०७ ...{Loading}...
मूलम् (संयुक्तम्)
अ॒ग्निना॒ वै होत्रा॑ दे॒वा असु॑रान॒भ्य॑भवन्न॒ग्नये॑ समि॒ध्यमा॑ना॒यानु॑ ब्रू॒हीत्या॑ह॒ भ्रातृ॑व्याभिभूत्यै स॒प्तद॑श सामिधे॒नीरन्वा॑ह सप्तद॒शᳶ प्र॒जाप॑तिᳶ प्र॒जाप॑ते॒राप्त्यै॑ स॒प्तद॒शान्वा॑ह॒ द्वाद॑श॒ मासा॒ᳶ पञ्च॒र्तव॒स्स सव्ँ॑वत्स॒रस्सव्ँ॑वत्स॒रम्प्र॒जा अनु॒ प्र जा॑यन्ते प्र॒जाना॑म्प्र॒जन॑नाय
विश्वास-प्रस्तुतिः
अ॒ग्निना॒ वै होत्रा॑ दे॒वा असु॑रान॒भ्य॑भवन्न॒ग्नये॑ समि॒ध्यमा॑ना॒यानु॑ ब्रू॒हीत्या॑ह । भ्रातृ॑व्याभिभूत्यै ।
स॒प्तद॑श सामिधे॒नीरन्वा॑ह । सप्तद॒शᳶ प्र॒जाप॑तिः । प्र॒जाप॑ते॒राप्त्यै॑ ।
स॒प्तद॒शान्वा॑ह॒ , द्वाद॑श॒ मासा॒ᳶ, पञ्च॒र्तव॒स् स सव्ँ॑वत्स॒रः ।
सव्ँ॒व॒त्स॒रम् प्र॒जा अनु॒ प्र जा॑यन्ते । प्र॒जाना॑म् प्र॒जन॑नाय ।
मूलम्
अ॒ग्निना॒ वै होत्रा॑ दे॒वा असु॑रान॒भ्य॑भवन्न॒ग्नये॑ समि॒ध्यमा॑ना॒यानु॑ ब्रू॒हीत्या॑ह । भ्रातृ॑व्याभिभूत्यै ।
स॒प्तद॑श सामिधे॒नीरन्वा॑ह । सप्तद॒शᳶ प्र॒जाप॑तिः । प्र॒जाप॑ते॒राप्त्यै॑ ।
स॒प्तद॒शान्वा॑ह॒ , द्वाद॑श॒ मासा॒ᳶ, पञ्च॒र्तव॒स् स सव्ँ॑वत्स॒रः ।
सव्ँ॒व॒त्स॒रम् प्र॒जा अनु॒ प्र जा॑यन्ते । प्र॒जाना॑म् प्र॒जन॑नाय ।
पद-पाठः
अ॒ग्निना॑ । वै । होत्रा॑ । दे॒वाः । असु॑रान् । अ॒भीति॑ । अ॒भ॒व॒न् । अ॒ग्नये॑ । स॒मि॒ध्यमा॑ना॒येति॑ सम्-इ॒ध्यमा॑नाय । अन्विति॑ । ब्रू॒हि॒ । इति॑ । आ॒ह॒ । भ्रातृ॑व्याभिभूत्या॒ इति॒ भ्रातृ॑व्य-अ॒भि॒भू॒त्यै॒ ।
स॒प्तद॒शेति॑ स॒प्त-द॒श॒ । सा॒मि॒धे॒नीरिति॑ साम्-इ॒धे॒नीः । अन्विति॑ । आ॒ह॒ । स॒प्त॒द॒श इति॑ सप्त-द॒शः । प्र॒जाप॑ति॒रिति॑ प्र॒जा-प॒तिः॒ । प्र॒जाप॑ते॒रिति॑ प्र॒जा-प॒तेः॒ । आप्त्यै॑ ।
स॒प्तद॒शेति॑ स॒प्त-द॒श॒ । अन्विति॑ । आ॒ह॒ । द्वाद॑श । मासाः॑ । पञ्च॑ । ऋ॒तवः॑ । सः । सव्ँ॒व॒त्स॒र इति॑ सम्-व॒त्स॒रः । सव्ँ॒व॒त्स॒रमिति॑ सम्-व॒त्स॒रम् । प्र॒जा इति॑ प्र-जाः । अनु॑ । प्रेति॑ । जा॒य॒न्ते॒ । प्र॒जाना॒मिति॑ प्र-जाना॑म् । प्र॒जन॑ना॒येति॑ प्र-जन॑नाय ।
भट्टभास्कर-टीका
1अग्निना वा इत्यादि ॥ गतम् । अग्नये सभिध्यमानायानुब्रूहीति सामिधेनीसंप्रैषः । एवं संप्रैषादग्निनैव होत्रा भ्रातृव्यानभिभवति सप्तदशेति सप्तदशत्वविधिः । गतः ॥
मूलम् (संयुक्तम्)
दे॒वा वै सा॑मिधे॒नीर॒नूच्य॑ य॒ज्ञन्नान्व॑पश्य॒न्त्स प्र॒जाप॑तिस्तू॒ष्णीमा॑घा॒रम् [36]
आघा॑रय॒त्ततो॒ वै दे॒वा य॒ज्ञमन्व॑पश्य॒न्यत्तू॒ष्णीमा॑घा॒रमा॑घा॒रय॑ति य॒ज्ञस्यानु॑ख्यात्या॒ असु॑रेषु॒ वै य॒ज्ञ आ॑सी॒त्तन्दे॒वास्तू॑ष्णीँहो॒मेना॑वृञ्जत॒ यत्तू॒ष्णीमा॑घा॒रमा॑घा॒रय॑ति॒ भ्रातृ॑व्यस्यै॒व तद्य॒ज्ञव्ँवृ॑ङ्क्ते
विश्वास-प्रस्तुतिः
दे॒वा वै सा॑मिधे॒नीर॒नूच्य॑ य॒ज्ञन् नान्व॑पश्यन् ।
स प्र॒जाप॑तिस् तू॒ष्णीमा॑घा॒रम् आऽघा॑रयत् । [36]
ततो॒ वै दे॒वा य॒ज्ञमन्व॑पश्य॒न् , यत् तू॒ष्णीमा॑घा॒रमा॑घा॒रय॑ति ।
य॒ज्ञस्यानु॑ख्यात्यै ।
असु॑रेषु॒ वै य॒ज्ञ आ॑सी॒त् तन् दे॒वास् तू॑ष्णीँहो॒मेना॑वृञ्जत ।
यत् तू॒ष्णीमा॑घा॒रमा॑घा॒रय॑ति॒ ,भ्रातृ॑व्यस्यै॒व तद् य॒ज्ञव्ँ वृ॑ङ्क्ते ।
मूलम्
दे॒वा वै सा॑मिधे॒नीर॒नूच्य॑ य॒ज्ञन् नान्व॑पश्यन् ।
स प्र॒जाप॑तिस् तू॒ष्णीमा॑घा॒रम् आऽघा॑रयत् । [36]
ततो॒ वै दे॒वा य॒ज्ञमन्व॑पश्य॒न् , यत् तू॒ष्णीमा॑घा॒रमा॑घा॒रय॑ति ।
य॒ज्ञस्यानु॑ख्यात्यै ।
असु॑रेषु॒ वै य॒ज्ञ आ॑सी॒त् तन् दे॒वास् तू॑ष्णीँहो॒मेना॑वृञ्जत ।
यत् तू॒ष्णीमा॑घा॒रमा॑घा॒रय॑ति॒ ,भ्रातृ॑व्यस्यै॒व तद् य॒ज्ञव्ँ वृ॑ङ्क्ते ।
पद-पाठः
दे॒वाः । वै । सा॒मि॒धे॒नीरिति॑ साम्-इ॒धे॒नीः । अ॒नूच्येत्य॑नु-उच्य॑ । य॒ज्ञम् । न । अन्विति॑ । अ॒प॒श्य॒न् ।
सः । प्र॒जाप॑ति॒रिति॑ प्र॒जा-प॒तिः॒ । तू॒ष्णीम् । आ॒घा॒रमित्या॑-घा॒रम् । [36] एति॑ । अ॒घा॒र॒य॒त् ।
ततः॑ । वै । दे॒वाः । य॒ज्ञम् । अन्विति॑ । अ॒प॒श्य॒न् । यत् । तू॒ष्णीम् । आ॒घा॒रमित्या॑-घा॒रम् । आ॒घा॒रय॒तीत्या॑-घा॒रय॑ति । य॒ज्ञस्य॑ । अनु॑ख्यात्या॒ इत्यनु॑-ख्या॒त्यै॒ ।
असु॑रेषु । वै । य॒ज्ञः । आ॒सी॒त् । तम् । दे॒वाः । तू॒ष्णीँ॒हो॒मेनेति॑ तूष्णीम्-हो॒मेन॑ । अ॒वृ॒ञ्ज॒त॒ ।
यत् । तू॒ष्णीम् । आ॒घा॒रमित्या॑-घा॒रम् । आ॒घा॒रय॒तीत्या॑-घा॒रय॑ति । भ्रातृ॑व्यस्य । ए॒व । तत् । य॒ज्ञम् । वृ॒ङ्क्ते॒ ।
भट्टभास्कर-टीका
2देवा वा इत्यादि तूष्णीमाघारविधिः ॥ सामिधेनीमात्रेण देवा यज्ञं नान्वपश्यन् । तदा प्रजापतिस्तूष्णीं मन्त्र[न्त्रा] जपेन होममाधारयत् तत इत्यादि । गतम् । असुरेष्वित्यादि । असुरैरात्मसात्कृतं यज्ञं देवास्तूष्णीं होमेनावृञ्जत आददत ॥
मूलम् (संयुक्तम्)
परि॒धीन्त्सम्मा॑र्ष्टि पु॒नात्ये॒वैना॒न्त्रिस्त्रि॒स्सम्मा॑र्ष्टि॒ त्र्या॑वृ॒द्धि य॒ज्ञोऽथो॒ रक्ष॑सा॒मप॑हत्यै॒ द्वाद॑श॒ सम्प॑द्यन्ते॒ द्वाद॑श [37]
मासाः॑ सव्ँवत्स॒रस्सव्ँ॑वत्स॒रमे॒व प्री॑णा॒त्यथो॑ सव्ँवत्स॒रमे॒वास्मा॒ उप॑ दधाति सुव॒र्गस्य॑ लो॒कस्य॒ सम॑ष्ट्यै॒
विश्वास-प्रस्तुतिः
प॒रि॒धीन्त्सम्मा॑र्ष्टि , पु॒नात्ये॒वैना॒न् त्रिस् त्रि॒स् सम्मा॑र्ष्टि ।
त्र्या॑वृ॒द्धि य॒ज्ञः ।
अथो॒ रक्ष॑सा॒मप॑हत्यै ।
द्वाद॑श॒ सम्प॑द्यन्ते । द्वाद॑श मासा॑स्सव्ँवत्स॒रः । [37]
सव्ँ॒व॒त्स॒रमे॒व प्री॑णाति ।
अथो॑ सव्ँवत्स॒रमे॒वास्मा॒ उप॑ दधाति ।
सु॒व॒र्गस्य॑ लो॒कस्य॒ सम॑ष्ट्यै ।
मूलम्
प॒रि॒धीन्त्सम्मा॑र्ष्टि , पु॒नात्ये॒वैना॒न् त्रिस् त्रि॒स् सम्मा॑र्ष्टि ।
त्र्या॑वृ॒द्धि य॒ज्ञः ।
अथो॒ रक्ष॑सा॒मप॑हत्यै ।
द्वाद॑श॒ सम्प॑द्यन्ते । द्वाद॑श मासा॑स्सव्ँवत्स॒रः । [37]
सव्ँ॒व॒त्स॒रमे॒व प्री॑णाति ।
अथो॑ सव्ँवत्स॒रमे॒वास्मा॒ उप॑ दधाति ।
सु॒व॒र्गस्य॑ लो॒कस्य॒ सम॑ष्ट्यै ।
पद-पाठः
प॒रि॒धीनिति॑ परि-धीन् । समिति॑ । मा॒र्ष्टि॒ । पु॒ना॒ति॒ । ए॒व । ए॒ना॒न् । त्रिस्त्रि॒रिति॒ त्रिः-त्रिः॒ । समिति॑ । मा॒र्ष्टि॒ ।
त्र्या॑वृ॒दिति॒ त्रि-आ॒वृ॒त् । हि । य॒ज्ञः ।
अथो॒ इति॑ । रक्ष॑साम् । अप॑हत्या॒ इत्यप॑-ह॒त्यै॒ ।
द्वाद॑श । समिति॑ । प॒द्य॒न्ते॒ । द्वाद॑श । [37] मासाः॑ । सव्ँ॒व॒त्स॒र इति॑ सम्-व॒त्स॒रः ।
सव्ँ॒व॒त्स॒रमिति॑ सम्-व॒त्स॒रम् । ए॒व । प्री॒णा॒ति॒ ।
अथो॒ इति॑ । सव्ँ॒व॒त्स॒रमिति॑ सम्-व॒त्स॒रम् । ए॒व । अ॒स्मै॒ । उपेति॑ । द॒धा॒ति॒ ।
सु॒व॒र्गस्येति॑ सुवः-गस्य॑ । लो॒कस्य॑ । सम॑ष्ट्या॒ इति॒ सम्-अ॒ष्ट्यै॒ ।
भट्टभास्कर-टीका
3परिधीनित्यादि ॥ त्र्यावृत् त्र्यावृत्तिकः । अथो अपि च त्रिस्त्रिर्मार्जनं रक्षसामहपत्यै भवति; आवृत्तेर्भयातिशयजनकत्वात् । द्वादशेति । अग्निसंमार्गेण सह द्वादश भवन्ति । अथो अपि च संवत्सरमेवास्मै यजमानाय सोमपानस्थानीयमुपदधाति । स्वर्गस्य लोकस्य तत्प्राप्त्यै भवति ॥
मूलम् (संयुक्तम्)
शिरो॒ वा ए॒तद्य॒ज्ञस्य॒ यदा॑घा॒रो॑ऽग्निस्सर्वा॑ दे॒वता॒ यदा॑घा॒रमा॑घा॒रय॑ति शीर्ष॒त ए॒व य॒ज्ञस्य॒ यज॑मान॒स्सर्वा॑ दे॒वता॒ अव॑ रुन्द्धे॒ शिरो॒ वा ए॒तद्य॒ज्ञस्य॒ यदा॑घा॒र आ॒त्मा प॒शुरा॑घा॒रमा॒घार्य॑ प॒शुँ सम॑नक्त्या॒त्मन्ने॒व य॒ज्ञस्य॑ [38]
शिर॒ᳶ प्रति॑ दधाति॒
विश्वास-प्रस्तुतिः
शिरो॒ वा ए॒तद्य॒ज्ञस्य॒ यदा॑घा॒रो॑ऽग्निस्सर्वा॑ दे॒वता॒ यदा॑घा॒रमा॑घा॒रय॑ति शीर्ष॒त ए॒व य॒ज्ञस्य॒ यज॑मान॒स्सर्वा॑ दे॒वता॒ अव॑ रुन्धे ।
शिरो॒ वा ए॒तद् य॒ज्ञस्य॒ यदा॑घा॒र आ॒त्मा प॒शुरा॑घा॒रमा॒घार्य॑ प॒शुँ सम॑नक्त्य् - आ॒त्मन्ने॒व य॒ज्ञस्य॑ शिर॒ᳶ प्रति॑ दधाति ।[38]
मूलम्
शिरो॒ वा ए॒तद्य॒ज्ञस्य॒ यदा॑घा॒रो॑ऽग्निस्सर्वा॑ दे॒वता॒ यदा॑घा॒रमा॑घा॒रय॑ति शीर्ष॒त ए॒व य॒ज्ञस्य॒ यज॑मान॒स्सर्वा॑ दे॒वता॒ अव॑ रुन्धे ।
शिरो॒ वा ए॒तद् य॒ज्ञस्य॒ यदा॑घा॒र आ॒त्मा प॒शुरा॑घा॒रमा॒घार्य॑ प॒शुँ सम॑नक्त्य् - आ॒त्मन्ने॒व य॒ज्ञस्य॑ शिर॒ᳶ प्रति॑ दधाति ।[38]
पद-पाठः
शिरः॑ । वै । ए॒तत् । य॒ज्ञस्य॑ । यत् । आ॒घा॒र इत्या॑-घा॒रः । अ॒ग्निः । सर्वाः॑ । दे॒वताः॑ । यत् । आ॒घा॒रमित्या॑-घा॒रम् । आ॒घा॒रय॒तीत्या॑-घा॒रय॑ति । शी॒र्ष॒तः । ए॒व । य॒ज्ञस्य॑ । यज॑मानः । सर्वाः॑ । दे॒वताः॑ । अवेति॑ । रु॒न्द्धे॒ ।
शिरः॑ । वै । ए॒तत् । य॒ज्ञस्य॑ । यत् । आ॒घा॒र इत्या॑-घा॒रः । आ॒त्मा । प॒शुः । आ॒घा॒रमित्या॑-घा॒रम् । आ॒घार्येत्या॑-घार्य॑ । प॒शुम् । समिति॑ । अ॒न॒क्ति॒ । आ॒त्मन् । ए॒व । य॒ज्ञस्य॑ । [38] शिरः॑ । प्रतीति॑ । द॒धा॒ति॒ ।
भट्टभास्कर-टीका
4शिरो वा इत्यादि ॥ आघारो यज्ञस्य शिरस्थानीयः, प्राधान्यात्, प्राथम्याद्वा । गतमन्यत् । आघारेण सर्वदेवतात्मनोऽग्नेरवरोधात् सर्वा देवता अवरुद्धा भवन्ति । तथा आघारणानन्तरं आत्मनः पशोस्समञ्जनात् आत्मन्येव यज्ञस्य शिरः प्रतिदधाति प्रतिष्ठापयति ॥
मूलम् (संयुक्तम्)
सन्ते॑ प्रा॒णो वा॒युना॑ गच्छता॒मित्या॑ह वायुदेव॒त्यो॑ वै प्रा॒णो वा॒यावे॒वास्य॑ प्रा॒णञ्जु॑होति॒ सय्ँयज॑त्रै॒रङ्गा॑नि॒ सय्ँ य॒ज्ञप॑तिरा॒शिषेत्या॑ह य॒ज्ञप॑तिमे॒वास्या॒शिष॑ङ्गमयति
विश्वास-प्रस्तुतिः
“सन्ते॑ प्रा॒णो वा॒युना॑ गच्छता॒म्” इत्या॑ह ।
वा॒यु॒दे॒व॒त्यो॑ वै प्रा॒णः ।
वा॒यावे॒वास्य॑ प्रा॒णञ् जु॑होति ।
सय्ँ यज॑त्रै॒रङ्गा॑नि॒ , सय्ँ य॒ज्ञप॑तिरा॒शिषेत्या॑ह ।
य॒ज्ञप॑तिम् ए॒वास्या॒शिष॑ङ् गमयति ।
मूलम्
“सन्ते॑ प्रा॒णो वा॒युना॑ गच्छता॒म्” इत्या॑ह ।
वा॒यु॒दे॒व॒त्यो॑ वै प्रा॒णः ।
वा॒यावे॒वास्य॑ प्रा॒णञ् जु॑होति ।
सय्ँ यज॑त्रै॒रङ्गा॑नि॒ , सय्ँ य॒ज्ञप॑तिरा॒शिषेत्या॑ह ।
य॒ज्ञप॑तिम् ए॒वास्या॒शिष॑ङ् गमयति ।
पद-पाठः
समिति॑ । ते॒ । प्रा॒ण इति॑ प्र-अ॒नः । वा॒युना॑ । ग॒च्छ॒ता॒म् । इति॑ । आ॒ह॒ ।
वा॒यु॒दे॒व॒त्य॑ इति॑ वायु-दे॒व॒त्यः॑ । वै । प्रा॒ण इति॑ प्र-अ॒नः ।
वा॒यौ । ए॒व । अ॒स्य॒ । प्रा॒णमिति॑ प्र-अ॒नम् । जु॒हो॒ति॒ ।
समिति॑ । यज॑त्रैः । अङ्गा॑नि । समिति॑ । य॒ज्ञप॑ति॒रिति॑ य॒ज्ञ-प॒तिः॒ । आ॒शिषेत्या॑-शिषा॑ । इति॑ । आ॒ह॒ ।
य॒ज्ञप॑ति॒मिति॑ य॒ज्ञ-प॒ति॒म् । ए॒व । अ॒स्य॒ । आ॒शिष॒मित्या॑-शिष॑म् । ग॒म॒य॒ति॒ ।
भट्टभास्कर-टीका
5सं ते प्राण इति ॥ जुह्वा पशुसमञ्जनं ललाटे । वायुभूतात्मा वायुदेवत्यः प्राणः । तद्वायावेवास्य पशोः प्राणं दधाति स्थापयति । संयजत्रैरिति ककुदि समञ्जनम् । सं यज्ञपतिरिति दक्षिणश्रोणिसमञ्जनम् । यज्ञपतिमेवेति । अस्य पशोः आशिषं फलं यजमानं गमयति ॥
मूलम् (संयुक्तम्)
वि॒श्वरू॑पो॒ वै त्वा॒ष्ट्र उ॒परि॑ष्टात्प॒शुम॒भ्य॑वमी॒त्तस्मा॑दु॒परि॑ष्टात्प॒शोर्नाव॑ द्यन्ति॒ यदु॒परि॑ष्टात्प॒शुँ स॑म॒नक्ति॒ मेध्य॑मे॒व [39]
ए॒न॒ङ्क॒रो॒त्य्
विश्वास-प्रस्तुतिः
वि॒श्वरू॑पो॒ वै त्वा॒ष्ट्र उ॒परि॑ष्टात् प॒शुम् अ॒भ्य॑वमीत् ।
तस्मा॑द् उ॒परि॑ष्टात् प॒शोर्नाव॑ द्यन्ति ।
यद् उ॒परि॑ष्टात् प॒शुँ स॑म॒नक्ति॒ , मेध्य॑मे॒वैन॑ङ् करोति ।[39]
पद-पाठः
वि॒श्वरू॑प॒ इति॑ वि॒श्व-रू॒पः॒ । वै । त्वा॒ष्ट्रः । उ॒परि॑ष्टात् । प॒शुम् । अ॒भीति॑ । अ॒व॒मी॒त् ।
तस्मा॑त् । उ॒परि॑ष्टात् । प॒शोः । न । अवेति॑ । द्य॒न्ति॒ । यत् । उ॒परि॑ष्टात् । प॒शुम् । स॒म॒नक्तीति॑ सम्-अ॒नक्ति॑ । मेध्य॑म् । ए॒व । [39] ए॒न॒म् । क॒रो॒ति॒ ।
मूलम्
वि॒श्वरू॑पो॒ वै त्वा॒ष्ट्र उ॒परि॑ष्टात् प॒शुम् अ॒भ्य॑वमीत् ।
तस्मा॑द् उ॒परि॑ष्टात् प॒शोर्नाव॑ द्यन्ति ।
यद् उ॒परि॑ष्टात् प॒शुँ स॑म॒नक्ति॒ , मेध्य॑मे॒वैन॑ङ् करोति ।[39]
भट्टभास्कर-टीका
6विश्वरूपस्त्वष्टुः पुत्रः पशुमुपरिष्टान्मुखे अभ्यवमीत् अभिवमनं कृतवान् । तस्मादशुद्धत्वादुपरिष्टान्नावद्यन्ति । उपरिष्टात्समञ्जनेन मेधार्हमेनं करोति ॥
मूलम् (संयुक्तम्)
ऋ॒त्विजो॑ वृणीते॒ छन्दाँ॑स्ये॒व वृ॑णीते स॒प्त वृ॑णीते स॒प्त ग्रा॒म्याᳶ प॒शव॑स्स॒प्तार॒ण्यास्स॒प्त छन्दाँ॑स्यु॒भय॒स्याव॑रुद्ध्या॒
विश्वास-प्रस्तुतिः
ऋ॒त्विजो॑ वृणीते॒, छन्दाँ॑स्ये॒व वृ॑णीते , स॒प्त वृ॑णीते ।
स॒प्त ग्रा॒म्याᳶ प॒शव॑स् , स॒प्तार॒ण्यास् , स॒प्त छन्दाँ॑सि ।
उ॒भय॒स्याव॑रुध्यै ।
मूलम्
ऋ॒त्विजो॑ वृणीते॒, छन्दाँ॑स्ये॒व वृ॑णीते , स॒प्त वृ॑णीते ।
स॒प्त ग्रा॒म्याᳶ प॒शव॑स् , स॒प्तार॒ण्यास् , स॒प्त छन्दाँ॑सि ।
उ॒भय॒स्याव॑रुध्यै ।
पद-पाठः
ऋ॒त्विजः॑ । वृ॒णी॒ते॒ । छन्दाँ॑सि । ए॒व । वृ॒णी॒ते॒ । स॒प्त । वृ॒णी॒ते॒ ।
स॒प्त । ग्रा॒म्याः । प॒शवः॑ । स॒प्त । आ॒र॒ण्याः । स॒प्त । छन्दाँ॑सि ।
उ॒भय॑स्य । अव॑रुद्ध्या॒ इत्यव॑-रु॒द्ध्यै॒ ।
भट्टभास्कर-टीका
7ऋत्विज इति ॥ अत्रैव वरणं न्याय्यं, इह विधानात् । छन्दांस्येवेति । सप्तत्वान्वयात्सप्तेति । सप्तदशो[शशब्दो] घृतादित्वादन्तोदात्तः । ग्राम्या आरण्या उक्ताः । उभयस्येति । पशूनां छन्दसां च ॥
मूलम् (संयुक्तम्)
एका॑दश प्रया॒जान्य॑जति॒ दश॒ वै प॒शोᳶ प्रा॒णा आ॒त्मैका॑द॒शो यावा॑ने॒व प॒शुस्तम्प्र य॑जति व॒पामेक॒ᳶ परि॑ शय आ॒त्मैवात्मान॒म्परि॑ शये॒
विश्वास-प्रस्तुतिः
एका॑दश प्रया॒जान् य॑जति ।
दश॒ वै प॒शोᳶ प्रा॒णा , आ॒त्मैका॑द॒शः ।
यावा॑ने॒व प॒शुस् तम् प्र य॑जति ।
व॒पामेक॒ᳶ परि॑ शये । आ॒त्मैवात्मान॒म् परि॑ शये ।
मूलम्
एका॑दश प्रया॒जान् य॑जति ।
दश॒ वै प॒शोᳶ प्रा॒णा , आ॒त्मैका॑द॒शः ।
यावा॑ने॒व प॒शुस् तम् प्र य॑जति ।
व॒पामेक॒ᳶ परि॑ शये । आ॒त्मैवात्मान॒म् परि॑ शये ।
पद-पाठः
एका॑दश । प्र॒या॒जानिति॑ प्र-या॒जान् । य॒ज॒ति॒ ।
दश॑ । वै । प॒शोः । प्रा॒णा इति॑ प्र-अ॒नाः । आ॒त्मा । ए॒का॒द॒शः ।
यावा॑न् । ए॒व । प॒शुः । तम् । प्रेति॑ । य॒ज॒ति॒ ।
भट्टभास्कर-टीका
8एकादशेति संख्याविधिः ॥ दशेति । सप्त शीर्षण्याः, द्वाववाञ्चौ, नाभिश्चेति । यावानिति । समस्तमेव पशुं प्रयजति प्रथमतो यजति । वपामित्यादि । एवमेकादशसु प्रयाजेषु सत्सु स्वयं गुणो भवति । योयमेकोन्त्यः प्रयाजः स आत्मैकादश इत्युक्तः । सोयमेवं सति वपां परिशये । समीपशयनं परिशयनम्, तदव्यवधानेन वर्तते इति यावत् । वपाकालमास्ते इदानीं न क्रियते । कीदृशोयं गुण इत्याह - आत्मैव ह्यात्मानं परिशेते एकादशस्यात्मत्वात् । आत्मा वपेति च पश्वात्मत्वात् । लक्षणे वा अनोः कर्मप्रवचनीयत्वं अन्त्यः प्रयाजो वपां लक्षीकृत्य शेते इति । ‘लोपस्त आत्मने पदेषु’ इति तलोपः ॥
मूलम् (संयुक्तम्)
वज्रो॒ वै स्वधि॑ति॒र्वज्रो॑ यूपशक॒लो घृ॒तङ्खलु॒ वै दे॒वा वज्र॑ङ्कृ॒त्वा सोम॑मघ्नन्घृ॒तेना॒क्तौ प॒शुन्त्रा॑येथा॒मित्या॑ह॒ वज्रे॑णै॒वैनव्ँ॒वशे॑ कृ॒त्वा ल॑भते ॥ [40]
विश्वास-प्रस्तुतिः
वज्रो॒ वै स्वधि॑ति॒र् , वज्रो॑ यूपशक॒लः ।
घृ॒तङ् खलु॒ वै दे॒वा वज्र॑ङ्कृ॒त्वा सोम॑मघ्नन् ।
घृ॒तेना॒क्तौ प॒शुन्त्रा॑येथा॒मित्या॑ह ।
वज्रे॑णै॒वैनव्ँ॒ वशे॑ कृ॒त्वा ऽऽल॑भते ॥ [40]
मूलम्
वज्रो॒ वै स्वधि॑ति॒र् , वज्रो॑ यूपशक॒लः ।
घृ॒तङ् खलु॒ वै दे॒वा वज्र॑ङ्कृ॒त्वा सोम॑मघ्नन् ।
घृ॒तेना॒क्तौ प॒शुन्त्रा॑येथा॒मित्या॑ह ।
वज्रे॑णै॒वैनव्ँ॒ वशे॑ कृ॒त्वा ऽऽल॑भते ॥ [40]
पद-पाठः
व॒पाम् । एकः॑ । परीति॑ । श॒ये॒ । आ॒त्मा । ए॒व । आ॒त्मान॑म् । परीति॑ । श॒ये॒ ।
वज्रः॑ । वै । स्वधि॑ति॒रिति॒ स्व-धि॒तिः॒ । वज्रः॑ । यू॒प॒श॒क॒ल इति॑ यूप-श॒क॒लः ।
घृ॒तम् । खलु॑ । वै । दे॒वाः । वज्र॑म् । कृ॒त्वा । सोम॑म् । अ॒घ्न॒न् ।
घृ॒तेन॑ । अ॒क्तौ । प॒शुम् । त्रा॒ये॒था॒म् । इति॑ । आ॒ह॒ । वज्रे॑ण । ए॒व । ए॒न॒म् । वशे॑ । कृ॒त्वा । एति॑ । ल॒भ॒ते॒ ॥ [40]
भट्टभास्कर-टीका
9घृतेनाक्ताविति स्वरुस्वधितिभ्यां पशुसमञ्जनम् । ताविह त्रायेथाम् । वज्रो वा इत्यादि । वज्रवदमोघसाधनं स्वधितिः शस्त्रं यूपशकलं स्वरुश्च । अथ येनाज्येनाञ्ज्यते तदपि वज्रमित्याह - घृतेनेत्यादि । तस्मादनेन मन्त्रेण ताभ्यां तादृशाज्याभ्यक्ताभ्यां पशोस्समञ्जने वज्रेणैव वशे कृत्वा विधेयीकृत्य पशुमालभते संज्ञयति ॥
इति षष्ठे तृतीये सप्तमोनुवाकाः ॥