११ हविर्धाने चतुर्णामुपरवाणां निर्माणम्् ...{Loading}...
सोमऋषिः
मूलम् (संयुक्तम्)
शिरो॒ वा ए॒तद्य॒ज्ञस्य॒ यद्ध॑वि॒र्धान॑म्प्रा॒णा उ॑पर॒वा ह॑वि॒र्धाने॑ खायन्ते॒ तस्मा॑च्छी॒र्षन्प्रा॒णा अ॒धस्ता॑त्खायन्ते॒ तस्मा॑द॒धस्ता॑च्छी॒र्ष्णᳶ प्रा॒णा
विश्वास-प्रस्तुतिः
शिरो॒ वा ए॒तद्य॒ज्ञस्य॒ यद्ध॑वि॒र्धान॑म्प्रा॒णा उ॑पर॒वाः ।
ह॑वि॒र्धाने॑ खायन्ते॒ ,
तस्मा॑च् छी॒र्षन् प्रा॒णाः ।
अ॒धस्ता॑त् खायन्ते॒ ,
तस्मा॑द् अ॒धस्ता॑च् छी॒र्ष्णᳶ प्रा॒णाः ।
मूलम्
शिरो॒ वा ए॒तद्य॒ज्ञस्य॒ यद्ध॑वि॒र्धान॑म्प्रा॒णा उ॑पर॒वाः ।
ह॑वि॒र्धाने॑ खायन्ते॒ ,
तस्मा॑च् छी॒र्षन् प्रा॒णाः ।
अ॒धस्ता॑त् खायन्ते॒ ,
तस्मा॑द् अ॒धस्ता॑च् छी॒र्ष्णᳶ प्रा॒णाः ।
पद-पाठः
शिरः॑ । वै । ए॒तत् । य॒ज्ञस्य॑ । यत् । ह॒वि॒र्धान॒मिति॑ हविः-धान॑म् । प्रा॒णा इति॑ प्र-अ॒नाः । उ॒प॒र॒वा इत्यु॑प-र॒वाः ।
ह॒वि॒र्धान॒ इति॑ हविः-धाने॑ । खा॒य॒न्ते॒ ।
तस्मा॑त् । शी॒र्षन् । प्रा॒णा इति॑ प्र-अ॒नाः ।
अ॒धस्ता॑त् । खा॒य॒न्ते॒ ।
तस्मा॑त् । अ॒धस्ता॑त् । शी॒र्ष्णः । प्रा॒णा इति॑ प्र-अ॒नाः ।
भट्टभास्कर-टीका
1शिरो वा इति ॥ प्राणाः नासिकादयः । तत्स्थानीया उपरवाः । तस्मात्ते शिरस्थानीये हविर्धाने खायन्ते खनितव्याः इति विधिः । उपरवा नाम बिलविशेषाः प्रादेशमुखाः प्रादेशान्तराळाः । तस्माच्छीर्षन् प्राणाः नासिकादयः । अधस्ताच्च तस्य खायन्ते इति विधिः । ‘ये विभाषा’ इत्यात्वम् । तस्माच्छीर्ष्णः अधस्तात्प्राणाः ॥
मूलम् (संयुक्तम्)
र॑क्षो॒हणो॑ वलग॒हनो॑ वैष्ण॒वान्ख॑ना॒मीत्या॑ह वैष्ण॒वा हि दे॒वत॑योपर॒वा
विश्वास-प्रस्तुतिः
र॑क्षो॒हणो॑ वलग॒हनो॑ वैष्ण॒वान् ख॑ना॒मीत्या॑ह ।
वै॒ष्ण॒वा हि दे॒वत॑योपर॒वाः ।
मूलम्
र॑क्षो॒हणो॑ वलग॒हनो॑ वैष्ण॒वान् ख॑ना॒मीत्या॑ह ।
वै॒ष्ण॒वा हि दे॒वत॑योपर॒वाः ।
पद-पाठः
र॒क्षो॒हण॒ इति॑ रक्षः-हनः॑ । व॒ल॒ग॒हन॒ इति॑ वलग-हनः॑ । वै॒ष्ण॒वान् । ख॒ना॒मि॒ । इति॑ । आ॒ह॒ ।
वै॒ष्ण॒वाः । हि । दे॒वत॑या । उ॒प॒र॒वा इत्यु॑प-र॒वाः ।
भट्टभास्कर-टीका
2रक्षोहण इत्यादि ॥ देवतासंबन्धेन वैष्णवाः उपरवा भवन्ति; मन्त्रलिङ्गात् ॥
मूलम् (संयुक्तम्)
असु॑रा॒ वै नि॒र्यन्तो॑ दे॒वाना॑म्प्रा॒णेषु॑ वल॒गान्न्य॑खन॒न्तान्बा॑हुमा॒त्रेऽन्व॑विन्द॒न्तस्मा॑द्बाहुमा॒त्राᳶ खा॑यन्त
विश्वास-प्रस्तुतिः
असु॑रा॒ वै नि॒र्यन्तो॑ दे॒वाना॑म् प्रा॒णेषु॑ वल॒गान्न्य॑खनन् ।
तान् बा॑हुमा॒त्रे ऽन्व॑विन्दन् ।
तस्मा॑द् बाहुमा॒त्राᳶ खा॑यन्ते ।
मूलम्
असु॑रा॒ वै नि॒र्यन्तो॑ दे॒वाना॑म् प्रा॒णेषु॑ वल॒गान्न्य॑खनन् ।
तान् बा॑हुमा॒त्रे ऽन्व॑विन्दन् ।
तस्मा॑द् बाहुमा॒त्राᳶ खा॑यन्ते ।
पद-पाठः
असु॑राः । वै । नि॒र्यन्त॒ इति॑ निः-यन्तः॑ । दे॒वाना॑म् । प्रा॒णेष्विति॑ प्र-अ॒नेषु॑ । व॒ल॒गानिति॑ वल-गान् । नीति॑ । अ॒ख॒न॒न् ।
तान् । बा॒हु॒मा॒त्र इति॑ बाहु-मा॒त्रे । अन्विति॑ । अ॒वि॒न्द॒न् ।
तस्मा॑त् । बा॒हु॒मा॒त्रा इति॑ बाहु-मा॒त्राः । खा॒य॒न्ते॒ ।
भट्टभास्कर-टीका
3असुरा इत्यादि ॥ निर्यन्तः स्वयं नश्यन्तः देवानां प्राणेषु प्राणनिमित्तं प्राणाभावनिमित्तमिति यावत् । देवानां प्राणान्विनाशयितुं वलगान्यखनन् निखातवन्तः । वलगा नाम वलनाम्ना असुरराजेन दृष्टाः परमाराणप्रयोजनार्थं घटपटादिनिक्षिप्तास्थिरोमनखादिविविधामङ्गलद्रव्यसंभाररूपा भूमावन्तर्हिता उच्यन्ते । तान् वलगान् देवा बाहुमात्रे अन्वविन्दन् लब्धवन्तः असुरैः प्रयुक्तान् ज्ञात्वा गृहीतवन्तः । तस्मादुपरवा बाद्वुमात्राः खायन्ते इति विधिः । बाडुप्रमाणान् बाहुमात्रा मानं प्रमाणम् ॥
मूलम् (संयुक्तम्)
इ॒दम॒हन्तव्ँव॑ल॒गमुद्व॑पामि [56]
यन्न॑स्समा॒नो यमस॑मानो निच॒खानेत्या॑ह॒ द्वौ वाव पुरु॑षौ॒ यश्चै॒व स॑मा॒नो यश्चास॑मानो॒ यमे॒वास्मै॒ तौ व॑ल॒गन्नि॒खन॑त॒स्तमे॒वोद्व॑पति॒
विश्वास-प्रस्तुतिः
इ॒दम॒हन् तव्ँ व॑ल॒गम् उद्व॑पामि ।[56]
यन्न॑स् समा॒नो यमस॑मानो निच॒खानेत्या॑ह ।
द्वौ वाव पुरु॑षौ॒ यश् चै॒व स॑मा॒नो यश् चास॑मानः ।
यमे॒वास्मै॒ तौ व॑ल॒गन् नि॒खन॑त॒स् , तमे॒वोद्व॑पति ।
मूलम्
इ॒दम॒हन् तव्ँ व॑ल॒गम् उद्व॑पामि ।[56]
यन्न॑स् समा॒नो यमस॑मानो निच॒खानेत्या॑ह ।
द्वौ वाव पुरु॑षौ॒ यश् चै॒व स॑मा॒नो यश् चास॑मानः ।
यमे॒वास्मै॒ तौ व॑ल॒गन् नि॒खन॑त॒स् , तमे॒वोद्व॑पति ।
पद-पाठः
इ॒दम् । अ॒हम् । तम् । व॒ल॒गमिति॑ वल-गम् । उदिति॑ । व॒पा॒मि॒ । [56]
यम् । नः॒ । स॒मा॒नः । यम् । अस॑मानः । नि॒च॒खानेति॑ नि-च॒खान॑ । इति॑ । आ॒ह॒ ।
द्वौ । वाव । पुरु॑षौ । यः । च॒ । ए॒व । स॒मा॒नः । यः । च॒ । अस॑मानः ।
यम् । ए॒व । अ॒स्मै॒ । तौ । व॒ल॒गमिति॑ वल-गम् । नि॒खन॑त॒ इति॑ नि-खन॑तः । तम् । ए॒व । उदिति॑ । व॒प॒ति॒ ।
भट्टभास्कर-टीका
4इदमहमित्यादिपांसूद्वापनमन्त्रः ॥ द्वौ एतौ पुरुषौ यश्च यजमानस्य विद्यावित्तसौभाम्यादिभिस्समानः तुल्यः यश्चासमान ऊनः उत्कृष्टो वा तौ वलगं अस्मै यजमानाय यजमानविनाशार्थं निखनतः, तमुद्वपत्येव ॥
मूलम् (संयुक्तम्)
सन्तृ॑णत्ति॒ तस्मा॒त्सन्तृ॑ण्णा अन्तर॒तᳶ प्रा॒णा
विश्वास-प्रस्तुतिः
सन्तृ॑णत्ति ।
तस्मा॒त् सन्तृ॑ण्णा अन्तर॒तᳶ प्रा॒णाः ।
मूलम्
सन्तृ॑णत्ति ।
तस्मा॒त् सन्तृ॑ण्णा अन्तर॒तᳶ प्रा॒णाः ।
पद-पाठः
समिति॑ । तृ॒ण॒त्ति॒ ।
तस्मा॑त् । सन्तृ॑ण्णा॒ इति॒ सम्-तृ॒ण्णाः॒ । अ॒न्त॒र॒तः । प्रा॒णा इति॑ प्र-अ॒नाः ।
भट्टभास्कर-टीका
5सतृणत्तीति विधिः ॥ सन्तर्जनमधस्तादेकीकरणम्, उ तृदिर् हिंसानादरयोः, रौधादिकः । तस्मात्सन्तृण्णाः अभ्यन्तरे एकीभूताः प्राणा नासिकादयः । अकर्मणि निष्ठायामपि व्यत्ययेन गतेः प्रकृतिस्वरत्वम् ॥
मूलम् (संयुक्तम्)
न सम्भि॑नत्ति॒ तस्मा॒दस॑म्भिन्नाᳶ प्रा॒णा
विश्वास-प्रस्तुतिः
न सम्भि॑नत्ति ।
तस्मा॒दस॑म्भिन्नाᳶ प्रा॒णाः ।
मूलम्
न सम्भि॑नत्ति ।
तस्मा॒दस॑म्भिन्नाᳶ प्रा॒णाः ।
पद-पाठः
न । समिति॑ । भि॒न॒त्ति॒ ।
तस्मा॑त् । अस॑म्भिन्ना॒ इत्यस॑म्-भि॒न्नाः॒ । प्रा॒णा इति॑ प्र-अ॒नाः ।
भट्टभास्कर-टीका
6न सम्भिनत्तीति विधिः ॥ बहिर्नैकीकरोतीत्यर्थः । तस्माद्बहिरसंभिन्नाः प्राणाः नासिकादयः पृथगधिष्ठाना एव वर्तन्ते ॥
मूलम् (संयुक्तम्)
अ॒पोऽव॑ नयति॒ तस्मा॑दा॒र्द्रा अ॑न्तर॒तᳶ प्रा॒णा यव॑मती॒रव॑ नयति [57]
ऊर्ग्वै यव॑ᳶ प्रा॒णा उ॑पर॒वाᳶ प्रा॒णेष्वे॒वोर्ज॑न्दधाति
विश्वास-प्रस्तुतिः
अ॒पोऽव॑ नयति ।
तस्मा॑द् आ॒र्द्रा अ॑न्तर॒तᳶ प्रा॒णाः ।
यव॑मती॒रव॑ नयति ।[57]
ऊर्ग्वै यव॑ᳶ , प्रा॒णा उ॑पर॒वाᳶ ,
प्रा॒णेष्वे॒वोर्ज॑न् दधाति ।
मूलम्
अ॒पोऽव॑ नयति ।
तस्मा॑द् आ॒र्द्रा अ॑न्तर॒तᳶ प्रा॒णाः ।
यव॑मती॒रव॑ नयति ।[57]
ऊर्ग्वै यव॑ᳶ , प्रा॒णा उ॑पर॒वाᳶ ,
प्रा॒णेष्वे॒वोर्ज॑न् दधाति ।
पद-पाठः
अ॒पः । अवेति॑ । न॒य॒ति॒ ।
तस्मा॑त् । आ॒र्द्राः । अ॒न्त॒र॒तः । प्रा॒णा इति॑ प्र-अ॒नाः ।
यव॑मती॒रिति॒ यव॑-म॒तीः॒ । अवेति॑ । न॒य॒ति॒ । [57]
ऊर्क् । वै । यवः॑ ।
प्रा॒णा इति॑ प्र-अ॒नाः । उ॒प॒र॒वा इत्यु॑प-र॒वाः ।
प्रा॒णेष्विति॑ प्र-अ॒नेषु॑ । ए॒व । ऊर्ज॑म् । द॒धा॒ति॒ ।
भट्टभास्कर-टीका
7अपोवनयति तेषूपरवेष्विति विधिः ॥ तस्मादभ्यन्तरे आर्द्राः । यवमतीरित्यादि । ऊर्गन्नं यवः प्राणस्थानीयेषूपरवेषु तं दधाति यवमतीनामपामवनयने ॥
मूलम् (संयुक्तम्)
ब॒र्हिरव॑ स्तृणाति॒ तस्मा॑ल्लोम॒शा अ॑न्तर॒तᳶ प्रा॒णा
विश्वास-प्रस्तुतिः
ब॒र्हिरव॑ स्तृणाति ।
तस्मा॑ल् लोम॒शा अ॑न्तर॒तᳶ प्रा॒णाः ।
मूलम्
ब॒र्हिरव॑ स्तृणाति ।
तस्मा॑ल् लोम॒शा अ॑न्तर॒तᳶ प्रा॒णाः ।
पद-पाठः
ब॒र्हिः । अवेति॑ । स्तृ॒णा॒ति॒ ।
तस्मा॑त् । लो॒म॒शाः । अ॒न्त॒र॒तः । प्रा॒णा इति॑ प्र-अ॒नाः ।
भट्टभास्कर-टीका
8बर्हिरवस्तृणात्यवटेष्विति विधिः ॥ तस्माल्लोमशाः लोमवन्तः अन्तरतः ॥
मूलम् (संयुक्तम्)
आज्ये॑न॒ व्याघा॑रयति॒ तेजो॒ वा आज्य॑म्प्रा॒णा उ॑पर॒वाᳶ प्रा॒णेष्वे॒व तेजो॑ दधाति॒
विश्वास-प्रस्तुतिः
आज्ये॑न॒ व्याघा॑रयति ।
तेजो॒ वा आज्य॑म् ।
प्रा॒णा उ॑पर॒वाᳶ , प्रा॒णेष्वे॒व तेजो॑ दधाति ।
मूलम्
आज्ये॑न॒ व्याघा॑रयति ।
तेजो॒ वा आज्य॑म् ।
प्रा॒णा उ॑पर॒वाᳶ , प्रा॒णेष्वे॒व तेजो॑ दधाति ।
पद-पाठः
आज्ये॑न । व्याघा॑रय॒तीति॑ वि-आघा॑रयति ।
तेजः॑ । वै । आज्य॑म् ।
प्रा॒णा इति॑ प्र-अ॒नाः । उ॒प॒र॒वा इत्यु॑प-र॒वाः ।
प्रा॒णेष्विति॑ प्र-अ॒नेषु॑ । ए॒व । तेजः॑ । द॒धा॒ति॒ ।
भट्टभास्कर-टीका
9आज्येनेत्यादि ॥ प्राणेषु तेजः तेजनं सामर्थ्यातिशयं दधाति ॥
मूलम् (संयुक्तम्)
हनू॒ वा ए॒ते य॒ज्ञस्य॒ यद॑धि॒षव॑णे॒ न सन्तृ॑ण॒त्त्यस॑न्तृण्णे॒ हि हनू॒ अथो॒ खलु॑ दीर्घसो॒मे स॒न्तृद्ये॒ धृत्यै॒
विश्वास-प्रस्तुतिः
हनू॒ वा ए॒ते य॒ज्ञस्य॒ यद॑धि॒षव॑णे ।
न सन्तृ॑ण॒त्ति ।
अस॑न्तृण्णे॒ हि हनू ।
अथो॒ खलु॑ दीर्घसो॒मे स॒न्तृद्ये॒ , धृत्यै॒ ।
मूलम्
हनू॒ वा ए॒ते य॒ज्ञस्य॒ यद॑धि॒षव॑णे ।
न सन्तृ॑ण॒त्ति ।
अस॑न्तृण्णे॒ हि हनू ।
अथो॒ खलु॑ दीर्घसो॒मे स॒न्तृद्ये॒ , धृत्यै॒ ।
पद-पाठः
हनू॒ इति॑ । वै । ए॒ते । य॒ज्ञस्य॑ । यत् । अ॒धि॒षव॑णे॒ इत्य॑धि-सव॑ने । 1न । समिति॑ । तृ॒ण॒त्ति॒ ।
अस॑न्तृण्णे॒ इत्यस॑म्-तृ॒ण्णे॒ । हि । हनू॒ इति॑ ।
अथो॒ इति॑ । खलु॑ । दी॒र्घ॒सो॒म इति॑ दीर्घ-सो॒मे । स॒न्तृद्ये॒ इति॑ सम्-तृद्ये॑ ।
धृत्यै॑ ।
भट्टभास्कर-टीका
10हनू इत्यादि ॥ यस्मादसन्तृण्णे हनू तस्मात् अधिषवणफलके न संतृणत्ति विध्वा प्रोते न करोति । एवं हि हनुत्वं भवति । अथो खल्विति । दीर्घसोमे द्विरात्रादौ ते सन्तृद्ये विद्ध्वैव सन्धातव्ये श्लेषयितव्ये धृत्यै यावदभिषवणं तावद्धारणार्थम् । ‘ऋदुपधाच्च’ इति तृणातेः क्विप् । उक्थादि दीर्घसोम इत्यन्ये । स्तोमपृथुमान् [सौमप्रथिमा दैर्घ्यम्] ॥
मूलम् (संयुक्तम्)
शिरो॒ वा ए॒तद्य॒ज्ञस्य॒ यद्ध॑वि॒र्धान॑म् [58]
प्रा॒णा उ॑पर॒वा हनू॑ अधि॒षव॑णे जि॒ह्वा चर्म॒ ग्रावा॑णो॒ दन्ता॒ मुख॑माहव॒नीयो॒ नासि॑कोत्तरवे॒दिरु॒दरँ॒ सदो॑ य॒दा खलु॒ वै जि॒ह्वया॑ द॒त्स्वधि॒ खाद॒त्यथ॒ मुख॑ङ्गच्छति य॒दा मुख॒ङ्गच्छ॒त्यथो॒दर॑ङ्गच्छति॒ तस्मा॑द्धवि॒र्धाने॒ चर्म॒न्नधि॒ ग्राव॑भिरभि॒षुत्या॑हव॒नीये॑ हु॒त्वा प्र॒त्यञ्च॑ᳶ प॒रेत्य॒ सद॑सि भक्षयन्ति॒
विश्वास-प्रस्तुतिः
शिरो॒ वा ए॒तद् य॒ज्ञस्य॒ यद्ध॑वि॒र्धान॑म् ।[58]
प्रा॒णा उ॑पर॒वाः ।
हनू॑ अधि॒षव॑णे , जि॒ह्वा चर्म॒ , ग्रावा॑णो॒ दन्ता॒ , मुख॑माहव॒नीयो॒ , नासि॑कोत्तरवे॒दिर् उ॒दरँ॒ सदः॑ ।
य॒दा खलु॒ वै जि॒ह्वया॑ द॒त्स्वधि॒ खाद॒त्यथ॒ मुख॑ङ् गच्छति । य॒दा मुख॒ङ् गच्छ॒त्यथो॒दर॑ङ् गच्छति ।
तस्मा॑द्धवि॒र्धाने॒ चर्म॒न्नधि॒ ग्राव॑भिरभि॒षुत्य् - आ॑हव॒नीये॑ हु॒त्वा प्र॒त्यञ्च॑ᳶ प॒रेत्य॒ सद॑सि भक्षयन्ति ।
मूलम्
शिरो॒ वा ए॒तद् य॒ज्ञस्य॒ यद्ध॑वि॒र्धान॑म् ।[58]
प्रा॒णा उ॑पर॒वाः ।
हनू॑ अधि॒षव॑णे , जि॒ह्वा चर्म॒ , ग्रावा॑णो॒ दन्ता॒ , मुख॑माहव॒नीयो॒ , नासि॑कोत्तरवे॒दिर् उ॒दरँ॒ सदः॑ ।
य॒दा खलु॒ वै जि॒ह्वया॑ द॒त्स्वधि॒ खाद॒त्यथ॒ मुख॑ङ् गच्छति । य॒दा मुख॒ङ् गच्छ॒त्यथो॒दर॑ङ् गच्छति ।
तस्मा॑द्धवि॒र्धाने॒ चर्म॒न्नधि॒ ग्राव॑भिरभि॒षुत्य् - आ॑हव॒नीये॑ हु॒त्वा प्र॒त्यञ्च॑ᳶ प॒रेत्य॒ सद॑सि भक्षयन्ति ।
पद-पाठः
शिरः॑ । वै । ए॒तत् । य॒ज्ञस्य॑ । यत् । ह॒वि॒र्धान॒मिति॑ हविः-धान॑म् । [58] प्रा॒णा इति॑ प्र-अ॒नाः । उ॒प॒र॒वा इत्यु॑प-र॒वाः ।
हनू॒ इति॑ । अ॒धि॒षव॑णे॒ इत्य॑धि-सव॑ने । जि॒ह्वा । चर्म॑ । ग्रावा॑णः । दन्ताः॑ । मुख॑म् । आ॒ह॒व॒नीय॒ इत्या॑-ह॒व॒नीयः॑ । नासि॑का । उ॒त्त॒र॒वे॒दिरित्यु॑त्तर-वे॒दिः । उ॒दर॑म् । सदः॑ ।
य॒दा । खलु॑ । वै । जि॒ह्वया॑ । द॒त्स्विति॑ दत्-सु । अधीति॑ । खाद॑ति । अथ॑ । मुख॑म् । ग॒च्छ॒ति॒ ।
य॒दा । मुख॑म् । गच्छ॑ति । अथ॑ । उ॒दर॑म् । ग॒च्छ॒ति॒ ।
तस्मा॑त् । ह॒वि॒र्धान॒ इति॑ हविः-धाने॑ । चर्म॑न् । अधीति॑ । ग्राव॑भि॒रिति॒ ग्राव॑-भिः॒ । अ॒भि॒षुत्येत्य॑भि-सुत्य॑ । आ॒ह॒व॒नीय॒ इत्या॑-ह॒व॒नीये॑ । हु॒त्वा । प्र॒त्यञ्चः॑ । प॒रेत्येति॑ परा-इत्य॑ । सद॑सि । भ॒क्ष॒य॒न्ति॒ ।
भट्टभास्कर-टीका
11शिर इत्यादि रूपकम् ॥ शिर इव भवति हविर्धानं यज्ञात्मनः पुरुषस्य प्राधान्यान् तत्राधस्तना उपरवास्तस्य प्राणपदव्यां वर्तन्ते तत्सकाशस्थिते अधिषवणफलके तस्य हनुसंकाशे दृश्येते, विधारकत्वात् । तत्रास्तीर्णं चर्म तस्य जिह्वेव भाति, कुट्टनाद्याधारकत्वात् । तत्र निषण्णा ग्रावाणः तस्य दन्ता इव राजन्ते, कुट्टनादिकारकत्वात् । तस्य मुखं आस्यमिवाहवनीयोग्निः प्रकाशते, हविषामदनीयानां प्रक्षेपात् । तस्य नासिकेव उत्तरवेदिः उत्तरनाभिरिवभाति, हविर्गन्धना[र्गन्धा]देस्तत्र व्यक्तीकरणात् । तस्योदरमिव सदस्सन्दृश्यते, तत्र सर्वभक्षाणां सन्निधानात् । इदं स्पष्टतरं प्रदर्शयितुं लौकिकभोक्तरि तावद्दशर्यति - यदा खलु वा इति । यदा खलु जिह्वया दत्सु दन्तेषु अधिखादति अधि उपरि क्रियते अभ्यवहार्यं अथ पुरुषः खादति, अथानन्तरं मुखं गच्छति यदा मुखं गच्छति अथ तदानीमेव तदुदरं गच्छति । एतद्यज्ञपुरुषे योजयति - तस्मादिति । एतेनैव क्रमेण शिरस्थानीये हविर्धाने जिह्वास्थानीये चर्मणि दन्तस्थानीयैर्ग्रावभिः अभिषुत्याहवनीये आस्यस्थानीये हुत्वा प्रक्षिप्य प्रत्यञ्चः परेत्य उदरस्थानीये सदसि भक्षयन्ति भक्षणमाचरन्ति ऋत्विजः । एवमृत्विग्भक्षणान्तो यज्ञपुरुषव्यापारो रूप्यते । अन्य आहुः - आस्यस्थमिये प्रक्षिप्तस्य उदरं प्रविष्टस्य पुनश्चर्वणस्थानीयं भक्षणं तदभिनयमृत्विजः कुर्युरिति ॥
मूलम् (संयुक्तम्)
यो वै वि॒राजो॑ यज्ञमु॒खे दोहव्ँ॒वेद॑ दु॒ह ए॒वैना॑मि॒यव्ँ वै वि॒राट्
विश्वास-प्रस्तुतिः
यो वै वि॒राजो॑ यज्ञमु॒खे दोहव्ँ॒ वेद॑ । दु॒ह ए॒वैना॑म् । इ॒यव्ँ वै वि॒राट् ।
मूलम्
यो वै वि॒राजो॑ यज्ञमु॒खे दोहव्ँ॒ वेद॑ । दु॒ह ए॒वैना॑म् । इ॒यव्ँ वै वि॒राट् ।
पद-पाठः
यः । वै । वि॒राज॒ इति॑ वि-राजः॑ । य॒ज्ञ॒मु॒ख इति॑ यज्ञ-मु॒खे । दोह॑म् । वेद॑ ।
दु॒हे । ए॒व । ए॒ना॒म् ।
इ॒यम् । वै । वि॒राडिति॑ वि-राट् ।
भट्टभास्कर-टीका
12एवमिदं विधीयते - यो वै विराज इत्यादि ॥ शिर आदिरूपकान्तं यज्ञमुखे यज्ञारम्भे यो विराजो यज्ञैर्दोहं वेद एनां विराजं दुहे दुग्धे उपक्रम एव तस्या ज्ञानत् तां दोग्धुं प्रभवतीति । विराजोन्नस्य हेतुत्वादियं विराट् । यद्वा - इयं विराट्संख्या संपद्यते, नवतिशतस्तोत्रीयत्वात् । तस्माद्वा इयं यज्ञभूत्यै धेनुर्विराडित्युच्यते ॥
मूलम् (संयुक्तम्)
तस्यै॒ त्वक्चर्मोधो॑ऽधि॒षव॑णे॒ स्तना॑ उपर॒वा ग्रावा॑णो व॒त्सा ऋ॒त्विजो॑ दुहन्ति॒ सोम॒ᳶ पयो॒ य ए॒वव्ँ वेद॑ दु॒ह ए॒वैना॑म् ॥ [59]
विश्वास-प्रस्तुतिः
तस्यै॒ त्वक् चर्मोधो॑ऽधि॒षव॑णे॒ स्तना॑ उपर॒वा ग्रावा॑णो व॒त्सा ऋ॒त्विजो॑ दुहन्ति॒ सोम॒ᳶ पयः॑ ।
य ए॒वव्ँ वेद॑ दु॒ह ए॒वैना॑म् ॥ [59]
मूलम्
तस्यै॒ त्वक् चर्मोधो॑ऽधि॒षव॑णे॒ स्तना॑ उपर॒वा ग्रावा॑णो व॒त्सा ऋ॒त्विजो॑ दुहन्ति॒ सोम॒ᳶ पयः॑ ।
य ए॒वव्ँ वेद॑ दु॒ह ए॒वैना॑म् ॥ [59]
पद-पाठः
तस्यै॑ । त्वक् । चर्म॑ । ऊधः॑ । अ॒धि॒षव॑णे॒ इत्य॑धि-सव॑ने । स्तनाः॑ । उ॒प॒र॒वा इत्यु॑प-र॒वाः । ग्रावा॑णः । व॒त्साः । ऋ॒त्विजः॑ । दु॒ह॒न्ति॒ । सोमः॑ । पयः॑ ।
यः । ए॒वम् । वेद॑ । दु॒हे । ए॒व । ए॒ना॒म् ॥ [59]
भट्टभास्कर-टीका
13इदानीं तां रूपद्वयीमवगमयति - यावदेव यजनभूमीषु विराट् धेनुस्थानीया तस्यै तस्याः त्वक्स्थानीयं चर्म त्वगिति पय आवपनमुच्यते । ऊधः आपीनभारः । तत्स्थानीये अधिषवणे त्वचोभावात्, स्तनस्थानीया उपरवाः प्रस्नवनवत्त्वात् । वत्सस्थानीया ग्रावाणः रसनिष्कासनहेतोः उपजनस्य कारणत्वात् । ऋत्विजो दुहन्ति विविधमन्त्रप्रयोगिणः ऋत्विजः दोग्धृस्थानीया भवन्ति । सोमः पयस्स्थानीयः । य एवमेनां यज्ञधेनुं वेद सोपि तां दुहे दुग्धे । ‘लोपस्त आत्मनेपदेषु’ इति तलोपः । यद्वृत्तयोगात्प्रथममाख्यातं न निहन्यते, द्वितीयं तु तिङः परत्वाद्वाक्यादित्वाद्वा ॥
इति भट्टभास्करमिश्रविरचिते ज्ञानयज्ञाख्ये यजुर्वेदभाष्ये षष्ठे काण्डे द्वितीयप्रश्ने एकादशोनुवाकः ॥ प्रश्नश्च समाप्तः ॥