३७ ३७

०४ ...{Loading}...

मूलम् (संयुक्तम्)

स्फ्येन॒ वेदि॒मुद्ध॑न्ति रथा॒क्षेण॒ वि मि॑मीते॒ यूप॑म्मिनोति त्रि॒वृत॑मे॒व वज्रँ॑ स॒म्भृत्य॒ भ्रातृ॑व्याय॒ प्र ह॑रति॒ स्तृत्यै॒ यद॑न्तर्वे॒दि मि॑नु॒याद्दे॑वलो॒कम॒भि ज॑ये॒द्यद्ब॑हिर्वे॒दि म॑नुष्यलो॒कव्ँवे॑द्य॒न्तस्य॑ स॒न्धौ मि॑नोत्यु॒भयो॑र्लो॒कयो॑र॒भिजि॑त्या॒

विश्वास-प्रस्तुतिः

स्फ्येन॒ वेदि॒मुद्ध॑न्ति , रथा॒क्षेण॒ वि मि॑मीते॒ , यूप॑म्मिनोति , त्रि॒वृत॑मे॒व वज्रँ॑ स॒म्भृत्य॒ , भ्रातृ॑व्याय॒ प्र ह॑रति । स्तृत्यै॑ ।

यद॑न्तर्वे॒दि मि॑नु॒याद् , दे॑वलो॒कम॒भि ज॑ये॒द् ,
यद्ब॑हिर्वे॒दि म॑नुष्यलो॒कव्ँ वे॑द्य॒न् तस्य॑ स॒न्धौ मि॑नोत्य् , उ॒भयो॑र् लो॒कयो॑र् अ॒भिजि॑त्यै ।

मूलम्

भट्टभास्कर-टीका

1स्फ्येनेत्यादि ॥ उक्तम् ‘इन्द्रो वृत्राय वज्रं प्राहरत्स त्रेधा व्यभवत्स्फ्यस्तृतीयं रथस्तृतीयं यूपस्तृतीयम्’ इति । इदानीं यूपैकादशिनीमवतारयितुं वज्रवृत्तान्तशेषतया एतमनुवाकं व्याचक्षते । तत्र वज्रतृतीयांशानां स्फ्यादीनां मध्ये स्फ्येन वेदिमुद्धन्ति खनति । रथाक्षोण वेदि विमिमीते विभज्य परिछिनत्ति । दशरथाक्षैकादशोपरज्जुचतुर्थांश मितत्वात् वेद्याः । यूपं मिनोति उच्छ्रयति । एकयूपाभिप्रायेणैकवचनम् । त्रिवृतमिति । स्फ्यरथाक्षयूपलक्षणं वज्रं संभृत्य सम्यगुत्पाद्य भ्रातृव्याय प्रहरति प्रहिणोति स्तृत्यै मारणाय । यदन्तर्वेदि यूपैकादशिनीर्मिनुयात् उच्छ्रयेत् देवलोकमेवाभिजयेत् । यदि बहिर्वेदि । मिनुयादित्येव । मनुष्यलोकमेवाभिजयेत् । तस्माद्वेद्यन्तस्य सन्धौ वेदिश्च अन्तश्च तत्समीपभूमिश्च वेद्यन्तं, समाहारद्वन्द्वः, तस्य सन्धौ । यथा अर्धं वेद्यामर्धं बहिः तथा मिनोति, उभयोर्लोकयोरभिजयाय भवति ॥

मूलम् (संयुक्तम्)

उप॑रसम्मिताम्मिनुयात्पितृलो॒कका॑मस्य रश॒नस॑म्मिताम्मनुष्यलो॒कका॑मस्य च॒षाल॑सम्मितामिन्द्रि॒यका॑मस्य॒ सर्वा॑न्त्स॒मान्प्र॑ति॒ष्ठाका॑मस्य॒ ये त्रयो॑ मध्य॒मास्तान्त्स॒मान्प॒शुका॑मस्यै॒तान्वै [14]
अनु॑ प॒शव॒ उप॑ तिष्ठन्ते पशु॒माने॒व भ॑वति॒ व्यति॑षजे॒दित॑रान्प्र॒जयै॒वैन॑म्प॒शुभि॒र्व्यति॑षजति॒

विश्वास-प्रस्तुतिः

उप॑रसम्मिताम् मिनुयात् पितृलो॒कका॑मस्य , रश॒नस॑म्मिताम् मनुष्यलो॒कका॑मस्य ,
च॒षाल॑सम्मिताम् इन्द्रि॒यका॑मस्य॒ , सर्वा॑न्त् स॒मान्प्र॑ति॒ष्ठाका॑मस्य॒ ,
ये त्रयो॑ मध्य॒मास् तान्त्स॒मान्प॒शुका॑मस्यै॒तान् वा अनु॑ प॒शव॒ उप॑ तिष्ठन्ते [14]
प॒शु॒मान् ए॒व भ॑वति ।
व्यति॑षजे॒द् इत॑रान् , प्र॒जयै॒वैन॑म् प॒शुभि॒र् व्यति॑षजति ।

2उपरसम्मितामिति ॥ मूलतोतष्टमुपरं, यथा सर्वेषां यूपानामुपरवाणि सम्मितानि सदृशानि आरोहपरिणाहाभ्यां भवन्ति सभूमिकानि वा तथा मिनुयात् । चषालसम्मितामिति । अग्निष्ठतुल्यस्सर्वचषालम् । सर्वान् समानिति । सर्वानेकादशापि यूपान् समान् समानोपररशनाचषालान् प्रतिष्ठाकामस्य मिनुयात् । उपराद्यन्यतमेन वा समान्त्सर्वान्मिनुयात् । पशुकामस्य तु ये मध्यमास्त्रयो यूपाः तानेवोपरवादीन् समान्मिनुयात् । अन्येषामनियम इति । हेतुमाह - एतान्वा इति । एतांस्त्रीनुच्छ्रितान् अनु पशव उपतिष्ठन्ते यजमानम् । सङ्गतिकरण आत्मनेपदम् । हेतावनोः कर्मप्रवचनीयत्वम् । यद्वा - एताननु एभ्यः पश्चात् इत्यनुरूपान् पशव उपतिष्ठन्ते । व्यतिषजेदिति । मध्यमान् त्रीन्मुक्त्वा अन्यान्व्यतिषजेत् अन्योन्यं श्लेषयेत् प्रजया पशुभिश्च यजमानं व्यतिषजति ॥

मूलम् (संयुक्तम्)

यङ्का॒मये॑त प्र॒मायु॑कस्स्या॒दिति॑ गर्त॒मित॒न्तस्य॑ मिनुयादुत्तरा॒र्ध्यव्ँ॑वर्षि॑ष्ठ॒मथ॒ ह्रसी॑याँसमे॒षा वै ग॑र्त॒मिद्यस्यै॒वम्मि॒नोति॑ ता॒जक्प्र मी॑यते

विश्वास-प्रस्तुतिः

“यङ्का॒मये॑त प्र॒मायु॑कस् स्या॒द्”+ इति॑ ।
ग॒र्त॒मित॒न् तस्य॑ मिनुयाद् , उत्तरा॒र्ध्यव्ँ॑ वर्षि॑ष्ठम् ।
अथ॒ ह्रसी॑याँसम् , ए॒षा वै ग॑र्त॒मिद् यस्यै॒वम् मि॒नोति॑ , ता॒जक् प्र मी॑यते ।

3यमित्यादि ॥ प्रमायुको मरणशीलः गर्तं श्मशानं दक्षिण-निम्नं तद्वन्मीयन्ते यूपा अस्यामिति गर्तमित् । तादृशीमेकादशिनीं मिनुयात् । इदानीं तत्स्वरूपमाह - उत्तरार्ध्यं उत्तरे भवम् । ‘दिक्पूर्वपदाट्ठञ्च’ इति यत् । अग्निष्ठादुत्तरमर्धं, तत्र भवं वर्षिष्ठं वृद्धतरं अथ ह्रसीयांसं ततो न्यूनप्रमाणं दक्षिणार्धं अङ्गुष्ठपर्वमात्रया इत्याहुः । तथा छिनत्ति अवटं वा तथा खनति एषा गर्तमित् । एवं यस्य मीयते स ताजक् तदानीमेव प्रमीयते म्रियते गोळविन्यासे उत्तरोत्तरगर्तत्वात् उत्तरोत्तरमाधाराभावात् ॥

मूलम् (संयुक्तम्)

दक्षिणा॒र्ध्यव्ँ॑वर्षि॑ष्ठम्मिनुयात्सुव॒र्गका॑म॒स्याथ॒ ह्रसी॑याँसमा॒क्रम॑णमे॒व तत्सेतुय्ँ॒यज॑मानᳵ कुरुते सुव॒र्गस्य॑ लो॒कस्य॒ सम॑ष्ट्यै [15]

विश्वास-प्रस्तुतिः

दक्षिणा॒र्ध्यव्ँ॑ वर्षि॑ष्ठम् मिनुयात् सुव॒र्गका॑म॒स्य + अथ॒ ह्रसी॑याँसमा॒क्रम॑णमे॒व
तत्सेतुय्ँ॒ यज॑मानᳵ कुरुते , सुव॒र्गस्य॑ लो॒कस्य॒ सम॑ष्ट्यै ।[15]

मूलम्

दक्षिणा॒र्ध्यव्ँ॑ वर्षि॑ष्ठम् मिनुयात् सुव॒र्गका॑म॒स्य + अथ॒ ह्रसी॑याँसमा॒क्रम॑णमे॒व
तत्सेतुय्ँ॒ यज॑मानᳵ कुरुते , सुव॒र्गस्य॑ लो॒कस्य॒ सम॑ष्ट्यै ।[15]

भट्टभास्कर-टीका

4दक्षिणार्ध्यमित्यादि ॥ गतम् । आक्रमणमिति । आक्रम्यतेऽनेनेत्याक्रमणं सोपानमुच्यते, गोळे उत्तरोत्तरेषामुपरितनत्वात् । तेन गोळं गमयित्वा सोपानत्वं प्रदर्शयितव्यम् । सेतुग्रहणं बद्धसोपानत्वाय । सयनात्सेतुः । स्वर्गस्य समष्ट्यै सम्यगाप्त्यै भवति ॥

मूलम् (संयुक्तम्)

यदेक॑स्मि॒न्यूपे॒ द्वे र॑श॒ने प॑रि॒व्यय॑ति॒ तस्मा॒देको॒ द्वे जा॒ये वि॑न्दते॒ यन्नैकाँ॑ रश॒नान्द्वयो॒र्यूप॑योᳶ परि॒व्यय॑ति॒ तस्मा॒न्नैका॒ द्वौ पती॑ विन्दते॒ यङ्का॒मये॑त॒ स्त्र्य॑स्य जाये॒तेत्यु॑पा॒न्ते तस्य॒ व्यति॑षजे॒त्स्त्र्ये॑वास्य॑ जायते॒ यङ्का॒मये॑त॒ पुमा॑नस्य जाये॒तेत्या॒न्तन्तस्य॒ प्र वे॑ष्टये॒त्पुमा॑ने॒वास्य॑ [16]
जा॒य॒ते

विश्वास-प्रस्तुतिः

यदेक॑स्मि॒न् यूपे॒ द्वे र॑श॒ने प॑रि॒व्यय॑ति॒ तस्मा॒देको॒ द्वे जा॒ये वि॑न्दते ।
यन्नैकाँ॑ रश॒नान् द्वयो॒र् यूप॑योᳶ परि॒व्यय॑ति॒ , तस्मा॒न् नैका॒ द्वौ पती॑ विन्दते ।
यङ्का॒मये॑त॒ “स्त्र्य॑स्य जाये॒त”+ इति॑ । उ॒पा॒न्ते तस्य॒ व्यति॑षजे॒त् , स्त्र्ये॑वास्य॑ जायते ।
यङ्का॒मये॑त॒ पुमा॑नस्य जाये॒त"+ इति । आ॒न्तन् तस्य॒ प्र वे॑ष्टये॒त् , पुमा॑ने॒वास्य॑ जायते । [16]

5यदेकस्मिन्नित्यादि ॥ गतम् । उपान्त इति । अन्तस्य समीपे परस्परतो ग्रन्थिं कृत्वा व्यतिषजेत् अन्तर्निगूहेत् । आन्तमिति । यावदन्तं प्रवेष्टयेत् ग्रथितव्यम् ॥

मूलम् (संयुक्तम्)

ऽसु॑रा॒ वै दे॒वान्द॑क्षिण॒त उपा॑नय॒न्तान्दे॒वा उ॑पश॒येनै॒वापा॑नुदन्त॒ तदु॑पश॒यस्यो॑पशय॒त्वय्ँयद्द॑क्षिण॒त उ॑पश॒य उ॑प॒शये॒ भ्रातृ॑व्यापनुत्त्यै॒

विश्वास-प्रस्तुतिः

असु॑रा॒ वै दे॒वान् द॑क्षिण॒त उपा॑नयन् ।
तान् दे॒वा उ॑पश॒येनै॒वापा॑नुदन्त ।
तदु॑पश॒यस्यो॑पशय॒त्वय्ँ यद् द॑क्षिण॒त उ॑पश॒य , उ॑प॒शये॒ भ्रातृ॑व्यापनुत्यै ।

मूलम्

असु॑रा॒ वै दे॒वान् द॑क्षिण॒त उपा॑नयन् ।
तान् दे॒वा उ॑पश॒येनै॒वापा॑नुदन्त ।
तदु॑पश॒यस्यो॑पशय॒त्वय्ँ यद् द॑क्षिण॒त उ॑पश॒य , उ॑प॒शये॒ भ्रातृ॑व्यापनुत्यै ।

भट्टभास्कर-टीका

6असुरा वा इत्यादि ॥ अग्निष्ठाद्दक्षिणत उपेत्य देवाननयन् असुरा अभिभूय आत्मवशमगमयन् । अथ तानसुरान् देवा उपशयेन यूपेन दक्षिणपूर्वावकाशेन अपानुदन्त । तस्मात्तस्योपशयत्वम् । उपेत्य शेतेऽत्र यत्रोपेत्य असुरान् बाधन्ते देवा इत्युपशयः । पचाद्यच् । तस्माद्येन कारणेन दक्षिणत उपशये उपशेते तद्भ्रातृव्यापनुत्त्यै भवति । ‘लोपस्त आत्मनेपदेषु’ इति तलोपः ॥

मूलम् (संयुक्तम्)

सर्वे॒ वा अ॒न्ये यूपाः॑ पशु॒मन्तोऽथो॑पश॒य ए॒वाप॒शुस्तस्य॒ यज॑मानᳶ प॒शुर्यन्न नि॑र्दि॒शेदार्ति॒मार्च्छे॒द्यज॑मानो॒ऽसौ ते॑ प॒शुरिति॒ निर्दि॑शे॒द्यन्द्वि॒ष्याद्यमे॒व [17]
द्वेष्टि॒ तम॑स्मै प॒शुन्निर्दि॑शति॒ यदि॒ न द्वि॒ष्यादा॒खुस्ते॑ प॒शुरिति॑ ब्रूया॒न्न ग्रा॒म्यान्प॒शून्हि॒नस्ति॒ नार॒ण्यान्

विश्वास-प्रस्तुतिः

सर्वे॒ वा अ॒न्ये यूपाः॑ पशु॒मन्तो, ऽथो॑पश॒य ए॒वाप॒शुस् ,
तस्य॒ यज॑मानᳶ प॒शुर् यन् न नि॑र्दि॒शेद् आर्ति॒मार्च्छे॒द् यज॑मानो॒
ऽसौ ते॑ प॒शुरिति॒ निर्दि॑शे॒द् , यन्द्वि॒ष्याद् यमे॒व द्वेष्टि॑ । [17]

तम॑स्मै प॒शुन् निर्दि॑शति॒ - “यदि॒ न द्वि॒ष्याद् आ॒खुस् ते॑ प॒शुर्” इति॑ ब्रूयात् ।
न ग्रा॒म्यान् प॒शून् हि॒नस्ति॒ नार॒ण्यान् ।

7सर्वे वा इत्यादि ॥ उपशयव्यतिरिक्ता एकादशापि यूपाः पशुमन्तः, उपशयस्त्वपशुः, न तत्र कश्चित्पशुर्नियुज्यते, एवं स्थिते अस्य यजमान एव पशुस्स्यात् यत् यदि न निर्दिशेत् पश्वन्तरं न कीर्तयेत् यजमानः, ततश्च उपाकृतपशुवदसौ म्रियेत । तस्मात् असौ ते पशुरिति निर्दिशेद्यजमानः, यं द्विष्यात् तमसावित्यत्र स्थाने शब्दयेत् केशवस्ते पशुर्दामोदरस्ते पशुरिति । एवं कुर्वन् तमेवास्य पशुं निर्दिशति यमेव द्वेष्टि । ततस्स एवास्य पशुर्भवति नात्मा । अथ यद्ययं यजमानो न कं चिद्द्विष्यात् तदा आखुस्ते पशुरिति ब्रूयात् । तथाकृते ग्राम्यारण्यपशुहिंसा नास्ति, अनुभयात्मकत्वात् आखोः । उक्ता ग्राम्या आरण्याश्च पशवः ॥

मूलम् (संयुक्तम्)

प्र॒जाप॑तिᳶ प्र॒जा अ॑सृजत॒ सो॑ऽन्नाद्ये॑न॒ व्या॑र्ध्यत॒ स ए॒तामे॑काद॒शिनी॑मपश्य॒त्तया॒ वै सो॑ऽन्नाद्य॒मवा॑रुन्द्ध॒ यद्दश॒ यूपा॒ भव॑न्ति॒ दशा॑क्षरा वि॒राडन्नव्ँ॑वि॒राड्वि॒राजै॒वान्नाद्य॒मव॑ रुन्द्धे [18]
य ए॑काद॒शस्स्तन॑ ए॒वास्यै॒ स दु॒ह ए॒वैना॒न्तेन॒ न

विश्वास-प्रस्तुतिः

प्र॒जाप॑तिᳶ प्र॒जा अ॑सृजत ।
सो॑ऽन्नाद्ये॑न॒ व्या॑र्ध्यत ।
स ए॒ताम् ए॑काद॒शिनी॑मपश्यत् ।
तया॒ वै सो॑ ऽन्नाद्य॒मवा॑रुन्द्ध॒ , यद् दश॒ यूपा॒ भव॑न्ति ।
दशा॑क्षरा वि॒राट् । अन्नव्ँ॑ वि॒राट् । वि॒राजै॒वान्नाद्य॒मव॑ रुन्धे । [18]
य ए॑काद॒शस् स्तन॑ ए॒वास्यै॒ स दु॒ह ए॒वैना॒न् तेन॑ ।

8प्रजापतिरित्यादि ॥ पशुसृष्ट्यनन्तरं कुटुम्बभूयस्तया अन्नाद्येन व्यृद्धोभवत् प्रजापतिः । दशयूपात्मिकाया विराजः अस्याः एकादशो यूपः स्तनः दोहनाय । तस्मात्तेनैवैनां विराजं दुहे दुग्धे । पर्वूवत्तलोपः ॥

मूलम् (संयुक्तम्)

वज्रो॒ वा ए॒षा सम्मी॑यते॒ यदे॑काद॒शिनी॒ सेश्व॒रा पु॒रस्ता॑त्प्र॒त्यञ्चय्ँ॑ य॒ज्ञँ सम्म॑र्दितो॒र्यत्पा॑त्नीव॒तम्मि॒नोति॑ य॒ज्ञस्य॒ प्रत्युत्त॑ब्ध्यै सय॒त्वाय॑ ॥ [19]

विश्वास-प्रस्तुतिः

वज्रो॒ वा ए॒षा सम्मी॑यते ।
यदे॑काद॒शिनी॒ सेश्व॒रा पु॒रस्ता॑त् प्र॒त्यञ्चय्ँ॑ य॒ज्ञँ सम्म॑र्दितोः ।
यत् पा॑त्नीव॒तम् मि॒नोति॑ , य॒ज्ञस्य॒ प्रत्युत्त॑ब्ध्यै । सय॒त्वाय॑ ॥ [19]

मूलम्

वज्रो॒ वा ए॒षा सम्मी॑यते ।
यदे॑काद॒शिनी॒ सेश्व॒रा पु॒रस्ता॑त् प्र॒त्यञ्चय्ँ॑ य॒ज्ञँ सम्म॑र्दितोः ।
यत् पा॑त्नीव॒तम् मि॒नोति॑ , य॒ज्ञस्य॒ प्रत्युत्त॑ब्ध्यै । सय॒त्वाय॑ ॥ [19]

भट्टभास्कर-टीका

11वज्रो वा इत्यादि ॥ वज्र एव साक्षात्संमीयते सहोच्छ्रीयते । एकादशिनी नाम एकादशयूपाः परिमाणमस्यास्समाह्रियते । ‘शञ्छतोर्डिनिः’ इति डिनिः । सा एकादशिनी ईश्वरा समर्था पुरस्तात् स्थित्वा प्रत्यञ्च प्रत्यक्पर्यन्तं यज्ञं सम्मर्दितोः संमर्दितुम् । ‘ईश्वरे तोसुन्कसुनौ’ इति तोसुन् । तस्मात्पात्नीवतस्य यूपस्योच्छ्रयणं यज्ञस्य प्रत्युत्तब्ध्यै भवति । पिपतिषोः पटलादेः पतनप्रतिबन्धाय दार्वादिना प्रतिमुखधारणं प्रत्युत्तम्भनं, तत्पात्नी वतेन अग्रे शालामुखीयं स्थापितेन क्रियते इत्यर्थः । ‘उदस्थात्स्थम्भोः’ इति पूर्वसवर्णत्वम् । सयत्वाय च यज्ञस्य तद्भवति । सिनोति बध्नात्यात्मानं न शिथिलीभवतीति सयः, पचाद्यच्, दृढत्वायेत्यर्थः ॥

इति षष्ठे षष्ठे चतुर्थोनुवाकः ॥