०४ ...{Loading}...
मूलम् (संयुक्तम्)
पृ॒थि॒व्यै त्वा॒न्तरि॑क्षाय त्वा दि॒वे त्वेत्या॑है॒भ्य ए॒वैनल्ँ॑ लो॒केभ्य॒ᳶ प्रोक्ष॑ति॒ परा॑ञ्च॒म्प्रोक्ष॑ति॒ परा॑ङिव॒ हि सु॑व॒र्गो लो॒कᳶ
विश्वास-प्रस्तुतिः
पृ॒थि॒व्यै त्वा॒न्तरि॑क्षाय त्वा दि॒वे त्वेत्या॑है॒भ्य ए॒वैनल्ँ॑ लो॒केभ्य॒ᳶ प्रोक्ष॑ति ।
परा॑ञ्च॒म् प्रोक्ष॑ति ।
परा॑ङिव॒ हि सु॑व॒र्गो लो॒कः ।
मूलम्
पृ॒थि॒व्यै त्वा॒न्तरि॑क्षाय त्वा दि॒वे त्वेत्या॑है॒भ्य ए॒वैनल्ँ॑ लो॒केभ्य॒ᳶ प्रोक्ष॑ति ।
परा॑ञ्च॒म् प्रोक्ष॑ति ।
परा॑ङिव॒ हि सु॑व॒र्गो लो॒कः ।
पद-पाठः
पृ॒थि॒व्यै । त्वा॒ । अ॒न्तरि॑क्षाय । त्वा॒ । दि॒वे । त्वा॒ । इति॑ । आ॒ह॒ । ए॒भ्यः॒ । ए॒व । ए॒न॒म् । लो॒केभ्यः॑ । प्रेति॑ । उ॒क्ष॒ति॒ ।
परा॑ञ्चम् । प्रेति॑ । उ॒क्ष॒ति॒ ।
पराङ्॑ । इ॒व॒ । हि । सु॒व॒र्ग इति॑ सुवः-गः । लो॒कः ।
भट्टभास्कर-टीका
1यूपं प्रोक्षति - पृथिव्यै त्वेति ॥ पराञ्चमिति । मूलादारभ्य ऊर्ध्वं प्रोक्षति । ‘अनिगन्तोञ्चतौ’ इति गतेः प्रकृतिस्वरत्वम् । पराङिति । इत ऊर्ध्वगमनोस्मिन् स्वर्गो भवति ॥
मूलम् (संयुक्तम्)
क्रू॒रमि॑व॒ वा ए॒तत्क॑रोति॒ यत्खन॑त्य॒पोव॑ नयति॒ शान्त्यै॒ यव॑मती॒रव॑ नय॒त्
विश्वास-प्रस्तुतिः
क्रू॒रमि॑व॒ वा ए॒तत् क॑रोति॒ , यत् खन॑त्य् अ॒पोव॑ नयति॒ शान्त्यै॑ ।
यव॑मती॒रव॑ नयति ।
मूलम्
क्रू॒रमि॑व॒ वा ए॒तत् क॑रोति॒ , यत् खन॑त्य् अ॒पोव॑ नयति॒ शान्त्यै॑ ।
यव॑मती॒रव॑ नयति ।
पद-पाठः
क्रू॒रम् । इ॒व॒ । वै । ए॒तत् । क॒रो॒ति॒ । यत् । खन॑ति । अ॒पः । अवेति॑ । न॒य॒ति॒ । शान्त्यै॑ । यव॑मती॒रिति॒ यव॑-म॒तीः॒ । अवेति॑ । न॒य॒ति॒ ।
भट्टभास्कर-टीका
2क्रूरमिवेत्यादि ॥ गतम् ॥
मूलम् (संयुक्तम्)
ऊर्ग्वै यवो॒
विश्वास-प्रस्तुतिः
ऊर्ग्वै यवः॑ ।
मूलम्
ऊर्ग्वै यवः॑ ।
पद-पाठः
ऊर्क् । वै । यवः॑ ।
भट्टभास्कर-टीका
3ऊर्ग्वा इति ॥ ऊर्गन्नं तत्साधनत्वात्ताच्छब्द्यम् ॥
मूलम् (संयुक्तम्)
यज॑मानेन॒ यूप॒स्सम्मि॑तो॒ यावा॑ने॒व यज॑मान॒स्ताव॑तीमे॒वास्मि॒न्नूर्ज॑न्दधाति [19]
विश्वास-प्रस्तुतिः
यज॑मानेन॒ यूप॒स् सम्मि॑तः ।
यावा॑ने॒व यज॑मान॒स् ताव॑तीम् ए॒वास्मि॒न्न् ऊर्ज॑न् दधाति ।[19]
मूलम्
यज॑मानेन॒ यूप॒स् सम्मि॑तः ।
यावा॑ने॒व यज॑मान॒स् ताव॑तीम् ए॒वास्मि॒न्न् ऊर्ज॑न् दधाति ।[19]
पद-पाठः
यज॑मानेन । यूपः॑ । सम्मि॑त॒ इति॒ सम्-मि॒तः॒ । यावा॑न् । ए॒व । यज॑मानः । ताव॑तीम् । ए॒व । अ॒स्मि॒न् । ऊर्ज॑म् । द॒धा॒ति॒ । [19]
भट्टभास्कर-टीका
4यजमानेन तुल्यो यूपः प्रधानसाधनत्वात्, तुल्यप्रमाणत्वाद्वा । तस्माद्यजमानाय पर्याप्तामूर्जमस्मिन् यूपे दधाति । यद्वा - यावान् यावत्परिमाणः सपरिवारो यावत्कालं जीवी वा तत्पर्याप्तामूर्जं दधाति ॥
मूलम् (संयुक्तम्)
पि॒तृ॒णाँ सद॑नम॒सीति॑ ब॒र्हिरव॑ स्तृणाति पितृदेव॒त्य ँ॒ ह्ये॑तद्यन्निखा॑तय्ँ॒यद्ब॒र्हिरन॑वस्तीर्य मिनु॒यात्पि॑तृदेव॒त्यो॑ निखा॑तस्स्याद्ब॒र्हिर॑व॒स्तीर्य॑ मिनोत्य॒स्यामे॒वैन॑म्मिनोति
विश्वास-प्रस्तुतिः
पि॒तृ॒णाँ सद॑नम॒सीति॑ ब॒र्हिरव॑ स्तृणाति ।
पि॒तृ॒दे॒व॒त्य ँ॒ ह्ये॑तद् यन्निखा॑तय्ँ॒ यद्ब॒र्हिरन॑वस्तीर्य मिनु॒यात् ।
पि॒तृ॒दे॒वत्यो॑ निखा॑तस् स्याद् ब॒र्हिर॑व॒स्तीर्य॑ मिनोति ।
अ॒स्यामे॒वैन॑म् मिनोति।
मूलम्
पि॒तृ॒णाँ सद॑नम॒सीति॑ ब॒र्हिरव॑ स्तृणाति ।
पि॒तृ॒दे॒व॒त्य ँ॒ ह्ये॑तद् यन्निखा॑तय्ँ॒ यद्ब॒र्हिरन॑वस्तीर्य मिनु॒यात् ।
पि॒तृ॒दे॒वत्यो॑ निखा॑तस् स्याद् ब॒र्हिर॑व॒स्तीर्य॑ मिनोति ।
अ॒स्यामे॒वैन॑म् मिनोति।
पद-पाठः
पि॒तृ॒णाम् । सद॑नम् । अ॒सि॒ । इति॑ । ब॒र्हिः । अवेति॑ । स्तृ॒णा॒ति॒ ।
पि॒तृ॒दे॒व॒त्य॑मिति॑ पितृ-दे॒व॒त्य॑म् । हि । ए॒तत् । यत् । निखा॑त॒मिति॒ नि-खा॒त॒म् । यत् । ब॒र्हिः । अन॑वस्ती॒र्येत्यन॑व-स्ती॒र्य॒ । मि॒नु॒यात् ।
पि॒तृ॒दे॒व॒त्य॑ इति॑ पितृ-दे॒व॒त्यः॑ । निखा॑त॒ इति॒ नि-खा॒तः॒ । स्या॒त् । ब॒र्हिः । अ॒व॒स्तीर्येत्य॑व-स्तीर्य॑ । मि॒नो॒ति॒ । अ॒स्याम् । ए॒व । ए॒न॒म् । मि॒नो॒ति॒ ।
भट्टभास्कर-टीका
5पितृणामित्यादि ॥ गतम् । पितृदेवत्यं निखातं भूमिप्रविष्टमेतत् पित्र्यं संपन्नं भूमित्वं जहाति । देवतान्तात्तादर्थ्ये यत्, छान्दसो दीर्घः । पितृदेवत्य इति । निखातस्सर्वोपि यूपः पितृदेवत्यस्स्यात् बर्हिरवस्तरणाभावे । मिनुयादिति । प्रक्षिपेत् । डु मिञ् प्रक्षेपणे । अस्यामिति । बर्हिरवस्तरणावस्थायामेव पृथिव्यामेव वा यूपं मिनोति भूम्यवस्थानात् । ‘ऊडिदम्’ इति विभक्तेरुदात्तत्वम् ॥
मूलम् (संयुक्तम्)
यूपशक॒लमवा॑स्यति॒ सते॑जसमे॒वैन॑म्मिनोति
विश्वास-प्रस्तुतिः
यू॒प॒श॒क॒ल॒मवा॑स्यति॒ सते॑जसम् ए॒वैन॑म् मिनोति ।
मूलम्
यू॒प॒श॒क॒ल॒मवा॑स्यति॒ सते॑जसम् ए॒वैन॑म् मिनोति ।
पद-पाठः
यू॒प॒श॒क॒लमिति॑ यूप-श॒क॒लम् । अवेति॑ । अ॒स्य॒ति॒ । सते॑जस॒मिति॒ स-ते॒ज॒स॒म् । ए॒व । ए॒न॒म् । मि॒नो॒ति॒ ।
भट्टभास्कर-टीका
6यूपशकलमिति । प्रथमगृहीतं गर्तेऽवास्यति । सतेजसमिति । तेजसा संहितमेव यूपं प्रक्षिपति । ‘प्रथमेन शकलेन सह तेजः परा पतति’ इति तस्य तेजस्त्वस्योक्तत्वात् ॥
मूलम् (संयुक्तम्)
दे॒वस्त्वा॑ सवि॒ता मध्वा॑न॒क्त्वित्या॑ह॒ तेज॑सै॒वैन॑मनक्ति
विश्वास-प्रस्तुतिः
दे॒वस्त्वा॑ सवि॒ता मध्वा॑ऽन॒क्त्वित्या॑ह ।
तेज॑सै॒वैन॑मनक्ति ।
मूलम्
दे॒वस्त्वा॑ सवि॒ता मध्वा॑ऽन॒क्त्वित्या॑ह ।
तेज॑सै॒वैन॑मनक्ति ।
पद-पाठः
दे॒वः । त्वा॒ । स॒वि॒ता । मध्वा॑ । अ॒न॒क्तु॒ । इति॑ । आ॒ह॒ । तेज॑सा । ए॒व । ए॒न॒म् । अ॒न॒क्ति॒ ।
प्रदीपसिंहः
इन्क्लूड्
भट्टभास्कर-टीका
7यूपस्याग्रमनक्ति - देवस्त्वा सवितेति ॥ गतन् ॥
मूलम् (संयुक्तम्)
सुपिप्प॒लाभ्य॒स्त्वौष॑धीभ्य॒ इति॑ च॒षाल॒म्प्रति॑ [20]
मु॒ञ्च॒ति॒ तस्मा॑च्छीर्ष॒त ओष॑धय॒ᳶ फल॑ङ्गृह्णन्त्य्
विश्वास-प्रस्तुतिः
सु॒पि॒प्प॒लाभ्य॑स् त्वौष॑धीभ्य॒ इति॑ च॒षाल॒म् प्रति॑ मुञ्चति । [20]
तस्मा॑च् छीर्ष॒त ओष॑धय॒ᳶ फल॑ङ् गृह्णन्ति ।
मूलम्
सु॒पि॒प्प॒लाभ्य॑स् त्वौष॑धीभ्य॒ इति॑ च॒षाल॒म् प्रति॑ मुञ्चति । [20]
तस्मा॑च् छीर्ष॒त ओष॑धय॒ᳶ फल॑ङ् गृह्णन्ति ।
पद-पाठः
सु॒पि॒प्प॒लाभ्य॒ इति॑ सु-पि॒प्प॒लाभ्यः॑ । त्वा॒ । ओष॑धीभ्य॒ इत्योष॑धि-भ्यः॒ । इति॑ । च॒षाल॑म् । प्रतीति॑ । [20]
मु॒ञ्च॒ति॒ । तस्मा॑त् । शी॒र्ष॒तः । ओष॑धयः । फल॑म् । गृ॒ह्ण॒न्ति॒ ।
प्रदीपसिंहः
इन्क्लूड्
भट्टभास्कर-टीका
8सुपिप्पलाभ्य इति ॥ गतम् ॥
मूलम् (संयुक्तम्)
अ॒नक्ति॒ तेजो॒ वा आज्यय्ँ॒यज॑मानेनाग्नि॒ष्ठाश्रि॒स्सम्मि॑ता॒ यद॑ग्नि॒ष्ठामश्रि॑म॒नक्ति॒ यज॑मानमे॒व तेज॑सानक्त्या॒न्तम॑नक्त्या॒न्तमे॒व यज॑मान॒न्तेज॑सानक्ति
विश्वास-प्रस्तुतिः
अ॒नक्ति॒ तेजो॒ वा आज्यय्ँ॒ यज॑मानेनाग्नि॒ष्ठाश्रि॒स्सम्मि॑ता॒ यद् अ॑ग्नि॒ष्ठामश्रि॑म॒नक्ति॑ ।
यज॑मानमे॒व तेज॑सानक्ति ।
आ॒न्तम॑नक्ति ।
आ॒न्त॒मे॒व यज॑मान॒न् तेज॑सानक्ति ।
मूलम्
अ॒नक्ति॒ तेजो॒ वा आज्यय्ँ॒ यज॑मानेनाग्नि॒ष्ठाश्रि॒स्सम्मि॑ता॒ यद् अ॑ग्नि॒ष्ठामश्रि॑म॒नक्ति॑ ।
यज॑मानमे॒व तेज॑सानक्ति ।
आ॒न्तम॑नक्ति ।
आ॒न्त॒मे॒व यज॑मान॒न् तेज॑सानक्ति ।
पद-पाठः
अ॒नक्ति॑ । तेजः॑ । वै । आज्य॑म् । यज॑मानेन । अ॒ग्नि॒ष्ठेत्य॑ग्नि-स्था । अश्रिः॑ । सम्मि॒तेति॒ सम्-मि॒ता॒ । यत् । अ॒ग्नि॒ष्ठामित्य॑ग्नि-स्थाम् । अश्रि॑म् । अ॒नक्ति॑ ।
यज॑मानम् । ए॒व । तेज॑सा । अ॒न॒क्ति॒ ।
आ॒न्तमित्या॑-अ॒न्तम् । अ॒न॒क्ति॒ ।
आ॒न्तमित्या॑-अ॒न्तम् । ए॒व । यज॑मानम् । तेज॑सा । अ॒न॒क्ति॒ ।
भट्टभास्कर-टीका
9अनक्तीति ॥ अग्निष्ठामश्रिमाज्येनेति सामर्थ्याद्गम्यते; यदाह ‘तेजो वा आज्यम्’ इत्यादि । अपदात्परत्वान्निघाताभावः । तेजोहेतुराज्यम् । यजमानेन तुल्या अग्निष्ठा अग्निपार्श्वस्था अश्रिः । आन्तमिति। यावदन्तं अन्तमपि गृहीत्वा सर्वामग्निष्ठामश्रिमनक्ति तेजसा सर्वं यजमानमनक्ति ॥
मूलम् (संयुक्तम्)
स॒र्वत॒ᳶ परि॑ मृश॒त्यप॑रिवर्गमे॒वास्मि॒न्तेजो॑ दधा॒त्य्
विश्वास-प्रस्तुतिः
स॒र्वत॒ᳶ परि॑ मृश॒ति ।
अप॑रिवर्गम् ए॒वास्मि॒न् तेजो॑ दधाति ।
मूलम्
स॒र्वत॒ᳶ परि॑ मृश॒ति ।
अप॑रिवर्गम् ए॒वास्मि॒न् तेजो॑ दधाति ।
पद-पाठः
स॒र्वतः॑ । परीति॑ । मृ॒श॒ति॒ । अप॑रिवर्ग॒मित्यप॑रि-व॒र्ग॒म् । ए॒व । अ॒स्मि॒न् । तेजः॑ । द॒धा॒ति॒ ।
भट्टभास्कर-टीका
10सर्वं यूपं परिमृशति परिमृजति नाग्निष्ठाश्रिमात्रमेव । पृथग्वचनं तु अश्र्यग्र्यार्थम् । केचिदाहुः - अग्निष्ठायाः पृथग्वचनमनर्थकं मा भूदिति विकल्प इति । अपरे पुनरहुः - अग्निष्ठामेव सर्वां हस्तेन परिमृशतीति । अपरिवर्गमिति । किंचिदप्यपरिशेष्य सर्वमपि तेजो यजमाने दधाति ॥
मूलम् (संयुक्तम्)
उद्दिवँ॑ स्तभा॒नान्तरि॑क्षम्पृ॒णेत्या॑है॒षाल्ँ लो॒कानाव्ँ॒विधृ॑त्यै
विश्वास-प्रस्तुतिः
उद्दिवँ॑ स्तभा॒नान्तरि॑क्षम् पृ॒णेत्या॑ह ।
ए॒षाल्ँ लो॒कानाव्ँ॒ विधृ॑त्यै ।
मूलम्
उद्दिवँ॑ स्तभा॒नान्तरि॑क्षम् पृ॒णेत्या॑ह ।
ए॒षाल्ँ लो॒कानाव्ँ॒ विधृ॑त्यै ।
पद-पाठः
उदिति॑ । दिव॑म् । स्त॒भा॒न॒ । एति॑ । अ॒न्तरि॑क्षम् । पृ॒ण॒ । इति॑ । आ॒ह॒ । ए॒षाम् । लो॒काना॑म् । विधृ॑त्या॒ इति॒ वि-धृ॒त्यै॒ ।
प्रदीपसिंहः
इन्क्लूड्
भट्टभास्कर-टीका
11यूपमुच्छ्रयति - उद्दिवमिति ॥ व्याख्यातम् ॥
मूलम् (संयुक्तम्)
वैष्ण॒व्यर्चा [21] क॒ल्प॒य॒ति॒ वै॒ष्ण॒वो वै दे॒वत॑या॒ यूप॒स्स्वयै॒वैन॑न्दे॒वत॑या कल्पयति॒
विश्वास-प्रस्तुतिः
वै॒ष्ण॒व्यर्चा क॑ल्पयति ।[21]
वै॒ष्ण॒वो वै दे॒वत॑या॒ यूप॒स् , स्वयै॒वैन॑न् दे॒वत॑या कल्पयति ।
मूलम्
वै॒ष्ण॒व्यर्चा क॑ल्पयति ।[21]
वै॒ष्ण॒वो वै दे॒वत॑या॒ यूप॒स् , स्वयै॒वैन॑न् दे॒वत॑या कल्पयति ।
पद-पाठः
वै॒ष्ण॒व्या । ऋ॒चा । [21] क॒ल्प॒य॒ति॒ ।
वै॒ष्ण॒वः । वै । दे॒वत॑या । यूपः॑ । स्वया॑ । ए॒व । ए॒न॒म् । दे॒वत॑या । क॒ल्प॒य॒ति॒ ।
भट्टभास्कर-टीका
12 वैष्णव्येति ॥ ‘ते ते धामानि’ इत्यनया ‘विष्णोः कर्माणि पश्यत’ इत्यनया च कल्पयति आपन्नमार्गेष्वनवद्यं स्थापयति । व्याख्यातमन्यत् ॥
मूलम् (संयुक्तम्)
द्वाभ्या॑ङ्कल्पयति द्वि॒पाद्यज॑मान॒ᳶ प्रति॑ष्ठित्यै॒
विश्वास-प्रस्तुतिः
द्वाभ्या॑ङ्कल्पयति , द्वि॒पाद् यज॑मान॒ᳶ प्रति॑ष्ठित्यै ।
मूलम्
द्वाभ्या॑ङ्कल्पयति , द्वि॒पाद् यज॑मान॒ᳶ प्रति॑ष्ठित्यै ।
पद-पाठः
द्वाभ्या॑म् । क॒ल्प॒य॒ति॒ । द्वि॒पादिति॑ द्वि-पात् । यज॑मानः । प्रति॑ष्ठित्या॒ इति॒ प्रति॑-स्थि॒त्यै॒ ।
भट्टभास्कर-टीका
13द्वाम्यामिति ॥ सामान्येन विधाय संरव्यामनेन विधत्ते ॥
मूलम् (संयुक्तम्)
यङ्का॒मये॑त॒ तेज॑सैनन्दे॒वता॑भिरिन्द्रि॒येण॒ व्य॑र्धयेय॒मित्य॑ग्नि॒ष्ठान्तस्याश्रि॑माहव॒नीया॑दि॒त्थव्ँवे॒त्थव्ँवाति॑ नावये॒त्तेज॑सै॒वैन॑न्दे॒वता॑भिरिन्द्रि॒येण॒ व्य॑र्धयति॒
विश्वास-प्रस्तुतिः
यङ्का॒मये॑त॒ -
तेज॑सैनन् दे॒वता॑भिरिन्द्रि॒येण॒ व्य॑र्धयेय॒मिति॑ ।
अ॒ग्नि॒ष्ठान्तस्याश्रि॑माहव॒नीया॑द् , इ॒त्थव्ँ वे॒त्थव्ँ वाऽति॑ नावयेत् ।
तेज॑सै॒वैन॑न् दे॒वता॑भिरिन्द्रि॒येण॒ व्य॑र्धयति ।
मूलम्
यङ्का॒मये॑त॒ -
तेज॑सैनन् दे॒वता॑भिरिन्द्रि॒येण॒ व्य॑र्धयेय॒मिति॑ ।
अ॒ग्नि॒ष्ठान्तस्याश्रि॑माहव॒नीया॑द् , इ॒त्थव्ँ वे॒त्थव्ँ वाऽति॑ नावयेत् ।
तेज॑सै॒वैन॑न् दे॒वता॑भिरिन्द्रि॒येण॒ व्य॑र्धयति ।
पद-पाठः
यम् । का॒मये॑त । तेज॑सा । ए॒न॒म् । दे॒वता॑भिः । इ॒न्द्रि॒येण॑ । वीति॑ । अ॒र्ध॒ये॒य॒म् । इति॑ ।
अ॒ग्नि॒ष्ठामित्य॑ग्नि-स्थाम् । तस्य॑ । अश्रि॑म् । आ॒ह॒व॒नीया॒दित्या॑-ह॒व॒नीया॑त् । इ॒त्थम् । वा॒ । इ॒त्थम् । वा॒ । अतीति॑ । ना॒व॒ये॒त् ।
तेज॑सा । ए॒व । ए॒न॒म् । दे॒वता॑भिः । इ॒न्द्रि॒येण॑ । वीति॑ । अ॒र्ध॒य॒ति॒ ।
भट्टभास्कर-टीका
14यमित्यादि ॥ तेजआदिभिः व्यर्धयेयमिति वियोजयेयमिति यं कामयेत तस्याग्निष्ठामश्रिमाहवनीयादतिनावयेत् तेजआदिना व्यर्धं करोति यजमानम् ॥
मूलम् (संयुक्तम्)
यङ्का॒मये॑त॒ तेज॑सैनन्दे॒वता॑भिरिन्द्रि॒येण॒ सम॑र्धयेय॒मिति॑ [22]
अ॒ग्नि॒ष्ठान्तस्याश्रि॑माहव॒नीये॑न॒ सम्मि॑नुया॒त्तेज॑सै॒वैन॑न्दे॒वता॑भिरिन्द्रि॒येण॒ सम॑र्धयति
विश्वास-प्रस्तुतिः
यङ्का॒मये॑त॒ - तेज॑सैनन् दे॒वता॑भिरिन्द्रि॒येण॒ सम॑र्धयेय॒मिति॑ ।[22]
अ॒ग्नि॒ष्ठान्तस्याश्रि॑माहव॒नीये॑न॒ सम्मि॑नुयात् ।
तेज॑सै॒वैन॑न् दे॒वता॑भिरिन्द्रि॒येण॒ सम॑र्धयति ।
मूलम्
यङ्का॒मये॑त॒ - तेज॑सैनन् दे॒वता॑भिरिन्द्रि॒येण॒ सम॑र्धयेय॒मिति॑ ।[22]
अ॒ग्नि॒ष्ठान्तस्याश्रि॑माहव॒नीये॑न॒ सम्मि॑नुयात् ।
तेज॑सै॒वैन॑न् दे॒वता॑भिरिन्द्रि॒येण॒ सम॑र्धयति ।
पद-पाठः
यम् । का॒मये॑त । तेज॑सा । ए॒न॒म् । दे॒वता॑भिः । इ॒न्द्रि॒येण॑ । समिति॑ । अ॒र्ध॒ये॒य॒म् । इति॑ । [22]
अ॒ग्नि॒ष्ठामित्य॑ग्नि-स्थाम् । तस्य॑ । अश्रि॑म् । आ॒ह॒व॒नीये॒नेत्या॑-ह॒व॒नीये॑न । समिति॑ । मि॒नु॒या॒त् ।
तेज॑सा । ए॒व । ए॒न॒म् । दे॒वता॑भिः । इ॒न्द्रि॒येण॑ । समिति॑ । अ॒र्ध॒य॒ति॒ ।
भट्टभास्कर-टीका
15यमित्यादि ॥ समर्धयेयं समृद्धं कुर्यामिति । सस्मिनुयादिति । संगतां मिनुयात् आर्जवेन स्थापयेत् । गतमन्यत् ॥
मूलम् (संयुक्तम्)
ब्रह्म॒वनि॑न्त्वा क्षत्र॒वनि॒मित्या॑ह यथाय॒जुरे॒वैतत्
विश्वास-प्रस्तुतिः
ब्र॒ह्म॒वनि॑न् त्वा क्षत्र॒वनि॒मित्या॑ह । य॒था॒य॒जुर् - ए॒वैतत् ।
मूलम्
ब्र॒ह्म॒वनि॑न् त्वा क्षत्र॒वनि॒मित्या॑ह । य॒था॒य॒जुर् - ए॒वैतत् ।
पद-पाठः
ब्र॒ह्म॒वनि॒मिति॑ ब्रह्म-वनि॑म् । त्वा॒ । क्ष॒त्र॒वनि॒मिति॑ क्षत्र-वनि॑म् । इति॑ । आ॒ह॒ । य॒था॒य॒जुरिति॑ यथा-य॒जुः । ए॒व । ए॒तत् ।
भट्टभास्कर-टीका
16’ब्रह्मवनिम्’ इति पुरीषेण पर्यूहनम् ॥
मूलम् (संयुक्तम्)
परि॑ व्यय॒त्यूर्ग्वै र॑श॒ना यज॑मानेन॒ यूप॒स्सम्मि॑तो॒ यज॑मानमे॒वोर्जा सम॑र्धयति नाभिद॒घ्ने परि॑ व्ययति नाभिद॒घ्न ए॒वास्मा॒ ऊर्ज॑न्दधाति॒ तस्मा॑न्नाभिद॒घ्न ऊ॒र्जा भु॑ञ्जते॒
विश्वास-प्रस्तुतिः
परि॑ व्यय॒त्यूर्ग्वै र॑श॒ना यज॑मानेन॒ यूप॒स्सम्मि॑तो॒ यज॑मानमे॒वोर्जा सम॑र्धयति ।
ना॒भि॒द॒घ्ने परि॑ व्ययति , नाभिद॒घ्न ए॒वास्मा॒ ऊर्ज॑न् दधाति ।
तस्मा॑न्नाभिद॒घ्न ऊ॒र्जा भु॑ञ्जते ।
मूलम्
परि॑ व्यय॒त्यूर्ग्वै र॑श॒ना यज॑मानेन॒ यूप॒स्सम्मि॑तो॒ यज॑मानमे॒वोर्जा सम॑र्धयति ।
ना॒भि॒द॒घ्ने परि॑ व्ययति , नाभिद॒घ्न ए॒वास्मा॒ ऊर्ज॑न् दधाति ।
तस्मा॑न्नाभिद॒घ्न ऊ॒र्जा भु॑ञ्जते ।
पद-पाठः
परीति॑ । व्य॒य॒ति॒ । ऊर्क् । वै । र॒श॒ना । यज॑मानेन । यूपः॑ । सम्मि॑त॒ इति॒ सम्-मि॒तः॒ । यज॑मानम् । ए॒व । ऊ॒र्जा । समिति॑ । अ॒र्ध॒य॒ति॒ ।
ना॒भि॒द॒घ्न इति॑ नाभि-द॒घ्ने । परीति॑ । व्य॒य॒ति॒ ।
ना॒भि॒द॒घ्न इति॑ नाभि-द॒घ्ने । ए॒व । अ॒स्मै॒ । ऊर्ज॑म् । द॒धा॒ति॒ । तस्मा॑त् । ना॒भि॒द॒घ्न इति॑ नाभि-द॒घ्ने । ऊ॒र्जा । भु॒ञ्ज॒ते॒ ।
भट्टभास्कर-टीका
17परि व्ययतीति ॥ रशनया परितो वेष्टयति यूपम् । ऊर्ग्वा इत्यादि । ऊर्गन्नम् । नाभिदघ्ने नाभिप्रमाणे मध्यमो रशनागुणो यथा भवति तथा परिव्ययति । ‘प्रमाणे द्वयसच्’ इत्यादिना दघ्नच् । नाभिदघ्न एवेति । नाभिदघ्रे नाभिप्रमाण एवोदरदेशे अस्मै यजमानस्य ऊर्जं स्थापयति नोर्ध्वं नाप्यधो विगमयति । तस्मान्नाभिदघ्न एव प्रदेशे स्थितया ऊर्जा अन्नेन भुञ्जते ॥
मूलम् (संयुक्तम्)
यङ्का॒मये॑तो॒र्जैन॑म् [23] व्य॑र्धयेय॒मित्यू॒र्ध्वाव्ँवा॒ तस्यावा॑चीव्ँ॒वावो॑हेदू॒र्जैवैन॒व्व्ँय॑र्धयति॒
विश्वास-प्रस्तुतिः
यङ्का॒मये॑त - ऊ॒र्जा + ए॒नव्ँ॒ व्य॑र्धयेय॒मिति॑ ।[23]
ऊ॒र्ध्वाव्ँ वा॒ तस्यावा॑चीव्ँ॒ वावो॑हेद् , ऊ॒र्जैवैनव्ँ॒ व्य॑र्धयति ।
मूलम्
यङ्का॒मये॑त - ऊ॒र्जा + ए॒नव्ँ॒ व्य॑र्धयेय॒मिति॑ ।[23]
ऊ॒र्ध्वाव्ँ वा॒ तस्यावा॑चीव्ँ॒ वावो॑हेद् , ऊ॒र्जैवैनव्ँ॒ व्य॑र्धयति ।
पद-पाठः
यम् । का॒मये॑त । ऊ॒र्जा । ए॒न॒म् । [23] वीति॑ । अ॒र्ध॒ये॒य॒म् । इति॑ ।
ऊ॒र्ध्वाम् । वा॒ । तस्य॑ । अवा॑चीम् । वा॒ । अवेति॑ । ऊ॒हे॒त् । ऊ॒र्जा । ए॒व । ए॒न॒म् । वीति॑ । अ॒र्ध॒य॒ति॒ ।
भट्टभास्कर-टीका
18यमित्यादि ॥ व्यर्धयेयं वियोजयेयमेनमिति । ऊर्ध्वामित्यादि । नाभिदघ्नादूर्ध्वपरिमाणामवाक्परिमाणां वा रशनामवोहेत् वक्ष्यमाणप्रकारेणोपगूहेत् । व्यर्धयत्यूर्जा ॥
मूलम् (संयुक्तम्)
यदि॑ का॒मये॑त॒ वर्षु॑कᳶ प॒र्जन्य॑स्स्या॒दित्यवा॑ची॒मवो॑हे॒द्वृष्टि॑मे॒व नि य॑च्छति॒
विश्वास-प्रस्तुतिः
यदि॑ का॒मये॑त॒ - “वर्षु॑कᳶ प॒र्जन्य॑स् स्याद्” इति॑ ।
अवा॑ची॒मवो॑हे॒द् वृष्टि॑मे॒व नि य॑च्छति ।
मूलम्
यदि॑ का॒मये॑त॒ - “वर्षु॑कᳶ प॒र्जन्य॑स् स्याद्” इति॑ ।
अवा॑ची॒मवो॑हे॒द् वृष्टि॑मे॒व नि य॑च्छति ।
पद-पाठः
यदि॑ । का॒मये॑त । वर्षु॑कः । प॒र्जन्यः॑ । स्या॒त् । इति॑ ।
अवा॑चीम् । अवेति॑ । ऊ॒हे॒त् । वृष्टि॑म् । ए॒व । नीति॑ । य॒च्छ॒ति॒ ।
भट्टभास्कर-टीका
19यदीत्यादि ॥ वर्षुकः वर्षागशीलः पर्जन्यस्स्यात् इति यदिकामयेत नाभिदघ्न एव परिवीतां रशनामवाचीमवोहेत् ऊर्ध्वमुत्कृष्य पाशमवगूहेत् । वृष्टिं नियच्छति नीचैः प्रवर्तयति ॥
मूलम् (संयुक्तम्)
यदि॑ का॒मये॒ताव॑र्षुकस्स्या॒दित्यू॒र्ध्वामुदू॑हे॒द्वृष्टि॑मे॒वोद्य॑च्छति
विश्वास-प्रस्तुतिः
यदि॑ का॒मये॒त - अव॑र्षुकस् स्या॒दिति॑ ।
ऊ॒र्ध्वामुदू॑हे॒द् वृष्टि॑मे॒वोद्य॑च्छति ।
मूलम्
यदि॑ का॒मये॒त - अव॑र्षुकस् स्या॒दिति॑ ।
ऊ॒र्ध्वामुदू॑हे॒द् वृष्टि॑मे॒वोद्य॑च्छति ।
पद-पाठः
यदि॑ । का॒मये॑त । अव॑र्षुकः । स्या॒त् । इति॑ । ऊ॒र्ध्वाम् । उदिति॑ । ऊ॒हे॒त् । वृष्टि॑म् । ए॒व । उदिति॑ । य॒च्छ॒ति॒ ।
भट्टभास्कर-टीका
20अवर्षकामनया तु ऊर्ध्वामुदूहेत् पाशमधोवकृष्य ऊर्ध्वमुदूहेत् । वृष्टिमुद्यच्छति ऊर्ध्वं नयति, ततश्चावर्षुकः पर्जन्यस्स्यादिति । ‘लषपत’ इत्यादिना उकञ् ॥
मूलम् (संयुक्तम्)
पितृ॒णान्निखा॑तम्मनु॒ष्या॑णामू॒र्ध्वन्निखा॑ता॒दा र॑श॒नाया॒ ओष॑धीनाँ रश॒ना विश्वे॑षाम् [24]
दे॒वाना॑मू॒र्ध्वँ र॑श॒नाया॒ आ च॒षाला॒दिन्द्र॑स्य च॒षालँ॑ सा॒ध्याना॒मति॑रिक्तँ॒ स वा ए॒ष स॑र्वदेव॒त्यो॑ यद्यूपो॒ यद्यूप॑म्मि॒नोति॒ सर्वा॑ ए॒व दे॒वताः॑ प्रीणाति
विश्वास-प्रस्तुतिः
पि॒तृ॒णान्निखा॑तम् , मनु॒ष्या॑णामू॒र्ध्वन् निखा॑ता॒दा र॑श॒नाया॒ , ओष॑धीनाँ रश॒ना , विश्वे॑षाम् दे॒वाना॑मू॒र्ध्वँ र॑श॒नाया॒ आ च॒षाला॒द् , इन्द्र॑स्य च॒षालँ॑ , सा॒ध्याना॒मति॑रिक्तम् ।
स वा ए॒ष स॑र्वदेव॒त्यो॑ यद् यूपः॑ ।
यद् यूप॑म्मि॒नोति॒ सर्वा॑ ए॒व दे॒वताः॑ प्रीणाति ।
मूलम्
पि॒तृ॒णान्निखा॑तम् , मनु॒ष्या॑णामू॒र्ध्वन् निखा॑ता॒दा र॑श॒नाया॒ , ओष॑धीनाँ रश॒ना , विश्वे॑षाम् दे॒वाना॑मू॒र्ध्वँ र॑श॒नाया॒ आ च॒षाला॒द् , इन्द्र॑स्य च॒षालँ॑ , सा॒ध्याना॒मति॑रिक्तम् ।
स वा ए॒ष स॑र्वदेव॒त्यो॑ यद् यूपः॑ ।
यद् यूप॑म्मि॒नोति॒ सर्वा॑ ए॒व दे॒वताः॑ प्रीणाति ।
पद-पाठः
पि॒तृ॒णाम् । निखा॑त॒मिति॒ नि-खा॒त॒म् । म॒नु॒ष्या॑णाम् । ऊ॒र्ध्वम् । निखा॑ता॒दिति॒ नि-खा॒ता॒त् । एति॑ । र॒श॒नायाः॑ । ओष॑धीनाम् । र॒श॒ना । विश्वे॑षाम् । [24] दे॒वाना॑म् । ऊ॒र्ध्वम् । र॒श॒नायाः॑ । एति॑ । च॒षाला॑त् । इन्द्र॑स्य । च॒षाल॑म् । सा॒ध्याना॑म् । अति॑रिक्त॒मित्यति॑-रि॒क्त॒म् ।
सः । वै । ए॒षः । स॒र्व॒दे॒व॒त्य॑ इति॑ सर्व-दे॒व॒त्यः॑ । यत् । यूपः॑ ।
यत् । यूप॑म् । मि॒नोति॑ । सर्वाः॑ । ए॒व । दे॒वताः॑ । प्री॒णा॒ति॒ ।
भट्टभास्कर-टीका
21पितृणामित्यादि ॥ यूपस्य निखातमवटे प्रक्षिप्तमुपरवाख्यं तत्पितृणाम् । छान्दसो दीर्घाभावः । खनतेर्निष्ठायां ‘जनसन’ इत्यात्वम्, ‘गतिरनन्तरः’ इति गतेः प्रकतिस्वरत्वम् । तस्मादूर्ध्वमारशनायाः रशनास्थानात्प्राक् मनुष्याणाम् । रशनास्थानं तु ओषधीनां यूपविभागविधानाद्रशनायास्तत् स्थानं लक्ष्यते । तत ऊर्ध्वं तु चषालस्थानात्प्राक् विश्वेषां देवानाम् । चषालस्थानं त्विन्द्रस्य । अतिरिक्तं चषालादुपरि साध्यानाम् । सोयं तादृशो यूपः सर्वदेवत्यः । देवतान्तात्तादर्थ्ये यत् । तस्मादनेन सर्वा देवताः प्रीणयन्ति ॥
मूलम् (संयुक्तम्)
य॒ज्ञेन॒ वै दे॒वास्सु॑व॒र्गल्ँ लो॒कमा॑य॒न्ते॑ऽमन्यन्त मनु॒ष्या॑ नो॒ऽन्वाभ॑विष्य॒न्तीति॒ ते यूपे॑न योपयि॒त्वा सु॑व॒र्गल्ँ लो॒कमा॑य॒न्तमृष॑यो॒ यूपे॑नै॒वानु॒ प्राजा॑न॒न्तद्यूप॑स्य यूप॒त्वम् [25]
यद्यूप॑म्मि॒नोति॑ सुव॒र्गस्य॑ लो॒कस्य॒ प्रज्ञा॑त्यै
विश्वास-प्रस्तुतिः
य॒ज्ञेन॒ वै दे॒वास्सु॑व॒र्गल्ँ लो॒कमा॑यन् ।
ते॑ऽमन्यन्त - “मनु॒ष्या॑ नो॒ऽन्वाभ॑विष्य॒न्ति”+ इति॑ ।
ते यूपे॑न योपयि॒त्वा सु॑व॒र्गल्ँ लो॒कमा॑यन् ।
तम् ऋष॑यो॒ यूपे॑नै॒वानु॒ प्राजा॑नन् ।
तद्यूप॑स्य यूप॒त्वय्ँ यद् यूप॑म् मि॒नोति॑ ।
सु॒व॒र्गस्य॑ लो॒कस्य॒ प्रज्ञा॑त्यै ।[25]
मूलम्
य॒ज्ञेन॒ वै दे॒वास्सु॑व॒र्गल्ँ लो॒कमा॑यन् ।
ते॑ऽमन्यन्त - “मनु॒ष्या॑ नो॒ऽन्वाभ॑विष्य॒न्ति”+ इति॑ ।
ते यूपे॑न योपयि॒त्वा सु॑व॒र्गल्ँ लो॒कमा॑यन् ।
तम् ऋष॑यो॒ यूपे॑नै॒वानु॒ प्राजा॑नन् ।
तद्यूप॑स्य यूप॒त्वय्ँ यद् यूप॑म् मि॒नोति॑ ।
सु॒व॒र्गस्य॑ लो॒कस्य॒ प्रज्ञा॑त्यै ।[25]
पद-पाठः
य॒ज्ञेन॑ । वै । दे॒वाः । सु॒व॒र्गमिति॑ सुवः-गम् । लो॒कम् । आ॒य॒न् । ते । अ॒म॒न्य॒न्त॒ । म॒नु॒ष्याः॑ । नः॒ । अ॒न्वाभ॑विष्य॒न्तीत्य॑नु-आभ॑विष्यन्ति । इति॑ ।
ते । यूपे॑न । यो॒प॒यि॒त्वा । सु॒व॒र्गमिति॑ सुवः-गम् । लो॒कम् । आ॒य॒न् । तम् । ऋष॑यः । यूपे॑न । ए॒व । अनु॑ । प्रेति॑ । अ॒जा॒न॒न् ।
तत् । यूप॑स्य । यू॒प॒त्वमिति॑ यूप-त्वम् । [25] यत् । यूप॑म् । मि॒नोति॑ ।
सु॒व॒र्गस्येति॑ सुवः-गस्य॑ । लो॒कस्य॑ । प्रज्ञा॑त्या॒ इति॒ प्र-ज्ञा॒त्यै॒ ।
भट्टभास्कर-टीका
22यज्ञेन वा इत्यादि ॥ यज्ञेन स्वर्गं गताः देवाः । ते गमनारम्भे अमन्यन्त - मनुष्या अप्यस्मानन्वाभविष्यन्तीति यज्ञेनास्माननुप्राप्स्यन्तीति । भू प्राप्तौ, व्यत्ययेन परस्मैपदम् । यद्वा - अनन्तरमेवास्मानागम्य भविष्यन्तीति अस्मत्सदृशास्सम्पद्यन्ते इति । ‘गतिर्गतौ’ इति अनोः निघातस्समासश्च । ते यूपे मनुष्यान् योपयित्वा विमोह्य स्वर्गं गताः देवाः यूपस्य याथात्म्यविदः । तमृषय इति । यूपयाथात्म्यविदः यूपेन स्वर्गमनुप्राजानन् मनुष्यान्विमोह्य देवानामनन्तरं प्रकर्षेण ज्ञानं तद्वन्तः । तस्माद्यूपस्य यूपत्वं यूपविमोकमन्त्रः । छान्दसो वर्णविकारः । तस्माद्यूपः स्वर्गप्रज्ञानहेतुः ॥
मूलम् (संयुक्तम्)
पु॒रस्ता॑न्मिनोति पु॒रस्ता॒द्धि य॒ज्ञस्य॑ प्रज्ञा॒यतेऽप्र॑ज्ञातँ॒ हि तद्यदति॑पन्न आ॒हुरि॒दङ्का॒र्य॑मासी॒दिति॑
विश्वास-प्रस्तुतिः
पु॒रस्ता॑न् मिनोति ।
पु॒रस्ता॒द्धि य॒ज्ञस्य॑ प्रज्ञा॒यते॑ ।
अप्र॑ज्ञातँ॒ हि तद् यदति॑पन्न आ॒हुर् - “इ॒दङ्का॒र्य॑मासी॒द्” + इति॑ ।
मूलम्
पु॒रस्ता॑न् मिनोति ।
पु॒रस्ता॒द्धि य॒ज्ञस्य॑ प्रज्ञा॒यते॑ ।
अप्र॑ज्ञातँ॒ हि तद् यदति॑पन्न आ॒हुर् - “इ॒दङ्का॒र्य॑मासी॒द्” + इति॑ ।
पद-पाठः
पु॒रस्ता॑त् । मि॒नो॒ति॒ ।
पु॒रस्ता॑त् । हि । य॒ज्ञस्य॑ । प्र॒ज्ञा॒यत॒ इति॑ प्र-ज्ञा॒यते॑ ।
अप्र॑ज्ञात॒मित्यप्र॑-ज्ञा॒त॒म् । हि । तत् । यत् । अति॑पन्न॒ इत्यति॑-प॒न्ने॒ । आ॒हुः । इ॒दम् । का॒र्य॑म् । आ॒सी॒त् । इति॑ ।
भट्टभास्कर-टीका
23पुरस्तादिति ॥ आहवनीयस्य । पुरस्ताद्धीति । यज्ञस्य पुरस्ताद्धि कर्तव्यं प्रज्ञायते इदमत्र कार्यं भविष्यतीति । तदेव यज्ञस्याविनष्टमिति । विपर्यये विपर्ययमाह - अप्रज्ञातमिति । अतिपन्ने विनष्टे सति अहते अन्यथा कृते कर्मणि यदाहुर्लौकिकाः - इदं कार्यमासीत्, कर्तव्यमेव न कृतमस्माभिरासीत्, अन्यथाकृतमासीत् तस्मान्नष्टमेवेति कुतश्चिद्वैगुण्यात् क्रियाया अतिनिर्वृत्तिरतिपत्तिः । तस्मादतिपन्नस्याप्रज्ञातपर्यायत्वात् पुरस्ताद्भवस्यैव प्रज्ञातत्वात् प्रज्ञानहेतुयूपं पुरस्तान्मिनोतीति ॥
मूलम् (संयुक्तम्)
सा॒ध्या वै दे॒वा य॒ज्ञमत्य॑मन्यन्त॒ तान्य॒ज्ञो नास्पृ॑श॒त्तान्यद्य॒ज्ञस्याति॑रिक्त॒मासी॒त्तद॑स्पृश॒दति॑रिक्तव्ँ॒वा ए॒तद्य॒ज्ञस्य॒ यद॒ग्नाव॒ग्निम्म॑थि॒त्वा प्र॒हर॒त्यति॑रिक्तमे॒तत् [26]
यूप॑स्य॒ यदू॒र्ध्वञ्च॒षाला॒त्तेषा॒न्तद्भा॑ग॒धेय॒न्ताने॒व तेन॑ प्रीणाति
विश्वास-प्रस्तुतिः
सा॒ध्या वै दे॒वा य॒ज्ञमत्य॑मन्यन्त ।
तान् य॒ज्ञो नास्पृ॑श॒त् ।
तान् यद् य॒ज्ञस्याति॑रिक्त॒मासी॒त् तद॑स्पृशत् ।
अति॑रिक्तव्ँ॒ वा ए॒तद् य॒ज्ञस्य॒ , यद॒ग्नाव॒ग्निम् म॑थि॒त्वा प्र॒हर॑ति ।
अति॑रिक्तमे॒तत् यूप॑स्य॒ यद् ऊ॒र्ध्वञ् च॒षाला॑त् ।[26]
तेषा॒न् तद्भा॑ग॒धेय॒न् , ताने॒व तेन॑ प्रीणाति ।
मूलम्
सा॒ध्या वै दे॒वा य॒ज्ञमत्य॑मन्यन्त ।
तान् य॒ज्ञो नास्पृ॑श॒त् ।
तान् यद् य॒ज्ञस्याति॑रिक्त॒मासी॒त् तद॑स्पृशत् ।
अति॑रिक्तव्ँ॒ वा ए॒तद् य॒ज्ञस्य॒ , यद॒ग्नाव॒ग्निम् म॑थि॒त्वा प्र॒हर॑ति ।
अति॑रिक्तमे॒तत् यूप॑स्य॒ यद् ऊ॒र्ध्वञ् च॒षाला॑त् ।[26]
तेषा॒न् तद्भा॑ग॒धेय॒न् , ताने॒व तेन॑ प्रीणाति ।
पद-पाठः
सा॒ध्याः । वै । दे॒वाः । य॒ज्ञम् । अतीति॑ । अ॒म॒न्य॒न्त॒ ।
तान् । य॒ज्ञः । न । अ॒स्पृ॒श॒त् ।
तान् । यत् । य॒ज्ञस्य॑ । अति॑रिक्त॒मित्यति॑-रि॒क्त॒म् । आसी॑त् ।
तत् । अ॒स्पृ॒श॒त् ।
अति॑रिक्त॒मित्यति॑-रि॒क्त॒म् । वै । ए॒तत् । य॒ज्ञस्य॑ । यत् । अ॒ग्नौ । अ॒ग्निम् । म॒थि॒त्वा । प्र॒हर॒तीति॑ प्र-हर॑ति ।
अति॑रिक्त॒मित्यति॑-रि॒क्त॒म् । ए॒तत् । [26] यूप॑स्य । यत् । ऊ॒र्ध्वम् । च॒षाला॑त् ।
तेषा॑म् । तत् । भा॒ग॒धेय॒मिति॑ भाग-धेय॑म् । तान् । ए॒व । तेन॑ । प्री॒णा॒ति॒ ।
भट्टभास्कर-टीका
24अथ यदुक्तं चषालादतिरिक्तं साध्यानामिति, तदिदानीं समर्थ्यते - साध्या इत्यादिना ॥ भागाधिक्येन मननमतिमानः भागत्वेन पर्याप्तिः । अस्पृशत् अधिकं भागं लक्ष्यमानमपर्याप्तोऽभवद्यज्ञः । ततस्तानधिकं भागं लिप्समानान् यज्ञसम्बन्धि यदतिरिक्तं तदस्पृशत् अभिमतभागपर्याप्तिसमर्थमभवत् निजभागधेयतया तत्स्वीकृतवन्तः । किं पुनस्तदित्याह - अतिरिक्तं वेत्यादि । तेनातिरिक्तेन अतिरिक्तार्थिनस्सध्यान् प्रीणातीति यज्ञान्तरादतिरिक्तमस्य मथित्वा प्रहरणं चषालादूर्ध्वं च प्रमाणातिरेकात् अतिरिक्तम् ॥
मूलम् (संयुक्तम्)
दे॒वा वै सँस्थि॑ते॒ सोमे॒ प्र स्रुचोह॑र॒न्प्र यूप॒न्ते॑ऽमन्यन्त यज्ञवेश॒सव्ँवा इ॒दङ्कु॑र्म॒ इति॒ ते प्र॑स्त॒रँ स्रु॒चान्नि॒ष्क्रय॑णमपश्य॒न्त्स्वरुय्ँ॒यूप॑स्य॒ सँस्थि॑ते॒ सोमे॒ प्र प्र॑स्त॒रँ हर॑ति जु॒होति॒ स्व॒रुमय॑ज्ञवेशसाय ॥ [27]
विश्वास-प्रस्तुतिः
दे॒वा वै सँस्थि॑ते॒ सोमे॒ प्र स्रुचोह॑रन् ।
प्र यूप॒न् ते॑ऽमन्यन्त -
“यज्ञवेश॒सव्ँवा इ॒दङ्कु॑र्म॒” इति॑ ।
ते प्र॑स्त॒रँ स्रु॒चान्नि॒ष्क्रय॑णमपश्यन् ।
स्वरुय्ँ॒ यूप॑स्य॒ सँस्थि॑ते॒ सोमे॒ , प्र प्र॑स्त॒रँ हर॑ति ,
जु॒होति॒ स्व॒रुमय॑ज्ञवेशसाय ॥ [27]
मूलम्
दे॒वा वै सँस्थि॑ते॒ सोमे॒ प्र स्रुचोह॑रन् ।
प्र यूप॒न् ते॑ऽमन्यन्त -
“यज्ञवेश॒सव्ँवा इ॒दङ्कु॑र्म॒” इति॑ ।
ते प्र॑स्त॒रँ स्रु॒चान्नि॒ष्क्रय॑णमपश्यन् ।
स्वरुय्ँ॒ यूप॑स्य॒ सँस्थि॑ते॒ सोमे॒ , प्र प्र॑स्त॒रँ हर॑ति ,
जु॒होति॒ स्व॒रुमय॑ज्ञवेशसाय ॥ [27]
पद-पाठः
दे॒वाः । वै । सँस्थि॑त॒ इति॒ सम्-स्थि॒ते॒ । सोमे॑ । प्रेति॑ । स्रुचः॑ । अह॑रन् ।
प्रेति॑ । यूप॑म् । ते । अ॒म॒न्य॒न्त॒ । य॒ज्ञ॒वे॒श॒समिति॑ यज्ञ-वे॒श॒सम् । वै । इ॒दम् । कु॒र्मः॒ । इति॑ ।
ते । प्र॒स्त॒रमिति॑ प्र-स्त॒रम् । स्रु॒चाम् । नि॒ष्क्रय॑ण॒मिति॑ निः-क्रय॑णम् । अ॒प॒श्य॒न् ।
स्वरु॑म् । यूप॑स्य । सँस्थि॑त॒ इति॒ सम्-स्थि॒ते॒ । सोमे॑ । प्रेति॑ । प्र॒स्त॒रमिति॑ प्र-स्त॒रम् । हर॑ति । जु॒होति॑ । स्वरु॑म् । अय॑ज्ञवेशसा॒येत्यय॑ज्ञ-वे॒श॒सा॒य॒ ॥ [27]
भट्टभास्कर-टीका
25देवा वा इत्यादि ॥ सोमे संस्थिते समाप्ते देवा यूपं च प्राहरन् अग्नौ । ‘चादिलोपे विभाषा’ इति प्रथमा तिङ्विभक्तिर्न निहन्यते । तथा कृतवन्तो देवाः अमन्यन्त यज्ञवेशसं यज्ञविनाशं वा इत्थं वयं कुर्मः कृतवन्त इति यज्ञविनाशमिदमित्यमन्यन्त देवाः । ते तथा मन्यमाना देवाः स्रुचा निष्क्रयणसाधनं प्रस्तरमपश्यन् स्रुचां स्थाने प्रस्तरः प्रहर्तव्य इति । ततस्स्वरुं यूपस्य निष्क्रयणमपश्यन् इत्येव । तस्मात्संस्थिते सोमे प्रस्तरं च प्रहरति स्वरुं च जुहोति यज्ञस्याविनाशार्थम् । पूर्ववत्प्रथमा तिङ्विभक्तिर्न निहन्यते, द्वितीया च तिङः परत्वात् । ‘भीह्रीभृहु’ इत्यादिना प्रत्ययात्पूर्वस्योदात्तत्वम् ॥
इति षष्ठे तृतीये चतुर्थोनुवाकः ॥