११ ...{Loading}...
मूलम् (संयुक्तम्)
मेद॑सा॒ स्रुचौ॒ प्रोर्णो॑ति॒ मेदो॑रूपा॒ वै प॒शवो॑ रू॒पमे॒व प॒शुषु॑ दधाति यू॒षन्न॑व॒धाय॒ प्रोर्णो॑ति॒ रसो॒ वा ए॒ष प॑शू॒नाय्ँयद्यू रस॑मे॒व प॒शुषु॑ दधाति
विश्वास-प्रस्तुतिः
मेद॑सा॒ स्रुचौ॒ प्रोर्णो॑ति । मेदो॑रूपा॒ वै प॒शवो॑ , रू॒पमे॒व प॒शुषु॑ दधाति ।
यू॒षन्न॑व॒धाय॒ प्रोर्णो॑ति । रसो॒ वा ए॒ष प॑शू॒नाय्ँ , यद्यू रस॑मे॒व प॒शुषु॑ दधाति ।
मूलम्
मेद॑सा॒ स्रुचौ॒ प्रोर्णो॑ति । मेदो॑रूपा॒ वै प॒शवो॑ , रू॒पमे॒व प॒शुषु॑ दधाति ।
यू॒षन्न॑व॒धाय॒ प्रोर्णो॑ति । रसो॒ वा ए॒ष प॑शू॒नाय्ँ , यद्यू रस॑मे॒व प॒शुषु॑ दधाति ।
पद-पाठः
मेद॑सा । स्रुचौ॑ । प्रेति॑ । ऊ॒र्णो॒ति॒ ।
मेदो॑रूपा॒ इति॒ मेदः॑-रू॒पाः॒ । वै । प॒शवः॑ । रू॒पम् । ए॒व । प॒शुषु॑ । द॒धा॒ति॒ ।
यू॒षन् । अ॒व॒धायेत्य॑व-धाय॑ । प्रेति॑ । ऊ॒र्णो॒ति॒ ।
रसः॑ । वै । ए॒षः । प॒शू॒नाम् । यत् । यूः । रस॑म् । ए॒व । प॒शुषु॑ । द॒धा॒ति॒ ।
भट्टभास्कर-टीका
1मेदसेत्यादिवर्गः ॥ ऊधसो मांसं मेदः । स्रुचौ जुहूपभृतौ । मेदोरूपाः मेदस्स्वभावाः पशवः । यूषन्निति । रसात्स्रुतं जलम् । पद्दन्नादिना यूषन्भावः, ‘सुपां सुलुक्’ इति सप्तम्या लुक् । अवधाय प्रक्षिप्य । रसो वा इत्यादि । गतम् ॥
मूलम् (संयुक्तम्)
पा॒र्श्वेन॑ वसाहो॒मम्प्र यौ॑ति॒ मध्यव्ँ॒वा ए॒तत्प॑शू॒नाय्ँयत्पा॒र्श्वँ रस॑ ए॒ष प॑शू॒नाय्ँयद्वसा॒ यत्पा॒र्श्वेन॑ वसाहो॒मम्प्र॒यौति॑ मध्य॒त ए॒व प॑शू॒नाँ रस॑न्दधाति॒ घ्नन्ति॑ [57]
वा ए॒तत्प॒शुय्ँयत्सं॑ज्ञ॒पय॑न्त्यै॒न्द्रᳵ खलु॒ वै दे॒वत॑या प्रा॒ण ऐ॒न्द्रो॑ऽपा॒न ऐ॒न्द्रᳶ प्रा॒णो अङ्गे॑अङ्गे॒ नि दे॑ध्य॒दित्या॑ह प्राणापा॒नावे॒व प॒शुषु॑ दधाति॒ देव॑ त्वष्ट॒र्भूरि॑ ते॒ सँस॑मे॒त्वित्या॑ह त्वा॒ष्ट्रा हि दे॒वत॑या प॒शवो॒ विषु॑रूपा॒ यत्सल॑क्ष्माणो॒ भव॒थेत्या॑ह॒ विषु॑रूपा॒ ह्ये॑ते सन्त॒स्सल॑क्ष्माण ए॒तर्हि॒ भव॑न्ति देव॒त्रा यन्त॑म् [58]
अव॑से॒ सखा॒योऽनु॑ त्वा मा॒ता पि॒तरो॑ मद॒न्त्वित्या॒हानु॑मतमे॒वैन॑म्मा॒त्रा पि॒त्रा सु॑व॒र्गल्ँ लो॒कङ्ग॑मयत्यर्ध॒र्चे व॑साहो॒मञ्जु॑होत्य॒सौ वा अ॑र्ध॒र्च इ॒यम॑र्ध॒र्च इ॒मे ए॒व रसे॑नानक्ति॒ दिशो॑ जुहोति॒ दिश॑ ए॒व रसे॑नान॒क्त्यथो॑ दि॒ग्भ्य ए॒वोर्जँ॒ रस॒मव॑ रुन्द्धे प्राणापा॒नौ वा ए॒तौ प॑शू॒नाय्ँयत्पृ॑षदा॒ज्यव्ँवा॑नस्प॒त्याᳵ खलु॑ [59]
वै दे॒वत॑या प॒शवो॒ यत्पृ॑षदा॒ज्यस्यो॑प॒हत्याह॒ वन॒स्पत॒येऽनु॑ ब्रूहि॒ वन॒स्पत॑ये॒ प्रेष्येति॑ प्राणापा॒नावे॒व प॒शुषु॑ दधात्य॒न्यस्या॑न्यस्य समव॒त्तँ स॒मव॑द्यति॒ तस्मा॒न्नाना॑रूपाᳶ प॒शवो॑
विश्वास-प्रस्तुतिः
पा॒र्श्वेन॑ वसाहो॒मम्प्र यौ॑ति॒ , मध्यव्ँ॒ वा ए॒तत्प॑शू॒नाय्ँ , यत्पा॒र्श्वँ रस॑ ए॒ष प॑शू॒नाय्ँ यद्वसा॒ , यत्पा॒र्श्वेन॑ वसाहो॒मम्प्र॒यौति॑ , मध्य॒त ए॒व प॑शू॒नाँ रस॑न् दधाति ।
घ्नन्ति॑ वा ए॒तत् प॒शुय्ँ यत्सं॑ज्ञ॒पय॑न्ति ।[57]
ए॒न्द्रᳵ खलु॒ वै दे॒वत॑या प्रा॒ण , ऐ॒न्द्रो॑ऽपा॒न , ऐ॒न्द्रᳶ प्रा॒णो अङ्गे॑अङ्गे॒ नि दे॑ध्य॒दित्या॑ह ।
प्रा॒णा॒पा॒नावे॒व प॒शुषु॑ दधाति ।
“देव॑ त्वष्ट॒र्भूरि॑ ते॒ सँस॑मे॒त्व्” इत्या॑ह । त्वा॒ष्ट्रा हि दे॒वत॑या प॒शवः॑ ।
“विषु॑रूपा॒ यत् सल॑क्ष्माणो॒ भव॒थ” इत्या॑ह ।
विषु॑रूपा॒ ह्ये॑ते सन्त॒स् सल॑क्ष्माण ए॒तर्हि॒ भव॑न्ति ।
दे॒व॒त्रा यन्त॑म् अव॑से॒ सखा॒यो , ऽनु॑ त्वा मा॒ता पि॒तरो॑ मद॒न्त्वित्याह ।[58]
अनु॑मतम् ए॒वैन॑म् मा॒त्रा पि॒त्रा सु॑व॒र्गल्ँ लो॒कङ् ग॑मयति ।
अ॒र्ध॒र्चे व॑साहो॒मञ् जु॑होति । अ॒सौ वा अ॑र्ध॒र्च इ॒यम् अ॑र्ध॒र्च , इ॒मे ए॒व रसे॑नानक्ति ।
दिशो॑ जुहोति॒ , दिश॑ ए॒व रसे॑नानक्ति ।
अथो॑ दि॒ग्भ्य ए॒वोर्जँ॒ रस॒मव॑ रुन्धे ।
प्रा॒णा॒पा॒नौ वा ए॒तौ प॑शू॒नाम् ।
यत् पृ॑षदा॒ज्यव्ँ वा॑नस्प॒त्याᳵ खलु॒ वै दे॒वत॑या प॒शवो॒
यत् पृ॑षदा॒ज्यस्यो॑प॒हत्याह ।[59]
वन॒स्पत॒येऽनु॑ ब्रूहि॒ - “वन॒स्पत॑ये॒ प्रेष्ये"ति॑ ।
प्रा॒णा॒पा॒नावे॒व प॒शुषु॑ दधाति ।
अ॒न्यस्या॑न्यस्य समव॒त्तँ स॒मव॑द्यति ।
तस्मा॒न् नाना॑रूपाᳶ प॒शवः॑ ।
मूलम्
पा॒र्श्वेन॑ वसाहो॒मम्प्र यौ॑ति॒ , मध्यव्ँ॒ वा ए॒तत्प॑शू॒नाय्ँ , यत्पा॒र्श्वँ रस॑ ए॒ष प॑शू॒नाय्ँ यद्वसा॒ , यत्पा॒र्श्वेन॑ वसाहो॒मम्प्र॒यौति॑ , मध्य॒त ए॒व प॑शू॒नाँ रस॑न् दधाति ।
घ्नन्ति॑ वा ए॒तत् प॒शुय्ँ यत्सं॑ज्ञ॒पय॑न्ति ।[57]
ए॒न्द्रᳵ खलु॒ वै दे॒वत॑या प्रा॒ण , ऐ॒न्द्रो॑ऽपा॒न , ऐ॒न्द्रᳶ प्रा॒णो अङ्गे॑अङ्गे॒ नि दे॑ध्य॒दित्या॑ह ।
प्रा॒णा॒पा॒नावे॒व प॒शुषु॑ दधाति ।
“देव॑ त्वष्ट॒र्भूरि॑ ते॒ सँस॑मे॒त्व्” इत्या॑ह । त्वा॒ष्ट्रा हि दे॒वत॑या प॒शवः॑ ।
“विषु॑रूपा॒ यत् सल॑क्ष्माणो॒ भव॒थ” इत्या॑ह ।
विषु॑रूपा॒ ह्ये॑ते सन्त॒स् सल॑क्ष्माण ए॒तर्हि॒ भव॑न्ति ।
दे॒व॒त्रा यन्त॑म् अव॑से॒ सखा॒यो , ऽनु॑ त्वा मा॒ता पि॒तरो॑ मद॒न्त्वित्याह ।[58]
अनु॑मतम् ए॒वैन॑म् मा॒त्रा पि॒त्रा सु॑व॒र्गल्ँ लो॒कङ् ग॑मयति ।
अ॒र्ध॒र्चे व॑साहो॒मञ् जु॑होति । अ॒सौ वा अ॑र्ध॒र्च इ॒यम् अ॑र्ध॒र्च , इ॒मे ए॒व रसे॑नानक्ति ।
दिशो॑ जुहोति॒ , दिश॑ ए॒व रसे॑नानक्ति ।
अथो॑ दि॒ग्भ्य ए॒वोर्जँ॒ रस॒मव॑ रुन्धे ।
प्रा॒णा॒पा॒नौ वा ए॒तौ प॑शू॒नाम् ।
यत् पृ॑षदा॒ज्यव्ँ वा॑नस्प॒त्याᳵ खलु॒ वै दे॒वत॑या प॒शवो॒
यत् पृ॑षदा॒ज्यस्यो॑प॒हत्याह ।[59]
वन॒स्पत॒येऽनु॑ ब्रूहि॒ - “वन॒स्पत॑ये॒ प्रेष्ये"ति॑ ।
प्रा॒णा॒पा॒नावे॒व प॒शुषु॑ दधाति ।
अ॒न्यस्या॑न्यस्य समव॒त्तँ स॒मव॑द्यति ।
तस्मा॒न् नाना॑रूपाᳶ प॒शवः॑ ।
पद-पाठः
पा॒र्श्वेन॑ । व॒सा॒हो॒ममिति॑ वसा-हो॒मम् । प्रेति॑ । यौ॒ति॒ । मध्य॑म् । वै । ए॒तत् । प॒शू॒नाम् । यत् । पा॒र्श्वम् । रसः॑ । ए॒षः । प॒शू॒नाम् । यत् । वसा॑ । यत् । पा॒र्श्वेन॑ । व॒सा॒हो॒ममिति॑ वसा-हो॒मम् । प्र॒यौतीति॑ प्र-यौति॑ । म॒ध्य॒तः । ए॒व । प॒शू॒नाम् । रस॑म् । द॒धा॒ति॒ ।
घ्नन्ति॑ । [57] वै । ए॒तत् । प॒शुम् । यत् । स॒ञ्ज्ञ॒पय॒न्तीति॑ सम्-ज्ञ॒पय॑न्ति ।
ऐ॒न्द्रः । खलु॑ । वै । दे॒वत॑या । प्रा॒ण इति॑ प्र-अ॒नः । ऐ॒न्द्रः । अ॒पा॒न इत्य॑प-अ॒नः । ऐ॒न्द्रः । प्रा॒ण इति॑ प्र-अ॒नः । अङ्गे॑अङ्ग॒ इत्यङ्गे॑-अ॒ङ्गे॒ । नीति॑ । दे॒ध्य॒त् । इति॑ । आ॒ह॒ । प्रा॒णा॒पा॒नाविति॑ प्राण-अ॒पा॒नौ । ए॒व । प॒शुषु॑ । द॒धा॒ति॒ ।
देव॑ । त्व॒ष्टः॒ । भूरि॑ । ते॒ । सँस॒मिति॒ सम्-स॒म् । ए॒तु॒ । इति॑ । आ॒ह॒ । त्वा॒ष्ट्राः । हि । दे॒वत॑या । प॒शवः॑ ।
विषु॑रूपा॒ इति॒ विषु॑-रू॒पाः॒ । यत् । सल॑क्ष्माण॒ इति॒ स-ल॒क्ष्मा॒णः॒ । भ॒व॒थ॒ । इति॑ । आ॒ह॒ ।
विषु॑रूपा॒ इति॒ विषु॑-रू॒पाः॒ । हि । ए॒ते । सन्तः॑ । सल॑क्ष्माण॒ इति॒ स-ल॒क्ष्मा॒णः॒ । ए॒तर्हि॑ । भव॑न्ति ।
दे॒व॒त्रेति॑ देव-त्रा । यन्त॑म् । [58] अव॑से । सखा॑यः । अन्विति॑ । त्वा॒ । मा॒ता । पि॒तरः॑ । म॒द॒न्तु॒ । इति॑ । आ॒ह॒ ।
अनु॑मत॒मित्यनु॑-म॒त॒म् । ए॒व । ए॒न॒म् । मा॒त्रा । पि॒त्रा । सु॒व॒र्गमिति॑ सुवः-गम् । लो॒कम् । ग॒म॒य॒ति॒ ।
अ॒र्ध॒र्च इत्य॑र्ध-ऋ॒चे । व॒सा॒हो॒ममिति॑ वसा-हो॒मम् । जु॒हो॒ति॒ ।
अ॒सौ । वै । अ॒र्ध॒र्च इत्य॑र्ध-ऋ॒चः । इ॒यम् । अ॒र्ध॒र्च इत्य॑र्ध-ऋ॒चः । इ॒मे इति॑ । ए॒व । रसे॑न । अ॒न॒क्ति॒ ।
दिशः॑ । जु॒हो॒ति॒ ।
दिशः॑ । ए॒व । रसे॑न । अ॒न॒क्ति॒ । अथो॒ इति॑ । दि॒ग्भ्य इति॑ दिक्-भ्यः । ए॒व । ऊर्ज॑म् । रस॑म् । अवेति॑ । रु॒न्द्धे॒ ।
प्रा॒णा॒पा॒नाविति॑ प्राण-अ॒पा॒नौ । वै । ए॒तौ । प॒शू॒नाम् ।
यत् । पृ॒ष॒दा॒ज्यमिति॑ पृषत्-आ॒ज्यम् । वा॒न॒स्प॒त्याः । खलु॑ । [59]
वै । दे॒वत॑या । प॒शवः॑ । यत् । पृ॒ष॒दा॒ज्यस्येति॑ पृषत्-आ॒ज्यस्य॑ । उ॒प॒हत्येत्यु॑प-हत्य॑ । आह॑ ।
वन॒स्पत॑ये । अन्विति॑ । ब्रू॒हि॒ । वन॒स्पत॑ये । प्रेति॑ । इ॒ष्य॒ । इति॑ ।
प्रा॒णा॒पा॒नाविति॑ प्राण-अ॒पा॒नौ । ए॒व । प॒शुषु॑ । द॒धा॒ति॒ ।
अ॒न्यस्या॑न्य॒स्येत्य॒न्यस्य॑-अ॒न्य॒स्य॒ । स॒म॒व॒त्तमिति॑ सम्-अ॒व॒त्तम् । स॒मव॑द्य॒तीति॑ सम्-अव॑द्यति ।
स्मा॑त् । नाना॑रूपा॒ इति॒ नाना॑-रू॒पाः॒ । प॒शवः॑ ।
भट्टभास्कर-टीका
2पार्श्वेनेति ॥ पार्श्वाख्येन पश्वङ्गेन वसाहोमं वसां हेतव्यां प्रयौति आलोळयति । रसात्मको द्रव्य विशेषो वसा । पशुषु अवदानेषु ॥
मूलम् (संयुक्तम्)
यू॒ष्णोप॑ सिञ्चति॒ रसो॒ वा ए॒ष प॑शू॒नाय्ँयद्यू रस॑मे॒व प॒शुषु॑ दधा॒ति
विश्वास-प्रस्तुतिः
यू॒ष्णोप॑ सिञ्चति ।
रसो॒ वा ए॒ष प॑शू॒नाय्ँ , यद् यू रस॑म् ए॒व प॒शुषु॑ दधाति ।
मूलम्
यू॒ष्णोप॑ सिञ्चति ।
रसो॒ वा ए॒ष प॑शू॒नाय्ँ , यद् यू रस॑म् ए॒व प॒शुषु॑ दधाति ।
पद-पाठः
यू॒ष्णा । उपेति॑ । सि॒ञ्च॒ति॒ । रसः॑ । वै । ए॒षः । प॒शू॒नाम् । यत् । यूः । रस॑म् । ए॒व । प॒शुषु॑ । द॒धा॒ति॒ ।
भट्टभास्कर-टीका
3यूष्णेत्यादि ॥ गतम् ॥
मूलम् (संयुक्तम्)
इडा॒मुप॑ ह्वयते प॒शवो॒ वा इडा॑ प॒शूने॒वोप॑ ह्वयते च॒तुरुप॑ ह्वयते [60]
चतु॑ष्पादो॒ हि प॒शवो॒
विश्वास-प्रस्तुतिः
इडा॒मुप॑ ह्वयते ।
प॒शवो॒ वा इडा॑ । प॒शूने॒वोप॑ ह्वयते ।
च॒तुरुप॑ ह्वयते , चतु॑ष्पादो॒ हि प॒शवः॑ ।[60]
मूलम्
इडा॒मुप॑ ह्वयते ।
प॒शवो॒ वा इडा॑ । प॒शूने॒वोप॑ ह्वयते ।
च॒तुरुप॑ ह्वयते , चतु॑ष्पादो॒ हि प॒शवः॑ ।[60]
पद-पाठः
इडा॑म् । उपेति॑ । ह्व॒य॒ते॒ । प॒शवः॑ । वै । इडा॑ । प॒शून् । ए॒व । उपेति॑ । ह्व॒य॒ते॒ ।
च॒तुः । उपेति॑ । ह्व॒य॒ते॒ । [60]
चतु॑ष्पाद॒ इति॒ चतुः॑-पा॒दः॒ । हि । प॒शवः॑ ।
भट्टभास्कर-टीका
4इडामित्यादि ॥ गतमेव । ‘निसमुपविभ्यो ह्वः’ इत्यात्मनेपदम् ॥
मूलम् (संयुक्तम्)
यङ्का॒मये॑ताप॒शुस्स्या॒दित्य॑मे॒दस्क॒न्तस्मा॒ आ द॑ध्या॒न्मेदो॑रूपा॒ वै प॒शवो॑ रू॒पेणै॒वैन॑म्प॒शुभ्यो॒ निर्भ॑जत्यप॒शुरे॒व भ॑वति॒ यङ्का॒मये॑त पशु॒मान्त्स्या॒दिति॒ मेद॑स्व॒त्तस्मा॒ आ द॑ध्या॒न्मेदो॑रूपा॒ वै प॒शवो॑ रू॒पेणै॒वास्मै॑ प॒शूनव॑ रुन्द्धे पशु॒माने॒व भ॑वति
विश्वास-प्रस्तुतिः
यङ्का॒मये॑त -
“अ॒प॒शुस्स्या॒द् इति॑ ।
अ॒मे॒दस्क॒न् तस्मा॒ आ द॑ध्यात् ।
मेदो॑रूपा॒ वै प॒शवः॑ । रू॒पेणै॒वैन॑म् प॒शुभ्यो॒ निर्भ॑जति ।
अप॒शुरे॒व भ॑वति ।
यङ्का॒मये॑त -
“पशु॒मान्त्स्या॒द्” इति॑ ।
मेद॑स्व॒त्तस्मा॒ आ द॑ध्यात् । मेदो॑रूपा॒ वै प॒शवः॑ ।
रू॒पेणै॒वास्मै॑ प॒शूनव॑ रुन्धे । प॒शु॒मान् ए॒व भ॑वति ।
मूलम्
यङ्का॒मये॑त -
“अ॒प॒शुस्स्या॒द् इति॑ ।
अ॒मे॒दस्क॒न् तस्मा॒ आ द॑ध्यात् ।
मेदो॑रूपा॒ वै प॒शवः॑ । रू॒पेणै॒वैन॑म् प॒शुभ्यो॒ निर्भ॑जति ।
अप॒शुरे॒व भ॑वति ।
यङ्का॒मये॑त -
“पशु॒मान्त्स्या॒द्” इति॑ ।
मेद॑स्व॒त्तस्मा॒ आ द॑ध्यात् । मेदो॑रूपा॒ वै प॒शवः॑ ।
रू॒पेणै॒वास्मै॑ प॒शूनव॑ रुन्धे । प॒शु॒मान् ए॒व भ॑वति ।
पद-पाठः
यम् । का॒मये॑त । अ॒प॒शुः । स्या॒त् । इति॑ ।
अ॒मे॒दस्क॑म् । तस्मै॑ । एति॑ । द॒ध्या॒त् ।
मेदो॑रूपा॒ इति॒ मेदः॑-रू॒पाः॒ । वै । प॒शवः॑ । रू॒पेण॑ । ए॒व । ए॒न॒म् । प॒शुभ्य॒ इति॑ प॒शु-भ्यः॒ । निरिति॑ । भ॒ज॒ति॒ ।
अ॒प॒शुः । ए॒व । भ॒व॒ति॒ ।
यम् । का॒मये॑त । प॒शु॒मानिति॑ पशु-मान् । स्या॒त् । इति॑ । मेद॑स्वत् । तस्मै॑ । एति॑ । द॒ध्या॒त् ।
मेदो॑रूपा॒ इति॒ मेदः॑-रू॒पाः॒ । वै । प॒शवः॑ । रू॒पेण॑ । ए॒व । अ॒स्मै॒ । प॒शून् । अवेति॑ । रु॒न्द्धे॒ ।
प॒शु॒मानिति॑ पशु-मान् । ए॒व । भ॒व॒ति॒ ।
भट्टभास्कर-टीका
5यमित्यादि ॥ अमेदस्कं अल्पमेदस्कं शुष्कं निर्भजति निरस्यति । मेदस्वत् प्रभूतमेदस्कम् ॥
मूलम् (संयुक्तम्)
प्र॒जाप॑तिर्य॒ज्ञम॑सृजत॒ स आज्य॑म् [61]
पु॒रस्ता॑दसृजत प॒शुम्म॑ध्य॒तᳶ पृ॑षदा॒ज्यम्प॒श्चात्तस्मा॒दाज्ये॑न प्रया॒जा इ॑ज्यन्ते प॒शुना॑ मध्य॒तᳶ पृ॑षदा॒ज्येना॑नूया॒जास्तस्मा॑दे॒तन्मि॒श्रमि॑व पश्चात्सृ॒ष्टँ ह्य्
विश्वास-प्रस्तुतिः
प्र॒जाप॑तिर्य॒ज्ञम॑सृजत ।
स आज्य॑म् पु॒रस्ता॑दसृजत , प॒शुम् म॑ध्य॒तᳶ , पृ॑षदा॒ज्यम् प॒श्चात् ।[61]
तस्मा॒दाज्ये॑न प्रया॒जा इ॑ज्यन्ते प॒शुना॑ मध्य॒तᳶ पृ॑षदा॒ज्येना॑नूया॒जाः ।
तस्मा॑दे॒तन् मि॒श्रमि॑व पश्चात्सृ॒ष्टँ हि ।
मूलम्
प्र॒जाप॑तिर्य॒ज्ञम॑सृजत ।
स आज्य॑म् पु॒रस्ता॑दसृजत , प॒शुम् म॑ध्य॒तᳶ , पृ॑षदा॒ज्यम् प॒श्चात् ।[61]
तस्मा॒दाज्ये॑न प्रया॒जा इ॑ज्यन्ते प॒शुना॑ मध्य॒तᳶ पृ॑षदा॒ज्येना॑नूया॒जाः ।
तस्मा॑दे॒तन् मि॒श्रमि॑व पश्चात्सृ॒ष्टँ हि ।
पद-पाठः
प्र॒जाप॑ति॒रिति॑ प्र॒जा-प॒तिः॒ । य॒ज्ञम् । अ॒सृ॒ज॒त॒ ।
सः । आज्य॑म् । [61] पु॒रस्ता॑त् । अ॒सृ॒ज॒त॒ ।
प॒शुम् । म॒ध्य॒तः । पृ॒ष॒दा॒ज्यमिति॑ पृषत्-आ॒ज्यम् । प॒श्चात् ।
तस्मा॑त् । आज्ये॑न । प्र॒या॒जा इति॑ प्र-या॒जाः । इ॒ज्य॒न्ते॒ ।
प॒शुना॑ । म॒ध्य॒तः । पृ॒ष॒दा॒ज्येनेति॑ पृषत्-आ॒ज्येन॑ । अ॒नू॒या॒जा इत्य॑नु-या॒जाः । तस्मा॑त् । ए॒तत् । मि॒श्रम् । इ॒व॒ । प॒श्चा॒त्सृ॒ष्टमिति॑ पश्चात्-सृ॒ष्टम् । हि ।
भट्टभास्कर-टीका
6प्रजापतिरित्यादि ॥ गतम् । पश्चात्सृष्टत्वात् पृषदाज्यमिश्रं भवति । हेतुमाह - पश्चात्सृष्टं हीति । अस्मिन् काले इष्टशिष्टमिवाभवत् भवति । एकेन पर्याप्तसृष्ट्यभावात् सर्वत आहृत्य सृष्टमिव भवतीति नूनमिदं मिश्रमभूदिति मन्यामह इत्यर्थः । पश्चादिति निपात्यते ॥
मूलम् (संयुक्तम्)
एका॑दशानूया॒जान्य॑जति॒ दश॒ वै प॒शोᳶ प्रा॒णा आ॒त्मैका॑द॒शो यावा॑ने॒व प॒शुस्तमनु॑ यजति॒ घ्नन्ति॒ वा ए॒तत्प॒शुय्ँयत्स॑ञ्ज्ञ॒पय॑न्ति प्राणापा॒नौ खलु॒ वा ए॒तौ प॑शू॒नाय्ँयत्पृ॑षदा॒ज्यय्ँयत्पृ॑षदा॒ज्येना॑नूया॒जान्यज॑ति प्राणापा॒नावे॒व प॒शुषु॑ दधाति ॥ [62]
विश्वास-प्रस्तुतिः
एका॑दशानूया॒जान् य॑जति । दश॒ वै प॒शोᳶ प्रा॒णा , आ॒त्मैका॑द॒शो , यावा॑ने॒व प॒शुस् तमनु॑ यजति ।
घ्नन्ति॒ वा ए॒तत् प॒शुय्ँ यत्स॑ञ्ज्ञ॒पय॑न्ति ।
प्रा॒णा॒पा॒नौ खलु॒ वा ए॒तौ प॑शू॒नाय्ँ यत् पृ॑षदा॒ज्यम् ।
यत् पृ॑षदा॒ज्येना॑नूया॒जान् यज॑ति , प्राणापा॒नावे॒व प॒शुषु॑ दधाति ॥ [62]
मूलम्
एका॑दशानूया॒जान् य॑जति । दश॒ वै प॒शोᳶ प्रा॒णा , आ॒त्मैका॑द॒शो , यावा॑ने॒व प॒शुस् तमनु॑ यजति ।
घ्नन्ति॒ वा ए॒तत् प॒शुय्ँ यत्स॑ञ्ज्ञ॒पय॑न्ति ।
प्रा॒णा॒पा॒नौ खलु॒ वा ए॒तौ प॑शू॒नाय्ँ यत् पृ॑षदा॒ज्यम् ।
यत् पृ॑षदा॒ज्येना॑नूया॒जान् यज॑ति , प्राणापा॒नावे॒व प॒शुषु॑ दधाति ॥ [62]
पद-पाठः
एका॑दश । अ॒नू॒या॒जानित्य॑नु-या॒जान् । य॒ज॒ति॒ ।
दश॑ । वै । प॒शोः । प्रा॒णा इति॑ प्र-अ॒नाः । आ॒त्मा । ए॒का॒द॒शः । यावान्॑ । ए॒व । प॒शुः । तम् । अन्विति॑ । य॒ज॒ति॒ ।
घ्नन्ति॑ । वै । ए॒तत् । प॒शुम् । यत् । स॒ञ्ज्ञ॒पय॒न्तीति॑ सम्-ज्ञ॒पय॑न्ति ।
प्रा॒णा॒पा॒नाविति॑ प्राण-अ॒पा॒नौ । खलु॑ । वै । ए॒तौ । प॒शू॒नाम् । यत् । पृ॒ष॒दा॒ज्यमिति॑ पृषत्-आ॒ज्यम् ।
यत् । पृ॒ष॒दा॒ज्येनेति॑ पृषत्-आ॒ज्येन॑ । अ॒नू॒या॒जानित्य॑नु-या॒जान् । यज॑ति ।
प्रा॒णा॒पा॒नाविति॑ प्राण-अ॒पा॒नौ । ए॒व । प॒शुषु॑ । द॒धा॒ति॒ ॥ [62]
भट्टभास्कर-टीका
7एकादशेति ॥ व्याख्यातं प्रयाजेषु । घ्नन्ति वा इत्यादि । व्याख्यातप्रायं समदर्शनेन ॥
इति श्रीभट्टभास्करमिश्रविरचिते ज्ञानयज्ञाख्ये यजुर्वेदभाष्ये षष्ठकाण्डे तृतीयप्रश्ने एकादशोनुवाकः ॥
समाप्तश्च प्रपाठकः ॥