०३ ...{Loading}...
मूलम् (संयुक्तम्)
ब्र॒ह्म॒वा॒दिनो॑ वदन्ति॒ स त्वा अ॑ध्व॒र्युस्स्या॒द्यस्सोम॑मुपाव॒हर॒न्त्सर्वा॑भ्यो दे॒वता॑भ्य उपाव॒हरे॒दिति॑ हृ॒दे त्वेत्या॑ह मनु॒ष्ये॑भ्य ए॒वैतेन॑ करोति॒ मन॑से॒ त्वेत्या॑ह पि॒तृभ्य॑ ए॒वैतेन॑ करोति दि॒वे त्वा॒ सूर्या॑य॒ त्वेत्या॑ह दे॒वेभ्य॑ ए॒वैतेन॑ करोत्ये॒ताव॑ती॒र्वै दे॒वता॒स्ताभ्य॑ ए॒वैनँ॒ सर्वा॑भ्य उ॒पाव॑हरति
विश्वास-प्रस्तुतिः
ब्र॒ह्म॒वा॒दिनो॑ वदन्ति॒ -
“स त्वा अ॑ध्व॒र्युस् स्या॒द् यस् सोम॑मुपाव॒हर॒न्त् ,
सर्वा॑भ्यो दे॒वता॑भ्य उपाव॒हरे॒द्” इति॑ ।
“हृ॒दे त्वा” + इत्या॑ह ।
म॒नु॒ष्ये॑भ्य ए॒वैतेन॑ करोति ।
“मन॑से॒ त्वा” + इत्या॑ह ।
पि॒तृभ्य॑ ए॒वैतेन॑ करोति ।
“दि॒वे त्वा॒ सूर्या॑य॒ त्वा”+ इत्या॑ह ।
दे॒वेभ्य॑ ए॒वैतेन॑ करोति ।
ए॒ताव॑ती॒र्वै दे॒वता॒स् , ताभ्य॑ ए॒वैनँ॒ सर्वा॑भ्य उ॒पाव॑हरति ।
मूलम्
ब्र॒ह्म॒वा॒दिनो॑ वदन्ति॒ -
“स त्वा अ॑ध्व॒र्युस् स्या॒द् यस् सोम॑मुपाव॒हर॒न्त् ,
सर्वा॑भ्यो दे॒वता॑भ्य उपाव॒हरे॒द्” इति॑ ।
“हृ॒दे त्वा” + इत्या॑ह ।
म॒नु॒ष्ये॑भ्य ए॒वैतेन॑ करोति ।
“मन॑से॒ त्वा” + इत्या॑ह ।
पि॒तृभ्य॑ ए॒वैतेन॑ करोति ।
“दि॒वे त्वा॒ सूर्या॑य॒ त्वा”+ इत्या॑ह ।
दे॒वेभ्य॑ ए॒वैतेन॑ करोति ।
ए॒ताव॑ती॒र्वै दे॒वता॒स् , ताभ्य॑ ए॒वैनँ॒ सर्वा॑भ्य उ॒पाव॑हरति ।
पद-पाठः
ब्र॒ह्म॒वा॒दिन॒ इति॑ ब्रह्म-वा॒दिनः॑ । व॒द॒न्ति॒ ।
सः । तु । वै । अ॒ध्व॒र्युः । स्या॒त् । यः । सोम॑म् । उ॒पा॒व॒हर॒न्नित्यु॑प-अ॒व॒हर॑न् । सर्वा॑भ्यः । दे॒वता॑भ्यः । उ॒पा॒व॒हरे॒दित्यु॑प-अ॒व॒हरे॑त् । इति॑ ।
हृ॒दे । त्वा॒ । इति॑ । आ॒ह॒ ।
म॒नु॒ष्ये॑भ्यः । ए॒व । ए॒तेन॑ । क॒रो॒ति॒ ।
मन॑से । त्वा॒ । इति॑ । आ॒ह॒ । पि॒तृभ्य॒ इति॑ पि॒तृ-भ्यः॒ । ए॒व । ए॒तेन॑ । क॒रो॒ति॒ ।
दि॒वे । त्वा॒ । सूर्या॑य । त्वा॒ । इति॑ । आ॒ह॒ । दे॒वेभ्यः॑ । ए॒व । ए॒तेन॑ । क॒रो॒ति॒ ।
ए॒ताव॑तीः । वै । दे॒वताः॑ । ताभ्यः॑ । ए॒व । ए॒न॒म् । सर्वा॑भ्यः । उ॒पाव॑हर॒तीत्यु॑प-अव॑हरति ।
भट्टभास्कर-टीका
1ब्रह्मवादिन इत्यादि ॥ स एवाध्वर्युर्भवितुमर्हति । तोरन्त्यलोपश्छान्दसः । यः सोमं हविर्धानादुपावहरन् अवतारयन् सर्वाम्यो देवताभ्यः सर्वदेवतार्थं उपावहरेत् उपावहरणं जानातीति । मनुष्येभ्य इत्यादि । हृदयमात्रवन्तो मनुष्या विशिष्टं मननं मनः तद्वन्तः पितरः द्युलोकवासिनो देवाः सूर्यमण्डलवर्तिनश्च । एतावत्य एव देवता भवन्ति, तस्मादनेन मन्त्रेणोपावहरणं सर्वदेवतार्थमिति ॥
मूलम् (संयुक्तम्)
पु॒रा वा॒चः [12]
प्रव॑दितोᳶ प्रातरनुवा॒कमु॒पाक॑रोति॒ याव॑त्ये॒व वाक्तामव॑ रुन्द्धे॒
विश्वास-प्रस्तुतिः
पु॒रा वा॒चᳶ प्रव॑दितोᳶ प्रातरनुवा॒कम् उ॒पाक॑रोति ।[12]
याव॑त्ये॒व वाक्तामव॑ रुन्धे ।
मूलम्
पु॒रा वा॒चᳶ प्रव॑दितोᳶ प्रातरनुवा॒कम् उ॒पाक॑रोति ।[12]
याव॑त्ये॒व वाक्तामव॑ रुन्धे ।
पद-पाठः
पु॒रा । वा॒चः । [12] प्रव॑दितो॒रिति॒ प्र-व॒दि॒तोः॒ । प्रा॒त॒र॒नुवा॒कमिति॑ प्रातः-अ॒नु॒वा॒कम् । उ॒पाक॑रो॒तीत्यु॑प-आक॑रोति ।
याव॑ती । ए॒व । वाक् । ताम् । अवेति॑ । रु॒न्द्धे॒ ।
भट्टभास्कर-टीका
2पुरा वाच इत्यादि ॥ पक्ष्यादीनां वाग्वदनारम्भात्प्राक् प्रातरनुवाकमुपाकरोति ‘प्रातर्यावभ्यः’ इत्यादिकं संप्रैषमाह । यावती काचित्सर्वस्य वाक्, तां अप्रोदितां प्रथममन्यैरनुक्तामेव स्वयमवरुन्धे ॥
मूलम् (संयुक्तम्)
ऽपोऽग्रे॑ऽभि॒ व्याह॑रति य॒ज्ञो वा आपो॑ य॒ज्ञमे॒वाभि वाचव्ँ॒वि सृ॑जति॒
विश्वास-प्रस्तुतिः
अ॒पोऽग्रे॑ऽभि॒ व्याह॑रति ।
य॒ज्ञो वा आपो॑ , य॒ज्ञमे॒वाभि वाचव्ँ॒ वि सृ॑जति ।
मूलम्
अ॒पोऽग्रे॑ऽभि॒ व्याह॑रति ।
य॒ज्ञो वा आपो॑ , य॒ज्ञमे॒वाभि वाचव्ँ॒ वि सृ॑जति ।
पद-पाठः
अ॒पः । अग्रे॑ । अ॒भि॒व्याह॑र॒तीत्य॑भि-व्याह॑रति । य॒ज्ञः । वै । आपः॑ । य॒ज्ञम् । ए॒व । अ॒भीति॑ । वाच॑म् । वीति॑ । सृ॒ज॒ति॒ ।
भट्टभास्कर-टीका
3अपोग्रे इति ॥ आरम्भे अपोभिव्याहरति आपो देवीरिति । तेन यज्ञान्विता अपोभिलक्ष्य वाचं विसृजति वाग्विसृष्टा भवति ॥
मूलम् (संयुक्तम्)
सर्वा॑णि॒ छन्दाँ॒स्यन्वा॑ह प॒शवो॒ वै छन्दाँ॑सि प॒शूने॒वाव॑ रुन्द्धे गायत्रि॒या तेज॑स्कामस्य॒ परि॑ दध्यात्त्रि॒ष्टुभे॑न्द्रि॒यका॑मस्य॒ जग॑त्या प॒शुका॑मस्याऽनु॒ष्टुभा॑ प्रति॒ष्ठाका॑मस्य प॒ङ्क्त्या य॒ज्ञका॑मस्य वि॒राजाऽन्न॑कामस्य
विश्वास-प्रस्तुतिः
सर्वा॑णि॒ छन्दाँ॒स्यन्वा॑ह ।
प॒शवो॒ वै छन्दाँ॑सि , प॒शूने॒वाव॑ रुन्धे ।
गा॒य॒त्रि॒या तेज॑स्कामस्य॒ परि॑ दध्यात् ।
त्रि॒ष्टुभे॑न्द्रि॒यका॑मस्य॒ , जग॑त्या प॒शुका॑मस्या , ऽनु॒ष्टुभा॑ प्रति॒ष्ठाका॑मस्य , प॒ङ्क्त्या य॒ज्ञका॑मस्य , वि॒राजाऽन्न॑कामस्य ।
मूलम्
सर्वा॑णि॒ छन्दाँ॒स्यन्वा॑ह ।
प॒शवो॒ वै छन्दाँ॑सि , प॒शूने॒वाव॑ रुन्धे ।
गा॒य॒त्रि॒या तेज॑स्कामस्य॒ परि॑ दध्यात् ।
त्रि॒ष्टुभे॑न्द्रि॒यका॑मस्य॒ , जग॑त्या प॒शुका॑मस्या , ऽनु॒ष्टुभा॑ प्रति॒ष्ठाका॑मस्य , प॒ङ्क्त्या य॒ज्ञका॑मस्य , वि॒राजाऽन्न॑कामस्य ।
पद-पाठः
सर्वा॑णि । छन्दाँ॑सि । अन्विति॑ । आ॒ह॒ ।
प॒शवः॑ । वै । छन्दाँ॑सि । प॒शून् । ए॒व । अवेति॑ । रु॒न्द्धे॒ ।
गा॒य॒त्रि॒या । तेज॑स्काम॒स्येति॒ तेजः॑-का॒म॒स्य॒ । परीति॑ । द॒ध्या॒त् । त्रि॒ष्टुभा॑ । इ॒न्द्रि॒यका॑म॒स्येती॑न्द्रि॒य-का॒म॒स्य॒ । जग॑त्या । प॒शुका॑म॒स्येति॑ प॒शु-का॒म॒स्य॒ । अ॒नु॒ष्टुभेत्य॑नु-स्तुभा॑ । प्र॒ति॒ष्ठाका॑म॒स्येति॑ प्रति॒ष्ठा-का॒म॒स्य॒ । प॒ङ्क्त्या । य॒ज्ञका॑म॒स्येति॑ य॒ज्ञ-का॒म॒स्य॒ । वि॒राजेति॑ वि-राजा॑ । अन्न॑काम॒स्येत्यन्न॑-का॒म॒स्य॒ ।
भट्टभास्कर-टीका
4सर्वाणीत्यादि ॥ प्रातरनुवाके प्रेषणानन्तरं ब्रूयात् । परिदध्यात् समापयेत् । गतमन्यत् ॥
मूलम् (संयुक्तम्)
शृ॒णोत्व॒ग्निस्स॒मिधा॒ हव॑म् [13]
म॒ इत्या॑ह सवि॒तृप्र॑सूत ए॒व दे॒वता॑भ्यो नि॒वेद्या॒पोऽच्छै॑त्य॒प इ॑ष्य होत॒रित्या॑हेषि॒तँ हि कर्म॑ क्रि॒यते॒ मैत्रा॑वरुणस्य चमसाध्वर्य॒वा द्र॒वेत्या॑ह मि॒त्रावरु॑णौ॒ वा अ॒पान्ने॒तारौ॒ ताभ्या॑मे॒वैना॒ अच्छै॑ति॒
विश्वास-प्रस्तुतिः
शृ॒णोत्व॒ग्निस्स॒मिधा॒ हव॑म् म॒ इत्या॑ह ।[13]
स॒वि॒तृप्रसू॑त ए॒व दे॒वता॑भ्यो नि॒वेद्या॒पोऽच्छै॑ति ।
अ॒प इ॑ष्य होत॒रित्या॑ह ।
इ॒षि॒तँ॒ हि कर्म॑ क्रि॒यते॑ ।
मैत्रा॑वरुणस्य चमसाध्वर्य॒वा द्र॒वेत्या॑ह ।
मि॒त्रावरु॑णौ॒ वा अ॒पान्ने॒तारौ॒ , ताभ्या॑म् ए॒वैना॒ अच्छै॑ति ।
मूलम्
शृ॒णोत्व॒ग्निस्स॒मिधा॒ हव॑म् म॒ इत्या॑ह ।[13]
स॒वि॒तृप्रसू॑त ए॒व दे॒वता॑भ्यो नि॒वेद्या॒पोऽच्छै॑ति ।
अ॒प इ॑ष्य होत॒रित्या॑ह ।
इ॒षि॒तँ॒ हि कर्म॑ क्रि॒यते॑ ।
मैत्रा॑वरुणस्य चमसाध्वर्य॒वा द्र॒वेत्या॑ह ।
मि॒त्रावरु॑णौ॒ वा अ॒पान्ने॒तारौ॒ , ताभ्या॑म् ए॒वैना॒ अच्छै॑ति ।
पद-पाठः
शृ॒णोतु॑ । अ॒ग्निः । स॒मिधेति॑ सम्-इधा॑ । हव॑म् । [13] मे॒ । इति॑ । आ॒ह॒ ।
स॒वि॒तृप्र॑सूत॒ इति॑ सवि॒तृ-प्र॒सू॒तः॒ । ए॒व । दे॒वता॑भ्यः । नि॒वेद्येति॑ नि-वेद्य॑ । अ॒पः । अच्छ॑ । ए॒ति॒ ।
अ॒पः । इ॒ष्य॒ । हो॒तः॒ । इति॑ । आ॒ह॒ । इ॒षि॒तम् । हि । कर्म॑ । क्रि॒यते॑ । मैत्रा॑वरुण॒स्येति॒ मैत्रा॑-व॒रु॒ण॒स्य॒ । च॒म॒सा॒ध्व॒र्य॒विति॑ चमस-अ॒ध्व॒र्यो॒ । एति॑ । द्र॒व॒ । इति॑ । आ॒ह॒ ।
मि॒त्रावरु॑णा॒विति॑ मि॒त्रा-वरु॑णौ । वै । अ॒पाम् । ने॒तारौ॑ । ताभ्या॑म् । ए॒व । ए॒नाः॒ । अच्छ॑ । ए॒ति॒ ।
भट्टभास्कर-टीका
5यत्राभिजानात्यभूदुषारुशत्पशुरिति तत्प्रचरण्या जुहोति - शृणोत्वग्निरिति ॥ सवितृप्रसूत इति । सवित्राऽनुज्ञात एव देवताभ्यो निवेद्य विज्ञाप्य अपोच्छैति अपोभिप्राप्तुं गच्छति । एकधनादिलक्षणाः अप इष्य होतरित्यादिस्संप्रैषः । इषितमित्यादि । हे होतः अपः कर्म अपामानयनलक्षणं इष्य इच्छेति यस्मादाह तस्मादिषितं हि कर्म क्रियते । मैत्रावरुणस्येत्यादि । मित्रावरुणयोः अपां वृष्टेः नेतृत्वात् एवमुच्यते । ताभ्यां सह अपोच्छैति ॥
मूलम् (संयुक्तम्)
देवी॑रापो अपान्नपा॒दित्या॒हाहु॑त्यै॒वैना॑ नि॒ष्क्रीय॑ गृह्णा॒त्यथो॑ ह॒विष्कृ॑तानामे॒वाभिघृ॑तानाङ्गृह्णाति [14]
विश्वास-प्रस्तुतिः
देवी॑रापो अपान्नपा॒दित्या॑ह ।
आहु॑त्यै॒वैना॑ नि॒ष्क्रीय॑ गृह्णाति ।
अथो॑ ह॒विष्कृ॑तानाम् ए॒वाभिघृ॑तानाङ् गृह्णाति [14]
मूलम्
देवी॑रापो अपान्नपा॒दित्या॑ह ।
आहु॑त्यै॒वैना॑ नि॒ष्क्रीय॑ गृह्णाति ।
अथो॑ ह॒विष्कृ॑तानाम् ए॒वाभिघृ॑तानाङ् गृह्णाति [14]
पद-पाठः
देवीः॑ । आपः॑ । अ॒पा॒म् । न॒पा॒त् । इति॑ । आ॒ह॒ ।
आहु॒त्येत्या-हु॒त्या॒ । ए॒व । ए॒नाः॒ । नि॒ष्क्रीयेति॑ निः-क्रीय॑ । गृ॒ह्णा॒ति॒ ।
अथो॒ इति॑ । ह॒विष्कृ॑ताना॒मिति॑ ह॒विः-कृ॒ता॒ना॒म् । ए॒व । अ॒भिघृ॑ताना॒मित्य॒भि-घृ॒ता॒ना॒म् । गृ॒ह्णा॒ति॒ । [14]
भट्टभास्कर-टीका
6देवीराप इत्यप्सु तृणमन्तर्धाय जुहोति आहुतिप्रदानेन एना अपो निष्क्रीय आत्मसात्कृत्य गृह्णाति । अथो हविष्कृतानां हविष्ट्वमापादितानां अभिघारणस्थानीयोयं होम इत्यर्थः । हविष्ट्वापादनेन संस्कृता हविष्कृता । ‘तृतीया कर्मणि’ इति पूर्वपदप्रकृतिस्वरत्वम् ॥
मूलम् (संयुक्तम्)
कार्षि॑र॒सीत्या॑ह॒ शम॑लमे॒वासा॒मप॑ प्लावयति समु॒द्रस्य॒ वोऽक्षि॑त्या॒ उन्न॑य॒ इत्या॑ह॒ तस्मा॑द॒द्यमा॑नाᳶ पी॒यमा॑ना॒ आपो॒ न क्षी॑यन्ते॒
विश्वास-प्रस्तुतिः
“कार्षि॑र॒सि”+ इत्या॑ह ।
शम॑लम् ए॒वासा॒मप॑ प्लावयति ।
“स॒मु॒द्रस्य॑ वो ऽक्षि॑त्या॒ उन्न॑य॒” इत्या॑ह ।
तस्मा॑द् अ॒द्यमा॑नाᳶ पी॒यमा॑ना॒ आपो॒ न क्षी॑यन्ते ।
मूलम्
“कार्षि॑र॒सि”+ इत्या॑ह ।
शम॑लम् ए॒वासा॒मप॑ प्लावयति ।
“स॒मु॒द्रस्य॑ वो ऽक्षि॑त्या॒ उन्न॑य॒” इत्या॑ह ।
तस्मा॑द् अ॒द्यमा॑नाᳶ पी॒यमा॑ना॒ आपो॒ न क्षी॑यन्ते ।
पद-पाठः
कार्षिः॑ । अ॒सि॒ । इति॑ । आ॒ह॒ । शम॑लम् । ए॒व । आ॒सा॒म् । अपेति॑ । प्ला॒व॒य॒ति॒ ।
स॒मु॒द्रस्य॑ । वः॒ । अक्षि॑त्यै । उदिति॑ । न॒ये॒ । इति॑ । आ॒ह॒ ।
तस्मा॑त् । अ॒द्यमा॑नाः । पी॒यमा॑नाः । आपः॑ । न । क्षी॒य॒न्ते॒ ।
भट्टभास्कर-टीका
7कार्षिरसीति दर्भैराहुतिमपप्लावयति ॥ शमलं मलांशमपप्लावयति अपनयति । ‘समुद्रस्य वोक्षित्या उन्नये’ इति अभिहुतानां मैत्रावरुणचमसेन गृह्णाति । तस्मादद्यमाना इत्यादि । क्षुन्निवृत्त्यर्थमद्यमानाः पिपासानिवृत्त्यर्थं पीयमानाः ॥
मूलम् (संयुक्तम्)
योनि॒र्वै य॒ज्ञस्य॒ चात्वा॑लय्ँ य॒ज्ञो व॑सती॒वरीर्॑होतृचम॒सञ्च॑ मैत्रावरुणचम॒सञ्च॑ सँ॒स्पर्श्य॑ वसती॒वरी॒र्व्यान॑यति य॒ज्ञस्य॑ सयोनि॒त्वायाथो॒ स्वादे॒वैना॒ योने॒ᳶ प्र ज॑नय॒त्य्
विश्वास-प्रस्तुतिः
योनि॒र्वै य॒ज्ञस्य॒ चात्वा॑लम् ।
य॒ज्ञो व॑सती॒वरीर्॑ होतृचम॒सञ् च॑ मैत्रावरुणचम॒सञ् च॑ सँ॒स्पर्श्य॑ वसती॒वरी॒र् व्यान॑यति , य॒ज्ञस्य॑ सयोनि॒त्वाय॑ ।
अथो॒ स्वाद् ए॒वैना॒ योने॒ᳶ प्र ज॑नयति ।
मूलम्
योनि॒र्वै य॒ज्ञस्य॒ चात्वा॑लम् ।
य॒ज्ञो व॑सती॒वरीर्॑ होतृचम॒सञ् च॑ मैत्रावरुणचम॒सञ् च॑ सँ॒स्पर्श्य॑ वसती॒वरी॒र् व्यान॑यति , य॒ज्ञस्य॑ सयोनि॒त्वाय॑ ।
अथो॒ स्वाद् ए॒वैना॒ योने॒ᳶ प्र ज॑नयति ।
पद-पाठः
योनिः॑ । वै । य॒ज्ञस्य॑ । चात्वा॑लम् ।
य॒ज्ञः । व॒स॒ती॒वरीः॑ । हो॒तृ॒च॒म॒समिति॑ होतृ-च॒म॒सम् । च॒ । मै॒त्रा॒व॒रु॒ण॒च॒म॒समिति॑ मैत्रावरुण-च॒म॒सम् । च॒ । सँ॒स्पर्श्येति॑ सम्-स्पर्श्य॑ । व॒स॒ती॒वरीः॑ । व्यान॑य॒तीति॑ वि-आन॑यति । य॒ज्ञस्य॑ । स॒यो॒नि॒त्वायेति॑ सयोनि-त्वाय॑ ।
अथो॒ इति॑ । स्वात् । ए॒व । ए॒नाः॒ । योनेः॑ । प्रेति॑ । ज॒न॒य॒ति॒ ।
भट्टभास्कर-टीका
8योनिर्वा इत्यादि ॥ ततः पुरषिमादाय धिष्ण्योपवपनात् योनित्यम् । प्रसाधनसाधनत्वाद्यज्ञोहि स्वयं वसतीवर्यः । उपरि चात्वाले चमसौ परस्परं संस्पर्शयित्वा तत्र वसतविरीर्व्यानयति परस्परमानयति यज्ञस्य सयोनित्वाय स्वयोनावेव यज्ञस्स्थापितो यथा स्यात् । अपि च स्वादेव योनेः एता यज्ञात्मिकाः प्रजनयति उत्पादयति ॥
मूलम् (संयुक्तम्)
ध्व॒र्योऽवे॑र॒पा (३) इत्या॑हो॒तेम॑नन्नमुरु॒तेमाᳶ प॒श्येति॒ वावैतदा॑ह॒
विश्वास-प्रस्तुतिः
ध्व॒र्योऽवे॑र॒पा (३) इत्या॑ह ।
“उ॒तेम॑नन्नमुरु॒तेमाᳶ प॒श्य” + इति॒ वावैतदा॑ह ।
मूलम्
ध्व॒र्योऽवे॑र॒पा (३) इत्या॑ह ।
“उ॒तेम॑नन्नमुरु॒तेमाᳶ प॒श्य” + इति॒ वावैतदा॑ह ।
पद-पाठः
अध्व॑र्यो॒ इति॑ । अवेः॑ । अ॒पा(३)ः । इति॑ । आ॒ह॒ ।
उ॒त । ई॒म् । अ॒न॒न्न॒मुः॒ । उ॒त । इ॒माः । प॒श्य॒ । इति॑ । वाव । ए॒तत् । आ॒ह॒ ।
भट्टभास्कर-टीका
9अध्वर्योवेरपा इति हातोऽध्वर्युं पृच्छति ॥ हे अध्वर्यो किमपः अवेः लब्धवानसि । विदॢ लाभे, लुङि सिज्लुकि ‘दश्च’ इति रुत्वम् । प्रश्ने वाक्यस्य टेः प्लुतः । अत यत्प्रतिवचनं ‘उतेमनन्नमुः’ इति तस्याभिप्रायमाह - उतेमा इत्यादि । अत्र लाभप्रश्ने लब्धवानस्म्यहमिति प्रतिवक्तव्ये उतेमनन्नमुरिति यदुक्तं तस्यायमभिप्रायः - तथा हि न केवलमिमा लब्धवानस्म्यहं उत अपि तु अनन्नमुः इमाः अत्यर्थं मामुपसं प्राप्ताः दर्शयितुमपि शक्यन्ते । द्रष्टुमशक्यमपि हि आत्मसात्कृतलब्धमुच्यते । इमास्त्वापो न तथा, उपनता एवेमाः; तत्किमुच्यते लब्धवानस्मीति; अपित्विमाः पश्येति एतदर्थरूपमाहायं मन्त्र इति ॥
मूलम् (संयुक्तम्)
यद्य॑ग्निष्टो॒मो जु॒होति॒ यद्यु॒क्थ्यᳶ॑ परि॒धौ नि मा॑र्ष्टि॒ यद्य॑तिरा॒त्रो यजु॒र्वद॒न्प्र प॑द्यते यज्ञक्रतू॒नाव्व्ँयावृ॑त्त्यै ॥ [15]
विश्वास-प्रस्तुतिः
यद्य॑ग्निष्टो॒मो जु॒होति॒ , यद्यु॒क्थ्यᳶ॑ परि॒धौ नि मा॑र्ष्टि॒ ,
यद्य॑तिरा॒त्रो यजु॒र् वद॒न् प्र प॑द्यते , यज्ञक्रतू॒नाव्ँ व्यावृ॑त्त्यै ॥ [15]
मूलम्
यद्य॑ग्निष्टो॒मो जु॒होति॒ , यद्यु॒क्थ्यᳶ॑ परि॒धौ नि मा॑र्ष्टि॒ ,
यद्य॑तिरा॒त्रो यजु॒र् वद॒न् प्र प॑द्यते , यज्ञक्रतू॒नाव्ँ व्यावृ॑त्त्यै ॥ [15]
पद-पाठः
यदि॑ । अ॒ग्नि॒ष्टो॒म इत्य॑ग्नि-स्तो॒मः । जु॒होति॑ । यदि॑ । उ॒क्थ्यः॑ । प॒रि॒धाविति॑ परि-धौ । नीति॑ । मा॒र्ष्टि॒ । यदि॑ । अ॒ति॒रा॒त्र इत्य॑ति-रा॒त्रः । यजुः॑ । वद॑न् । प्रेति॑ । प॒द्य॒ते॒ । य॒ज्ञ॒क्र॒तू॒नामिति॑ यज्ञ-क्र॒तू॒नाम् । व्यावृ॑त्त्या॒ इति॑ वि-आवृ॑त्त्यै ॥ [15]
भट्टभास्कर-टीका
10प्रचरणीयशेषात्क्रतुकरणं जुहोति - ‘यमग्रे पृत्सु मर्त्यम्’ इति ॥ यद्ययमग्निष्टोमः, अथवा यद्युक्थ्यः परिधौ निर्माष्ट्यनेन मन्त्रेण । अथ यद्यतिरात्रः एतं मन्त्रं वदन् प्रपद्यते हविर्धानम् । यज्ञक्रतवः यूपवन्तो यागाः । तेषां व्यावृत्त्यै विभागार्थमेवं कुर्यादिति ॥
इति षष्ठे चतुर्थे तृतीयोनुवाकः ॥