०१ ...{Loading}...
मूलम् (संयुक्तम्)
य॒ज्ञेन॒ वै प्र॒जाप॑तिᳶ प्र॒जा अ॑सृजत॒ ता उ॑प॒यड्भि॑रे॒वासृ॑जत॒ यदु॑प॒यज॑ उप॒यज॑ति प्र॒जा ए॒व तद्यज॑मानस्सृजते
विश्वास-प्रस्तुतिः
य॒ज्ञेन॒ वै प्र॒जाप॑तिᳶ प्र॒जा अ॑सृजत ।
ता उ॑प॒यड्भि॑र् ए॒वासृ॑जत ।
यदु॑प॒यज॑ उप॒यज॑ति , प्र॒जा ए॒व तद् यज॑मानस् सृजते ।
मूलम्
य॒ज्ञेन॒ वै प्र॒जाप॑तिᳶ प्र॒जा अ॑सृजत ।
ता उ॑प॒यड्भि॑र् ए॒वासृ॑जत ।
यदु॑प॒यज॑ उप॒यज॑ति , प्र॒जा ए॒व तद् यज॑मानस् सृजते ।
पद-पाठः
य॒ज्ञेन॑ । वै । प्र॒जाप॑ति॒रिति॑ प्र॒जा-प॒तिः॒ । प्र॒जा इति॑ प्र-जाः । अ॒सृ॒ज॒त॒ ।
ताः । उ॒प॒यड्भि॒रित्यु॑प॒यट्-भिः॒ । ए॒व । अ॒सृ॒ज॒त॒ ।
यत् । उ॒प॒यज॒ इत्यु॑प-यजः॑ । उ॒प॒यज॒तीत्यु॑प-यज॑ति । प्र॒जा इति॑ प्र-जाः । ए॒व । तत् । यज॑मानः । सृ॒ज॒ते॒ ।
भट्टभास्कर-टीका
1यज्ञेन वा इत्यादि ॥ अनूयाजसमीपे इज्यन्ते इत्युपयजः गुदप्रच्छेदयागाः समुद्रादिदेवत्याः अनूयाजानां वषट्कृते वषट्कृते जुहोति । ‘विजुपे छन्दसि’ इति विच् । ‘यदुपयज उपयजति’ इति उपयड्यागविधिः । ‘तिङि चोदात्तवति’ इति गतेरनुदात्तत्वम्, समासश्च ॥
मूलम् (संयुक्तम्)
जघना॒र्धादव॑ द्यति जघना॒र्धाद्धि प्र॒जाᳶ प्र॒जाय॑न्ते
विश्वास-प्रस्तुतिः
ज॒घ॒ना॒र्धादव॑ द्यति ।
ज॒घ॒ना॒र्धाद्धि प्र॒जाᳶ प्र॒जाय॑न्ते ।
मूलम्
ज॒घ॒ना॒र्धादव॑ द्यति ।
ज॒घ॒ना॒र्धाद्धि प्र॒जाᳶ प्र॒जाय॑न्ते ।
पद-पाठः
ज॒घ॒ना॒र्धादिति॑ जघन-अ॒र्धात् । अवेति॑ । द्य॒ति॒ ।
ज॒घ॒ना॒र्धादिति॑ जघन-अ॒र्धात् । हि । प्र॒जा इति॑ प्र-जाः । प्र॒जाय॑न्त॒ इति॑ प्र-जाय॑न्ते ।
भट्टभास्कर-टीका
2जघनार्धादिति ॥ जघनस्थानात् गुदपार्श्वात् । कुत एतत्? ‘योवद्यति गुदस्य’ इत्युत्तरत्र वक्ष्यमाणत्वात् । जघनाद्धीति । पर्वूवद्गतिनिघातसमासौ, ‘हि च’ इति तिङो निघाताभावः ॥
मूलम् (संयुक्तम्)
स्थविम॒तोऽव॑ द्यति स्थविम॒तो हि प्र॒जाᳶ प्र॒जाय॒न्ते
विश्वास-प्रस्तुतिः
स्थ॒वि॒म॒तो ऽव॑ द्यति ।
स्थ॒वि॒म॒तो हि प्र॒जाᳶ प्र॒जाय॑न्ते ।
मूलम्
स्थ॒वि॒म॒तो ऽव॑ द्यति ।
स्थ॒वि॒म॒तो हि प्र॒जाᳶ प्र॒जाय॑न्ते ।
पद-पाठः
स्थ॒वि॒म॒तः । अवेति॑ । द्य॒ति॒ ।
स्थ॒वि॒म॒तः । हि । प्र॒जा इति॑ प्र-जाः । प्र॒जाय॑न्त॒ इति॑ प्र-जाय॑न्ते ।
भट्टभास्कर-टीका
3स्थविमत इति ॥ स्थूलतराज्जधनसमीपात् गुदात् पूर्ववत् भावेन भाववतो लक्षणात् । ‘अपादाने चाहीयरुहोः’ इति तसिः । स्थविमतो हीति । स्थूलतराज्जघनसमीपात् ॥
मूलम् (संयुक्तम्)
ऽस॑म्भिन्द॒न्नव॑ द्यति प्रा॒णाना॒मस॑म्भेदाय॒
विश्वास-प्रस्तुतिः
अस॑म्भिन्द॒न्नव॑ द्यति ।
प्रा॒णाना॒मस॑म्भेदाय ।
मूलम्
अस॑म्भिन्द॒न्नव॑ द्यति ।
प्रा॒णाना॒मस॑म्भेदाय ।
पद-पाठः
अस॑म्भिन्द॒न्नित्यस॑म्-भि॒न्द॒न् । अवेति॑ । द्य॒ति॒ ।
प्रा॒णाना॒मिति॑ प्र-अ॒नाना॑म् । अस॑म्भेदा॒येत्यस॑म्-भे॒दा॒य॒ ।
भट्टभास्कर-टीका
4असंभिन्दन्निति ॥ अमिश्रयन् । अपिवायन्नित्येके ॥
मूलम् (संयुक्तम्)
न प॒र्याव॑र्तयति॒ यत्प॑र्याव॒र्तये॑दुदाव॒र्तᳶ प्र॒जा ग्राहु॑कस्स्याथ्
विश्वास-प्रस्तुतिः
न प॒र्याव॑र्तयति ।
यत् प॑र्याव॒र्तये॑द् उदाव॒र्तᳶ प्र॒जा ग्राहु॑कस् स्यात् ।
मूलम्
न प॒र्याव॑र्तयति ।
यत् प॑र्याव॒र्तये॑द् उदाव॒र्तᳶ प्र॒जा ग्राहु॑कस् स्यात् ।
पद-पाठः
न । प॒र्याव॑र्तय॒तीति॑ परि-आव॑र्तयति ।
यत् । प॒र्या॒व॒र्तये॒दिति॑ परि-आ॒व॒र्तये॑त् । उ॒दा॒व॒र्तः । प्र॒जा इति॑ प्र-जाः । ग्राहु॑कः । स्या॒त् ।
भट्टभास्कर-टीका
5न पर्यावर्तयतीति ॥ न पुनरावर्तयतीति । ‘गतिर्गतौ’ इति निघातस्समासश्च । यत्पर्यावर्तयेदिति । निघाते प्रतिषिद्धे गतिद्वयस्यानुदात्तत्वं समासश्च । उदावर्तो रोगविशेषः प्रजानां ग्राहकस्स्यात् । छान्दस उकञ् ॥
मूलम् (संयुक्तम्)
समु॒द्रङ्ग॑च्छ॒ स्वाहेत्या॑ह॒ रेतः॑ [1]
ए॒व तद्द॑धात्य॒न्तरि॑क्षङ्गच्छ॒ स्वाहेत्या॑हा॒न्तरि॑क्षेणै॒वास्मै॑ प्र॒जाᳶ प्र ज॑नयत्य॒न्तरि॑क्षँ॒ ह्यनु॑ प्र॒जाᳶ प्र॒जाय॑न्ते दे॒वँ स॑वि॒तार॑ङ्गच्छ॒ स्वाहेत्या॑ह सवि॒तृप्र॑सूत ए॒वास्मै॑ प्र॒जाᳶ प्र ज॑नयत्यहोरा॒त्रे ग॑च्छ॒ स्वाहेत्या॑हाहोरा॒त्राभ्या॑मे॒वास्मै॑ प्र॒जाᳶ प्र ज॑नयत्यहोरा॒त्रे ह्यनु॑ प्र॒जाᳶ प्र॒जाय॑न्ते मि॒त्रावरु॑णौ गच्छ॒ स्वाहा॑ [2]
इत्या॑ह प्र॒जास्वे॒व प्रजा॑तासु प्राणापा॒नौ द॑धाति॒ सोम॑ङ्गच्छ॒ स्वाहेत्या॑ह सौ॒म्या हि दे॒वत॑या प्र॒जा य॒ज्ञङ्ग॑च्छ॒ स्वाहेत्या॑ह प्र॒जा ए॒व य॒ज्ञियाः॑ करोति॒ छन्दाँ॑सि गच्छ॒ स्वाहेत्या॑ह प॒शवो॒ वै छन्दाँ॑सि प॒शूने॒वाव॑ रुन्द्धे॒ द्यावा॑पृथि॒वी ग॑च्छ॒ स्वाहेत्या॑ह प्र॒जा ए॒व प्रजा॑ता॒ द्यावा॑पृथि॒वीभ्या॑मुभ॒यत॒ᳶ परि॑ गृह्णाति॒ नभः॑ [3]
दि॒व्यङ्ग॑च्छ॒ स्वाहेत्या॑ह प्र॒जाभ्य॑ ए॒व प्रजा॑ताभ्यो॒ वृष्टि॒न्नि य॑च्छत्य॒ग्निव्ँ वै॑श्वान॒रङ्ग॑च्छ॒ स्वाहेत्या॑ह प्र॒जा ए॒व प्रजा॑ता अ॒स्याम्प्रति॑ ष्ठापयति
विश्वास-प्रस्तुतिः
स॒मु॒द्रङ्ग॑च्छ॒ स्वाहेत्या॑ह ।
रेतः॑ ए॒व तद् द॑धाति ।[1]
अ॒न्तरि॑क्षङ् गच्छ॒ स्वाहेत्या॑ह ।
अ॒न्तरि॑क्षेणै॒वास्मै॑ प्र॒जाᳶ प्र ज॑नयति ।
अ॒न्तरि॑क्षँ॒ ह्यनु॑ प्र॒जाᳶ प्र॒जाय॑न्ते ।
दे॒वँ स॑वि॒तार॑ङ् गच्छ॒ स्वाहेत्या॑ह ।
स॒वि॒तृ॒प्र॑सूत ए॒वास्मै॑ प्र॒जाᳶ प्र ज॑नयति ।
अ॒हो॒रा॒त्रे ग॑च्छ॒ स्वाहेत्या॑ह ।
अ॒हो॒रा॒त्रा॒भ्या॑म् ए॒वास्मै॑ प्र॒जाᳶ प्र ज॑नयति ।
अ॒हो॒रा॒त्रे ह्यनु॑ प्र॒जाᳶ प्र॒जाय॑न्ते ।
मि॒त्रावरु॑णौ गच्छ॒ स्वाहेत्या॑ह ।[2]
प्र॒जास्वे॒व प्रजा॑तासु प्राणापा॒नौ द॑धाति ।
सोम॑ङ् गच्छ॒ स्वाहेत्या॑ह ।
सौ॒म्या हि दे॒वत॑या प्र॒जाः ।
य॒ज्ञङ्ग॑च्छ॒ स्वाहेत्या॑ह ।
प्र॒जा ए॒व य॒ज्ञियाः॑ करोति ।
छन्दाँ॑सि गच्छ॒ स्वाहेत्या॑ह ।
प॒शवो॒ वै छन्दाँ॑सि , प॒शूने॒वाव॑ रुन्धे ।
द्यावा॑पृथि॒वी ग॑च्छ॒ स्वाहेत्या॑ह ।
प्र॒जा ए॒व प्रजा॑ता॒ द्यावा॑पृथि॒वीभ्या॑मुभ॒यत॒ᳶ परि॑ गृह्णाति ।
नभः॑ दि॒व्यङ्ग॑च्छ॒ स्वाहेत्या॑ह । [3]
प्र॒जाभ्य॑ ए॒व प्रजा॑ताभ्यो॒ वृष्टि॒न्नि य॑च्छति ।
अ॒ग्निव्ँ वै॑श्वान॒रङ्ग॑च्छ॒ स्वाहेत्या॑ह ।
प्र॒जा ए॒व प्रजा॑ता अ॒स्याम् प्रति॑ष्ठापयति ।
मूलम्
स॒मु॒द्रङ्ग॑च्छ॒ स्वाहेत्या॑ह ।
रेतः॑ ए॒व तद् द॑धाति ।[1]
अ॒न्तरि॑क्षङ् गच्छ॒ स्वाहेत्या॑ह ।
अ॒न्तरि॑क्षेणै॒वास्मै॑ प्र॒जाᳶ प्र ज॑नयति ।
अ॒न्तरि॑क्षँ॒ ह्यनु॑ प्र॒जाᳶ प्र॒जाय॑न्ते ।
दे॒वँ स॑वि॒तार॑ङ् गच्छ॒ स्वाहेत्या॑ह ।
स॒वि॒तृ॒प्र॑सूत ए॒वास्मै॑ प्र॒जाᳶ प्र ज॑नयति ।
अ॒हो॒रा॒त्रे ग॑च्छ॒ स्वाहेत्या॑ह ।
अ॒हो॒रा॒त्रा॒भ्या॑म् ए॒वास्मै॑ प्र॒जाᳶ प्र ज॑नयति ।
अ॒हो॒रा॒त्रे ह्यनु॑ प्र॒जाᳶ प्र॒जाय॑न्ते ।
मि॒त्रावरु॑णौ गच्छ॒ स्वाहेत्या॑ह ।[2]
प्र॒जास्वे॒व प्रजा॑तासु प्राणापा॒नौ द॑धाति ।
सोम॑ङ् गच्छ॒ स्वाहेत्या॑ह ।
सौ॒म्या हि दे॒वत॑या प्र॒जाः ।
य॒ज्ञङ्ग॑च्छ॒ स्वाहेत्या॑ह ।
प्र॒जा ए॒व य॒ज्ञियाः॑ करोति ।
छन्दाँ॑सि गच्छ॒ स्वाहेत्या॑ह ।
प॒शवो॒ वै छन्दाँ॑सि , प॒शूने॒वाव॑ रुन्धे ।
द्यावा॑पृथि॒वी ग॑च्छ॒ स्वाहेत्या॑ह ।
प्र॒जा ए॒व प्रजा॑ता॒ द्यावा॑पृथि॒वीभ्या॑मुभ॒यत॒ᳶ परि॑ गृह्णाति ।
नभः॑ दि॒व्यङ्ग॑च्छ॒ स्वाहेत्या॑ह । [3]
प्र॒जाभ्य॑ ए॒व प्रजा॑ताभ्यो॒ वृष्टि॒न्नि य॑च्छति ।
अ॒ग्निव्ँ वै॑श्वान॒रङ्ग॑च्छ॒ स्वाहेत्या॑ह ।
प्र॒जा ए॒व प्रजा॑ता अ॒स्याम् प्रति॑ष्ठापयति ।
पद-पाठः
स॒मु॒द्रम् । ग॒च्छ॒ । स्वाहा॑ । इति॑ । आ॒ह॒ ।
रेतः॑ । [1] ए॒व । तत् । द॒धा॒ति॒ ।
अ॒न्तरि॑क्षम् । ग॒च्छ॒ । स्वाहा॑ । इति॑ । आ॒ह॒ ।
अ॒न्तरि॑क्षेण । ए॒व । अ॒स्मै॒ । प्र॒जा इति॑ प्र-जाः । प्रेति॑ । ज॒न॒य॒ति॒ ।
अ॒न्तरि॑क्षम् । हि । अन्विति॑ । प्र॒जा इति॑ प्र-जाः । प्र॒जाय॑न्त॒ इति॑ प्र-जाय॑न्ते ।
दे॒वम् । स॒वि॒तार॑म् । ग॒च्छ॒ । स्वाहा॑ । इति॑ । आ॒ह॒ ।
स॒वि॒तृप्र॑सूत॒ इति॑ सवि॒तृ-प्र॒सू॒तः॒ । ए॒व । अ॒स्मै॒ । प्र॒जा इति॑ प्र-जाः । प्रेति॑ । ज॒न॒य॒ति॒ ।
अ॒हो॒रा॒त्रे इत्य॑हः-रा॒त्रे । ग॒च्छ॒ । स्वाहा॑ । इति॑ । आ॒ह॒ ।
अ॒हो॒रा॒त्राभ्या॒मित्य॑हः-रा॒त्राभ्या॑म् । ए॒व । अ॒स्मै॒ । प्र॒जा इति॑ प्र-जाः । प्रेति॑ । ज॒न॒य॒ति॒ ।
अ॒हो॒रा॒त्रे इत्य॑हः-रा॒त्रे । हि । अन्विति॑ । प्र॒जा इति॑ प्र-जाः । प्र॒जाय॑न्त॒ इति॑ प्र-जाय॑न्ते ।
मि॒त्रावरु॑णा॒विति॑ मि॒त्रा-वरु॑णौ । ग॒च्छ॒ । स्वाहा॑ । [2] इति॑ । आ॒ह॒ ।
प्र॒जास्विति॑ प्र-जासु॑ । ए॒व । प्रजा॑ता॒स्विति॒ प्र-जा॒ता॒सु॒ । प्रा॒णा॒पा॒नाविति॑ प्राण-अ॒पा॒नौ । द॒धा॒ति॒ ।
सोम॑म् । ग॒च्छ॒ । स्वाहा॑ । इति॑ । आ॒ह॒ ।
सौ॒म्याः । हि । दे॒वत॑या । प्र॒जा इति॑ प्र-जाः ।
य॒ज्ञम् । ग॒च्छ॒ । स्वाहा॑ । इति॑ । आ॒ह॒ ।
प्र॒जा इति॑ प्र-जाः । ए॒व । य॒ज्ञियाः॑ । क॒रो॒ति॒ ।
छन्दाँ॑सि । ग॒च्छ॒ । स्वाहा॑ । इति॑ । आ॒ह॒ ।
प॒शवः॑ । वै । छन्दाँ॑सि ।
प॒शून् । ए॒व । अवेति॑ । रु॒न्द्धे॒ ।
द्यावा॑पृथि॒वी इति॒ द्यावा॑-पृ॒थि॒वी । ग॒च्छ॒ । स्वाहा॑ । इति॑ । आ॒ह॒ ।
प्र॒जा इति॑ प्र-जाः । ए॒व । प्रजा॑ता॒ इति॒ प्र-जा॒ताः॒ । द्यावा॑पृथि॒वीभ्या॒मिति॒ द्यावा॑-पृ॒थि॒वीभ्या॑म् । उ॒भ॒यतः॑ । परीति॑ । गृ॒ह्णा॒ति॒ ।
नभः॑ । [3] दि॒व्यम् । ग॒च्छ॒ । स्वाहा॑ । इति॑ । आ॒ह॒ ।
प्र॒जाभ्य॒ इति॑ प्र-जाभ्यः॑ । ए॒व । प्रजा॑ताभ्य॒ इति॒ प्र-जा॒ता॒भ्यः॒ । वृष्टि॑म् । नीति॑ । य॒च्छ॒ति॒ ।
अ॒ग्निम् । वै॒श्वा॒न॒रम् । ग॒च्छ॒ । स्वाहा॑ । इति॑ । आ॒ह॒ ।
प्र॒जा इति॑ प्र-जाः । ए॒व । प्रजा॑ता॒ इति॒ प्र-जा॒ताः॒ । अ॒स्याम् । प्रतीति॑ । स्था॒प॒य॒ति॒ ।
भट्टभास्कर-टीका
6समुद्रमित्यादयः उपयजां मन्त्राः ॥ रेत एवेति । आत्मन्युपचितं करोतीति । अन्तरिक्षेणेति हेतुना । कथमित्याह - अन्तरिक्षं अवकाशं हि अनुप्राप्य प्रजाः प्रजायन्ते । सवितृप्रसूत इति । सवित्राऽनुज्ञात एव । ‘तृतीया कर्मणि’ इति पूर्वपदप्रकृतिस्वरत्वम् । अहोरात्रे इति । लक्षणेऽनोः कर्मप्रवचनीयत्वम् । प्राणापानाविति । प्राणापानात्मकत्वान्मित्रावरुणयोः । सौम्या इति । सोमाट्ट्यण् ॥
मूलम् (संयुक्तम्)
प्रा॒णानाव्ँ॒वा ए॒षोऽव॑ द्यति॒ यो॑ऽव॒द्यति॑ गु॒दस्य॒ मनो॑ मे॒ हार्दि॑ य॒च्छेत्या॑ह प्रा॒णाने॒व य॑थास्था॒नमुप॑ ह्वयते
विश्वास-प्रस्तुतिः
प्रा॒णानाव्ँ॒ वा ए॒षोऽव॑ द्यति ।
यो॑ऽव॒द्यति॑ गु॒दस्य॒ मनो॑ मे॒ हार्दि॑ य॒च्छेत्या॑ह ।
प्रा॒णाने॒व य॑थास्था॒नमुप॑ ह्वयते ।
मूलम्
प्रा॒णानाव्ँ॒ वा ए॒षोऽव॑ द्यति ।
यो॑ऽव॒द्यति॑ गु॒दस्य॒ मनो॑ मे॒ हार्दि॑ य॒च्छेत्या॑ह ।
प्रा॒णाने॒व य॑थास्था॒नमुप॑ ह्वयते ।
पद-पाठः
प्रा॒णाना॒मिति॑ प्र-अ॒नाना॑म् । वै । ए॒षः । अवेति॑ । द्य॒ति॒ । यः । अ॒व॒द्यतीत्य॑व-द्यति॑ । गु॒दस्य॑ ।
मनः॑ । मे॒ । हार्दि॑ । य॒च्छ॒ । इति॑ । आ॒ह॒ ।
प्रा॒णानिति॑ प्र-अ॒नान् । ए॒व । य॒था॒स्था॒नमिति॑ यथा-स्था॒नम् । उपेति॑ । ह्व॒य॒ते॒ ।
भट्टभास्कर-टीका
7प्राणानामित्यादि ॥ यो गुदस्यावद्यति प्राणानामेवायमवद्यति । ‘यद्वृत्तात्’ इति निघाते प्रतिषिद्धे ‘ओतश्श्यनि’ इति लोपे उदात्तनिवृत्तिस्वरेण श्यन एवोदात्तत्वम् । ‘तिङि चोदात्तवति’ इति गतेरनुदात्तत्वम्, ‘उदात्तवता तिङा’ इति समासः । (बर्हिषि हस्तयोर्निर्माजनं - अद्भ्यस्त्वेत्यादि ।) यथास्थानमिति । गुदावदाने प्रच्युतात्स्वस्मिन्नेव स्थाने पुनरुपह्वयते आनीय स्थापयति ॥
मूलम् (संयुक्तम्)
प॒शोर्वा आल॑ब्धस्य॒ हृद॑यँ॒ शुगृ॑च्छति॒ सा हृ॑दयशू॒लम् [4]
अ॒भि समे॑ति॒ यत्पृ॑थि॒व्याँ हृ॑दयशू॒लमु॑द्वा॒सये॑त्पृथि॒वीँ शु॒चार्प॑ये॒द्यद॒प्स्व॑पश्शु॒चार्प॑ये॒च्छुष्क॑स्य चा॒र्द्रस्य॑ च स॒न्धावुद्वा॑सयत्यु॒भय॑स्य॒ शान्त्यै॒ यन्द्वि॒ष्यात्तन्ध्या॑येच्छु॒चैवैन॑मर्पयति ॥ [5]
विश्वास-प्रस्तुतिः
प॒शोर्वा आल॑ब्धस्य॒ हृद॑यँ॒ शुगृ॑च्छति ।
सा हृ॑दयशू॒लम् अ॒भि समे॑ति । [4]
यत्पृ॑थि॒व्याँ हृ॑दयशू॒लम् उ॑द्वा॒सये॑त् , पृथि॒वीँ शु॒चार्प॑येत् ।
यद॒प्स्व॑पश् शु॒चार्प॑येत् ।
शुष्क॑स्य चा॒र्द्रस्य॑ च स॒न्धावुद्वा॑सयत्य् , उ॒भय॑स्य॒ शान्त्यै॑ ।
यन् द्वि॒ष्यात् तन्ध्या॑येच् , छु॒चैवैन॑मर्पयति ॥ [5]
मूलम्
प॒शोर्वा आल॑ब्धस्य॒ हृद॑यँ॒ शुगृ॑च्छति ।
सा हृ॑दयशू॒लम् अ॒भि समे॑ति । [4]
यत्पृ॑थि॒व्याँ हृ॑दयशू॒लम् उ॑द्वा॒सये॑त् , पृथि॒वीँ शु॒चार्प॑येत् ।
यद॒प्स्व॑पश् शु॒चार्प॑येत् ।
शुष्क॑स्य चा॒र्द्रस्य॑ च स॒न्धावुद्वा॑सयत्य् , उ॒भय॑स्य॒ शान्त्यै॑ ।
यन् द्वि॒ष्यात् तन्ध्या॑येच् , छु॒चैवैन॑मर्पयति ॥ [5]
पद-पाठः
प॒शोः । वै । आल॑ब्ध॒स्येत्या-ल॒ब्ध॒स्य॒ । हृद॑यम् । शुक् । ऋ॒च्छ॒ति॒ ।
सा । हृ॒द॒य॒शू॒लमिति॑ हृदय-शू॒लम् । [4] अ॒भि । समिति॑ । ए॒ति॒ ।
यत् । पृ॒थि॒व्याम् । हृ॒द॒य॒शू॒लमिति॑ हृदय-शू॒लम् । उ॒द्वा॒सये॒दित्यु॑त्-वा॒सये॑त् । पृ॒थि॒वीम् । शु॒चा । अ॒र्प॒ये॒त् ।
यत् । अ॒प्स्वित्य॑प्-सु । अ॒पः । शु॒चा । अ॒र्प॒ये॒त् ।
शुष्क॑स्य । च॒ । आ॒र्द्रस्य॑ । च॒ । स॒न्धाविति॑ सम्-धौ । उदिति॑ । वा॒स॒य॒ति॒ । उ॒भय॑स्य । शान्त्यै॑ ।
यम् । द्वि॒ष्यात् । तम् । ध्या॒ये॒त् ।
शु॒चा । ए॒व । ए॒न॒म् । अ॒र्प॒य॒ति॒ ॥ [5]
भट्टभास्कर-टीका
8पशोर्वा इत्यादि ॥ गतम् । यदप्स्विति । हृदयशूलमुद्वासयेदित्येव । शुष्कस्य चेत्यादि । पृथिव्या अपां च सन्धौ हृदयशूलमुद्वासयति उदकसमीपे इत्यर्थः । उभयस्येति । पृथिव्या अपां च शान्त्यै सुखाय तद्भवति । यमित्यादि । गतम् ॥
इति षष्ठे चतुर्थे प्रथमोनुवाकः ॥