२५ २५

०३ ...{Loading}...

मूलम् (संयुक्तम्)

वै॒ष्ण॒व्यर्चा हु॒त्वा यूप॒मच्छै॑ति वैष्ण॒वो वै दे॒वत॑या॒ यूप॒स्स्वयै॒वैन॑न्दे॒वत॒याच्छै॒त्य्

विश्वास-प्रस्तुतिः

वै॒ष्ण॒व्यर्चा हु॒त्वा यूप॒मच्छै॑ति , वैष्ण॒वो वै दे॒वत॑या॒ यूप॒स् स्वयै॒वैन॑न् दे॒वत॒याऽच्छै॑ति ।

मूलम्

वै॒ष्ण॒व्यर्चा हु॒त्वा यूप॒मच्छै॑ति , वैष्ण॒वो वै दे॒वत॑या॒ यूप॒स् स्वयै॒वैन॑न् दे॒वत॒याऽच्छै॑ति ।

पद-पाठः

वै॒ष्ण॒व्या । ऋ॒चा । हु॒त्वा । यूप॑म् । अच्छ॑ । ए॒ति॒ । वै॒ष्ण॒वः । वै । दे॒वत॑या । यूपः॑ । स्वया॑ । ए॒व । ए॒न॒म् । दे॒वत॑या । अच्छ॑ । ए॒ति॒ ।

भट्टभास्कर-टीका

1वैष्णव्येत्यादि ॥ ‘उरु विष्णो’ इत्यनया ऋचा यूपाहुत्या यूपमभि व्याप्तुं गच्छति । उदात्तनिवृत्तिस्वरेण ङीप उदात्तत्वात् ‘उदात्तयणः’ इति विभक्तेरुदात्तत्वम् । वैष्णवो वै इत्यादि । गतम् । गवादिष्वपि तद्धितत्वस्य भावात् देवतयेति विशेष्यते । वनस्पत्यादीनां वैष्णवत्वात्तद्विकारस्य यूपस्य वैष्णवत्वम् ॥

मूलम् (संयुक्तम्)

अत्य॒न्यानगा॒न्नान्यानुपा॑गा॒मित्या॒हाति॒ ह्य॑न्यानेति॒ नान्यानु॒पैत्य्

विश्वास-प्रस्तुतिः

अत्य॒न्यानगा॒न् , नान्यान् उपा॑गा॒म् इत्या॑ह ।
अति॒ ह्य॑न्यानेति॒ , नान्यानु॒पैति॑ ।

मूलम्

अत्य॒न्यानगा॒न् , नान्यान् उपा॑गा॒म् इत्या॑ह ।
अति॒ ह्य॑न्यानेति॒ , नान्यानु॒पैति॑ ।

पद-पाठः

अतीति॑ । अ॒न्यान् । अ॒गा॒म् । न । अ॒न्यान् । उपेति॑ । अ॒गा॒म् । इति॑ । आ॒ह॒ । अतीति॑ । हि । अ॒न्यान् । एति॑ । न । अ॒न्यान् । उ॒पैतीत्यु॑प-एति॑ ।

भट्टभास्कर-टीका

2यूपार्थस्य वृक्षस्योपस्थानं ‘अत्यन्यान्’ इति । अति हीति । कांश्चिद्यज्ञियानेव पलाशादीन् लक्षणाद्धीनान् उपेत्यैव अत्येति । अतिक्रम्य त्यक्त्वा कांश्चिदयज्ञियानकर्मार्हान्नैवोपगच्छति, तस्मादेवमाहेति । ‘हि च’ इति निघाताभावः । ‘तिङि चोदात्तवति’ इति गतेरनुदात्तत्वम्, ‘उदात्तवता तिङा’ इति समासः ॥

मूलम् (संयुक्तम्)

अ॒र्वाक्त्वा॒ परै॑रविदम्प॒रोऽव॑रै॒रित्या॑हा॒र्वाग्घ्ये॑न॒म्परै॑र्वि॒न्दति॑ प॒रोव॑रै॒स्

विश्वास-प्रस्तुतिः

“अ॒र्वाक्त्वा॒ परै॑रविदम् प॒रोऽव॑रै॒र्” इत्या॑ह । अ॒र्वाग्घ्ये॑न॒म् परै॑र्वि॒न्दति॑ प॒रोव॑रैः ।

मूलम्

“अ॒र्वाक्त्वा॒ परै॑रविदम् प॒रोऽव॑रै॒र्” इत्या॑ह । अ॒र्वाग्घ्ये॑न॒म् परै॑र्वि॒न्दति॑ प॒रोव॑रैः ।

पद-पाठः

अ॒र्वाक् । त्वा॒ । परैः॑ । अ॒वि॒द॒म् । प॒रः । अव॑रैः । इति॑ । आ॒ह॒ ।

अ॒र्वाक् । हि । ए॒न॒म् । परैः॑ । वि॒न्दति॑ । प॒रः । अव॑रैः ।

भट्टभास्कर-टीका

3अर्वागिति ॥ परैरुत्कृष्टगुणैः परः परस्ताद्दूरे वर्तमानः तस्मा देवमाहेति । परशब्दाच्छान्दसोसिप्रत्ययः । पूर्ववत् ‘हि च’ इति निघाताभावः ॥

मूलम् (संयुक्तम्)

तन्त्वा॑ जुषे [13]
वै॒ष्ण॒वन्दे॑वय॒ज्याया॒ इत्या॑ह देवय॒ज्यायै॒ ह्ये॑नञ्जु॒षते॑

विश्वास-प्रस्तुतिः

“तन् त्वा॑ जुषे वै॒ष्ण॒वन् दे॑वय॒ज्याया॒” इत्या॑ह ।[13]
दे॒व॒य॒ज्यायै॒ ह्ये॑नञ् जु॒षते॑ ।

मूलम्

“तन् त्वा॑ जुषे वै॒ष्ण॒वन् दे॑वय॒ज्याया॒” इत्या॑ह ।[13]
दे॒व॒य॒ज्यायै॒ ह्ये॑नञ् जु॒षते॑ ।

पद-पाठः

तम् । त्वा॒ । जु॒षे॒ । [13]
वै॒ष्ण॒वम् । दे॒व॒य॒ज्याया॒ इति॑ देव-य॒ज्यायै॑ । इति॑ । आ॒ह॒ । दे॒व॒य॒ज्याया॒ इति॑ देव-य॒ज्यायै॑ । हि । ए॒न॒म् । जु॒षते॑ ।

भट्टभास्कर-टीका

4तं चेत्यादि ॥ गतम् । देवानां यागो देवयज्या ‘छन्दसि निष्टर्क्य’ इत्यादौ निपात्यते ॥

मूलम् (संयुक्तम्)

दे॒वस्त्वा॑ सवि॒ता मध्वा॑न॒क्त्वित्या॑ह॒ तेज॑सै॒वैन॑मन॒क्त्य्

विश्वास-प्रस्तुतिः

दे॒वस्त्वा॑ सवि॒ता मध्वा॑न॒क्त्वित्या॑ह । तेज॑सै॒वैन॑मन॒क्ति ।

मूलम्

दे॒वस्त्वा॑ सवि॒ता मध्वा॑न॒क्त्वित्या॑ह । तेज॑सै॒वैन॑मन॒क्ति ।

पद-पाठः

दे॒वः । त्वा॒ । स॒वि॒ता । मध्वा॑ । अ॒न॒क्तु॒ । इति॑ । आ॒ह॒ । तेज॑सा । ए॒व । ए॒न॒म् । अ॒न॒क्ति॒ ।

भट्टभास्कर-टीका

5यूपमाज्येनानक्ति - देवस्त्वा सवितेति । गतम् ॥

मूलम् (संयुक्तम्)

ओष॑धे॒ त्राय॑स्वैनँ॒ स्वधि॑ते॒ मैनँ॑ हिँसी॒रित्या॑ह॒

विश्वास-प्रस्तुतिः

ओष॑धे॒ त्राय॑स्वैनँ॒ स्वधि॑ते॒ , मैनँ॑ हिँसी॒रित्या॑ह ।

मूलम्

ओष॑धे॒ त्राय॑स्वैनँ॒ स्वधि॑ते॒ , मैनँ॑ हिँसी॒रित्या॑ह ।

प्रदीपसिंहः इन्क्लूड् स्थापनीयम्
भट्टभास्कर-टीका

6ऊर्ध्वाग्रं बर्हिरुछ्रयति - ओषधे त्रायस्वेति ॥

मूलम् (संयुक्तम्)

वज्रो॒ वै स्वधि॑ति॒श्शान्त्यै॒

विश्वास-प्रस्तुतिः

वज्रो॒ वै स्वधि॑तिश् , शान्त्यै॑ ।

मूलम्

वज्रो॒ वै स्वधि॑तिश् , शान्त्यै॑ ।

पद-पाठः

वज्रः॑ । वै । स्वधि॑ति॒रिति॒ स्व-धि॒तिः॒ । शान्त्यै॑ ।

भट्टभास्कर-टीका

7स्वधितिना तिर्यञ्चं पहरति - वज्रो वा इति ॥ हिंसकत्वाद्वज्र एव स्वधितिः । तस्माच्छान्त्यर्थं ‘मैनं हिंसीः’ इति वचनमित्यर्थः ॥

मूलम् (संयुक्तम्)

स्वधि॑तेर्वृ॒क्षस्य॒ बिभ्य॑तᳶ प्रथ॒मेन॒ शक॑लेन स॒ह तेज॒ᳶ परा॑ पतति॒ यᳶ प्र॑थ॒मश्शक॑लᳶ परा॒पते॒त्तमप्या ह॑रे॒त्सते॑जसम् [14]
ए॒वैन॒मा ह॑रती

विश्वास-प्रस्तुतिः

स्वधि॑तेर्वृ॒क्षस्य॒ बिभ्य॑तᳶ प्रथ॒मेन॒ शक॑लेन स॒ह तेज॒ᳶ परा॑ पतति ।
यᳶ प्र॑थ॒मश् शक॑लᳶ परा॒पते॒त् तमप्या ह॑रेत् ।
सते॑जसम् ए॒वैन॒मा ह॑रति ।[14]

मूलम्

स्वधि॑तेर्वृ॒क्षस्य॒ बिभ्य॑तᳶ प्रथ॒मेन॒ शक॑लेन स॒ह तेज॒ᳶ परा॑ पतति ।
यᳶ प्र॑थ॒मश् शक॑लᳶ परा॒पते॒त् तमप्या ह॑रेत् ।
सते॑जसम् ए॒वैन॒मा ह॑रति ।[14]

पद-पाठः

स्वधि॑ते॒रिति॒ स्व-धि॒तेः॒ । वृ॒क्षस्य॑ । बिभ्य॑तः । प्र॒थ॒मेन॑ । शक॑लेन । स॒ह । तेजः॑ । परेति॑ । प॒त॒ति॒ । यः । प्र॒थ॒मः । शक॑लः । प॒रा॒पते॒दिति॑ परा-पते॑त् । तम् । अपि॑ । एति॑ । ह॒रे॒त् ।

सते॑जस॒मिति॒ स-ते॒ज॒स॒म् । [14] ए॒व । ए॒न॒म् । एति॑ । ह॒र॒ति॒ ।

भट्टभास्कर-टीका

8स्वधितेरित्यादि ॥ स्वधितेः बिभ्यतो वृक्षस्य तेजः प्रथमेन शकलेन सह परापतति विनश्यति, तस्मात्प्रथमं शकलमप्याहरेत् गृहीत्वा आगच्छेत्, न केवलं यूपमेव । एवं कृते तेजस्सहितमेवैनमाहरति ॥

मूलम् (संयुक्तम्)

इ॒मे वै लो॒का यूपा॑त्प्रय॒तो बि॑भ्यति॒ दिव॒मग्रे॑ण॒ मा ले॑खीर॒न्तरि॑क्ष॒म्मध्ये॑न॒ मा हिँ॑सी॒रित्या॑है॒भ्य ए॒वैनल्ँ॑ लो॒केभ्य॑श्शमयति॒

विश्वास-प्रस्तुतिः

इ॒मे वै लो॒का यूपा॑त् प्रय॒तो बि॑भ्यति ।
“दिव॒मग्रे॑ण॒ मा ले॑खीर् अ॒न्तरि॑क्ष॒म् मध्ये॑न॒ मा हिँ॑सी॒र्” इत्या॑ह ।
ए॒भ्य ए॒वैनल्ँ॑ लो॒केभ्य॑श् शमयति ।

मूलम्

इ॒मे वै लो॒का यूपा॑त् प्रय॒तो बि॑भ्यति ।
“दिव॒मग्रे॑ण॒ मा ले॑खीर् अ॒न्तरि॑क्ष॒म् मध्ये॑न॒ मा हिँ॑सी॒र्” इत्या॑ह ।
ए॒भ्य ए॒वैनल्ँ॑ लो॒केभ्य॑श् शमयति ।

पद-पाठः

इ॒मे । वै । लो॒काः । यूपा॑त् । प्र॒य॒त इति॑ प्र-य॒तः । बि॒भ्य॒ति॒ ।

दिव॑म् । अग्रे॑ण । मा । ले॒खीः॒ । अ॒न्तरि॑क्षम् । मध्ये॑न । मा । हिँ॒सीः॒ । इति॑ । आ॒ह॒ । ए॒भ्यः॒ । ए॒व । ए॒न॒म् । लो॒केभ्यः॑ । श॒म॒य॒ति॒ ।

भट्टभास्कर-टीका

9इमे वा इत्यादि ॥ यूपात्प्रयतः प्रचलतः इमे लोका बिभ्यति पतन्नयं यस्मादवष्टभ्नोति । एतेश्शतरि इणो यणि ‘शतुरनुमः’ इति विभक्तेरुदात्तत्वम् । तस्मात् ‘दिवमग्रेण’ इत्यादिना पतन्तमनुमन्त्रयते ॥

मूलम् (संयुक्तम्)

वन॑स्पते श॒तव॑ल्शो॒ वि रो॒हेत्या॒व्रश्च॑ने जुहोति॒ तस्मा॑दा॒व्रश्च॑नाद्वृ॒क्षाणा॒म्भूयाँ॑स॒ उत्ति॑ष्ठन्ति

विश्वास-प्रस्तुतिः

वन॑स्पते श॒तव॑ल्शो॒ वि रो॒हेत्य् आ॒व्रश्च॑ने जुहोति ।
तस्मा॑द् आ॒व्रश्च॑नाद् वृ॒क्षाणा॒म् भूयाँ॑स॒ उत्ति॑ष्ठन्ति।

मूलम्

वन॑स्पते श॒तव॑ल्शो॒ वि रो॒हेत्य् आ॒व्रश्च॑ने जुहोति ।
तस्मा॑द् आ॒व्रश्च॑नाद् वृ॒क्षाणा॒म् भूयाँ॑स॒ उत्ति॑ष्ठन्ति।

पद-पाठः

वन॑स्पते । श॒तव॑ल्‌श॒ इति॑ श॒त-व॒ल्‌शः॒ । वीति॑ । रो॒ह॒ । इति॑ । आ॒व्रश्च॑न॒ इत्या॑-व्रश्च॑ने । जु॒हो॒ति॒ ।

तस्मा॑त् । आ॒व्रश्च॑ना॒दित्या॑-व्रश्च॑नात् । वृ॒क्षाणा॑म् । भूयाँ॑सः । उदिति॑ । ति॒ष्ठ॒न्ति॒ ।

भट्टभास्कर-टीका

10आव्रश्चने हिरण्यं निधाय परिस्तीर्याभिजुहोति । आव्रश्चनं व्रश्चनस्थानम् । तस्मादित्यादि । भूयांसो बहुतराः प्ररोहा उत्तिष्ठन्ति, ‘शतवलशो वि रोह’ इति वचनात् ॥

मूलम् (संयुक्तम्)

स॒हस्र॑वल्शा॒ वि व॒यँ रु॑हे॒मेत्या॑हा॒शिष॑मे॒वैतामा शा॒स्ते

विश्वास-प्रस्तुतिः

स॒हस्र॑वल्शा॒ वि व॒यँ रु॑हे॒मेत्या॑ह + आ॒शिष॑मे॒वैतामा शा॑स्ते ।

मूलम्

स॒हस्र॑वल्शा॒ वि व॒यँ रु॑हे॒मेत्या॑ह + आ॒शिष॑मे॒वैतामा शा॑स्ते ।

पद-पाठः

स॒हस्र॑वल्‌शा॒ इति॑ स॒हस्र॑-व॒ल्‌शाः॒ । वीति॑ । व॒यम् । रु॒हे॒म॒ । इति॑ । आ॒ह॒ । आ॒शिष॒मित्या॑-शिष॑म् । ए॒व । ए॒ताम् । एति॑ । शा॒स्ते॒ ।

भट्टभास्कर-टीका

11’सहखवल्शाः’* इत्यात्माभिमर्शः । अनेनात्माभिमर्शनेनैतामाशिषमाशास्ते ॥

मूलम् (संयुक्तम्)

ऽन॑क्षसङ्गम् [15]
वृ॒श्चे॒द्यद॑क्षस॒ङ्गव्ँवृ॒श्चेद॑धई॒षय्ँयज॑मानस्य प्र॒मायु॑कँ स्या॒द्

विश्वास-प्रस्तुतिः

अन॑क्षसङ्गव्ँ वृश्चेद् यद॑क्षस॒ङ्गव्ँ वृ॒श्चेद् , अ॑धई॒षय्ँ यज॑मानस्य प्र॒मायु॑कँ स्यात् । [15]

मूलम्

अन॑क्षसङ्गव्ँ वृश्चेद् यद॑क्षस॒ङ्गव्ँ वृ॒श्चेद् , अ॑धई॒षय्ँ यज॑मानस्य प्र॒मायु॑कँ स्यात् । [15]

पद-पाठः

अन॑क्षसङ्ग॒मित्यन॑क्ष-स॒ङ्ग॒म् । [15] वृ॒श्चे॒त् । यत् । अ॒क्ष॒स॒ङ्गमित्य॑क्ष-स॒ङ्गम् । वृ॒श्चेत् । अ॒ध॒ई॒षमित्य॑धः-ई॒षम् । यज॑मानस्य । प्र॒मायु॑क॒मिति॑ प्र-मायु॑कम् । स्या॒त् ।

भट्टभास्कर-टीका

12अनक्षसङ्गमित्यादि ॥ अक्षस्संगस्सज्यमानो यत्र तदक्षसङ्गम् । अनक्षसङ्गं तावति परिमाणे यूपं वृश्चेत् । विभक्तिव्यत्ययः । क्रियाविशेषणं वा । अथ यद्यक्षसङ्गं वृश्चेत् । छान्दसमन्तोदात्तत्वम् । अधिकरणे वा घञ्, थाथादिस्वरः । अधः ईषयोरधस्ताद्यदि तद्भवति तदा यजमानस्य सम्बन्धि तद्वस्तु पश्चादिकं प्रमायुकं मराणशीलं स्यात् । तिरश्चीनावक्षौ प्राचीने ईषे । ईषयोरधस्तादधईषं, अव्ययीभावः, ‘तृतीयासप्तम्योर्बहुलम्’ इत्यम्भावः । अधईषे सतीति ॥

मूलम् (संयुक्तम्)

यङ्का॒मये॒ताप्र॑तिष्ठितस्स्या॒दित्या॑रो॒हन्तस्मै॑ वृश्चेदे॒ष वै वन॒स्पती॑ना॒मप्र॑तिष्ठि॒तोऽप्र॑तिष्ठित ए॒व भ॑वति॒

विश्वास-प्रस्तुतिः

यङ्का॒मये॑त - अप्र॑तिष्ठितस् स्या॒दिति॑ + आ॒रो॒हन् तस्मै॑ वृश्चेत् ।

ए॒ष वै वन॒स्पती॑ना॒मप्र॑तिष्ठि॒तो ऽप्र॑तिष्ठित ए॒व भ॑वति ।

मूलम्

यङ्का॒मये॑त - अप्र॑तिष्ठितस् स्या॒दिति॑ + आ॒रो॒हन् तस्मै॑ वृश्चेत् ।

ए॒ष वै वन॒स्पती॑ना॒मप्र॑तिष्ठि॒तो ऽप्र॑तिष्ठित ए॒व भ॑वति ।

पद-पाठः

यम् । का॒मये॑त । अप्र॑तिष्ठित॒ इत्यप्र॑ति-स्थि॒तः॒ । स्या॒त् । इति॑ । आ॒रो॒हमित्या॑-रो॒हम् । तस्मै॑ । वृ॒श्चे॒त् ।

ए॒षः । वै । वन॒स्पती॑नाम् । अप्र॑तिष्ठित॒ इत्यप्र॑ति-स्थि॒तः॒ । अप्र॑तिष्ठित॒ इत्यप्र॑ति-स्थि॒तः॒ । ए॒व । भ॒व॒ति॒ ।

भट्टभास्कर-टीका

13यमित्यादि ॥ आरोहः शाखासु प्ररूढः । एष वा इति वनस्पतीनां मध्ये एषोप्रतिष्ठितः, भूमावनास्थितत्वात् ॥

मूलम् (संयुक्तम्)

यङ्का॒मये॑ताप॒शुस्स्या॒दित्य॑प॒र्णन्तस्मै॒ शुष्का॑ग्रव्ँवृश्चेदे॒ष वै वन॒स्पती॑नामपश॒व्यो॑ऽप॒शुरे॒व भ॑वति॒

विश्वास-प्रस्तुतिः

यङ्का॒मये॑त - “अप॒शुस् स्या॒द्” इति॑ + अ॒प॒र्णन् तस्मै॒ शुष्का॑ग्रव्ँ वृश्चेत् ।
ए॒ष वै वन॒स्पती॑नामपश॒व्यो॑ ऽप॒शुरे॒व भ॑वति ।

मूलम्

यङ्का॒मये॑त - “अप॒शुस् स्या॒द्” इति॑ + अ॒प॒र्णन् तस्मै॒ शुष्का॑ग्रव्ँ वृश्चेत् ।
ए॒ष वै वन॒स्पती॑नामपश॒व्यो॑ ऽप॒शुरे॒व भ॑वति ।

पद-पाठः

यम् । का॒मये॑त । अ॒प॒शुः । स्या॒त् । इति॑ । अ॒प॒र्णम् । तस्मै॑ । शुष्का॑ग्र॒मिति॒ शुष्क॑-अ॒ग्र॒म् । वृ॒श्चे॒त् ।

ए॒षः । वै । वन॒स्पती॑नाम् । अ॒प॒श॒व्यः । अ॒प॒शुः । ए॒व । भ॒व॒ति॒ ।

भट्टभास्कर-टीका

14यमित्यादि ॥ गतम् ॥ अपशव्य इति । पशुभ्यो हितो न भवतीति । ‘उगवादिभ्यो यत्’, ‘ययतोश्चातदर्थे’ इत्युत्तरपदान्तोदात्तत्वम् । ‘स्वरितो वाऽनुदात्ते पदादौ’ इति संहितायां स्वर्यते ॥

मूलम् (संयुक्तम्)

यङ्का॒मये॑त पशु॒मान्त्स्या॒दिति॑ बहुप॒र्णन्तस्मै॑ बहुशा॒खव्ँवृ॑श्चेदे॒ष वै [16]
वन॒स्पती॑नाम्पश॒व्य॑ᳶ पशु॒माने॒व भ॑वति॒

विश्वास-प्रस्तुतिः

यङ्का॒मये॑त - पशु॒मान्त् स्या॒दिति॑ , बहुप॒र्णन् तस्मै॑ बहुशा॒खव्ँ वृ॑श्चेत् ।

ए॒ष वै वन॒स्पती॑नाम् पश॒व्य॑ᳶ पशु॒माने॒व भ॑वति । [16]

मूलम्

यङ्का॒मये॑त - पशु॒मान्त् स्या॒दिति॑ , बहुप॒र्णन् तस्मै॑ बहुशा॒खव्ँ वृ॑श्चेत् ।

ए॒ष वै वन॒स्पती॑नाम् पश॒व्य॑ᳶ पशु॒माने॒व भ॑वति । [16]

पद-पाठः

यम् । का॒मये॑त । प॒शु॒मानिति॑ पशु-मान् । स्या॒त् । इति॑ । ब॒हु॒प॒र्णमिति॑ बहु-प॒र्णम् । तस्मै॑ । ब॒हु॒शा॒खमिति॑ बहु-शा॒खम् । वृ॒श्चे॒त् ।

ए॒षः । वै । [16] वन॒स्पती॑नाम् । प॒श॒व्यः॑ । प॒शु॒मानिति॑ पशु-मान् । ए॒व । भ॒व॒ति॒ ।

भट्टभास्कर-टीका

15यमित्यादि ॥ गतम् ॥

मूलम् (संयुक्तम्)

प्रति॑ष्ठितव्ँवृश्चेत्प्रति॒ष्ठाका॑मस्यै॒ष वै वन॒स्पती॑ना॒म्प्रति॑ष्ठितो॒ यस्स॒मे भूम्यै॒ स्वाद्योने॑ रू॒ढᳶ प्रत्ये॒व ति॑ष्ठति॒

विश्वास-प्रस्तुतिः

प्रति॑ष्ठितव्ँ वृश्चेत् प्रति॒ष्ठाका॑मस्य + ए॒ष वै वन॒स्पती॑ना॒म् प्रति॑ष्ठितो॒
यस् स॒मे भूम्यै॒ स्वाद्योने॑ रू॒ढᳶ प्रत्ये॒व ति॑ष्ठति ।

मूलम्

प्रति॑ष्ठितव्ँ वृश्चेत् प्रति॒ष्ठाका॑मस्य + ए॒ष वै वन॒स्पती॑ना॒म् प्रति॑ष्ठितो॒
यस् स॒मे भूम्यै॒ स्वाद्योने॑ रू॒ढᳶ प्रत्ये॒व ति॑ष्ठति ।

पद-पाठः

प्रति॑ष्ठित॒मिति॒ प्रति॑-स्थि॒त॒म् । वृ॒श्चे॒त् । प्र॒ति॒ष्ठाका॑म॒स्येति॑ प्रति॒ष्ठा-का॒म॒स्य॒ । ए॒षः । वै । वन॒स्पती॑नाम् । प्रति॑ष्ठित॒ इति॒ प्रति॑-स्थि॒तः॒ । यः । स॒मे । भूम्यै॑ । स्वात् । योनेः॑ । रू॒ढः । प्रतीति॑ । ए॒व । तिष्ठ॑ति ।

भट्टभास्कर-टीका

16प्रतिष्ठितमित्यादि ॥ प्रतिष्ठितानां मध्ये एष प्रतिष्ठितः, यस्समे तुल्ये भूम्यै भूम्या एव सम्बन्धिन्यवयवे तनूपरि तते वृक्षावयवे किंचित्स्वादेव योनेर्बीजादेः न तु शाखादेः ऊढः जातः । तस्माद्भूमिप्ररूढं स्वतन्त्रमेव वृश्चेदिति ॥

मूलम् (संयुक्तम्)

यᳶ प्र॒त्यङ्ङुप॑नत॒स्तव्ँवृ॑श्चे॒त्स हि मेध॑म॒भ्युप॑नत॒ᳶ

विश्वास-प्रस्तुतिः

यᳶ प्र॒त्यङ्ङुप॑नत॒स् तव्ँ वृ॑श्चे॒त् स हि मेध॑म॒भ्युप॑नतः ।

मूलम्

यᳶ प्र॒त्यङ्ङुप॑नत॒स् तव्ँ वृ॑श्चे॒त् स हि मेध॑म॒भ्युप॑नतः ।

पद-पाठः

यः । प्र॒त्यङ्ङ् । उप॑नत॒ इत्युप॑-न॒तः॒ । तम् । वृ॒श्चे॒त् । सः । हि । मेध॑म् । अ॒भीति॑ । उप॑नत॒ इत्युप॑-न॒तः॒ ।

भट्टभास्कर-टीका

17यः प्रत्यङ्ङित्यादि ॥ यः प्रत्यग्दिग्गतस्स खलु मेघं यज्ञं क्रियमाणं लक्षीकृत्य उपनतो भवति ॥

मूलम् (संयुक्तम्)

पञ्चा॑रत्नि॒न्तस्मै॑ वृश्चे॒द्यङ्का॒मये॒तोपै॑न॒मुत्त॑रो य॒ज्ञो न॑मे॒दिति॒ पञ्चा॑क्षरा प॒ङ्क्तिᳶ पाङ्क्तो॑ य॒ज्ञ उपै॑न॒मुत्त॑रो य॒ज्ञः [17]
न॒म॒ति॒

विश्वास-प्रस्तुतिः

पञ्चा॑रत्नि॒न् तस्मै॑ वृश्चे॒द् यङ् का॒मये॒त - उपै॑न॒मुत्त॑रो य॒ज्ञो न॑मे॒दिति ।
पञ्चा॑क्षरा प॒ङ्क्तिः ।
पाङ्क्तो॑ य॒ज्ञः । उपै॑न॒मुत्त॑रो य॒ज्ञः न॑मति ।[17]

मूलम्

पञ्चा॑रत्नि॒न् तस्मै॑ वृश्चे॒द् यङ् का॒मये॒त - उपै॑न॒मुत्त॑रो य॒ज्ञो न॑मे॒दिति ।
पञ्चा॑क्षरा प॒ङ्क्तिः ।
पाङ्क्तो॑ य॒ज्ञः । उपै॑न॒मुत्त॑रो य॒ज्ञः न॑मति ।[17]

पद-पाठः पञ्चा॑रत्नि॒मिति॒ पञ्च॑-अ॒र॒त्नि॒म् । तस्मै॑ । वृ॒श्चे॒त् । यम् । का॒मये॑त । उपेति॑ । ए॒न॒म् । उत्त॑र॒ इत्युत्-त॒रः॒ । य॒ज्ञः । न॒मे॒त् । इति॑ ।

पञ्चा॑क्ष॒रेति॒ पञ्च॑-अ॒क्ष॒रा॒ । प॒ङ्क्तिः ।
पाङ्क्तः॑ । य॒ज्ञः ।

उपेति॑ । ए॒न॒म् । उत्त॑र॒ इत्युत्-त॒रः॒ । य॒ज्ञः । [17] न॒म॒ति॒ ।

भट्टभास्कर-टीका

18पञ्चारत्निमित्यादि ॥ नित्येष्वेव काम्या विधय एते, अन्यस्यानभिधानादित्येके । ‘यूपं मिनोति’ इति सामान्यविधानात् अनियतपरिमाणो नित्यः, नियतपरिमाणा एते काम्या इत्यन्ये । चतुर्विंशत्यङ्गुलयोरत्निः । पञ्च अरत्नयः पारमाणमस्येति उत्पन्नस्यार्हीयस्य ‘अध्यर्धपूर्वाद्द्विगोः’ इति लुक्, ‘द्विगौ प्रमाणे’ इति पूर्वपदप्रकृतिस्वरत्वम् । उत्तरो यज्ञ उक्थ्यादिः । पञ्चाक्षरा पञ्चाक्षरपदा पङ्क्तिः, पाङ्क्तत्वं यज्ञस्योक्तम् । पङ्क्तिशब्द उत्सादिः ॥

मूलम् (संयुक्तम्)

षड॑रत्निम्प्रति॒ष्ठाका॑मस्य॒ षड्वा ऋ॒तव॑ ऋ॒तुष्वे॒व प्रति॑ तिष्ठति

स॒प्तार॑त्निम्प॒शुका॑मस्य स॒प्तप॑दा॒ शक्व॑री प॒शव॒श्शक्व॑री प॒शूने॒वाव॑ रुन्द्धे॒

विश्वास-प्रस्तुतिः

षड॑रत्निम् प्रति॒ष्ठाका॑मस्य । षड्वा ऋ॒तवः॑ । ऋ॒तुष्वे॒व प्रति॑ तिष्ठति

स॒प्तार॑त्निम् प॒शुका॑मस्य , स॒प्तप॑दा॒ शक्व॑री । प॒शव॒श् शक्व॑री प॒शूने॒वाव॑ रुन्धे ।

मूलम्

षड॑रत्निम् प्रति॒ष्ठाका॑मस्य । षड्वा ऋ॒तवः॑ । ऋ॒तुष्वे॒व प्रति॑ तिष्ठति

स॒प्तार॑त्निम् प॒शुका॑मस्य , स॒प्तप॑दा॒ शक्व॑री ।

प॒शव॒श् शक्व॑री प॒शूने॒वाव॑ रुन्धे ।

पद-पाठः

षड॑रत्नि॒मिति॒ षट्-अ॒र॒त्नि॒म् । प्र॒ति॒ष्ठाका॑म॒स्येति॑ प्रति॒ष्ठा-का॒म॒स्य॒ । षट् । वै । ऋ॒तवः॑ । ऋ॒तुषु॑ । ए॒व । प्रतीति॑ । ति॒ष्ठ॒ति॒ ।

स॒प्तार॑त्नि॒मिति॑ स॒प्त-अ॒र॒त्नि॒म् । प॒शुका॑म॒स्येति॑ प॒शु-का॒म॒स्य॒ । स॒प्तप॒देति॑ सप्त-प॒दा॒ । शक्व॑री ।

प॒शवः॑ । शक्व॑री । प॒शून् । ए॒व । अवेति॑ । रु॒न्द्धे॒ ।

भट्टभास्कर-टीका

19षडरत्निमित्यादि ॥ गतम् ॥

प्रदीपसिंहः

(इन्क्लूड्)

मूलम् (संयुक्तम्)

नवा॑रत्नि॒न्तेज॑स्कामस्य त्रि॒वृता॒ स्तोमे॑न॒ सम्मि॑त॒न्तेज॑स्त्रि॒वृत्ते॑ज॒स्व्ये॑व भ॑व॒त्येका॑दशारत्निमिन्द्रि॒यका॑म॒स्यैका॑दशाक्षरा त्रि॒ष्टुगि॑न्द्रि॒यन्त्रि॒ष्टुगि॑न्द्रिया॒व्ये॑व भ॑वति॒ पञ्च॑दशारत्नि॒म्भ्रातृ॑व्यवतᳶ पञ्चद॒शो वज्रो॒ भ्रातृ॑व्याभिभूत्यै स॒प्तद॑शारत्निम्प्र॒जाका॑मस्य सप्तद॒शᳶ प्र॒जाप॑तिᳶ प्र॒जाप॑ते॒राप्त्या॒ एक॑विँशत्यरत्निम्प्रति॒ष्ठाका॑मस्यैकविँ॒शस्स्तोमा॑नाम्प्रति॒ष्ठा प्रति॑ष्ठित्या

विश्वास-प्रस्तुतिः

नवा॑रत्नि॒न्तेज॑स्कामस्य त्रि॒वृता॒ स्तोमे॑न॒ सम्मि॑त॒न्तेज॑स्त्रि॒वृत्ते॑ज॒स्व्ये॑व भ॑व॒ति ।
एका॑दशारत्निमिन्द्रि॒यका॑म॒स्य + एका॑दशाक्षरा त्रि॒ष्टुग् , इ॑न्द्रि॒यन् त्रि॒ष्टुग् , इ॑न्द्रिया॒व्ये॑व भ॑वति ।

पञ्च॑दशारत्नि॒म् भ्रातृ॑व्यवतः । प॒ञ्च॒द॒शो वज्रो॒ , भ्रातृ॑व्याभिभूत्यै ।
स॒प्तद॑शारत्निम् प्र॒जाका॑मस्य । स॒प्त॒द॒शᳶ प्र॒जाप॑तिᳶ, प्र॒जाप॑ते॒राप्त्यै॑ ।
एक॑विँशत्यरत्निम् प्रति॒ष्ठाका॑मस्य । ए॒क॒विँ॒शस् स्तोमा॑नाम् प्रति॒ष्ठा , प्रति॑ष्ठित्यै ।

मूलम्

नवा॑रत्नि॒न्तेज॑स्कामस्य त्रि॒वृता॒ स्तोमे॑न॒ सम्मि॑त॒न्तेज॑स्त्रि॒वृत्ते॑ज॒स्व्ये॑व भ॑व॒ति ।

एका॑दशारत्निमिन्द्रि॒यका॑म॒स्य + एका॑दशाक्षरा त्रि॒ष्टुग् , इ॑न्द्रि॒यन् त्रि॒ष्टुग् , इ॑न्द्रिया॒व्ये॑व भ॑वति ।

पञ्च॑दशारत्नि॒म् भ्रातृ॑व्यवतः । प॒ञ्च॒द॒शो वज्रो॒ , भ्रातृ॑व्याभिभूत्यै ।

स॒प्तद॑शारत्निम् प्र॒जाका॑मस्य । स॒प्त॒द॒शᳶ प्र॒जाप॑तिᳶ, प्र॒जाप॑ते॒राप्त्यै॑ ।

एक॑विँशत्यरत्निम् प्रति॒ष्ठाका॑मस्य । ए॒क॒विँ॒शस् स्तोमा॑नाम् प्रति॒ष्ठा , प्रति॑ष्ठित्यै ।

पद-पाठः

नवा॑रत्नि॒मिति॒ नव॑-अ॒र॒त्नि॒म् । तेज॑स्काम॒स्येति॒ तेजः॑-का॒म॒स्य॒ । त्रि॒वृतेति॑ त्रि-वृता॑ । स्तोमे॑न । सम्मि॑त॒मिति॒ सम्-मि॒त॒म् । तेजः॑ । त्रि॒वृदिति॑ त्रि-वृत् । ते॒ज॒स्वी । ए॒व । भ॒व॒ति॒ ।

एका॑दशारत्नि॒मित्येका॑दश-अ॒र॒त्नि॒म् । इ॒न्द्रि॒यका॑म॒स्येती॑न्द्रि॒य-का॒म॒स्य॒ । एका॑दशाक्ष॒रेत्येका॑दश-अ॒क्ष॒रा॒ । त्रि॒ष्टुक् । इ॒न्द्रि॒यम् । त्रि॒ष्टुक् । इ॒न्द्रि॒या॒वी । ए॒व । भ॒व॒ति॒ ।

पञ्च॑दशारत्नि॒मिति॒ पञ्च॑दश-अ॒र॒त्नि॒म् । भ्रातृ॑व्यवत॒ इति॒ भ्रातृ॑व्य-व॒तः॒ । प॒ञ्च॒द॒श इति॑ पञ्च-द॒शः । वज्रः॑ । भ्रातृ॑व्याभिभूत्या॒ इति॒ भ्रातृ॑व्य-अ॒भि॒भू॒त्यै॒ ।

स॒प्तद॑शारत्नि॒मिति॑ स॒प्तद॑श-अ॒र॒त्नि॒म् । प्र॒जाका॑म॒स्येति॑ प्र॒जा-का॒म॒स्य॒ । स॒प्त॒द॒श इति॑ सप्त-द॒शः । प्र॒जाप॑ति॒रिति॑ प्र॒जा-प॒तिः॒ । प्र॒जाप॑ते॒रिति॑ प्र॒जा-प॒तेः॒ । आप्त्यै॑ ।

एक॑विँशत्यरत्नि॒मित्येक॑विँशति-अ॒र॒त्नि॒म् । प्र॒ति॒ष्ठाका॑म॒स्येति॑ प्रति॒ष्ठा-का॒म॒स्य॒ । ए॒क॒विँ॒श इत्ये॑क-विँ॒शः । स्तोमा॑नाम् । प्र॒ति॒ष्ठेति॑ प्रति-स्था । प्रति॑ष्ठित्या॒ इति॒ प्रति॑-स्थि॒त्यै॒ ।

प्रदीपसिंहः

+++(सम्पादकटिप्पनी- विस्तृतं व्याख्यानमन्यत्र )+++। इन्क्लूड्

भट्टभास्कर-टीका

20-25पशवश्शक्वरीति ॥ तद्धेतुभूतत्वात्ताच्छब्द्यम् । एवं तेजस्त्रिवृदित्यादि द्रष्टव्यम् । पञ्चदशो वज्र इति । भ्रातृव्याभिभवहेतुत्वात् । सप्तदशः प्रजापतिरिति । सप्तदशाक्षरत्वात् । पञ्चदशादयश्शब्दा व्याख्याताः ॥

मूलम् (संयुक्तम्)

अ॒ष्टाश्रि॑र्भवत्य॒ष्टाक्ष॑रा गाय॒त्री तेजो॑ गाय॒त्री गा॑य॒त्री य॑ज्ञमु॒खन्तेज॑सै॒व गा॑यत्रि॒या य॑ज्ञमु॒खेन॒ सम्मि॑तः ॥ [18]

विश्वास-प्रस्तुतिः

अ॒ष्टाश्रि॑र्भवति ।
अ॒ष्टाक्ष॑रा गाय॒त्री ।
तेजो॑ गाय॒त्री । गा॒य॒त्री य॑ज्ञमु॒खम् ।
तेज॑सै॒व गा॑यत्रि॒या य॑ज्ञमु॒खेन॒ सम्मि॑तः ॥ [18]

मूलम्

अ॒ष्टाश्रि॑र्भवति ।
अ॒ष्टाक्ष॑रा गाय॒त्री ।
तेजो॑ गाय॒त्री । गा॒य॒त्री य॑ज्ञमु॒खम् ।
तेज॑सै॒व गा॑यत्रि॒या य॑ज्ञमु॒खेन॒ सम्मि॑तः ॥ [18]

पद-पाठः

अ॒ष्टाश्रि॒रित्य॒ष्टा-अ॒श्रिः॒ । भ॒व॒ति॒ । अ॒ष्टाक्ष॒रेत्य॒ष्टा-अ॒क्ष॒रा॒ । गा॒य॒त्री । तेजः॑ । गा॒य॒त्री । गा॒य॒त्री । य॒ज्ञ॒मु॒खमिति॑ यज्ञ-मु॒खम् । तेज॑सा । ए॒व । गा॒य॒त्रि॒या । य॒ज्ञ॒मु॒खेनेति॑ यज्ञ-मु॒खेन॑ । सम्मि॑त॒ इति॒ सम्-मि॒तः॒ ॥ [18]

भट्टभास्कर-टीका

26अष्टाश्रिरित्यादि ॥ अष्टत्वान्वयात् तेजोरूपगायत्र्यात्मकयज्ञतुल्यो यूपो भवति ॥

इति षष्ठे तृतीये तृतीयोनुवाकः ॥