३९ ३९

०६ ...{Loading}...

मूलम् (संयुक्तम्)

इन्द्र॒ᳶ पत्नि॑या॒ मनु॑मयाजय॒त्ताम्पर्य॑ग्निकृता॒मुद॑सृज॒त्तया॒ मनु॑रार्ध्नो॒द्यत्पर्य॑ग्निकृतम्पात्नीव॒तमु॑त्सृ॒जति॒ यामे॒व मनु॒र्ऋद्धि॒मार्ध्नो॒त्तामे॒व यज॑मान ऋध्नोति

विश्वास-प्रस्तुतिः

इन्द्र॒ᳶ पत्नि॑या॒ मनु॑मयाजय॒त् , ताम् पर्य॑ग्निकृता॒मुद॑सृजत् ।
तया॒ मनु॑रार्ध्नो॒द् यत् पर्य॑ग्निकृतम् पात्नीव॒तमु॑त्सृ॒जति॑ ।
यामे॒व मनु॒र्ऋद्धि॒मार्ध्नो॒त् , तामे॒व यज॑मान ऋध्नोति ।

मूलम्

इन्द्र॒ᳶ पत्नि॑या॒ मनु॑मयाजय॒त् , ताम् पर्य॑ग्निकृता॒मुद॑सृजत् ।
तया॒ मनु॑रार्ध्नो॒द् यत् पर्य॑ग्निकृतम् पात्नीव॒तमु॑त्सृ॒जति॑ ।
यामे॒व मनु॒र्ऋद्धि॒मार्ध्नो॒त् , तामे॒व यज॑मान ऋध्नोति ।

भट्टभास्कर-टीका

1इन्द्रः पत्निया मनुमित्यादि ॥ अत्र शाखान्तरे पठ्यते - ‘पात्नीवते यूपे त्वाष्ट्रं साण्डं छागमुपाकरोति’ इति । तदत्र पत्नीसंयाजोत्तरकालभाविपत्नीसम्बन्धनिमित्तकः पत्नीशब्दः पात्नीवते यूपे वर्तते यथा अग्रेण शालामुखीयं पात्नीवतं मिनोतीति तत्संबन्धात्तस्मिन्योजनीयः पशुरपि पत्नीत्युच्यते, मतुपो वाऽभेदोपचाराद्वाऽयमर्थः । पात्नीवतयूपोपाकरणीयेन त्वाष्ट्रोण पशुना इन्द्रो मनुमयाजयत् । अथ तां पत्नीं पात्नीवतसंबन्धिनं त्वाष्ट्रं पशुं पर्यग्निकरणानन्तरमुदसृजत् असमाप्तमेव कर्म तदन्तमुत्सृष्टवान् । मनुश्च तेन प्रयोगेण ऋद्धिं गतः । यदित्यादि । पात्नीवतमिति संप्रति मतुपा निर्दिशति यूपम् । ‘छन्दसीरः’ इति मतुपो वत्वम् । तत्संबन्धी पशुः पात्नीवतः । ऋद्धिमार्ध्नोदिति । सामान्यविशेषभावेन नेयम् ॥

मूलम् (संयुक्तम्)

य॒ज्ञस्य॒ वा अप्र॑तिष्ठिताद्य॒ज्ञᳶ परा॑ भवति य॒ज्ञम्प॑रा॒भव॑न्तय्ँ॒यज॑मा॒नोऽनु॒ परा॑ भवति॒ यदाज्ये॑न पात्नीव॒तँ सँ॑स्था॒पय॑ति य॒ज्ञस्य॒ प्रति॑ष्ठित्यै य॒ज्ञम्प्र॑ति॒तिष्ठ॑न्तय्ँ॒यज॑मा॒नोऽनु॒ प्रति॑ तिष्ठती

विश्वास-प्रस्तुतिः

य॒ज्ञस्य॒ वा अप्र॑तिष्ठिताद्य॒ज्ञᳶ परा॑ भवति ।
य॒ज्ञम् प॑रा॒भव॑न्तय्ँ॒ यज॑मा॒नोऽनु॒ परा॑ भवति ।
यदाज्ये॑न पात्नीव॒तँ सँ॑स्था॒पय॑ति , य॒ज्ञस्य॒ प्रति॑ष्ठित्यै ।
य॒ज्ञम् प्र॑ति॒तिष्ठ॑न्तय्ँ॒ यज॑मा॒नोऽनु॒ प्रति॑ तिष्ठति ।

मूलम्

य॒ज्ञस्य॒ वा अप्र॑तिष्ठिताद्य॒ज्ञᳶ परा॑ भवति ।
य॒ज्ञम् प॑रा॒भव॑न्तय्ँ॒ यज॑मा॒नोऽनु॒ परा॑ भवति ।
यदाज्ये॑न पात्नीव॒तँ सँ॑स्था॒पय॑ति , य॒ज्ञस्य॒ प्रति॑ष्ठित्यै ।
य॒ज्ञम् प्र॑ति॒तिष्ठ॑न्तय्ँ॒ यज॑मा॒नोऽनु॒ प्रति॑ तिष्ठति ।

भट्टभास्कर-टीका

2यज्ञस्य वा इत्यादि ॥ अप्रतिष्ठितात् । अप्रतिष्ठितं भावे निष्ठा, असमाप्तिः । अप्रतिष्ठिताद्यज्ञस्य यज्ञावयवस्यासमाप्तत्वेन हेतुना यज्ञोवयवी पराभवति विनश्यति । यद्वा - यज्ञस्य वा अप्रतिष्ठितावयवात् यज्ञः पराभवति । यज्ञं च पराभवन्तं विनश्यन्तं अनु हेतुं कृत्वा यजमानः पराभवति । हेतावनोः कर्म प्रवचनीयत्वम् । समाधत्ते - यदाज्येनेत्यादि । पशुमुत्सृज्य आज्येन शेषं कर्मणस्संस्थापयेत् । यावन्ति पशोरवदानानि स्युः तावत्कृत्व आज्यस्यावद्येदिति केचित् । कर्मोत्सर्गादाज्येन कमार्न्तरं कुर्यादित्यन्ये ॥

मूलम् (संयुक्तम्)

इ॒ष्टव्ँव॒पया॑ [24]
भव॒त्यनि॑ष्टव्ँव॒शयाऽथ॑ पात्नीव॒तेन॒ प्र च॑रति ती॒र्थ ए॒व प्र च॑र॒त्यथो॑ ए॒तर्ह्ये॒वास्य॒ याम॑स्त्वा॒ष्ट्रो भ॑वति॒ त्वष्टा॒ वै रेत॑सस्सि॒क्तस्य॑ रू॒पाणि॒ वि क॑रोति॒ तमे॒व वृ॑षाण॒म्पत्नी॒ष्वपि॑ सृजति॒ सो॑ऽस्मै रू॒पाणि॒ वि क॑रोति ॥ [25]

विश्वास-प्रस्तुतिः

इ॒ष्टव्ँ व॒पया॑ भव॒त्य् अनि॑ष्टव्ँ व॒शया , ऽथ॑ पात्नीव॒तेन॒ प्र च॑रति ।[24]
ती॒र्थ ए॒व प्र च॑रति ।
अथो॑ ए॒तर्ह्ये॒वास्य॒ यामः॑ ।
त्वा॒ष्ट्रो भ॑वति॒ । त्वष्टा॒ वै रेत॑सस् सि॒क्तस्य॑ रू॒पाणि॒ वि क॑रोति ।
तमे॒व वृ॑षाण॒म् पत्नी॒ष्वपि॑ सृजति॒ ।
सो॑ऽस्मै रू॒पाणि॒ वि क॑रोति ॥ [25]

मूलम्

इ॒ष्टव्ँ व॒पया॑ भव॒त्य् अनि॑ष्टव्ँ व॒शया , ऽथ॑ पात्नीव॒तेन॒ प्र च॑रति ।[24]
ती॒र्थ ए॒व प्र च॑रति ।
अथो॑ ए॒तर्ह्ये॒वास्य॒ यामः॑ ।
त्वा॒ष्ट्रो भ॑वति॒ । त्वष्टा॒ वै रेत॑सस् सि॒क्तस्य॑ रू॒पाणि॒ वि क॑रोति ।
तमे॒व वृ॑षाण॒म् पत्नी॒ष्वपि॑ सृजति॒ ।
सो॑ऽस्मै रू॒पाणि॒ वि क॑रोति ॥ [25]

भट्टभास्कर-टीका

3इष्टं वपयेत्यादि ॥ यदाऽनूबन्ध्या वपा हुता भवति वशया चानूबन्ध्या हविषा अनिष्टं भवति अथ तस्मिन् काले पात्नीवतेन प्रचरति करोति । एवं कुर्वन् तीर्थे स्थान एव प्रचरति । अथो अपिच एतर्हि एतस्मिन्नेव काले अस्य कर्मणस्संबन्धिनां पुरोडाशहविषा यामः उपरमः अतोऽप्यन्यस्मिन्काले युक्तोस्य प्रचारः । त्वाष्ट्र इत्यादि । गतम् । वृषाणं वर्षितारं पत्नीष्वपिसृजति अनुप्रवेशयति । स चास्मै यजमानाय रूपाणि विकरोति विविधान्युत्पादयति । ऋद्धिमान् भवति ॥

इति षष्ठे षष्ठे षष्ठः ॥