३२ ३२

१० ...{Loading}...

मूलम् (संयुक्तम्)

प॒शुमा॒लभ्य॑ पुरो॒डाश॒न्निर्व॑पति॒ समे॑धमे॒वैन॒मा ल॑भते

विश्वास-प्रस्तुतिः

प॒शुमा॒लभ्य॑ पुरो॒डाश॒न् निर्व॑पति ।
समे॑धम् ए॒वैन॒मा ल॑भते ।

मूलम्

प॒शुमा॒लभ्य॑ पुरो॒डाश॒न् निर्व॑पति ।
समे॑धम् ए॒वैन॒मा ल॑भते ।

पद-पाठः

प॒शुम् । आ॒लभ्येत्या॑-लभ्य॑ । पु॒रो॒डाश॑म् । निरिति॑ । व॒प॒ति॒ ।

समे॑ध॒मिति॒ स-मे॒ध॒म् । ए॒व । ए॒न॒म् । एति॑ । ल॒भ॒ते॒ ।

भट्टभास्कर-टीका

1पशुमालभ्येत्यादि ॥ पशोस्संज्ञपनानन्तरं पुरोडाशं निर्वपति, यजनानन्तरमेव वा । एवं हि समेधसमेवैनमालभते मेधानुरूपोयमालब्धो भवति । आनुरूप्ये अव्ययीभावः । यद्वा - समेधसं सरसमेवालभते, ओषधिनिमित्तत्वात्सारस्यम् ॥

मूलम् (संयुक्तम्)

व॒पया॑ प्र॒चर्य॑ पुरो॒डाशे॑न॒ प्र च॑र॒त्यूर्ग्वै पु॑रो॒डाश॒ ऊर्ज॑मे॒व प॑शू॒नाम्म॑ध्य॒तो द॑धा॒त्यथो॑ प॒शोरे॒व छि॒द्रमपि॑ दधाति पृषदा॒ज्यस्यो॑प॒हत्य॒ त्रिᳶ पृ॑च्छति शृ॒तँ ह॒वीः (३) श॑मित॒रिति॒ त्रिष॑त्या॒ हि दे॒वा योऽशृ॑तँ शृ॒तमाह॒ स एन॑सा प्राणापा॒नौ वा ए॒तौ प॑शू॒नाम् [51]
यत्पृ॑षदा॒ज्यम्प॒शोᳵ खलु॒ वा आल॑ब्धस्य॒ हृद॑यमा॒त्माभि समे॑ति॒ यत्पृ॑षदा॒ज्येन॒ हृद॑यमभिघा॒रय॑त्या॒त्मन्ने॒व प॑शू॒नाम्प्रा॑णापा॒नौ द॑धाति

विश्वास-प्रस्तुतिः

व॒पया॑ प्र॒चर्य॑ पुरो॒डाशे॑न॒ प्र च॑रति ।
ऊर्ग्वै पु॑रो॒डाश॒ ऊर्ज॑मे॒व प॑शू॒नाम् म॑ध्य॒तो द॑धाति ।
अथो॑ प॒शोरे॒व छि॒द्रमपि॑ दधाति ।
पृ॒ष॒दा॒ज्यस्यो॑प॒हत्य॒ त्रिᳶ पृ॑च्छति ।
शृ॒तँ ह॒वीः (३) श॑मित॒रिति॑ ।
त्रिष॑त्या॒ हि दे॒वाः । योऽशृ॑तँ शृ॒तमाह॒ स एन॑सा ।
प्राणापा॒नौ वा ए॒तौ प॑शू॒नाम् ।[51]
यत् पृ॑षदा॒ज्यम् प॒शोᳵ खलु॒ वा आल॑ब्धस्य॒ हृद॑यमा॒त्माभि समे॑ति ।
यत् पृ॑षदा॒ज्येन॒ हृद॑यमभिघा॒रय॑त्य् आ॒त्मन्ने॒व प॑शू॒नाम् प्रा॑णापा॒नौ द॑धाति ।

मूलम्

व॒पया॑ प्र॒चर्य॑ पुरो॒डाशे॑न॒ प्र च॑रति ।
ऊर्ग्वै पु॑रो॒डाश॒ ऊर्ज॑मे॒व प॑शू॒नाम् म॑ध्य॒तो द॑धाति ।
अथो॑ प॒शोरे॒व छि॒द्रमपि॑ दधाति ।
पृ॒ष॒दा॒ज्यस्यो॑प॒हत्य॒ त्रिᳶ पृ॑च्छति ।
शृ॒तँ ह॒वीः (३) श॑मित॒रिति॑ ।
त्रिष॑त्या॒ हि दे॒वाः । योऽशृ॑तँ शृ॒तमाह॒ स एन॑सा ।
प्राणापा॒नौ वा ए॒तौ प॑शू॒नाम् ।[51]
यत् पृ॑षदा॒ज्यम् प॒शोᳵ खलु॒ वा आल॑ब्धस्य॒ हृद॑यमा॒त्माभि समे॑ति ।
यत् पृ॑षदा॒ज्येन॒ हृद॑यमभिघा॒रय॑त्य् आ॒त्मन्ने॒व प॑शू॒नाम् प्रा॑णापा॒नौ द॑धाति ।

पद-पाठः

व॒पया॑ । प्र॒चर्येति॑ प्र-चर्य॑ । पु॒रो॒डाशे॑न । प्रेति॑ । च॒र॒ति॒ । ऊर्क् । वै । पु॒रो॒डाशः॑ । ऊर्ज॑म् । ए॒व । प॒शू॒नाम् । म॒ध्य॒तः । द॒धा॒ति॒ ।

अथो॒ इति॑ । प॒शोः । ए॒व । छि॒द्रम् । अपीति॑ । द॒धा॒ति॒ । पृ॒ष॒दा॒ज्यस्येति॑ पृषत्-आ॒ज्यस्य॑ । उ॒प॒हत्येत्यु॑प-हत्य॑ । त्रिः । पृ॒च्छ॒ति॒ ।

शृ॒तम् । ह॒वी(३)ः । श॒मि॒तः॒ । इति॑ । त्रिष॑त्या॒ इति॒ त्रि-स॒त्याः॒ । हि । दे॒वाः । यः । अशृ॑तम् । शृ॒तम् । आह॑ । सः । एन॑सा ।
प्रा॒णा॒पा॒नाविति॑ प्राण-अ॒पा॒नौ । वै । ए॒तौ । प॒शू॒नाम् । [51]
यत् । पृ॒ष॒दा॒ज्यमिति॑ पृषत्-आ॒ज्यम् । प॒शोः । खलु॑ । वै । आल॑ब्ध॒स्येत्या-ल॒ब्ध॒स्य॒ । हृद॑यम् । आ॒त्मा । अ॒भि । समिति॑ । ए॒ति॒ ।

यत् । पृ॒ष॒दा॒ज्येनेति॑ पृषत्-आ॒ज्येन॑ । हृद॑यम् । अ॒भि॒घा॒रय॒तीत्य॑भि-घा॒रय॑ति । आ॒त्मन् । ए॒व । प॒शू॒नाम् । प्रा॒णा॒पा॒नाविति॑ प्राण-अ॒पा॒नौ । द॒धा॒ति॒ ।

भट्टभास्कर-टीका

2वपयेति ॥ वपाप्रचरणानन्तरं पुरोडाशेन प्रचरितव्यम् । ऊर्ग्वा इत्यादि । गतम् । मध्यत इति । वपाहविर्यागयोर्मध्ये पुरोडाशयागात् पशूनां मध्ये अन्नमेव दधाति । अपि च यच्छिद्रं वपासुषिरं पशोस्तदप्यपिदधाति तिरोदधाति घट्टयति । पृषदाज्यस्येत्यादि । जुह्वा स्रुवेण पृषदाज्यस्य एकदेशमुपहत्य पार्श्वत आदाय । यद्वा - कर्मणस्सम्प्रदानत्वाच्चतुर्थ्यर्थे षष्ठी । पृषदाज्यं गृहीत्वा शमितारं त्रिः पृच्छति । हे शमितः कि शृतं पक्वं हव्यम् । अनन्त्यस्यापि ‘प्रश्नाख्ययोः’ इति प्लुतः । ‘शृतं पाके’ इति निपात्यते । त्रिषत्या हीति । त्रिरुक्तं सत्यं श्रद्धेयं येषां ते त्रिषत्याः । सुषामादित्वात्षत्वम् । य इत्यादि । यश्शमिता अशृतमेव हविः शृतमाह शृतमिति ब्रूते स एनसा उपलक्षितो भवति । सहयोगे वा तृतीया, एनस्वी भवति । तस्मात् शृते सत्यमेव शृतं ब्रूयात् । प्राणापानावित्यादि । गतम् । अभिसमेतीति । आभिमुख्येन हृदयप्रदेशमागच्छति । गतमन्यत् ॥

मूलम् (संयुक्तम्)

प॒शुना॒ वै दे॒वास्सु॑व॒र्गल्ँ लो॒कमा॑य॒न्ते॑ऽमन्यन्त मनु॒ष्या॑ नो॒ऽन्वाभ॑विष्य॒न्तीति॒ तस्य॒ शिर॑श्छि॒त्त्वा मेध॒म्प्राक्षा॑रय॒न्त्स प्र॒क्षो॑ऽभव॒त्तत्प्र॒क्षस्य॑ प्रक्ष॒त्वय्ँयत्प्ल॑क्षशा॒खोत्त॑रब॒र्हिर्भव॑ति॒ समे॑धस्यै॒व [52]
प॒शोरव॑ द्यति प॒शुव्ँ वै ह्रि॒यमा॑णँ॒ रक्षाँ॒स्यनु॑ सचन्तेऽन्त॒रा यूप॑ञ्चाहव॒नीय॑ञ्च हरति॒ रक्ष॑सा॒मप॑हत्यै

विश्वास-प्रस्तुतिः

प॒शुना॒ वै दे॒वास् सु॑व॒र्गल्ँ लो॒कमा॑यन् ।
ते॑ऽमन्यन्त - मनु॒ष्या॑ नो॒ऽन्वाभ॑विष्य॒न्तीति॑ ।
तस्य॒ शिर॑श् छि॒त्त्वा मेध॒म् प्राक्षा॑रयन् ।
स प्र॒क्षो॑ऽभवत् । तत्प्र॒क्षस्य॑ प्रक्ष॒त्वय्ँ , यत् प्ल॑क्षशा॒खोत्त॑रब॒र्हिर्भव॑ति ।
समे॑धस्यै॒व प॒शोरव॑ द्यति ।[52]
प॒शुव्ँ वै ह्रि॒यमा॑णँ॒ रक्षाँ॒स्यनु॑ सचन्ते ऽन्त॒रा यूप॑ञ् चाहव॒नीय॑ञ् च हरति । रक्ष॑सा॒मप॑हत्यै ।

मूलम्

प॒शुना॒ वै दे॒वास् सु॑व॒र्गल्ँ लो॒कमा॑यन् ।
ते॑ऽमन्यन्त - मनु॒ष्या॑ नो॒ऽन्वाभ॑विष्य॒न्तीति॑ ।
तस्य॒ शिर॑श् छि॒त्त्वा मेध॒म् प्राक्षा॑रयन् ।
स प्र॒क्षो॑ऽभवत् । तत्प्र॒क्षस्य॑ प्रक्ष॒त्वय्ँ , यत् प्ल॑क्षशा॒खोत्त॑रब॒र्हिर्भव॑ति ।
समे॑धस्यै॒व प॒शोरव॑ द्यति ।[52]
प॒शुव्ँ वै ह्रि॒यमा॑णँ॒ रक्षाँ॒स्यनु॑ सचन्ते ऽन्त॒रा यूप॑ञ् चाहव॒नीय॑ञ् च हरति । रक्ष॑सा॒मप॑हत्यै ।

पद-पाठः

प॒शुना॑ । वै । दे॒वाः । सु॒व॒र्गमिति॑ सुवः-गम् । लो॒कम् । आ॒य॒न् । ते । अ॒म॒न्य॒न्त॒ ।

म॒नु॒ष्याः॑ । नः॒ । अ॒न्वाभ॑विष्य॒न्तीत्य॑नु-आभ॑विष्यन्ति । इति॑ । तस्य॑ । शिरः॑ । छि॒त्त्वा । मेध॑म् । प्रेति॑ । अ॒क्षा॒र॒य॒न् ।

सः । प्र॒क्षः । अ॒भ॒व॒त् । तत् । प्र॒क्षस्य॑ । प्र॒क्ष॒त्वमिति॑ प्रक्ष-त्वम् ।

यत् । प्ल॒क्ष॒शा॒खेति॑ प्लक्ष-शा॒खा । उ॒त्त॒र॒ब॒र्‌हिरित्यु॑त्तर-ब॒र्‌हिः । भव॑ति । समे॑ध॒स्येति॒ स-मे॒ध॒स्य॒ । ए॒व । [52] प॒शोः । अवेति॑ । द्य॒ति॒ ।

प॒शुम् । वै । ह्रि॒यमा॑णम् । रक्षाँ॑सि । अन्विति॑ । स॒च॒न्ते॒ । अ॒न्त॒रा । यूप॑म् । च॒ ।

आ॒ह॒व॒नीय॒मित्या॑-ह॒व॒नीय॑म् । च॒ । ह॒र॒ति॒ ।
रक्ष॑साम् । अप॑हत्या॒ इत्यप॑-ह॒त्यै॒ ।

भट्टभास्कर-टीका

3पशुना वा इत्यादि ॥ पशुना स्वर्गं गता देवाः मनुष्याणामपि पशुना अन्वागमनमाशङ्कमानास्तन्मा भूदिति तस्य पशोश्शिरश्छित्त्वा मेधं रसं प्राक्षारयन् । प्रक्षरणात्प्रक्षः, । कपिलकादित्वाल्लत्वविकल्पः, क्षरेश्छान्दसो डः । यदिति । प्लक्षो वृक्षविशेषः । उत्तरबर्हिरिति संज्ञा, यत्रावदानान्यवद्यति । समेधस्येति । सरसस्यैव पशोरवदानं कृतं भवति, प्लक्षशाखायामवदानात् । पशुं वा इत्यादि । पशुमवदानार्थं ह्रियमाणं रक्षांस्यनुसचन्ते पृष्ठतो भजन्ते । तस्माद्यूपाहवनीययोर्मध्येन हरति । ‘अन्तराऽन्तरोण’ इति द्वितीया । तद्रक्षसामपहत्यै भवति तद्रक्षसां प्रवेशाभावाय ॥

मूलम् (संयुक्तम्)

प॒शोर्वा आल॑ब्धस्य॒ मनोऽप॑ क्रामति म॒नोता॑यै ह॒विषो॑ऽवदी॒यमा॑न॒स्यानु॑ ब्रू॒हीत्या॑ह॒ मन॑ ए॒वास्याव॑ रुन्द्ध॒

विश्वास-प्रस्तुतिः

प॒शोर्वा आल॑ब्धस्य॒ मनोऽप॑ क्रामति ।
“म॒नोता॑यै ह॒विषो॑ऽवदी॒यमा॑न॒स्यानु॑ ब्रू॒हि”+ इत्या॑ह ।
मन॑ ए॒वास्याव॑ रुन्धे ।

मूलम्

प॒शोर्वा आल॑ब्धस्य॒ मनोऽप॑ क्रामति ।
“म॒नोता॑यै ह॒विषो॑ऽवदी॒यमा॑न॒स्यानु॑ ब्रू॒हि”+ इत्या॑ह ।
मन॑ ए॒वास्याव॑ रुन्धे ।

पद-पाठः

प॒शोः । वै । आल॑ब्ध॒स्येत्या-ल॒ब्ध॒स्य॒ । मनः॑ । अपेति॑ । क्रा॒म॒ति॒ ।

म॒नोता॑यै । ह॒विषः॑ । अ॒व॒दी॒यमा॑न॒स्येत्य॑व-दी॒यमा॑नस्य । अन्विति॑ । ब्रू॒हि॒ । इति॑ । आ॒ह॒ । मनः॑ । ए॒व । अ॒स्य॒ । अवेति॑ । रु॒न्द्धे॒ ।

भट्टभास्कर-टीका

4पशोर्वा इत्यादि ॥ अपक्रमणं नाशः । मनोताया इति संप्रैषः । मनोता अग्निः, यथा - ‘त्वं ह्यग्रे प्रथमो मनोता’ इति । मनसा उता मनोता । पृषोदरादिः ॥

मूलम् (संयुक्तम्)

एका॑दशाव॒दाना॒न्यव॑ द्यति॒ दश॒ वै प॒शोᳶ प्रा॒णा आ॒त्मैका॑द॒शो यावा॑ने॒व प॒शुस्तस्याव॑ [53]
द्य॒ति॒ हृद॑य॒स्याग्रेऽव॑ द्य॒त्यथ॑ जि॒ह्वाया॒ अथ॒ वक्ष॑सो॒ यद्वै हृद॑येनाभि॒गच्छ॑ति॒ तज्जि॒ह्वया॑ वदति॒ यज्जि॒ह्वया॒ वद॑ति॒ तदुर॒सोऽधि॒ निर्व॑दत्ये॒तद्वै प॒शोर्य॑थापू॒र्वय्ँयस्यै॒वम॑व॒दाय॑ यथा॒काम॒मुत्त॑रेषामव॒द्यति॑ यथापू॒र्वमे॒वास्य॑ प॒शोरव॑त्तम्भवति मध्य॒तो गु॒दस्याव॑ द्यति मध्य॒तो हि प्रा॒ण उ॑त्त॒मस्याव॑ द्यति [54]
उ॒त्त॒मो हि प्रा॒णो यदीत॑रय्ँ॒यदीत॑रमु॒भय॑मे॒वाजा॑मि॒

विश्वास-प्रस्तुतिः

एका॑दशाव॒दाना॒न्यव॑ द्यति ।
दश॒ वै प॒शोᳶ प्रा॒णा आ॒त्मैका॑द॒शः ।
यावा॑ने॒व प॒शुस् तस्याव॑ द्यति [53] ।
हृद॑य॒स्याग्रेऽव॑ द्य॒त्यथ॑ जि॒ह्वाया॒ , अथ॒ वक्ष॑सः ।
यद्वै हृद॑येनाभि॒गच्छ॑ति॒ तज्जि॒ह्वया॑ वदति ।
यज्जि॒ह्वया॒ वद॑ति॒ तदुर॒सोऽधि॒ निर्व॑दति ।
ए॒तद्वै प॒शोर् य॑थापू॒र्वय्ँ यस्यै॒वम॑व॒दाय॑ यथा॒काम॒म् उत्त॑रेषामव॒द्यति॑ ।

य॒था॒पू॒र्वम् ए॒वास्य॑ प॒शोरव॑त्तम् भवति ।
म॒ध्य॒तो गु॒दस्याव॑ द्यति , मध्य॒तो हि प्रा॒ण उ॑त्त॒मस्याव॑ द्यति ।[54]
उ॒त्त॒मो हि प्रा॒णो यदीत॑रय्ँ॒ , यदीत॑रम् उ॒भय॑मे॒वाजा॑मि ।

मूलम्

एका॑दशाव॒दाना॒न्यव॑ द्यति ।
दश॒ वै प॒शोᳶ प्रा॒णा आ॒त्मैका॑द॒शः ।
यावा॑ने॒व प॒शुस् तस्याव॑ द्यति [53] ।
हृद॑य॒स्याग्रेऽव॑ द्य॒त्यथ॑ जि॒ह्वाया॒ , अथ॒ वक्ष॑सः ।
यद्वै हृद॑येनाभि॒गच्छ॑ति॒ तज्जि॒ह्वया॑ वदति ।
यज्जि॒ह्वया॒ वद॑ति॒ तदुर॒सोऽधि॒ निर्व॑दति ।
ए॒तद्वै प॒शोर् य॑थापू॒र्वय्ँ यस्यै॒वम॑व॒दाय॑ यथा॒काम॒म् उत्त॑रेषामव॒द्यति॑ ।

य॒था॒पू॒र्वम् ए॒वास्य॑ प॒शोरव॑त्तम् भवति ।
म॒ध्य॒तो गु॒दस्याव॑ द्यति , मध्य॒तो हि प्रा॒ण उ॑त्त॒मस्याव॑ द्यति ।[54]
उ॒त्त॒मो हि प्रा॒णो यदीत॑रय्ँ॒ , यदीत॑रम् उ॒भय॑मे॒वाजा॑मि ।

पद-पाठः

एका॑दश । अ॒व॒दाना॒नीत्य॑व-दाना॑नि । अवेति॑ । द्य॒ति॒ ।

दश॑ । वै । प॒शोः । प्रा॒णा इति॑ प्र-अ॒नाः । आ॒त्मा । ए॒का॒द॒शः ।
यावान्॑ । ए॒व । प॒शुः । तस्य॑ । अवेति॑ । [53] द्य॒ति॒ ।

हृद॑यस्य । अग्रे॑ । अवेति॑ । द्य॒ति॒ । अथ॑ । जि॒ह्वायाः॑ । अथ॑ । वक्ष॑सः ।

यत् । वै । हृद॑येन । अ॒भि॒गच्छ॒तीत्य॑भि-गच्छ॑ति । तत् । जि॒ह्वया॑ । व॒द॒ति॒ ।

यत् । जि॒ह्वया॑ । वद॑ति । तत् । उर॑सः । अधि॑ । निरिति॑ । व॒द॒ति॒ ।

ए॒तत् । वै । प॒शोः । य॒था॒पू॒र्वमिति॑ यथा-पू॒र्वम् । यस्य॑ । ए॒वम् । अ॒व॒दायेत्य॑व-दाय॑ । य॒था॒काम॒मिति॑ यथा-काम॑म् । उत्त॑रेषा॒मित्युत्-त॒रे॒षा॒म् । अ॒व॒द्यतीत्य॑व-द्यति॑ ।

य॒था॒पू॒र्वमिति॑ यथा-पू॒र्वम् । ए॒व । अ॒स्य॒ । प॒शोः । अव॑त्तम् । भ॒व॒ति॒ ।

म॒ध्य॒तः । गु॒दस्य॑ । अवेति॑ । द्य॒ति॒ । म॒ध्य॒तः । हि । प्रा॒ण इति॑ प्र-अ॒नः । उ॒त्त॒मस्येत्यु॑त्-त॒मस्य॑ । अवेति॑ । द्य॒ति॒ । [54]

उ॒त्त॒म इत्यु॑त्-त॒मः । हि । प्रा॒ण इति॑ प्र-अ॒नः । यदि॑ । इत॑रम् । यदि॑ । इत॑रम् । उ॒भय॑म् । ए॒व । अजा॑मि ।

भट्टभास्कर-टीका

5एकादशेति ॥ प्रयाजेषु व्याख्यातम् । हृदयस्येत्यादिक्रमविधिः । यद्वा इति क्रमसमर्थनम् । हृदयस्थितं जिह्रयाऽवद्यति । तदुरसोधि निर्वदति उरसा ऊर्ध्वं निष्क्रम्य उरोबलेन वाग्रूपेणावतिष्ठते । एतद्वा इति । एतावदेव पशोः यथापूर्वं आनुपूर्व्येणावदेयं अर्थक्रमानुरोधादेव हृदयादीनि त्रीण्यङ्गानि लोकेऽपि प्रसिद्धक्रमाणि । एवमनेन क्रमेणावदायोत्तरेषामष्टानामङ्गानां यथाकाममवद्यति; अर्थक्रमाभावात् स्वाभिमतेन क्रमेणावद्यति अस्यैव पशोः यथापूर्वमेवावदानं कृतं भवति । क्रमाभावान्नातिक्रमेणावत्तं भवति । मध्यत इति । केचिदाहुः - पञ्चानामवदाय ततो गुदस्यावद्यतीति । तेन सामर्थ्याद्विकल्प इति । अन्य आहुः - गुदं त्रेधा कृत्वा मध्यमस्यावद्यति उत्तमस्य वेति । मध्यतो हि देहे प्राणोवतिष्ठते । उत्तमः उद्गततमो हि प्राणः मुखनासिकेन निर्गतत्वात् । यदीतरमिति । ‘नेतराच्छन्दसि’ इत्यडादेशाभावः । अन्यतरपक्षसमाश्रयणेऽपि न दोष इति प्रतिपादयितुं वीप्सादिमध्यतोपादानम् । यदि वा उत्तमस्योभयमप्येतत् । अजामि आलस्यरहितं निर्दोषमिति यावत् ॥

मूलम् (संयुक्तम्)

जाय॑मानो॒ वै ब्रा॑ह्म॒णस्त्रि॒भिर्ऋ॑ण॒वा जा॑यते ब्रह्म॒चर्ये॒णर्षि॑भ्यो य॒ज्ञेन॑ दे॒वेभ्य॑ᳶ प्र॒जया॑ पि॒तृभ्य॑ ए॒ष वा अ॑नृ॒णो यᳶ पु॒त्री यज्वा॑ ब्रह्मचारिवा॒सी तद॑व॒दानै॑रे॒वाव॑ दयते॒ तद॑व॒दाना॑नामवदान॒त्वन्

विश्वास-प्रस्तुतिः

जाय॑मानो॒ वै ब्रा॑ह्म॒णस्त्रि॒भिर्ऋ॑ण॒वा जा॑यते ।
ब्र॒ह्म॒चर्ये॒ण॒ र्षि॑भ्यो , य॒ज्ञेन॑ दे॒वेभ्य॑ᳶ , प्र॒जया॑ पि॒तृभ्यः॑ ।
ए॒ष वा अ॑नृ॒णो यᳶ पु॒त्री यज्वा॑ ब्रह्मचारिवा॒सी , तद॑व॒दानै॑रे॒वाव॑ दयते ।
तद॑व॒दाना॑नाम् अवदान॒त्वम् ।

मूलम्

जाय॑मानो॒ वै ब्रा॑ह्म॒णस्त्रि॒भिर्ऋ॑ण॒वा जा॑यते ।
ब्र॒ह्म॒चर्ये॒ण॒ र्षि॑भ्यो , य॒ज्ञेन॑ दे॒वेभ्य॑ᳶ , प्र॒जया॑ पि॒तृभ्यः॑ ।
ए॒ष वा अ॑नृ॒णो यᳶ पु॒त्री यज्वा॑ ब्रह्मचारिवा॒सी , तद॑व॒दानै॑रे॒वाव॑ दयते ।
तद॑व॒दाना॑नाम् अवदान॒त्वम् ।

पद-पाठः

जाय॑मानः । वै । ब्रा॒ह्म॒णः । त्रि॒भिरिति॑ त्रि-भिः । ऋ॒ण॒वेत्यृ॑ण-वा । जा॒य॒ते॒ ।

ब्र॒ह्म॒चर्ये॒णेति॑ ब्रह्म-चर्ये॑ण । ऋषि॑भ्य॒ इत्यृषि॑-भ्यः॒ । य॒ज्ञेन॑ । दे॒वेभ्यः॑ । प्र॒जयेति॑ प्र-जया॑ । पि॒तृभ्य॒ इति॑ पि॒तृ-भ्यः॒ ।

ए॒षः । वै । अ॒नृ॒णः । यः । पु॒त्री । यज्वा॑ । ब्र॒ह्म॒चा॒रि॒वा॒सीति॑ ब्रह्मचारि-वा॒सी । तत् । अ॒व॒दानै॒रित्य॑व-दानैः॑ । ए॒व । अवेति॑ । द॒य॒ते॒ । तत् । अ॒व॒दाना॑ना॒मित्य॑व-दाना॑नाम् । अ॒व॒दा॒न॒त्वमित्य॑वदान-त्वम् ।

भट्टभास्कर-टीका

6जायमान इत्यादि ॥ जायमानावस्थ एव त्रिभिः ऋणैः ऋणवान् जायते ब्राह्मणः । ‘छन्दसीवनिपौ’ इति वनिप्प्रत्ययः, प्रत्ययान्तोदात्तत्वम् । यद्वा - ‘ह्रस्वनुड्भ्यां मतुप्’ इति विधीयमानस्यापि भवति । तदवदानैरिति । यद्देवेभ्यः ऋणं तदवदानैः हृदयादिभिः [वि]युज्यमानैरवदयते विनाशयति । एवमेषामवदानत्वमिति स्तुतिः । करणे ल्युट् ॥

मूलम् (संयुक्तम्)

दे॑वासु॒रास्सय्ँय॑त्ता आस॒न्ते दे॒वा अ॒ग्निम॑ब्रुव॒न्त्वया॑ वी॒रेणासु॑रान॒भि भ॑वा॒मेति॑ [55]
सो॑ऽब्रवी॒द्वरव्ँ॑वृणै प॒शोरु॑द्धा॒रमुद्ध॑रा॒ इति॒ स ए॒तमु॑द्धा॒रमुद॑हरत॒ दोᳶ पू॑र्वा॒र्धस्य॑ गु॒दम्म॑ध्य॒तश्श्रोणि॑ञ्जघना॒र्धस्य॒ ततो॑ दे॒वा अभ॑व॒न्परासु॑रा॒

विश्वास-प्रस्तुतिः

दे॑वासु॒रास् सय्ँय॑त्ता आस॒न् , ते दे॒वा अ॒ग्निम॑ब्रुव॒न् - त्वया॑ वी॒रेणासु॑रान॒भि भ॑वा॒मेति॑ ।[55]

सो॑ऽब्रवी॒द् वरव्ँ॑ वृणै , प॒शोर् उ॑द्धा॒रम् उद्ध॑रा॒ इति॑ ।

स ए॒तम् उ॑द्धा॒रम् उद॑हरत॒ , दोᳶ पू॑र्वा॒र्धस्य॑ गु॒दम् म॑ध्य॒तश्श्रोणि॑ञ् जघना॒र्धस्य॒ , ततो॑ दे॒वा अभ॑व॒न् परासु॑राः ।

मूलम्

दे॑वासु॒रास् सय्ँय॑त्ता आस॒न् , ते दे॒वा अ॒ग्निम॑ब्रुव॒न् - त्वया॑ वी॒रेणासु॑रान॒भि भ॑वा॒मेति॑ ।[55]

सो॑ऽब्रवी॒द् वरव्ँ॑ वृणै , प॒शोर् उ॑द्धा॒रम् उद्ध॑रा॒ इति॑ ।

स ए॒तम् उ॑द्धा॒रम् उद॑हरत॒ , दोᳶ पू॑र्वा॒र्धस्य॑ गु॒दम् म॑ध्य॒तश्श्रोणि॑ञ् जघना॒र्धस्य॒ , ततो॑ दे॒वा अभ॑व॒न् परासु॑राः ।

पद-पाठः

दे॒वा॒सु॒रा इति॑ देव-अ॒सु॒राः । सय्यँ॑त्ता॒ इति॒ सम्-य॒त्ताः॒ । आ॒स॒न् । ते । दे॒वाः । अ॒ग्निम् । अ॒ब्रु॒व॒न् ।

त्वया॑ । वी॒रेण॑ । असु॑रान् । अ॒भीति॑ । भ॒वा॒म॒ । इति॑ । [55]

सः । अ॒ब्र॒वी॒त् ।

वर॑म् । वृ॒णै॒ । प॒शोः । उ॒द्धा॒रमित्यु॑त्-हा॒रम् । उदिति॑ । ह॒रै॒ । इति॑ ।

सः । ए॒तम् । उ॒द्धा॒रमित्यु॑त्-हा॒रम् । उदिति॑ । अ॒ह॒र॒त॒ । दोः । पू॒र्वा॒र्धस्येति॑ पूर्व-अ॒र्धस्य॑ । गु॒दम् । म॒ध्य॒तः । श्रोणि॑म् । ज॒घ॒ना॒र्धस्येति॑ जघन-अ॒र्धस्य॑ । ततः॑ । दे॒वाः । अभ॑वन् । परेति॑ । असु॑राः ।

भट्टभास्कर-टीका

7देवासुरा इत्यादि ॥ गतम् । उद्धारमिति । उत्कृष्टं हरणमुद्धारः ज्येष्ठभाग इति प्रसिद्धः यस्सामान्यभागस्योपरिभागः, तमहमुद्धारैरुद्धरेयेति । स एतमिति । एतं वक्ष्यमाण दोःप्रभृतिमुद्धारत्वेनोदहरताग्निः । अत्र ‘अक्ष्णयाऽव द्यति’ इति वक्ष्यमाणत्वात् दक्षिणा दोस्सव्या श्रोणिरिति गम्यते । ततोग्रिना वीरेण देवा अभवन् भूतिमन्तस्सपन्नाः । असुराश्च पराभूताः । ‘चादिलोपे विभाषा’ इति निघाताभावः ॥

मूलम् (संयुक्तम्)

यत्त्र्य॒ङ्गाणाँ॑ समव॒द्यति॒ भ्रातृ॑व्या॒भिभूत्यै॒ भव॑त्या॒त्मना॒ परा॑स्य॒ भ्रातृ॑व्यो भवत्य्

विश्वास-प्रस्तुतिः

यत्त्र्य॒ङ्गाणाँ॑ समव॒द्यति॒ , भ्रातृ॑व्या॒भिभूत्यै ।
भव॑त्या॒त्मना॒ परा॑स्य॒ भ्रातृ॑व्यो भवति ।

मूलम्

यत्त्र्य॒ङ्गाणाँ॑ समव॒द्यति॒ , भ्रातृ॑व्या॒भिभूत्यै ।
भव॑त्या॒त्मना॒ परा॑स्य॒ भ्रातृ॑व्यो भवति ।

पद-पाठः

यत् । त्र्य॒ङ्गाणा॒मिति॑ त्रि-अ॒ङ्गाना॑म् । स॒म॒व॒द्यतीति॑ सम्-अ॒व॒द्यति॑ । भ्रातृ॑व्याभिभूत्या॒ इति॒ भ्रातृ॑व्य-अ॒भि॒भू॒त्यै॒ । भव॑ति । आ॒त्मना॑ । परेति॑ । अ॒स्य॒ । भ्रातृ॑व्यः । भ॒व॒ति॒ ।

भट्टभास्कर-टीका

8यत्त्र्यङ्गाणामिति ॥ त्रीण्यङ्गानि त्र्यङ्गानि । ‘दिक्संख्ये संज्ञायाम्’ इति समासः सप्तर्षिवत् । तेषां दोःप्रभृतीनां समवदानमेकत्रावदानम् । भ्रातृव्याभिभूत्यै भवतीत्यादि । गतम् ॥

मूलम् (संयुक्तम्)

अक्ष्ण॒याव॑ द्यति॒ तस्मा॑दक्ष्ण॒या प॒शवोऽङ्गा॑नि॒ प्र ह॑रन्ति॒ प्रति॑ष्ठित्यै ॥ [56]

विश्वास-प्रस्तुतिः

अ॒क्ष्ण॒याऽव॑ द्यति । तस्मा॑दक्ष्ण॒या प॒शवोऽङ्गा॑नि॒ प्र ह॑रन्ति॒ , प्रति॑ष्ठित्यै ॥ [56]

मूलम्

अ॒क्ष्ण॒याऽव॑ द्यति । तस्मा॑दक्ष्ण॒या प॒शवोऽङ्गा॑नि॒ प्र ह॑रन्ति॒ , प्रति॑ष्ठित्यै ॥ [56]

पद-पाठः

अ॒क्ष्ण॒या । अवेति॑ । द्य॒ति॒ । तस्मा॑त् । अ॒क्ष्ण॒या । प॒शवः॑ । अङ्गा॑नि । प्रेति॑ । ह॒र॒न्ति॒ । प्रति॑ष्ठित्या॒ इति॒ प्रति॑-स्थि॒त्यै॒ ॥ [56]

भट्टभास्कर-टीका

10अक्ष्णयेति ॥ दक्षिणस्या दोष्णः सव्यायाश्च श्रोणेरवदानात् । तस्मादित्यादि । व्याख्यातम् । तस्मादक्ष्णयाऽवदानं प्रतिष्ठित्यै भवति ॥

इति षष्ठे तृतीये दशमोनुवाकः ॥