०८ ...{Loading}...
मूलम् (संयुक्तम्)
पर्य॑ग्नि करोति सर्व॒हुत॑मे॒वैन॑ङ्करो॒त्यस्क॑न्दा॒यास्क॑न्नँ॒ हि तद्यद्धु॒तस्य॒ स्कन्द॑ति॒ त्रिᳶ पर्य॑ग्नि करोति॒ त्र्या॑वृ॒द्धि य॒ज्ञोऽथो॒ रक्ष॑सा॒मप॑हत्यै
विश्वास-प्रस्तुतिः
पर्य॑ग्नि करोति सर्व॒हुत॑मे॒वैन॑ङ् करो॒ति । अस्क॑न्दा॒य ।
अस्क॑न्नँ॒ हि तद् यद्धु॒तस्य॒ स्कन्द॑ति ।
त्रिᳶ पर्य॑ग्नि करोति ।
त्र्या॑वृ॒द्धि य॒ज्ञः ।
अथो॒ रक्ष॑सा॒मप॑हत्यै ।
मूलम्
पर्य॑ग्नि करोति सर्व॒हुत॑मे॒वैन॑ङ् करो॒ति । अस्क॑न्दा॒य ।
अस्क॑न्नँ॒ हि तद् यद्धु॒तस्य॒ स्कन्द॑ति ।
त्रिᳶ पर्य॑ग्नि करोति ।
त्र्या॑वृ॒द्धि य॒ज्ञः ।
अथो॒ रक्ष॑सा॒मप॑हत्यै ।
पद-पाठः
पर्य॒ग्नीति॒ परि॑-अ॒ग्नि॒ । क॒रो॒ति॒ । स॒र्व॒हुत॒मिति॑ सर्व-हुत॑म् । ए॒व । ए॒न॒म् । क॒रो॒ति॒ । अस्क॑न्दाय ।
अस्क॑न्नम् । हि । तत् । यत् । हु॒तस्य॑ । स्कन्द॑ति ।
त्रिः । पर्य॒ग्नीति॒ परि॑-अ॒ग्नि॒ । क॒रो॒ति॒ ।
त्र्या॑वृ॒दिति॒ त्रि-आ॒वृ॒त् । हि । य॒ज्ञः ।
अथो॒ इति॑ । रक्ष॑साम् । अप॑हत्या॒ इत्यप॑-ह॒त्यै॒ ।
भट्टभास्कर-टीका
1पर्यग्नीत्यादि ॥ परितोग्निर्यस्मिन् कर्मणि स पर्यग्निः । पशुमेवैते यथा पशुयूपाहवनीयशामित्रचात्वालान्यन्तर्भवन्ति तथाऽऽहवनीयादुल्मुकमादाय त्रिःप्रदक्षिणं परियन्ति [र्येति] सर्वहुतमेव पशुं करोति, न किंचिदप्यस्य हीयते । ततश्चास्कन्दाय स्कन्नदोषाभावार्थं भवति । कथमित्याह - अस्कन्नं हीत्यादि । पर्यग्निकरणेन सर्वमिदमग्नौ हुतप्रायं क्रियते; यच्च हुतस्य निवृत्तप्रयोजनस्य स्कन्दति अस्कन्नमेव तत् । न तत्र स्कन्नदोषः । त्रिरिति संख्याविधिः । गतः ॥
मूलम् (संयुक्तम्)
ब्रह्मवा॒दिनो॑ वदन्त्यन्वा॒रभ्य॑ᳶ प॒शू (३) र्नान्वा॒रभ्या (३) इति॑ मृ॒त्यवे॒ वा ए॒ष नी॑यते॒ यत्प॒शुस्तय्ँयद॑न्वा॒रभे॑त प्र॒मायु॑को॒ यज॑मानस्स्या॒दथो॒ खल्वा॑हुस्सुव॒र्गाय॒ वा ए॒ष लो॒काय॑ नीयते॒ यत् [41]
प॒शुरिति॒ यन्नान्वा॒रभे॑त सुव॒र्गाल्लो॒काद्यज॑मानो हीयेत वपा॒श्रप॑णीभ्याम॒न्वार॑भते॒ तन्नेवा॒न्वार॑ब्ध॒न्नेवान॑न्वारब्ध॒म्
विश्वास-प्रस्तुतिः
ब्रह्मवा॒दिनो॑ वदन्ति -
“अ॒न्वा॒रभ्य॑ᳶ प॒शूर् (३) नान्वा॒रभ्या (३) इति॑ ।
मृ॒त्यवे॒ वा ए॒ष नी॑यते ।
यत् प॒शुस् तय्ँ यत् अ॑न्वा॒रभे॑त , प्र॒मायु॑को॒ यज॑मानस् स्यात् ।
अथो॒ खल्वा॑हुस् -
“सुव॒र्गाय॒ वा ए॒ष लो॒काय॑ नीयते॒ यत् प॒शुर्” इति॑ ।[41]
यन्नान्वा॒रभे॑त सुव॒र्गाल् लो॒काद् यज॑मानो हीयेत ।
व॒पा॒श्रप॑णीभ्याम् अ॒न्वार॑भते॒ , तन्नेवा॒न्वार॑ब्ध॒न् नेवान॑न्वारब्धम् ।
मूलम्
ब्रह्मवा॒दिनो॑ वदन्ति -
“अ॒न्वा॒रभ्य॑ᳶ प॒शूर् (३) नान्वा॒रभ्या (३) इति॑ ।
मृ॒त्यवे॒ वा ए॒ष नी॑यते ।
यत् प॒शुस् तय्ँ यत् अ॑न्वा॒रभे॑त , प्र॒मायु॑को॒ यज॑मानस् स्यात् ।
अथो॒ खल्वा॑हुस् -
“सुव॒र्गाय॒ वा ए॒ष लो॒काय॑ नीयते॒ यत् प॒शुर्” इति॑ ।[41]
यन्नान्वा॒रभे॑त सुव॒र्गाल् लो॒काद् यज॑मानो हीयेत ।
व॒पा॒श्रप॑णीभ्याम् अ॒न्वार॑भते॒ , तन्नेवा॒न्वार॑ब्ध॒न् नेवान॑न्वारब्धम् ।
पद-पाठः
ब्र॒ह्म॒वा॒दिन॒ इति॑ ब्रह्म-वा॒दिनः॑ । व॒द॒न्ति॒ ।
अ॒न्वा॒रभ्य॒ इत्य॑नु-आ॒रभ्यः॑ । प॒शू(३)ः । न । अ॒न्वा॒रभ्या(३) इत्य॑नु-आ॒रभ्या(३)ः । इति॑ ।
मृ॒त्यवे॑ । वै । ए॒षः । नी॒य॒ते॒ ।
यत् । प॒शुः । तम् । यत् । अ॒न्वा॒रभे॒तेत्य॑नु-आ॒रभे॑त । प्र॒मायु॑क॒ इति॑ प्र-मायु॑कः । यज॑मानः । स्या॒त् ।
अथो॒ इति॑ । खलु॑ । आ॒हुः॒ ।
सु॒व॒र्गायेति॑ सुवः-गाय॑ । वै । ए॒षः । लो॒काय॑ । नी॒य॒ते॒ । यत् । [41]
प॒शुः । इति॑ । यत् । न । अ॒न्वा॒रभे॒तेत्य॑नु-आ॒रभे॑त । सु॒व॒र्गादिति॑ सुवः-गात् । लो॒कात् । यज॑मानः । ही॒ये॒त॒ ।
व॒पा॒श्रप॑णीभ्या॒मिति॑ वपा-श्रप॑णीभ्याम् । अ॒न्वार॑भत॒ इत्य॑नु-आर॑भते । तत् । न । इ॒व॒ । अ॒न्वार॑ब्ध॒मित्य॑नु-आर॑ब्धम् । न । इ॒व॒ । अन॑न्वारब्ध॒मित्यन॑नु-आ॒र॒ब्ध॒म् ।
भट्टभास्कर-टीका
2ब्रह्मवादिन इत्यादि ॥ अन्वारम्भः स्पर्शः । ‘विचार्यमाणानाम्’ इत्युभयत्र प्लुतः । मृत्यवे इत्यादि । मृत्यवे नीयमानं पशुं यदि हस्तेनान्वारभेत मरणशीलो यजमानस्स्यात् । अथ स्वर्गाय नीयमानं पशुं यदि नान्वारभेत स्वर्गाद्धीयेत यजमानः । तस्मादुभयदोषपरिहारार्थं वपाश्रपणीभ्यामन्वारभेतैव । तद्धि हस्तेनास्पर्शनात् अन्वारब्धमिव न भवति । ताभ्यां स्पर्शनात् अनन्वारब्धमिव च न भवति । ततश्चोभयदोषाप्रसङ्ग इति । उभयत्र भावे निष्ठा ॥
मूलम् (संयुक्तम्)
उप॒ प्रेष्य॑ होतर्ह॒व्या दे॒वेभ्य॒ इत्या॑हेषि॒तँ हि कर्म॑ क्रि॒यते॒
विश्वास-प्रस्तुतिः
“उप॒ प्रेष्य॑ होतर्ह॒व्या दे॒वेभ्य॒” इत्या॑ह ।
इ॒षि॒तँ हि कर्म॑ क्रि॒यते॑ ।
मूलम्
“उप॒ प्रेष्य॑ होतर्ह॒व्या दे॒वेभ्य॒” इत्या॑ह ।
इ॒षि॒तँ हि कर्म॑ क्रि॒यते॑ ।
पद-पाठः
उप॑ । प्रेति॑ । इ॒ष्य॒ । हो॒तः॒ । ह॒व्या । दे॒वेभ्यः॑ । इति॑ । आ॒ह॒ । इ॒षि॒तम् । हि । कर्म॑ । क्रि॒यते॑ ।
भट्टभास्कर-टीका
3अत्राश्राव्य प्रत्याश्राविते संप्रैष उपप्रैषः । उप प्रेष्येति ॥ तत्र प्रकर्षेण इष्टतमस्य देवसमीपे ख्यापयति । संप्रैषार्थं दर्शयितुमाह - इषितमिति । इष्टं ह्येतत्कर्म पशुयागाख्यं क्रियते; तस्मादेवमाहेति ॥
मूलम् (संयुक्तम्)
रेव॑तीर्य॒ज्ञप॑तिम्प्रिय॒धा वि॑श॒तेत्या॑ह यथाय॒जुरे॒वैतद्
विश्वास-प्रस्तुतिः
“रेव॑तीर्य॒ज्ञप॑तिम् प्रिय॒धा वि॑श॒त”+ इत्या॑ह । य॒था॒य॒जुर् ए॒वैतत् ।
मूलम्
“रेव॑तीर्य॒ज्ञप॑तिम् प्रिय॒धा वि॑श॒त”+ इत्या॑ह । य॒था॒य॒जुर् ए॒वैतत् ।
पद-पाठः
रेव॑तीः । य॒ज्ञप॑ति॒मिति॑ य॒ज्ञ-प॒ति॒म् । प्रि॒य॒धेति॑ प्रिय-धा । एति॑ । वि॒श॒त॒ । इति॑ । आ॒ह॒ ।
य॒था॒य॒जुरिति॑ यथा-य॒जुः । ए॒व । ए॒तत् ।
भट्टभास्कर-टीका
4रेवतीरिति पशुमुदञ्चं नीयमानमनुमन्त्रयते ॥ अत्र यथा यजुषा प्रार्थ्यते ‘यज्ञपतिं प्रियधाऽऽविशत’ ‘हविषस्त्मना यज समस्य तनुवा भव’ ’ यज्ञे यज्ञपतिं धाः’ इति तत्सर्वं तथा संपद्यते । एवमग्निना पुरस्तादित्यादि ॥
मूलम् (संयुक्तम्)
अ॒ग्निना॑ पु॒रस्ता॑देति॒ रक्ष॑सा॒मप॑हत्यै पृथि॒व्यास्स॒म्पृच॑ᳶ पा॒हीति॑ ब॒र्हिः [42]
उपा॑स्य॒त्यस्क॑न्दा॒यास्क॑न्नँ॒ हि तद्यद्ब॒र्हिषि॒ स्कन्द॒त्यथो॑ बर्हि॒षद॑मे॒वैन॑ङ्करोति॒
विश्वास-प्रस्तुतिः
अ॒ग्निना॑ पु॒रस्ता॑देति । रक्ष॑सा॒मप॑हत्यै ।
पृ॒थि॒व्यास्स॒म्पृच॑ᳶ पा॒हीति॑ ब॒र्हिः उपा॑स्य॒ति [42]। अस्क॑न्दा॒य ।
अस्क॑न्नँ॒ हि तद् , यद् ब॒र्हिषि॒ स्कन्द॑ति ।
अथो॑ बर्हि॒षद॑म् ए॒वैन॑ङ् करोति ।
मूलम्
अ॒ग्निना॑ पु॒रस्ता॑देति । रक्ष॑सा॒मप॑हत्यै ।
पृ॒थि॒व्यास्स॒म्पृच॑ᳶ पा॒हीति॑ ब॒र्हिः उपा॑स्य॒ति [42]। अस्क॑न्दा॒य ।
अस्क॑न्नँ॒ हि तद् , यद् ब॒र्हिषि॒ स्कन्द॑ति ।
अथो॑ बर्हि॒षद॑म् ए॒वैन॑ङ् करोति ।
पद-पाठः
अ॒ग्निना॑ । पु॒रस्ता॑त् । ए॒ति॒ । रक्ष॑साम् । अप॑हत्या॒ इत्यप॑-ह॒त्यै॒ ।
पृ॒थि॒व्याः । स॒म्पृच॒ इति॑ सम्-पृचः॑ । पा॒हि॒ । इति॑ । ब॒र्हिः । [42] उपेति॑ । अ॒स्य॒ति॒ । अस्क॑न्दाय ।
अस्क॑न्नम् । हि । तत् । यत् । ब॒र्हिषि॑ । स्कन्द॑ति ।
अथो॒ इति॑ । ब॒र्हि॒षद॒मिति॑ बर्हि-स॒द॑म् । ए॒व । ए॒न॒म् । क॒रो॒ति॒ ।
भट्टभास्कर-टीका
5अग्रतो नीयमानेनाग्निना सहैति । शमिता पशुं नयत् आहवनीयादुल्मुकमादायाग्नीध्रो गच्छति पशोः नीयमानस्य ‘पृथिव्यास्संपृचः’ इति पशुनिहननस्थाने निहन्यमानाय बर्हिरुपास्यति । उपाकरणायान्यतरत् । अस्कन्दायेत्यादि । गतम् । बर्हिषदं बर्हिषि सादितंकरोति । छान्दसः सलोपः ॥
मूलम् (संयुक्तम्)
परा॒ङा व॑र्ततेऽध्व॒र्युᳶ प॒शोस्सं॑ज्ञ॒प्यमा॑नात्प॒शुभ्य॑ ए॒व तन्नि ह्नु॑त आ॒त्मनोना॑व्रस्काय॒ गच्छ॑ति॒ श्रिय॒म्प्र प॒शूना॑प्नोति॒ य ए॒वव्ँ वेद॑
विश्वास-प्रस्तुतिः
परा॒ङा व॑र्ततेऽध्व॒र्युᳶ प॒शोस् ।
सं॑ज्ञ॒प्यमा॑नात् प॒शुभ्य॑ ए॒व तन्नि ह्नु॑ते ।
आ॒त्मनो ऽना॑व्रस्काय ।
गच्छ॑ति॒ श्रिय॒म् प्र प॒शून् आ॑प्नोति॒ य ए॒वव्ँ वेद॑ ।
मूलम्
परा॒ङा व॑र्ततेऽध्व॒र्युᳶ प॒शोस् ।
सं॑ज्ञ॒प्यमा॑नात् प॒शुभ्य॑ ए॒व तन्नि ह्नु॑ते ।
आ॒त्मनो ऽना॑व्रस्काय ।
गच्छ॑ति॒ श्रिय॒म् प्र प॒शून् आ॑प्नोति॒ य ए॒वव्ँ वेद॑ ।
पद-पाठः
पराङ्॑ । एति॑ । व॒र्त॒ते॒ । अ॒ध्व॒र्युः । प॒शोः ।
स॒ञ्ज्ञ॒प्यमा॑ना॒दिति॑ सम्-ज्ञ॒प्यमा॑नात् । प॒शुभ्य॒ इति॑ प॒शु-भ्यः॒ । ए॒व । तत् । नीति॑ । ह्नु॒ते॒ ।
आ॒त्मनः॑ । अना॑व्रस्का॒येत्यना॑-व्र॒स्का॒य॒ ।
गच्छ॑ति । श्रिय॑म् । प्रेति॑ । प॒शून् । आ॒प्नो॒ति॒ । यः । ए॒वम् । वेद॑ ।
भट्टभास्कर-टीका
6पराङिति ॥ हन्यमानात्पशोः पराङ्मुख आवर्त्योऽध्वर्युः । तथा सति पशुभ्यो निह्नवः अपलापः कृतो भवति नाहमस्य मारयितेति पशुभ्यः ख्यापितं भवति । तच्चात्मनोनाव्रस्काय अच्छेदाय भवति । व्रश्चतिस्सकारोपध इष्यते, घञि कुत्वे चुत्वं निवर्तते । गच्छतीत्यादि । वेदितुः फलम् ॥
मूलम् (संयुक्तम्)
प॒श्चाल्लो॑का॒ वा ए॒षा प्राच्यु॒दानी॑यते॒ यत्पत्नी॒ नम॑स्त आता॒नेत्या॑हादि॒त्यस्य॒ वै र॒श्मयः॑ [43]
आ॒ता॒नास्तेभ्य॑ ए॒व नम॑स्करोत्यन॒र्वा प्रेहीत्या॑ह॒ भ्रातृ॑व्यो॒ वा अर्वा॒ भ्रातृ॑व्यापनुत्त्यै
विश्वास-प्रस्तुतिः
प॒श्चाल् लो॑का॒ वा ए॒षा प्राच्यु॒दानी॑यते॒ यत् पत्नी॒ , नम॑स्त आता॒नेत्या॑ह ।
आ॒दि॒त्यस्य॒ वै र॒श्मयः॑ ।[43]
आ॒ता॒नास्तेभ्य॑ ए॒व नम॑स्करोत्यन॒र्वा प्रेहीत्या॑ह ।
भ्रातृ॑व्यो॒ वा अर्वा॒ , भ्रातृ॑व्यापनुत्त्यै ।
मूलम्
प॒श्चाल् लो॑का॒ वा ए॒षा प्राच्यु॒दानी॑यते॒ यत् पत्नी॒ , नम॑स्त आता॒नेत्या॑ह ।
आ॒दि॒त्यस्य॒ वै र॒श्मयः॑ ।[43]
आ॒ता॒नास्तेभ्य॑ ए॒व नम॑स्करोत्यन॒र्वा प्रेहीत्या॑ह ।
भ्रातृ॑व्यो॒ वा अर्वा॒ , भ्रातृ॑व्यापनुत्त्यै ।
पद-पाठः
प॒श्चाल्लो॒केति॑ प॒श्चात्-लो॒का॒ । वै । ए॒षा । प्राची॑ । उ॒दानी॑यत॒ इत्यु॑त्-आनी॑यते । यत् । पत्नी॑ । नमः॑ । ते॒ । आ॒ता॒नेत्या॑-ता॒न॒ । इति॑ । आ॒ह॒ ।
आ॒दि॒त्यस्य॑ । वै । र॒श्मयः॑ । [43]
आ॒ता॒ना इत्या॑-ता॒नाः । तेभ्यः॑ । ए॒व । नमः॑ । क॒रो॒ति॒ ।
अ॒न॒र्वा । प्रेति॑ । इ॒हि॒ । इति॑ । आ॒ह॒ ।
भ्रातृ॑व्यः । वै । अर्वा॑ । भ्रातृ॑व्यापनुत्त्या॒ इति॒ भ्रातृ॑व्य-अ॒प॒नु॒त्त्यै॒ ।
भट्टभास्कर-टीका
7पश्चाल्लोकेत्यादि ॥ अत्र ‘नमस्त आतान’ इति पत्नीमादित्यमुदीक्षयति । ‘अनर्वा प्रेहि’ इत्यादि प्राचीमेनामुदानयन्वाचयति । तत्रेदमुच्यते । पश्चाल्लोका पश्चात्स्थानस्थिता इदानीं प्राच्युदानीयते पत्नी । तस्मात् ‘नमस्त आतान'51 इत्यादित्यमुपतिष्ठते आभिमुख्येनातन्यमानोरश्मिः आतान इति कृत्वा । तदेवाह - आदित्यस्य वा इति । मन्त्रे मतुब्लोपः । अनर्वेति । कुत्सितमरणम् । ‘अवद्यावम’ इति अर्तेः नन्प्रत्ययोर्वादेशश्च निपात्यते । तद्रहितः अनर्वा, ‘भ्रातृव्यो वा अर्वा’ इति ब्राह्मणे वनिप्प्रत्ययान्तस्य दर्शनात् सोपि तदर्थोस्तीति ज्ञायते । भ्रातृव्यापनुतिशब्दो दासीभारादिर्द्रष्टव्यः ॥
मूलम् (संयुक्तम्)
घृ॒तस्य॑ कु॒ल्यामनु॑ स॒ह प्र॒जया॑ स॒ह रा॒यस्पोषे॒णेत्या॑हा॒शिष॑मे॒वैतामा शा॑स्त॒ आपो॑ देवीश्शुद्धायुव॒ इत्या॑ह यथाय॒जुरे॒वैतत् ॥ [44]
विश्वास-प्रस्तुतिः
घृ॒तस्य॑ कु॒ल्यामनु॑ स॒ह प्र॒जया॑ , स॒ह रा॒यस् पोषे॒णेत्या॑ह ।
आ॒शिष॑म् ए॒वैताम् आ शा॑स्ते ।
आपो॑ देवीश् शुद्धायुव॒ इत्या॑ह ।
य॒था॒य॒जुर् ए॒वैतत् ॥ [44]
मूलम्
घृ॒तस्य॑ कु॒ल्यामनु॑ स॒ह प्र॒जया॑ , स॒ह रा॒यस् पोषे॒णेत्या॑ह ।
आ॒शिष॑म् ए॒वैताम् आ शा॑स्ते ।
आपो॑ देवीश् शुद्धायुव॒ इत्या॑ह ।
य॒था॒य॒जुर् ए॒वैतत् ॥ [44]
पद-पाठः
घृ॒तस्य॑ । कु॒ल्याम् । अन्विति॑ । स॒ह । प्र॒जयेति॑ प्र-जया॑ । स॒ह । रा॒यः । पोषे॑ण । इति॑ । आ॒ह॒ ।
आ॒शिष॒मित्या॑-शिष॑म् । ए॒व । ए॒ताम् । एति॑ । शा॒स्ते॒ ।
आपः॑ । दे॒वीः॒ । शु॒द्धा॒यु॒व॒ इति॑ शुद्ध-यु॒वः॒ । इति॑ । आ॒ह॒ ।
य॒था॒य॒जुरिति॑ यथा-य॒जुः । ए॒व । ए॒तत् ॥ [44]
भट्टभास्कर-टीका
8घृतस्य कुल्यामित्यादि प्रार्थना ॥ आपो देवीरिति पत्नीमपोवेक्षमाणां वाचयति । यथा यजुरिति । ऊर्ध्वं भूयास्मेत्येतद्यथा यजुस्संपद्यते एवेति ॥
इति षष्ठे तृतीये अष्टमोनुवाकः ॥