०५ ...{Loading}...
मूलम् (संयुक्तम्)
प्र॒जाप॑तिᳶ प्र॒जा अ॑सृजत॒ स रि॑रिचा॒नो॑ऽमन्यत॒ स ए॒तामे॑काद॒शिनी॑मपश्य॒त्तया॒ वै स आयु॑रिन्द्रि॒यव्ँवी॒र्य॑मा॒त्मन्न॑धत्त प्र॒जा इ॑व॒ खलु॒ वा ए॒ष सृ॑जते॒ यो यज॑ते॒ स ए॒तर्हि॑ रिरिचा॒न इ॑व॒ यदे॒षैका॑द॒शिनी॒ भव॒त्यायु॑रे॒व तये॑न्द्रि॒यव्ँवी॒र्यय्ँ॑यज॑मान आ॒त्मन्ध॑त्ते॒
विश्वास-प्रस्तुतिः
प्र॒जाप॑तिᳶ प्र॒जा अ॑सृजत ।
स रि॑रिचा॒नो॑ ऽमन्यत ।
स ए॒ताम् ए॑काद॒शिनी॑मपश्यत् ।
तया॒ वै स आयु॑रिन्द्रि॒यम् ।
वी॒र्य॑मा॒त्मन्न॑धत्त , प्र॒जा इ॑व॒ खलु॒ वा ए॒ष सृ॑जते ।
यो यज॑ते॒ स ए॒तर्हि॑ रिरिचा॒न इ॑व॒ यदे॒षैका॑द॒शिनी॒ भव॑ति ।
आयु॑र् ए॒व तये॑न्द्रि॒यव्ँ वी॒र्यय्ँ॑ यज॑मान आ॒त्मन्ध॑त्ते ।
मूलम्
प्र॒जाप॑तिᳶ प्र॒जा अ॑सृजत ।
स रि॑रिचा॒नो॑ ऽमन्यत ।
स ए॒ताम् ए॑काद॒शिनी॑मपश्यत् ।
तया॒ वै स आयु॑रिन्द्रि॒यम् ।
वी॒र्य॑मा॒त्मन्न॑धत्त , प्र॒जा इ॑व॒ खलु॒ वा ए॒ष सृ॑जते ।
यो यज॑ते॒ स ए॒तर्हि॑ रिरिचा॒न इ॑व॒ यदे॒षैका॑द॒शिनी॒ भव॑ति ।
आयु॑र् ए॒व तये॑न्द्रि॒यव्ँ वी॒र्यय्ँ॑ यज॑मान आ॒त्मन्ध॑त्ते ।
भट्टभास्कर-टीका
1प्रजापतिरित्यादि ॥ प्रजासृष्ट्यनन्तरं रिरिचानः आयुरादिना रिक्तवानहमित्यमन्यत प्रजापतिः । स एतामित्यादि । गतम् । आयुरादित्रयमात्मनि स्थापयामास । प्रजा इवेत्यादि । सृष्ट्यात्मना प्रजास्सृजति यो यजमानः तस्मात्सोस्मिन्काले रिरिचान इव भवतीत्याह - यदेषेत्यादि । ‘इदमोर्हिल्’, ‘एतेतौ रथोः’ ॥
मूलम् (संयुक्तम्)
प्रैवाग्ने॒येन॑ वापयति मिथु॒नँ सा॑रस्व॒त्या क॑रोति॒ रेतः॑ [20]
सौ॒म्येन॑ दधाति॒ प्र ज॑नयति पौ॒ष्णेन॑ बार्हस्प॒त्यो भ॑वति॒ ब्रह्म॒ वै दे॒वाना॒म्बृह॒स्पति॒र्ब्रह्म॑णै॒वास्मै॑ प्र॒जाᳶ प्र ज॑नयति वैश्वदे॒वो भ॑वति वैश्वदे॒व्यो॑ वै प्र॒जाᳶ प्र॒जा ए॒वास्मै॒ प्र ज॑नयतीन्द्रि॒यमे॒वैन्द्रेणाव॑रुन्द्धे॒ विश॑म्मारु॒तेनौजो॒ बल॑मैन्द्रा॒ग्नेन॑ प्रस॒वाय॑ सावि॒त्रो नि॑र्वरुण॒त्वाय॑
विश्वास-प्रस्तुतिः
प्रैवाग्ने॒येन॑ वापयति । मिथु॒नँ सा॑रस्व॒त्या क॑रोति ।
रेत॑स् सौ॒म्येन॑ दधाति॒ प्र ज॑नयति ।[20]
पौ॒ष्णेन॑ बार्हस्प॒त्यो भ॑वति ।
ब्रह्म॒ वै दे॒वाना॒म् बृह॒स्पतिः॑ ।
ब्रह्म॑णै॒वास्मै॑ प्र॒जाᳶ प्र ज॑नयति ।
वै॒श्व॒दे॒वो भ॑वति । वै॒श्व॒दे॒व्यो॑ वै प्र॒जाः ।
प्र॒जा ए॒वास्मै॒ प्र ज॑नयति ।
इ॒न्द्रि॒यमे॒वैन्द्रेणाव॑रुन्धे ।
विश॑म् मारु॒तेनौजो॒ बल॑मैन्द्रा॒ग्नेन॑ प्रस॒वाय॑ ।
सा॒वि॒त्रो नि॑र्वरुण॒त्वाय॑ ।
मूलम्
प्रैवाग्ने॒येन॑ वापयति । मिथु॒नँ सा॑रस्व॒त्या क॑रोति ।
रेत॑स् सौ॒म्येन॑ दधाति॒ प्र ज॑नयति ।[20]
पौ॒ष्णेन॑ बार्हस्प॒त्यो भ॑वति ।
ब्रह्म॒ वै दे॒वाना॒म् बृह॒स्पतिः॑ ।
ब्रह्म॑णै॒वास्मै॑ प्र॒जाᳶ प्र ज॑नयति ।
वै॒श्व॒दे॒वो भ॑वति । वै॒श्व॒दे॒व्यो॑ वै प्र॒जाः ।
प्र॒जा ए॒वास्मै॒ प्र ज॑नयति ।
इ॒न्द्रि॒यमे॒वैन्द्रेणाव॑रुन्धे ।
विश॑म् मारु॒तेनौजो॒ बल॑मैन्द्रा॒ग्नेन॑ प्रस॒वाय॑ ।
सा॒वि॒त्रो नि॑र्वरुण॒त्वाय॑ ।
भट्टभास्कर-टीका
2आग्नेयेन प्रवापयति बीजमग्निष्ठे उपाकृतेन । सारस्वत्या मेष्या अग्निष्ठादुत्तरत उपाकृतया मिथुनं करोति स्त्रीपुंसयोगमुत्पादयति । सौम्येन अग्निष्ठाद्दक्षिणत उपाकृतेन रेतो दधाति स्त्रियाम् । एवं व्यत्यासात् दक्षिणापवर्गान् पशूनुपाकरोति वारुणमन्ततो दक्षिणत उदञ्चम् । पौष्णेन प्रजाः प्रजनयति । बार्हस्पत्येन साक्षाद्ग्रह्मण एव प्रजा उत्पादिता भवन्ति । वैश्वदेवीनां प्रजानां प्रजननाय वैश्वदेवो भवति । ऐन्द्रेणेन्द्रियावरोधः । मारुतेन विशं जनपदमवरुन्धे । ऐन्द्राग्नेन ओजो बलमवरुन्धे । सावित्रः प्रसवाय ऐश्वर्याय अनुज्ञानाय वा । वारुणो निर्वरुणत्वाय वरुणपाशविमोचनाय ॥
मूलम् (संयुक्तम्)
वारु॒णो म॑ध्य॒त ऐ॒न्द्रमा ल॑भते मध्य॒त ए॒वेन्द्रि॒यय्ँयज॑माने दधाति [21]
पु॒रस्ता॑दै॒न्द्रस्य॑ वैश्वदे॒वमाल॑भते वैश्वदे॒वव्ँ वा अन्न॒मन्न॑मे॒व पु॒रस्ता॑द्धत्ते॒ तस्मा॑त्पु॒रस्ता॒दन्न॑मद्यत ऐ॒न्द्रमा॒लभ्य॑ मारु॒तमा ल॑भते॒ विड्वै म॒रुतो॒ विश॑मे॒वास्मा॒ अनु॑ बध्नाति॒
विश्वास-प्रस्तुतिः
वा॒रु॒णो म॑ध्य॒त ऐ॒न्द्रमा ल॑भते ।
म॒ध्य॒त ए॒वेन्द्रि॒यय्ँ यज॑माने दधाति । [21]
पु॒रस्ता॑द् ऐ॒न्द्रस्य॑ वैश्वदे॒वमाल॑भते ।
वै॒श्व॒दे॒वव्ँ वा अन्न॒म् अन्न॑मे॒व पु॒रस्ता॑द् धत्ते ।
तस्मा॑त् पु॒रस्ता॒दन्न॑मद्यते ।
ऐ॒न्द्रमा॒लभ्य॑ मारु॒तमा ल॑भते ।
विड्वै म॒रुतो॒ , विश॑म् ए॒वास्मा॒ अनु॑ बध्नाति ।
मूलम्
वा॒रु॒णो म॑ध्य॒त ऐ॒न्द्रमा ल॑भते ।
म॒ध्य॒त ए॒वेन्द्रि॒यय्ँ यज॑माने दधाति । [21]
पु॒रस्ता॑द् ऐ॒न्द्रस्य॑ वैश्वदे॒वमाल॑भते ।
वै॒श्व॒दे॒वव्ँ वा अन्न॒म् अन्न॑मे॒व पु॒रस्ता॑द् धत्ते ।
तस्मा॑त् पु॒रस्ता॒दन्न॑मद्यते ।
ऐ॒न्द्रमा॒लभ्य॑ मारु॒तमा ल॑भते ।
विड्वै म॒रुतो॒ , विश॑म् ए॒वास्मा॒ अनु॑ बध्नाति ।
भट्टभास्कर-टीका
3मध्यत इत्यादि ॥ प्राप्तस्य सप्तमस्य ऐन्द्रस्य षष्ठत्वस्य षष्ठस्य च वैश्वदेवस्य ततः पूर्वस्य पञ्चमत्वस्य च विधानं फलविशेषप्रदर्शनार्थं पक्षान्तरमिति केचित् । प्राप्तषष्ठसप्तमत्वाभावादनुवाद इत्यन्ये । मध्यत एवेति । मध्यमे वयसि अतिशयेनेन्द्रियं यजमाने दधाति । वैश्वदेवमन्नं विश्वेषां प्राणानां स्थितिहेतुत्वात् । पुरस्तादिति । इन्द्रियोत्पत्तेः प्रागेव तु भावात्? । पुरस्तात् पूर्वस्मिन्नपि वयसि अन्नमद्यते जन्मारभ्यान्नं भुज्यते । ऐन्द्रमित्यादि । विशं प्रजां यजमानायानुवध्नाति विधेयां करोति ॥
मूलम् (संयुक्तम्)
यदि॑ का॒मये॑त॒ योऽव॑गत॒स्सोऽप॑ रुध्यताय्ँ॒योऽप॑रुद्ध॒स्सोऽव॑ गच्छ॒त्वित्यै॒न्द्रस्य॑ लो॒के वा॑रु॒णमा ल॑भेत वारु॒णस्य॑ लो॒क ऐ॒न्द्रम् [22]
य ए॒वाव॑गत॒स्सोऽप॑ रुध्यते॒ योऽप॑रुद्ध॒स्सोऽव॑ गच्छत
विश्वास-प्रस्तुतिः
यदि॑ का॒मये॑त॒ -
“योऽव॑गत॒स् सोऽप॑ रुध्यताय्ँ॒ , योऽप॑रुद्ध॒स् सोऽव॑ गच्छ॒तु”+ इति॑ ।
ऐ॒न्द्रस्य॑ लो॒के वा॑रु॒णमा ल॑भेत ।
वा॒रु॒णस्य॑ लो॒क ऐ॒न्द्रम् , य ए॒वाव॑गत॒स् सोऽप॑ रुध्यते । [22]
योऽप॑रुद्ध॒स् सोऽव॑ गच्छति ।
मूलम्
यदि॑ का॒मये॑त॒ -
“योऽव॑गत॒स् सोऽप॑ रुध्यताय्ँ॒ , योऽप॑रुद्ध॒स् सोऽव॑ गच्छ॒तु”+ इति॑ ।
ऐ॒न्द्रस्य॑ लो॒के वा॑रु॒णमा ल॑भेत ।
वा॒रु॒णस्य॑ लो॒क ऐ॒न्द्रम् , य ए॒वाव॑गत॒स् सोऽप॑ रुध्यते । [22]
योऽप॑रुद्ध॒स् सोऽव॑ गच्छति ।
भट्टभास्कर-टीका
4यदि कामयेतेत्यादि ॥ अवगतः स्वस्मिन्नैश्वर्येऽवस्थितः सोपरुद्ध्यतां ऐश्वर्यान्निरस्तो भवतु, अपरुद्धो वा ऐश्वर्यं भजतामिति । ऐन्द्रस्येत्यादि । ऐन्द्रवारुणयोर्यौ लोकौ स्थाने सप्तममन्त्यं च, तयोर्विनिमयं कुर्यात् । य एवेत्यादि । गतम् ॥
मूलम् (संयुक्तम्)
यदि॑ का॒मये॑त प्र॒जा मु॑ह्येयु॒रिति॑ प॒शून्व्यति॑षजेत्प्र॒जा ए॒व मो॑हयति॒
विश्वास-प्रस्तुतिः
यदि॑ का॒मये॑त - “प्र॒जा मु॑ह्येयु॒र्” इति॑ ।
प॒शून् व्यति॑षजेत् , प्र॒जा ए॒व मो॑हयति ।
मूलम्
यदि॑ का॒मये॑त - “प्र॒जा मु॑ह्येयु॒र्” इति॑ ।
प॒शून् व्यति॑षजेत् , प्र॒जा ए॒व मो॑हयति ।
भट्टभास्कर-टीका
5मुह्येयुरिति ॥ आकुलीभवेयुः प्रजा इति यदि कामयेत तदा सर्वान्पशून्व्यतिषजेत् विपर्यस्तस्थानान्कुर्यात् । प्रजा मोहयत्येव ॥
मूलम् (संयुक्तम्)
यद॑भिवाह॒तो॑ऽपाव्ँवा॑रु॒णमा॒लभे॑त प्र॒जा वरु॑णो गृह्णीयाद्दक्षिण॒त उद॑ञ्च॒मा ल॑भतेऽपवाह॒तो॑ऽपाम्प्र॒जाना॒मव॑रुणग्राहाय ॥ [23]
विश्वास-प्रस्तुतिः
यद॑भिवाह॒तो॑ऽपाव्ँ वा॑रु॒णम् आ॒लभे॑त , प्र॒जा वरु॑णो गृह्णीयात् ।
द॒क्षि॒ण॒त उद॑ञ्च॒मा ल॑भते , ऽपवाह॒तो॑ऽपाम् प्र॒जाना॒मव॑रुणग्राहाय ॥ [23]
मूलम्
यद॑भिवाह॒तो॑ऽपाव्ँ वा॑रु॒णम् आ॒लभे॑त , प्र॒जा वरु॑णो गृह्णीयात् ।
द॒क्षि॒ण॒त उद॑ञ्च॒मा ल॑भते , ऽपवाह॒तो॑ऽपाम् प्र॒जाना॒मव॑रुणग्राहाय ॥ [23]
भट्टभास्कर-टीका
6यदभिवाहत इत्यादि ॥ यद्यपामभिवाहतः अभिवहनस्थानेन वारुणमालभेत उत्तरस्मिन्यूपे प्रजा वरुणो गृह्णीयात् उदकसंबन्धात् । ‘अतिग्रहाव्यथन’ इत्यादिना हेतुतृतीयायास्तसिः, ‘स्वरितो वाऽनुदात्ते पदादौ’ इति संहितायामेकादेश ओकारस्स्वर्यते । दक्षिणत इत्यादि । तस्माद्दक्षिणतस्स्थित उदङ्मुखो भूत्वा अपामपवाहतः अपामपवाहनस्थाने उच्चे दक्षिणस्मिन्यूपे वारुणमालभेत । उदकविरहत् प्रजानां वरुणग्रहणाभावाय तद्भवति । पूर्ववत्तसिः ॥
इति षष्ठे षष्ठे पञ्चमोनुवाकः ॥