२८ २८

०६ ...{Loading}...

मूलम् (संयुक्तम्)

इ॒षे त्वेति॑ ब॒र्हिरा द॑त्त इ॒च्छत॑ इव॒ ह्ये॑ष यो यज॑त

विश्वास-प्रस्तुतिः

इ॒षे त्वेति॑ ब॒र्हिरा द॑त्त , इ॒च्छत॑ इव॒ ह्ये॑ष यो यज॑ते ।

मूलम्

इ॒षे त्वेति॑ ब॒र्हिरा द॑त्त , इ॒च्छत॑ इव॒ ह्ये॑ष यो यज॑ते ।

पद-पाठः

इ॒षे । त्वा॒ । इति॑ । ब॒र्‌हिः । एति॑ । द॒त्ते॒ । इ॒च्छते॑ । इ॒व॒ । हि । ए॒षः । यः । यज॑ते ।

भट्टभास्कर-टीका

1इषे त्वेति बर्हिरादत्ते इति ॥ गतम् । मन्त्राम्नातक्रममुल्लङ्घ्य पशुमन्त्रैस्सहोपाकरणमन्त्रब्राह्मणमाम्नायते । उपाकृत्यैव मन्थ्य इत्येतदनुसारेण उपाकरणनियोजनयोर्मध्ये ‘अग्नेर्जनित्रमसि'38 इत्यादीनां मन्त्राणां ब्राह्मणमाम्नातम् । इच्छत इव हीति । इष्यत इतीट्, अन्नं स्वर्गादि वा इत्यर्थः । तदर्थं त्वामाददे इति मन्त्रार्थः । अत्र केनेष्यते इत्याकांक्षायां यजमानमेष्टारं दर्शयति । अन्नमिच्छतोस्य तत्सिद्ध्यर्थं त्वामाददे इति मन्त्रार्थो दर्शितो भवति । व्यत्ययेनात्मनेपदमिषे त्वेति ॥

मूलम् (संयुक्तम्)

उप॒वीर॒सीत्या॒होप॒ ह्ये॑नानाक॒रोत्युपो॑ दे॒वान्

विश्वास-प्रस्तुतिः

“उ॒प॒वीर॑सि” +इत्या॑ह ।
उप॒ ह्ये॑नानाक॒रोत्युपो॑ दे॒वान् ।

मूलम्

“उ॒प॒वीर॑सि” +इत्या॑ह ।
उप॒ ह्ये॑नानाक॒रोत्युपो॑ दे॒वान् ।

पद-पाठः

उ॒प॒वीरित्यु॑प-वीः । अ॒सि॒ । इति॑ । आ॒ह॒ ।

उपेति॑ । हि । ए॒ना॒न् । आ॒क॒रोतीत्या॑-क॒रोति॑ । उपो॒ इति॑ । दे॒वान् ।

भट्टभास्कर-टीका

2’उपवीरसि'38 इत्यादिपशूनामुपाकरणमन्त्रः ॥ उप ह्येनानिति । यस्मादेनानुपाकरोति देवतासमीपे उपाकरोति तादर्थ्येनापि करोति पशून् तस्मात् उपवीरसीत्याहेत्यर्थः । वेतेरुपपूर्वाद्गतिकर्मणः कर्मणि क्विप् । अन्तर्भावितण्यर्थत्वादुपगमयितव्योसीति मन्त्रलिङ्गात् । तत्र मन्त्रे ब्राह्मणे वा वचनव्यत्ययः । जातौ वा बहुलवचनम् । आग्नेयानुबन्ध्यापेक्षमित्येके, एकादशाग्नीषोमीयाः, एकादश सवनीया एकादश अनूबन्बन्ध्या इत्ययमपि पक्षोस्तीति स्थापनार्थमेतदित्यन्ये । अपरे पुनराहुः - ससाधनां क्रियामुपसर्ग आह, एतानि च ‘उपो देवान्'38 इत्यनन्तरं वक्ष्यमाणा देवा निर्दिश्यन्ते । अयमर्थः - एवं देवानुप संगमय्य एनं पशुमुपाकरोति ॥

मूलम् (संयुक्तम्)

दैवी॒र्विश॒ᳶ प्रागु॒रित्या॑ह॒ दैवी॒र्ह्ये॑ता विश॑स्स॒तीर्दे॒वानु॑प॒यन्ति॒ वह्नी॑रु॒शिज॒ इत्या॑ह

विश्वास-प्रस्तुतिः

दैवी॒र्विश॒ᳶ प्रागु॒रित्या॑ह ।
दैवी॒र्ह्ये॑ता विश॑स् स॒तीर् दे॒वान् उ॑प॒यन्ति॑ ।

मूलम्

दैवी॒र्विश॒ᳶ प्रागु॒रित्या॑ह ।
दैवी॒र्ह्ये॑ता विश॑स् स॒तीर् दे॒वान् उ॑प॒यन्ति॑ ।

पद-पाठः

दैवीः॑ । विशः॑ । प्रेति॑ । अ॒गुः॒ । इति॑ । आ॒ह॒ । दैवीः॑ । हि । ए॒ताः । विशः॑ । स॒तीः । दे॒वान् । उ॒प॒यन्तीत्यु॑प-यन्ति॑ ।

भट्टभास्कर-टीका

3दैवीर्हीति ॥ देवानामिमाः विशः प्रजास्सत्यो देवानग्नीषोमादीन् उपगच्छन्ति पश्ववयवाः अवदानभावमापन्नास्सर्वेऽपि । मनुष्या इत्येके । एता इति । विडपेक्ष्यं स्त्रीत्वम् । ‘देवाद्यञञौ’ इति यञ्, ‘वा छन्दसि’ इति पूर्वसवर्णदीर्घत्वम् ‘हि च’ इति निघाताभावे ‘तिङि चोदात्तवति’ इति गतेरनुदात्तत्वम्, समासश्च ॥

मूलम् (संयुक्तम्)

वह्नी॑रु॒शिज॒ इत्या॑ह॒र्त्विजो॒ वै वह्न॑य उ॒शिज॒स्तस्मा॑दे॒वमा॑ह॒ बृह॑स्पते धा॒रया॒ वसू॒नीति॑ [32]
आ॒ह॒ ब्रह्म॒ वै दे॒वाना॒म्बृह॒स्पति॒र्ब्रह्म॑णै॒वास्मै॑ प॒शूनव॑ रुन्द्धे ह॒व्या ते॑ स्वदन्ता॒मित्या॑ह स्व॒दय॑त्ये॒वैना॒न्देव॑ त्वष्ट॒र्वसु॑ र॒ण्वेत्या॑ह॒ त्वष्टा॒ वै प॑शू॒नाम्मि॑थु॒नानाँ॑ रूप॒कृद्रू॒पमे॒व प॒शुषु॑ दधाति॒ रेव॑ती॒ रम॑ध्व॒मित्या॑ह प॒शवो॒ वै रे॒वतीः॑ प॒शूने॒वास्मै॑ रमयति

विश्वास-प्रस्तुतिः

वह्नी॑रु॒शिज॒ इत्या॑ह । ऋ॒त्विजो॒ वै वह्न॑य उ॒शिज॒स् तस्मा॑द् ए॒वमा॑ह ।
“बृह॑स्पते धा॒रया॒ वसू॒नि”+ इत्या॑ह । [32]
ब्रह्म॒ वै दे॒वाना॒म्बृह॒स्पति॒र् ब्रह्म॑णै॒वास्मै॑ प॒शूनव॑ रुन्धे ।
ह॒व्या ते॑ स्वदन्ता॒मित्या॑ह । स्व॒दय॑त्ये॒वैना॒न्देव॑ त्वष्ट॒र्वसु॑ र॒ण्वेत्या॑ह ।
त्वष्टा॒ वै प॑शू॒नाम्मि॑थु॒नानाँ॑ रूप॒कृद्रू॒पमे॒व प॒शुषु॑ दधाति ।
रेव॑ती॒ रम॑ध्व॒मित्या॑ह ।
प॒शवो॒ वै रे॒वतीः॑ , प॒शूने॒वास्मै॑ रमयति ।

मूलम्

वह्नी॑रु॒शिज॒ इत्या॑ह । ऋ॒त्विजो॒ वै वह्न॑य उ॒शिज॒स् तस्मा॑द् ए॒वमा॑ह ।
“बृह॑स्पते धा॒रया॒ वसू॒नि”+ इत्या॑ह । [32]
ब्रह्म॒ वै दे॒वाना॒म्बृह॒स्पति॒र् ब्रह्म॑णै॒वास्मै॑ प॒शूनव॑ रुन्धे ।
ह॒व्या ते॑ स्वदन्ता॒मित्या॑ह । स्व॒दय॑त्ये॒वैना॒न्देव॑ त्वष्ट॒र्वसु॑ र॒ण्वेत्या॑ह ।
त्वष्टा॒ वै प॑शू॒नाम्मि॑थु॒नानाँ॑ रूप॒कृद्रू॒पमे॒व प॒शुषु॑ दधाति ।
रेव॑ती॒ रम॑ध्व॒मित्या॑ह ।
प॒शवो॒ वै रे॒वतीः॑ , प॒शूने॒वास्मै॑ रमयति ।

पद-पाठः

वह्नीः॑ । उ॒शिजः॑ । इति॑ । आ॒ह॒ । ऋ॒त्विजः॑ । वै । वह्न॑यः । उ॒शिजः॑ । तस्मा॑त् । ए॒वम् । आ॒ह॒ ।

बृह॑स्पते । धा॒रय॑ । वसू॑नि । इति॑ । [32] आ॒ह॒ ।

ब्रह्म॑ । वै । दे॒वाना॑म् । बृह॒स्पतिः॑ । ब्रह्म॑णा । ए॒व । अ॒स्मै॒ । प॒शून् । अवेति॑ । रु॒न्द्धे॒ ।

ह॒व्या । ते॒ । स्व॒द॒न्ता॒म् । इति॑ । आ॒ह॒ । स्व॒दय॑ति । ए॒व । ए॒ना॒न् ।

दे॒वः । त्व॒ष्टः॒ । वसु॑ । र॒ण्व॒ । इति॑ । आ॒ह॒ । त्वष्टा॑ । वै । प॒शू॒नाम् । मि॒थु॒नाना॑म् । रू॒प॒कृदिति॑ रूप-कृत् । रू॒पम् । ए॒व । प॒शुषु॑ । द॒धा॒ति॒ ।

रेव॑तीः । रम॑ध्वम् । इति॑ । आ॒ह॒ । प॒शवः॑ । वै । रे॒वतीः॑ । प॒शून् । ए॒व । अ॒स्मै॒ । र॒म॒य॒ति॒ ।

भट्टभास्कर-टीका

4ऋत्विजो वा इति ॥ वोढारः कर्मणो वह्नयः । ‘वर्मणि[वहिश्नि]’ इत्यादिना निप्रत्ययः, निदिति तत्रानुवर्तते । यागसमकालं शेषभक्षणं वा कामयमाना उशिजः । ‘वशः किच्च’ इतीप्रत्ययः । स्वदयति । वृद्ध्यभावश्छान्दसः । अदन्त इत्येके । त्वष्टा वा इत्यादि । गतम् । पशवो वा इत्यादि । दुग्धादिना धनेन तद्वत्वात् । संज्ञा चेयं पशूनाम् । ‘रयेर्मतौ बहुलम्’ इति संप्रसारणम्, ‘संज्ञायाम्’ इति मतुपो वत्वम्, पूर्ववत् ‘रेशब्दाच्च’ इति मतुप उदात्तत्वम्, पूर्ववत्पूर्वसवर्णदीर्यत्वम् ॥

मूलम् (संयुक्तम्)

दे॒वस्य॑ त्वा सवि॒तुᳶ प्र॑स॒व इति॑ [33]
र॒श॒नामा द॑त्ते॒ प्रसू॑त्या अ॒श्विनो॑र्बा॒हुभ्या॒मित्या॑हा॒श्विनौ॒ हि दे॒वाना॑मध्व॒र्यू आस्ता॑म्पू॒ष्णो हस्ता॑भ्या॒मित्या॑ह॒ यत्या॑ ऋ॒तस्य॑ त्वा देवहवि॒ᳶ पाशे॒ना र॑भ॒ इत्या॑ह स॒त्यव्ँवा ऋ॒तँ स॒त्येनै॒वैन॑मृ॒तेना र॑भतेऽक्ष्ण॒या परि॑ हरति॒ वध्यँ॒ हि प्र॒त्यञ्च॑म्प्रतिमु॒ञ्चन्ति॒ व्यावृ॑त्त्यै॒ धर्षा॒ मानु॑षा॒निति॒

विश्वास-प्रस्तुतिः

दे॒वस्य॑ त्वा सवि॒तुᳶ प्र॑स॒व इति॑ ।[33]
र॒श॒नामा द॑त्ते॒ प्रसू॑त्यै ।
अ॒श्विनो॑र्बा॒हुभ्या॒मित्या॑ह ।
अ॒श्विनौ॒ हि दे॒वाना॑मध्व॒र्यू आस्ता॑म् ।
पू॒ष्णो हस्ता॑भ्या॒मित्या॑ह । यत्यै॑ ।
ऋ॒तस्य॑ त्वा देवहवि॒ᳶ पाशे॒ना र॑भ॒ इत्या॑ह ।
स॒त्यव्ँ वा ऋ॒तँ स॒त्येनै॒वैन॑म् - ऋ॒तेना र॑भते । अ॒क्ष्ण॒या परि॑ हरति॒ , वध्यँ॒ हि प्र॒त्यञ्च॑म् प्रतिमु॒ञ्चन्ति, व्यावृ॑त्त्यै ।

मूलम्

दे॒वस्य॑ त्वा सवि॒तुᳶ प्र॑स॒व इति॑ ।[33]
र॒श॒नामा द॑त्ते॒ प्रसू॑त्यै ।

अ॒श्विनो॑र्बा॒हुभ्या॒मित्या॑ह ।
अ॒श्विनौ॒ हि दे॒वाना॑मध्व॒र्यू आस्ता॑म् ।

पू॒ष्णो हस्ता॑भ्या॒मित्या॑ह । यत्यै॑ ।

ऋ॒तस्य॑ त्वा देवहवि॒ᳶ पाशे॒ना र॑भ॒ इत्या॑ह ।
स॒त्यव्ँ वा ऋ॒तँ स॒त्येनै॒वैन॑म् - ऋ॒तेना र॑भते ।

अ॒क्ष्ण॒या परि॑ हरति॒ , वध्यँ॒ हि प्र॒त्यञ्च॑म् प्रतिमु॒ञ्चन्ति, व्यावृ॑त्त्यै ।

पद-पाठः

दे॒वस्य॑ । त्वा॒ । स॒वि॒तुः । प्र॒स॒व इति॑ प्र-स॒वे । इति॑ । [33]
र॒श॒नाम् । एति॑ । द॒त्ते॒ । प्रसू॑त्या॒ इति॒ प्र-सू॒त्यै॒ ।

अ॒श्विनोः॑ । बा॒हुभ्या॒मिति॑ बा॒हु-भ्या॒म् । इति॑ । आ॒ह॒ । अ॒श्विनौ॑ । हि । दे॒वाना॑म् । अ॒ध्व॒र्यू इति॑ । आस्ता॑म् । पू॒ष्णः । हस्ता॑भ्याम् । इति॑ । आ॒ह॒ । यत्यै॑ ।

ऋ॒तस्य॑ । त्वा॒ । दे॒व॒ह॒वि॒रिति॑ देव-ह॒विः॒ । पाशे॑न । एति॑ । र॒भे॒ । इति॑ । आ॒ह॒ । स॒त्यम् । वै । ऋ॒तम् । स॒त्येन॑ । ए॒व । ए॒न॒म् । ऋ॒तेन॑ । एति॑ । र॒भ॒ते॒ ।

अ॒क्ष्ण॒या । परीति॑ । ह॒र॒ति॒ । वध्य॑म् । हि । प्र॒त्यञ्च॑म् । प्र॒ति॒मु॒ञ्चन्तीति॑ प्रति-मु॒ञ्चन्ति॑ । व्यावृ॑त्त्या॒ इति॑ वि-आवृ॑त्त्यै ।

भट्टभास्कर-टीका

5देवस्य त्वेत्यादिरशनादानविधिर्गतः , व्याख्यातश्चात्र ‘आ ददे’ इत्यस्य शेषतया सावित्रवत्त्वे व्याचष्टे ब्राह्मणम् ।

ऋतस्य त्वेति रशनया पश्वभिधानम् । सत्यं वा इति । साधुः सत्यः । तदात्मना ऋतेनैनं आरभते बध्नाति । अक्ष्णयेति कण्ठगत्या परिहरति वेष्टयति पशुम् । ‘पशुरशनायाः दक्षिणमध्यर्थशीर्षं’ इत्याचार्याः । हेतुमाह - वध्यं हीति । वध्यं वधार्हमनुपकारकं पशुम् । मरणारम्भे प्रत्यञ्चं प्रतीपं प्रतिकूलं प्राणवृत्तेश्शिरोतीत्य ग्रीवायामेव प्रतिमुञ्चति । तस्मादेवं बन्धनं वध्यादस्य व्यावृत्त्यै भवति ॥

मूलम् (संयुक्तम्)

धर्षा॒ मानु॑षा॒निति॒ नि यु॑नक्ति॒ धृत्या॑ अ॒द्भ्यः [34]
त्वौष॑धीभ्य॒ᳶ प्रोक्षा॒मीत्या॑हा॒द्भ्यो ह्ये॑ष ओष॑धीभ्यस्स॒म्भव॑ति॒ यत्प॒शुर्

विश्वास-प्रस्तुतिः

“धर्षा॒ मानु॑षा॒न्” इति॒ नि यु॑नक्ति । धृत्यै॑ ।

अ॒द्भ्यः त्वौष॑धीभ्य॒ᳶ प्रोक्षा॒मीत्या॑ह ।[34]
अ॒द्भ्यो ह्ये॑ष ओष॑धीभ्यस् स॒म्भव॑ति॒, यत्प॒शुः ।

मूलम्

“धर्षा॒ मानु॑षा॒न्” इति॒ नि यु॑नक्ति । धृत्यै॑ ।

अ॒द्भ्यः त्वौष॑धीभ्य॒ᳶ प्रोक्षा॒मीत्या॑ह ।[34]
अ॒द्भ्यो ह्ये॑ष ओष॑धीभ्यस् स॒म्भव॑ति॒, यत्प॒शुः ।

पद-पाठः

धर्‌ष॑ । मानु॑षान् । इति॑ । नीति॑ । यु॒न॒क्ति॒ । धृत्यै॑ ।

अ॒द्भ्य इत्य॑त्-भ्यः । [34] त्वा॒ । ओष॑धीभ्य॒ इत्योष॑धि-भ्यः॒ । प्रेति॑ । उ॒क्षा॒मि॒ । इति॑ । आ॒ह॒ ।

अ॒द्भ्य इत्य॑त्-भ्यः । हि । ए॒षः । ओष॑धीभ्य॒ इत्योष॑धि-भ्यः॒ । स॒म्भव॒तीति॑ सम्-भव॑ति । यत् । प॒शुः ।

भट्टभास्कर-टीका

6नि युनक्तीति ॥ यक्षे पशुं बध्नातीति विधिः । तद्धृत्यै धृष्टत्वाय भवति । अद्भ्यस्त्वेति पशुप्रोक्षणम् । अद्भ्य ओषधीभ्यश्च संभूतं त्वामद्भिः प्रोक्षामीति मन्त्रार्थं दर्शयति । कारणेन हि कार्याणां शुद्धि । पवित्रेणोत्पूतत्वादोषधिशुद्धिरप्यस्तीति । यद्वा - आप ओषधयश्च भूयासुरित्येवमर्थं त्वामद्भिः प्रोक्षामीति मन्त्रार्थः । अद्भ्यस्संभूतत्वादद्भ्यो हीत्युक्तम् । तथाहि - पशोरपामोषधीनां कार्यत्वात् कार्यकारणयोश्चाभिन्नत्वात् कार्यकारणपशुप्रोक्षणेनैव तत्कारणानां सिद्धिरिति ब्राह्माणाभिप्रायः । पूर्वन्निघाताभावगत्यनुदात्तत्वसमासाः ॥

मूलम् (संयुक्तम्)

अ॒पाम्पे॒रुर॒सीत्या॑है॒ष ह्य॑पाम्पा॒ता यो मेधा॑यार॒भ्यते॑

विश्वास-प्रस्तुतिः

अ॒पाम् पे॒रुर॒सीत्या॑ह ।
ए॒ष ह्य॑पाम् पा॒ता यो मेधा॑यार॒भ्यते॑ ।

मूलम्

अ॒पाम् पे॒रुर॒सीत्या॑ह ।
ए॒ष ह्य॑पाम् पा॒ता यो मेधा॑यार॒भ्यते॑ ।

पद-पाठः

अ॒पाम् । पे॒रुः । अ॒सि॒ । इति॑ । आ॒ह॒ ।
ए॒षः । हि । अ॒पाम् । पा॒ता । यः । मेधा॑य । आ॒र॒भ्यत॒ इत्या॑-र॒भ्यते॑ ।

भट्टभास्कर-टीका

7अपां पेरुरसीति पाययति ॥ एष हीति । एष यज्ञार्थमारभ्यमाणः पशुः यागद्वारेणापां पाता रक्षिता । तस्मात्ताः पार्यते इति पेरुरिति । पातेरुप्रत्ययं मन्यते । यदा तु पिबतेः तदा अपां पेरुः पाता भवेति मन्त्रार्थोपि पठितव्यः । एष ह्यपां रक्षिता मेधार्थः पशुः, तस्मात्ताः पिबेति प्रार्थ्यते इति ॥

मूलम् (संयुक्तम्)

स्वा॒त्तञ्चि॒त्सदे॑वँ ह॒व्यमापो॑ देवी॒स्स्वद॑तैन॒मित्या॑ह स्व॒दय॑त्ये॒वैन॑मु॒परि॑ष्टा॒त्प्रोक्ष॑त्यु॒परि॑ष्टादे॒वैन॒म्मेध्य॑ङ्करोति पा॒यय॑त्यन्तर॒त ए॒वैन॒म्मेध्य॑ङ्करोत्य॒धस्ता॒दुपो॑क्षति स॒र्वत॑ ए॒वैन॒म्मेध्य॑ङ्करोति ॥ [35]

विश्वास-प्रस्तुतिः

स्वा॒त्तञ्चि॒त्सदे॑वँ ह॒व्यमापो॑ देवी॒स्स्वद॑तैन॒मित्या॑ह , स्व॒दय॑त्ये॒वैन॑म् ।
उ॒परि॑ष्टा॒त् प्रोक्ष॑त्य् , उ॒परि॑ष्टादे॒वैन॒म् मेध्य॑ङ्करोति , पा॒यय॑त्यन्तर॒त ए॒वैन॒म् मेध्य॑ङ्करोत्य् , अ॒धस्ता॒दुपो॑क्षति , स॒र्वत॑ ए॒वैन॒म् मेध्य॑ङ्करोति ॥ [35]

मूलम्

स्वा॒त्तञ्चि॒त्सदे॑वँ ह॒व्यमापो॑ देवी॒स्स्वद॑तैन॒मित्या॑ह , स्व॒दय॑त्ये॒वैन॑म् ।
उ॒परि॑ष्टा॒त् प्रोक्ष॑त्य् , उ॒परि॑ष्टादे॒वैन॒म् मेध्य॑ङ्करोति , पा॒यय॑त्यन्तर॒त ए॒वैन॒म् मेध्य॑ङ्करोत्य् , अ॒धस्ता॒दुपो॑क्षति , स॒र्वत॑ ए॒वैन॒म् मेध्य॑ङ्करोति ॥ [35]

पद-पाठः

स्वा॒त्तम् । चि॒त् । सदे॑व॒मिति॒ स-दे॒व॒म् । ह॒व्यम् । आपः॑ । दे॒वीः॒ । स्वद॑त । ए॒न॒म् । इति॑ । आ॒ह॒ । स्व॒दय॑ति । ए॒व । ए॒न॒म् ।

उ॒परि॑ष्टात् । प्रेति॑ । उ॒क्ष॒ति॒ ।
उ॒परि॑ष्टात् । ए॒व । ए॒न॒म् । मेध्य॑म् । क॒रो॒ति॒ ।
पा॒यय॑ति । अ॒न्त॒र॒तः । ए॒व । ए॒न॒म् । मेध्य॑म् । क॒रो॒ति॒ ।
अ॒धस्ता॑त् । उपेति॑ । उ॒क्ष॒ति॒ । स॒र्वतः॑ । ए॒व । ए॒न॒म् । मेध्य॑म् । क॒रो॒ति॒ ॥ [35]

भट्टभास्कर-टीका

8स्वात्तमिति अधस्तादवोक्षणम् । अन्तरत एवम् । एतैः त्रिभिरुक्षणैः सर्वत एवैनं मेध्यं करोतीति । ‘तसेश्च’ इति तसिलादेशः ॥

इति षष्ठे तृतीये षष्ठोनुवाकः ॥