२७ २७

०५ ...{Loading}...

मूलम् (संयुक्तम्)

सा॒ध्या वै दे॒वा अ॒स्मिल्ँ लो॒क आ॑स॒न्नान्यत्किञ्च॒न मि॒षत्ते॑ऽग्निमे॒वाग्नये॒ मेधा॒याल॑भन्त॒ न ह्य॑न्यदा॑ल॒म्भ्य॑मवि॑न्द॒न्

विश्वास-प्रस्तुतिः

सा॒ध्या वै दे॒वा अ॒स्मिल्ँ लो॒क आ॑सन् ।
नान्यत्किञ्च॒न मि॒षत् ।
ते॑ऽग्निमे॒वाग्नये॒ मेधा॒याल॑भन्त ।
न ह्य॑न्यद् आ॑ल॒म्भ्य॑म् अवि॑न्दन् ।

मूलम्

सा॒ध्या वै दे॒वा अ॒स्मिल्ँ लो॒क आ॑सन् ।
नान्यत्किञ्च॒न मि॒षत् ।
ते॑ऽग्निमे॒वाग्नये॒ मेधा॒याल॑भन्त ।
न ह्य॑न्यद् आ॑ल॒म्भ्य॑म् अवि॑न्दन् ।

पद-पाठः

सा॒ध्याः । वै । दे॒वाः । अ॒स्मिन् । लो॒के । आ॒स॒न् ।
न । अ॒न्यत् । किम् । च॒न । मि॒षत् ।
ते । अ॒ग्निम् । ए॒व । अ॒ग्नये॑ । मेधा॑य । एति॑ । अ॒ल॒भ॒न्त॒ ।
न । हि । अ॒न्यत् । आ॒ल॒म्भ्य॑मित्या॑-ल॒म्भ्य॑म् । अवि॑न्दन् ।

भट्टभास्कर-टीका

1साध्या वा इत्यादि ॥ यदुक्तं ‘यदग्नावग्निं मथित्वा प्रहरति’ इति तदधिकृत्यायमनुवाकः । अस्मिन्मनुष्यलोके साध्या देवाः पूर्वमासन्, न त्वन्यत्किंचिदपि मिषत् प्राणिवस्त्वासीत् तेजोभावात् । अग्निमेवाग्नये आलभन्त मेधार्थं यज्ञसिद्ध्यर्थम्, न ह्यन्यदालम्भ्यं आलम्भनार्हं अजादिकमविन्दन् अलभन्तल । अर्हे कृत्यः । ‘आङो यि’ इति नुमागमः, ‘हि च’ इति निघातप्रतिषेधः ॥

मूलम् (संयुक्तम्)

ततो॒ वा इ॒माᳶ प्र॒जाᳶ प्राजा॑यन्त॒ यद॒ग्नाव॒ग्निम्म॑थि॒त्वा प्र॒हर॑ति प्र॒जाना॑म्प्र॒जन॑नाय रु॒द्रो वा ए॒ष यद॒ग्निर्यज॑मानᳶ प॒शुर्यत्प॒शुमा॒लभ्या॒ग्निम्मन्थे॑द्रु॒द्राय॒ यज॑मानम् [28]
अपि॑ दध्यात्प्र॒मायु॑कस्स्या॒द्

विश्वास-प्रस्तुतिः

ततो॒ वा इ॒माᳶ प्र॒जाᳶ प्राजा॑यन्त ।
यद॒ग्नाव॒ग्निम् म॑थि॒त्वा प्र॒हर॑ति प्र॒जाना॑म् प्र॒जन॑नाय ।
रु॒द्रो वा ए॒ष यद॒ग्निर् यज॑मानᳶ प॒शुः ।
यत्प॒शुमा॒लभ्या॒ग्निम् मन्थे॑द् , रु॒द्राय॒ यज॑मानम् अपि॑ दध्यात् ।[28]
प्र॒मायु॑कस् स्यात् ।

मूलम्

ततो॒ वा इ॒माᳶ प्र॒जाᳶ प्राजा॑यन्त ।
यद॒ग्नाव॒ग्निम् म॑थि॒त्वा प्र॒हर॑ति प्र॒जाना॑म् प्र॒जन॑नाय ।
रु॒द्रो वा ए॒ष यद॒ग्निर् यज॑मानᳶ प॒शुः ।
यत्प॒शुमा॒लभ्या॒ग्निम् मन्थे॑द् , रु॒द्राय॒ यज॑मानम् अपि॑ दध्यात् ।[28]
प्र॒मायु॑कस् स्यात् ।

पद-पाठः

ततः॑ । वै । इ॒माः । प्र॒जा इति॑ प्र-जाः । प्रेति॑ । अ॒जा॒य॒न्त॒ ।
यत् । अ॒ग्नौ । अ॒ग्निम् । म॒थि॒त्वा । प्र॒हर॒तीति॑ प्र-हर॑ति । प्र॒जाना॒मिति॑ प्र-जाना॑म् । प्र॒जन॑ना॒येति॑ प्र-जन॑नाय ।
रु॒द्रः । वै । ए॒षः । यत् । अ॒ग्निः । यज॑मानः । प॒शुः ।
यत् । प॒शुम् । आ॒लभ्येत्या॑-लभ्य॑ । अ॒ग्निम् । मन्थे॑त् । रु॒द्राय॑ । यज॑मानम् । [28] अपीति॑ । द॒ध्या॒त् ।
प्र॒मायु॑क॒ इति॑ प्र-मायु॑कः । स्या॒त् ।

भट्टभास्कर-टीका

2ततो वा इत्यादि ॥ रुद्रो वा इत्यादि । गतम् । अपिदध्यादिति । अग्नये रुद्रात्मने हविर्भूतं यजमानमुपस्थाप्य अविहितं कुर्यात्, ततोसौ प्रमायुको मरणशीलस्स्यात् । मीञ् हिंसायां, छान्दस उकञ् । पशुमालभ्य मथनपक्षो दूषितः ॥

मूलम् (संयुक्तम्)

अथो॒ खल्वा॑हुर॒ग्निस्सर्वा॑ दे॒वता॑ ह॒विरे॒तद्यत्प॒शुरिति॒ यत्प॒शुमा॒लभ्या॒ग्निम्मन्थ॑ति ह॒व्यायै॒वास॑न्नाय॒ सर्वा॑ दे॒वता॑ जनयत्युपा॒कृत्यै॒व मन्थ्य॒स्तन्नेवाल॑ब्ध॒न्नेवाना॑लब्धम्

विश्वास-प्रस्तुतिः

अथो॒ खल्वा॑हुर् -
“अ॒ग्निस्सर्वा॑ दे॒वता॑ ह॒विरे॒तद् यत्प॒शुर्” इति॑ ।
यत्प॒शुमा॒लभ्या॒ग्निम् मन्थ॑ति ह॒व्यायै॒वास॑न्नाय॒ सर्वा॑ दे॒वता॑ जनयति ।
उ॒पा॒कृत्यै॒व मन्थ्य॒स् तन्नेवाल॑ब्ध॒न्नेवाना॑लब्धम् ।

मूलम्

अथो॒ खल्वा॑हुर् -
“अ॒ग्निस्सर्वा॑ दे॒वता॑ ह॒विरे॒तद् यत्प॒शुर्” इति॑ ।
यत्प॒शुमा॒लभ्या॒ग्निम् मन्थ॑ति ह॒व्यायै॒वास॑न्नाय॒ सर्वा॑ दे॒वता॑ जनयति ।
उ॒पा॒कृत्यै॒व मन्थ्य॒स् तन्नेवाल॑ब्ध॒न्नेवाना॑लब्धम् ।

पद-पाठः

अथो॒ इति॑ । खलु॑ । आ॒हुः॒ ।

अ॒ग्निः । सर्वाः॑ । दे॒वताः॑ । ह॒विः । ए॒तत् । यत् । प॒शुः । इति॑ ।

यत् । प॒शुम् । आ॒लभ्येत्या॑-लभ्य॑ । अ॒ग्निम् । मन्थ॑ति । ह॒व्याय॑ । ए॒व । आस॑न्ना॒येत्या-स॒न्ना॒य॒ । सर्वाः॑ । दे॒वताः॑ । ज॒न॒य॒ति॒ ।

उ॒पा॒कृत्येत्यु॑प-आ॒कृत्य॑ । ए॒व । मन्थ्यः॑ ।

तत् । न । इ॒व॒ । आल॑ब्ध॒मित्या-ल॒ब्ध॒म् । न । इ॒व॒ । अना॑लब्ध॒मित्यना॑-ल॒ब्ध॒म् ।

भट्टभास्कर-टीका

3इदानीं पक्षमिमं स्थापयति - अथो इति ॥ अग्निर्नाम हदिरिति वेदार्थविद आहुः । इदानीमालभ्यैव पशुं अग्निं मन्थेत् । एवं ह्यासन्नहविरर्थं सर्वा देवता जनयति सन्निधापयति हविरासाद्यैव तद्भागिनीर्देवतास्सन्निधापयति हविष्यासन्ने सुखसन्निधापनात् सर्वा देवता भवन्तीति तस्मादालभ्य मन्थ्य इति स्थिते पुनरप्युक्तदोषभयात् पक्षान्तरमप्याह - उपाकृत्यैव उपाकरणानन्तरमेव मन्थ्यः, न त्वालभ्यः । कः पुनरेवं गुणो लभ्यते इत्याह - तदित्यादि । भावे निष्ठा, व्यत्ययेन गतेः प्रकृतिस्वरत्वम् । यद्वा - कर्मण्येव, तत्पश्वाख्यं हविर्नालब्धमिव लब्धमिति व्यपदेशं तावन्नार्हति; अमरणात् । अनालब्धमिव च न भवति अनालब्धमित्यपि वक्तुं न शक्यते; उपाकृतत्वात्, आलम्भारम्भत्वादुपाकरणस्य । तस्मादनालब्धत्वात् रुद्रायापिधानदोषाभावः । आलब्धत्वाच्च हविरासाद्य देवतासन्निधापनाय गुणलाभः ॥

मूलम् (संयुक्तम्)

अ॒ग्नेर्ज॒नित्र॑म॒सीत्या॑हा॒ग्नेर्ह्ये॑तज्ज॒नित्र॒व्

विश्वास-प्रस्तुतिः

अ॒ग्नेर् ज॒नित्र॑म् अ॒सि"+ इत्या॑ह ।
अ॒ग्नेर् ह्ये॑तज् ज॒नित्र॑म् ।

मूलम्

अ॒ग्नेर् ज॒नित्र॑म् अ॒सि"+ इत्या॑ह ।
अ॒ग्नेर् ह्ये॑तज् ज॒नित्र॑म् ।

पद-पाठः

अ॒ग्नेः । ज॒नित्र॑म् । अ॒सि॒ । इति॑ । आ॒ह॒ ।
अ॒ग्नेः । हि । ए॒तत् । ज॒नित्र॑म् ।

भट्टभास्कर-टीका

4अग्नेर्जनित्रमसि’ इत्यादि मन्थनशकलनिधानम् ॥ अग्नेर्ह्येतज्जनित्रं शकलं जन्महेतुः प्रजननस्थानीयत्वात् । ‘अग्नित्रादिभ्यः’ इत्यतोपि जनेरित्रः ॥

मूलम् (संयुक्तम्)

वृँष॑णौ स्थ॒ इत्या॑ह॒ वृष॑णौ [29]
ह्ये॑ताव

विश्वास-प्रस्तुतिः

“वृष॑णौ स्थ॒” इत्या॑ह ।
वृष॑णौ ह्ये॑तौ ।[29]

मूलम्

“वृष॑णौ स्थ॒” इत्या॑ह ।
वृष॑णौ ह्ये॑तौ ।[29]

पद-पाठः

वृष॑णौ । स्थ॒ । इति॑ । आ॒ह॒ । वृष॑णौ । [29] हि । ए॒तौ ।

भट्टभास्कर-टीका

5वृषणौ स्थः’ इति वृषणौ दधाति ॥ वृषणौ ह्येतौ शकलविशेषौ, दर्भौ वा तत्स्थानीयत्वात् । वृषेः कनिन्प्रत्यये’ वा ‘षपूर्वस्य नियमे’ इति दीर्घाभावः ॥

मूलम् (संयुक्तम्)

उ॒र्वश्य॑स्या॒युर॒सीत्या॑ह मिथुन॒त्वाय॑

विश्वास-प्रस्तुतिः

उ॒र्वश्य॑स्य् आ॒युर॒सीत्या॑ह । मि॒थु॒न॒त्वाय॑ ।

मूलम्

उ॒र्वश्य॑स्य् आ॒युर॒सीत्या॑ह । मि॒थु॒न॒त्वाय॑ ।

पद-पाठः

उ॒र्वशी॑ । अ॒सि॒ । आ॒युः । अ॒सि॒ । इति॑ । आ॒ह॒ । मि॒थु॒न॒त्वायेति॑ मिथुन-त्वाय॑ ।

भट्टभास्कर-टीका

6अधरोत्तरयोररण्योरादानं क्रमेण - ‘उर्वश्यसि, आयुरसि, पुरूरवाः'32 इति ॥ मिथुनत्वाय भवति, स्त्रीपुंसलिङ्गत्वादुभयोः ॥

मूलम् (संयुक्तम्)

घृ॒तेना॒क्ते वृष॑णन्दधाथा॒मित्या॑ह॒ वृष॑णँ॒ ह्ये॑ते दधा॑ते॒ ये अ॒ग्निङ्

विश्वास-प्रस्तुतिः

“घृ॒तेना॒क्ते वृष॑णन् दधाथा॒म्” इत्या॑ह ।
वृष॑णँ॒ ह्ये॑ते दधा॑ते॒ , ये अ॒ग्निम् +++(दधाते)+++।

मूलम्

“घृ॒तेना॒क्ते वृष॑णन् दधाथा॒म्” इत्या॑ह ।
वृष॑णँ॒ ह्ये॑ते दधा॑ते॒ , ये अ॒ग्निम् +++(दधाते)+++।

पद-पाठः

घृ॒तेन॑ । अ॒क्ते इति॑ । वृष॑णम् । द॒धा॒था॒म् । इति॑ । आ॒ह॒ ।

वृष॑णम् । हि । ए॒ते इति॑ । दधा॑ते॒ इति॑ । ये इति॑ । अ॒ग्निम् ।

भट्टभास्कर-टीका

7आज्यस्थाल्यामरणी समनक्ति - घृतेनेति ॥ वृषणं वर्षितारं कामानामेते दधाते, ये अग्निं दधाते इत्येव । तस्माद्वृषणं दधाथामित्युच्यते इति भावः । ‘हि च’ इति निघाताभावः, ‘अभ्यस्तानामादिः’ इत्याद्युदात्तत्वम् ॥

मूलम् (संयुक्तम्)

गा॑य॒त्रञ्छन्दोऽनु॒ प्र जा॑य॒स्वेत्या॑ह॒ छन्दो॑भिरे॒वैन॒म्प्र ज॑नयत्य्

विश्वास-प्रस्तुतिः

“गा॒य॒त्रञ् छन्दोऽनु॒ प्र जा॑य॒स्व”+ इत्या॑ह ।
छन्दो॑भिर् ए॒वैन॒म् प्र ज॑नयति ।

मूलम्

“गा॒य॒त्रञ् छन्दोऽनु॒ प्र जा॑य॒स्व”+ इत्या॑ह ।
छन्दो॑भिर् ए॒वैन॒म् प्र ज॑नयति ।

पद-पाठः

गा॒य॒त्रम् । छन्दः॑ । अनु॑ । प्रेति॑ । जा॒य॒स्व॒ । इति॑ । आ॒ह॒ ।
छन्दो॑भि॒रिति॒ छन्दः॑-भिः॒ । ए॒व । ए॒न॒म् । प्रेति॑ । ज॒न॒य॒ति॒ ।

भट्टभास्कर-टीका

8’गायत्रं छन्दोनु प्र जायस्व’ इत्याद्याः प्रजायोनीः यजमानं वाचयति प्रजनयितुर्वचनं, ‘प्र जायस्व'33 इति मन्त्रलिङ्गात् । यद्वा - वचनेन हेतुना छन्दोभिरग्निं प्रजनयति ॥

मूलम् (संयुक्तम्)

अ॒ग्नये॑ म॒थ्यमा॑ना॒यानु॑ ब्रू॒हीत्या॑ह सावि॒त्रीमृच॒मन्वा॑ह सवि॒तृप्र॑सूत ए॒वैन॑म्मन्थति जा॒ताया॑नु ब्रूहि [30]
प्र॒ह्रि॒यमा॑णा॒यानु॑ ब्रू॒हीत्या॑ह॒ काण्डे॑काण्ड ए॒वैन॑ङ्क्रियमा॑णे॒ सम॑र्धयति गाय॒त्रीस्सर्वा॒ अन्वा॑ह गाय॒त्रछ॑न्दा॒ वा अ॒ग्निस्स्वेनै॒वैन॒ञ्छन्द॑सा॒ सम॑र्धयत्य्

विश्वास-प्रस्तुतिः

“अ॒ग्नये॑ म॒थ्यमा॑ना॒यानु॑ ब्रू॒हि” इत्या॑ह ।
सा॒वि॒त्रीमृच॒म् अन्वा॑ह ।
स॒वि॒तृप्र॑सूत ए॒वैन॑म् मन्थति ।
जा॒ताया॑नु ब्रूहि । प्र॒ह्रि॒यमा॑णा॒यानु॑ ब्रू॒हीत्या॑ह ।[30]
काण्डे॑काण्ड ए॒वैन॑ङ् क्रियमा॑णे॒ सम॑र्धयति ।
गा॒य॒त्रीस्सर्वा॒ अन्वा॑ह ।
गा॒य॒त्रछ॑न्दा॒ वा अ॒ग्निः ।
स्वेनै॒वैन॒ञ् छन्द॑सा॒ सम॑र्धयति ।

मूलम्

“अ॒ग्नये॑ म॒थ्यमा॑ना॒यानु॑ ब्रू॒हि” इत्या॑ह ।
सा॒वि॒त्रीमृच॒म् अन्वा॑ह ।
स॒वि॒तृप्र॑सूत ए॒वैन॑म् मन्थति ।
जा॒ताया॑नु ब्रूहि । प्र॒ह्रि॒यमा॑णा॒यानु॑ ब्रू॒हीत्या॑ह ।[30]
काण्डे॑काण्ड ए॒वैन॑ङ् क्रियमा॑णे॒ सम॑र्धयति ।
गा॒य॒त्रीस्सर्वा॒ अन्वा॑ह ।
गा॒य॒त्रछ॑न्दा॒ वा अ॒ग्निः ।
स्वेनै॒वैन॒ञ् छन्द॑सा॒ सम॑र्धयति ।

पद-पाठः

अ॒ग्नये॑ । म॒थ्यमा॑नाय । अन्विति॑ । ब्रू॒हि॒ । इति॑ । आ॒ह॒ ।
सा॒वि॒त्रीम् । ऋच॑म् । अन्विति॑ । आ॒ह॒ ।
स॒वि॒तृप्र॑सूत॒ इति॑ सवि॒तृ-प्र॒सू॒तः॒ । ए॒व । ए॒न॒म् । म॒न्थ॒ति॒ । 1जा॒ताय॑ । अन्विति॑ । ब्रू॒हि॒ । [30]
प्र॒ह्रि॒यमा॑णा॒येति॑ प्र-ह्रि॒यमा॑णाय । अन्विति॑ । ब्रू॒हि॒ । इति॑ । आ॒ह॒ ।
काण्डे॑काण्ड॒ इति॒ काण्डे॑-का॒ण्डे॒ । ए॒व । ए॒न॒म् । क्रि॒यमा॑णे । समिति॑ । अ॒र्ध॒य॒ति॒ । गा॒य॒त्रीः । सर्वाः॑ । अन्विति॑ । आ॒ह॒ ।
गा॒य॒त्रछ॑न्दा॒ इति॑ गाय॒त्र-छ॒न्दाः॒ । वै । अ॒ग्निः ।
स्वेन॑ । ए॒व । ए॒न॒म् । छन्द॑सा । समिति॑ । अ॒र्ध॒य॒ति॒ ।

भट्टभास्कर-टीका

9’अग्नये मथ्यमानायानु ब्रूहि'33 इति संप्रैषमेतमाहाध्वर्युः । अथ होता सावित्रीमृचमन्वाह - ‘अभि त्वा देव सवितः’ इति । सवित्राऽनुज्ञात एवाग्निं मन्थति । ‘तृतीया कर्मणि’ इति पूर्वपदप्रकृतिस्वरत्वम् । ‘जातायानु ब्रूहि’ इति जातेऽग्नौ संप्रेष्यति । प्रह्रियमाणायेति । प्रहरन् काण्डेकाण्डे पर्वणिपर्वणि कर्मपर्वणि क्रियमाणे एनमग्निं समृद्धं करोत्येभिस्संप्रैषैरिति । गायत्रीरिति । सर्वेषु संप्रैषेषु होता गायत्रीरेव सर्वा अनुवाक्या अन्वाह, गायत्रछन्दस्त्वादग्नेः । तस्मादात्मीयच्छन्दोलाभेन अग्निस्समृद्धो भवति ॥

मूलम् (संयुक्तम्)

अ॒ग्निᳶ पु॒रा भव॑त्य॒ग्निम्म॑थि॒त्वा प्र ह॑रति॒ तौ स॒म्भव॑न्तौ॒ यज॑मानम॒भि सम्भ॑वतो॒ भव॑तन्न॒स्सम॑नसा॒वित्या॑ह॒ शान्त्यै॑

विश्वास-प्रस्तुतिः

अ॒ग्निᳶ पु॒रा भव॑त्य् - अ॒ग्निम् म॑थि॒त्वा प्र ह॑रति ।
तौ स॒म्भव॑न्तौ॒ यज॑मानम॒भि सम्भ॑वतः ।
भव॑तन्न॒स्सम॑नसा॒वित्या॑ह । शान्त्यै॑ ।

मूलम्

अ॒ग्निᳶ पु॒रा भव॑त्य् - अ॒ग्निम् म॑थि॒त्वा प्र ह॑रति ।
तौ स॒म्भव॑न्तौ॒ यज॑मानम॒भि सम्भ॑वतः ।
भव॑तन्न॒स्सम॑नसा॒वित्या॑ह । शान्त्यै॑ ।

पद-पाठः

अ॒ग्निः । पु॒रा । भव॑ति । अ॒ग्निम् । म॒थि॒त्वा । प्रेति॑ । ह॒र॒ति॒ ।
तौ । स॒म्भव॑न्ता॒विति॑ सम्-भव॑न्तौ । यज॑मानम् । अ॒भि । समिति॑ । भ॒व॒तः॒ ।
भव॑तम् । नः॒ । सम॑नसा॒विति॒ स-म॒न॒सौ॒ । इति॑ । आ॒ह॒ ।
शान्त्यै॑ ।

भट्टभास्कर-टीका

10अग्निः पुरेत्यादि ॥ अग्निः पूर्वमेवास्मिन्नायतने आहवनीयाख्ये । मथित्वा चान्यमग्निमस्मिन् प्रहरति । तावग्नी संभवन्तौ यजमानमभिसंभवतः विप्रतिपन्नमनस्कौ यजमानं ध्यायन्तावेव संभवन्तौ स्याताम् । मन्त्रलिङ्गं च ‘भवतं नस्ममनसौ’ इति । पूर्ववत्प्रथमा तिङ्विभक्तिर्न निहन्यते । भवतं न इति प्रहरणविशिष्टेनानेन मन्त्रेण शान्त्यै भवत्यग्नेः ॥

मूलम् (संयुक्तम्)

प्र॒हृत्य॑ जुहोति जा॒तायै॒वास्मा॒ अन्न॒मपि॑ दधा॒त्याज्ये॑न जुहोत्ये॒तद्वा अ॒ग्नेᳶ प्रि॒यन्धाम॒ यदाज्य॑म्प्रि॒येणै॒वैन॒न्धाम्ना॒ सम॑र्धय॒त्यथो॒ तेज॑सा ॥ [31]

विश्वास-प्रस्तुतिः

प्र॒हृत्य॑ जुहोति जा॒तायै॒वास्मा॒ अन्न॒मपि॑ दधाति ।
आज्ये॑न जुहोति
ए॒तद्वा अ॒ग्नेᳶ प्रि॒यन्धाम॒ , यदाज्य॑म् ।
प्रि॒येणै॒वैन॒न् धाम्ना॒ सम॑र्धय॒त्य् अथो॒ तेज॑सा ॥ [31]

मूलम्

प्र॒हृत्य॑ जुहोति जा॒तायै॒वास्मा॒ अन्न॒मपि॑ दधाति ।
आज्ये॑न जुहोति
ए॒तद्वा अ॒ग्नेᳶ प्रि॒यन्धाम॒ , यदाज्य॑म् ।
प्रि॒येणै॒वैन॒न् धाम्ना॒ सम॑र्धय॒त्य् अथो॒ तेज॑सा ॥ [31]

पद-पाठः

प्र॒हृत्येति॑ प्र-हृत्य॑ । जु॒हो॒ति॒ ।
जा॒ताय॑ । ए॒व । अ॒स्मै॒ । अन्न॑म् । अपीति॑ । द॒धा॒ति॒ ।
आज्ये॑न । जु॒हो॒ति॒ ।
ए॒तत् । वै । अ॒ग्नेः । प्रि॒यम् । धाम॑ । यत् । आज्य॑म् ।
प्रि॒येण॑ । ए॒व । ए॒न॒म् । धाम्ना॑ । समिति॑ । अ॒र्ध॒य॒ति॒ ।
अथो॒ इति॑ । तेज॑सा ॥ [31]

भट्टभास्कर-टीका

11प्रहृत्येति ॥ ‘अग्नावग्निश्चरति’ इति प्रहरणानन्तरं जुहोति, जातायाग्नये अन्नमदनीयमपिदधाति उपनिदधाति आज्येनेत्यादि । गतम् । धाम स्थानम् । तेजो दीप्तिः ॥

इति षष्ठे तृतीये पञ्चमोनुवाकः ॥