ॒न्ते दे॒वाः [31]
ए॒त ए॒तान्ग्रहा॑नपश्य॒न्तान॑गृह्णताग्ने॒यम॒ग्निरै॒न्द्रमिन्द्र॑स्सौ॒र्यँ सूर्य॒स्ततो॒ वै ते॑ऽन्याभि॑र्दे॒वता॑भिर्व्या॒वृत॑मगच्छ॒न्यस्यै॒वव्ँवि॒दुष॑ ए॒ते ग्रहा॑ गृ॒ह्यन्ते॑ व्या॒वृत॑मे॒व पा॒प्मना॒ भ्रातृ॑व्येण गच्छती॒

विश्वास-प्रस्तुतिः

दे॒वता॒ वै सर्वाः॑ स॒दृशी॑रासन् ।
ता न व्या॒वृत॑मगच्छन् ।
ते दे॒वा ए॒त ए॒तान् ग्रहा॑नपश्यन् ।[31]
तान॑गृह्णत ।
आ॒ग्ने॒यम् अ॒ग्निर् , ऐ॒न्द्रमिन्द्र॑स् , सौ॒र्यँ सूर्यः ।
ततो॒ वै ते॑ऽन्याभि॑र् दे॒वता॑भिर् व्या॒वृत॑मगच्छन् ।
यस्यै॒वव्ँ वि॒दुष॑ ए॒ते ग्रहा॑ गृ॒ह्यन्ते॑ , व्या॒वृत॑मे॒व पा॒प्मना॒ भ्रातृ॑व्येण गच्छति ।

4देवता वा इत्यादि ॥ व्यावृत्तिः व्यावृत् । सर्वास्सदृश्यः तुल्यैश्वर्या आसन् देवताः । तत्रैते अग्न्यादयः अतिग्राह्यानाग्नेयादीन् गृहीत्वा अन्याभिर्देवताभिर्व्यावृत्तिं गताः । यस्यैवं विदुष इत्यादि । गतम् ॥

मूलम् (संयुक्तम्)

इमे लो॒का ज्योति॑ष्मन्तस्स॒माव॑द्वीर्याᳵ का॒र्या॑ इत्या॑हुराग्ने॒येना॒स्मिल्ँ लो॒के ज्योति॑र्धत्त ऐ॒न्द्रेणा॒न्तरि॑क्ष इन्द्रवा॒यू हि स॒युजौ॑ सौ॒र्येणा॒मुष्मिल्ँ॑ लो॒के [32]
ज्योति॑र्धत्ते॒ ज्योति॑ष्मन्तोऽस्मा इ॒मे लो॒का भ॑वन्ति स॒माव॑द्वीर्यानेनान्कुरुत

विश्वास-प्रस्तुतिः

इमे लो॒का ज्योति॑ष्मन्तस् स॒माव॑द्वीर्याᳵ का॒र्या॑ इत्या॑हुः ।
आ॒ग्ने॒येना॒स्मिल्ँ लो॒के ज्योति॑र्धत्त , ऐ॒न्द्रेणा॒न्तरि॑क्षे ।
इ॒न्द्रवा॒यू हि स॒युजौ॑ ।
सौ॒र्येणा॒मुष्मिल्ँ॑ लो॒के ज्योति॑र् धत्ते ।[32]
ज्योति॑ष्मन्तोऽस्मा इ॒मे लो॒का भ॑वन्ति , स॒माव॑द्वीर्यान् एनान् कुरुते ।

5इमे लोका इत्यादि ॥ इमे पृथिव्यादयो लोकाः ज्योतिष्मन्तः प्रकाशवन्तः समावद्वीर्यास्तुल्यवीर्याश्च कार्या इत्याहुर्ब्रह्मवादिनः । समादावतुप् स्वार्थिकः । तत्कथमित्याह - आग्नेयेनेत्यादि । ननु वायोरन्तरिक्षं नेन्द्रस्य, कथमैन्द्रेणान्तरिक्षे ज्योतिस्स्यात् इत्याह - इन्द्रवायू हि सयुजौ सहचारिणौ, ऐन्द्रवायवादिषु दर्शनात् । तस्माद्वायुस्थानस्याप्यन्तरिक्षस्य ऐन्द्रेण ज्योतिष्मत्त्वमिति । गतमन्यत् ॥

मूलम् (संयुक्तम्)

ए॒तान्वै ग्रहा॑न्ब॒म्बावि॒श्वव॑यसाववित्ता॒म्ताभ्या॑मि॒मे लो॒काᳶ परा॑ञ्चश्चा॒र्वाञ्च॑श्च॒ प्राभु॒र्यस्यै॒वव्ँवि॒दुष॑ ए॒ते ग्रहा॑ गृ॒ह्यन्ते॒ प्रास्मा॑ इ॒मे लो॒काᳶ परा॑ञ्चश्चा॒र्वाञ्च॑श्च भान्ति ॥ [33]

विश्वास-प्रस्तुतिः

ए॒तान्वै ग्रहा॑न् ब॒म्बावि॒श्वव॑यसाववित्ताम् ।
ताभ्या॑मि॒मे लो॒काᳶ परा॑ञ्चश् चा॒र्वाञ्च॑श् च॒ प्राभुः॑ ।
यस्यै॒वव्ँ वि॒दुष॑ ए॒ते ग्रहा॑ गृ॒ह्यन्ते॒ , प्रास्मा॑ इ॒मे लो॒काᳶ परा॑ञ्चश् चा॒र्वाञ्च॑श् च भान्ति ॥ [33]

6एतान् वा इत्यादि ॥ बम्बश्च विश्ववयाश्च । ‘देवताद्वन्द्वे च’ इत्यानञ्, पूर्वोत्तरपदयोर्युगपत्प्रकृतिस्वरत्वं च । अवित्तां अजानीताम्, अलभेतां वा । विदेर्व्यत्ययेन विकरणस्य लुक् । ताभ्यामित्यादि । पराञ्चश्चार्वाञ्चश्च उपर्यधश्चेमे लोकाः प्राभुः प्रकाशन्ते स्म । यस्यैवमित्यादि । गतम् ॥

इति षष्ठे षष्ठे अष्टमोनुवाकः ॥