१० सदो निर्माणम् ...{Loading}...
सोमऋषिः
मूलम् (संयुक्तम्)
दे॒वस्य॑ त्वा सवि॒तुᳶ प्र॑स॒व इत्यभ्रि॒मा द॑त्ते॒ प्रसू॑त्या अ॒श्विनो॑र्बा॒हुभ्या॒मित्या॑हा॒श्विनौ॒ हि दे॒वाना॑मध्व॒र्यू आस्ता॑म्पू॒ष्णो हस्ता॑भ्या॒मित्या॑ह॒ यत्यै॒ वज्र॑ इव॒ वा ए॒षा यदभ्रि॒रभ्रि॑रसि॒ नारि॑र॒सीत्या॑ह॒ शान्त्यै॒
विश्वास-प्रस्तुतिः
दे॒वस्य॑ त्वा सवि॒तुᳶ प्र॑स॒व इत्यभ्रि॒मा द॑त्ते॒ प्रसू॑त्यै ।
अ॒श्विनो॑र् बा॒हुभ्या॒मित्या॑ह ।
अ॒श्विनौ॒ हि दे॒वाना॑मध्व॒र्यू आस्ता॑म् ।
पू॒ष्णो हस्ता॑भ्या॒मित्या॑ह॒ , यत्यै॑ ।
वज्र॑ इव॒ वा ए॒षा यदभ्रि॒रभ्रि॑रसि॒ नारि॑र॒सीत्या॑ह॒ , शान्त्यै॑ ।
मूलम्
दे॒वस्य॑ त्वा सवि॒तुᳶ प्र॑स॒व इत्यभ्रि॒मा द॑त्ते॒ प्रसू॑त्यै ।
अ॒श्विनो॑र् बा॒हुभ्या॒मित्या॑ह ।
अ॒श्विनौ॒ हि दे॒वाना॑मध्व॒र्यू आस्ता॑म् ।
पू॒ष्णो हस्ता॑भ्या॒मित्या॑ह॒ , यत्यै॑ ।
वज्र॑ इव॒ वा ए॒षा यदभ्रि॒रभ्रि॑रसि॒ नारि॑र॒सीत्या॑ह॒ , शान्त्यै॑ ।
पद-पाठः
दे॒वस्य॑ । त्वा॒ । स॒वि॒तुः । प्र॒स॒व इति॑ प्र-स॒वे । इति॑ । अभ्रि॑म् । एति॑ । द॒त्ते॒ । प्रसू॑त्या॒ इति॒ प्र-सू॒त्यै॒ ।
अ॒श्विनोः॑ । बा॒हुभ्या॒मिति॑ बा॒हु-भ्या॒म् । इति॑ । आ॒ह॒ ।
अ॒श्विनौ॑ । हि । दे॒वाना॑म् । अ॒ध्व॒र्यू इति॑ । आस्ता॑म् ।
पू॒ष्णः । हस्ता॑भ्याम् । इति॑ । आ॒ह॒ । यत्यै॑ ।
वज्रः॑ । इ॒व॒ । वै । ए॒षा । यत् । अभ्रिः॑ । अभ्रिः॑ । अ॒सि॒ । नारिः॑ । अ॒सि॒ । इति॑ । आ॒ह॒ । शान्त्यै॑ ।
भट्टभास्कर-टीका
1देवस्य त्वेत्यादिविधिः ॥ खनित्रमभ्रिं औदुम्बर्यवटपरिलेखनार्थमादत्ते अनेन सावित्रेण मन्त्रेण । तत्प्रसूत्यै सवितुर्देवस्यानुज्ञानाय भवति । ‘तादौ च’ इति गतेः प्रकृतिस्वरत्वम् । अश्विनोरित्यादि । गतम् । यत्यै नियतत्वाय तद्भवति । आयुधत्वाद्वज्रतुल्या अभ्रिः । शान्त्या इति । अपां भरणात् ‘बिभर्तेरन् रिश्च’ इति वचनात् स्त्रीत्वेन चाभ्रीणां शान्तिर्भवति ॥
मूलम् (संयुक्तम्)
काण्डे॑काण्डे॒ वै क्रि॒यमा॑णे य॒ज्ञँ रक्षाँ॑सि जिघाँसन्ति॒ परि॑लिखितँ॒ रक्ष॒ᳶ परि॑लिखिता॒ अरा॑तय॒ इत्या॑ह॒ रक्ष॑सा॒मप॑हत्यै [49]
इ॒दम॒हँ रक्ष॑सो ग्री॒वा अपि॑ कृन्तामि॒ यो॑ऽस्मान्द्वेष्टि॒ यञ्च॑ व॒यन्द्वि॒ष्म इत्या॑ह॒ द्वौ वाव पुरु॑षौ॒ यञ्चै॒व द्वेष्टि॒ यश्चै॑न॒न्द्वेष्टि॒ तयो॑रे॒वान॑न्तरायङ्ग्री॒वाᳵ कृ॑न्तति
विश्वास-प्रस्तुतिः
काण्डे॑काण्डे॒ वै क्रि॒यमा॑णे य॒ज्ञँ रक्षाँ॑सि जिघाँसन्ति॒
मूलम्
काण्डे॑काण्डे॒ वै क्रि॒यमा॑णे य॒ज्ञँ रक्षाँ॑सि जिघाँसन्ति॒
पद-पाठः
काण्डे॑काण्ड॒ इति॒ काण्डे॑-का॒ण्डे॒ । वै । क्रि॒यमा॑णे । य॒ज्ञम् । रक्षाँ॑सि । जि॒घाँ॒स॒न्ति॒ ।
भट्टभास्कर-टीका
2काण्डेकाण्ड इत्यादि ॥ व्याख्यातम् ।
+++(सम्पादकटिप्पनी - षष्ठे काण्डे - प्रथमे प्रपाठके)+++
- काण्डे॑काण्डे॒ वै क्रि॒यमा॑णे य॒ज्ञँ रक्षाँ॑सि जिघाँसन्ति ।
परि॑लिखितँ॒ रक्ष॒ᳶ परि॑लिखिता॒ अरा॑तय॒ इत्या॑ह । रक्ष॑सा॒मप॑हत्यै ।[56]
“इ॒दम॒हँ रक्ष॑सो ग्री॒वा अपि॑ कृन्तामि॒ , यो॑ऽस्मान् द्वेष्टि॒ यञ्च॑ व॒यन् द्वि॒ष्म” इत्या॑ह ।
भट्टभास्कर-टीका
7काण्डेकाण्ड इति ॥ व्याख्यातम् ।
- [तदभिप्रायमाह - काण्डेकाण्डे इति ॥ काण्डं पर्व अवयव इति पर्यायाः । सर्वस्मिन् यज्ञावयवे क्रियमाणे आरभ्यमाणे यज्ञं रक्षांसि हन्तुमिच्छन्ति ।
पदपरिलेखनेन रक्षःप्रभृतेः परितो नाशितत्वात् एतद्वचनं रक्षसामपहत्यै भवति । पूर्ववद्गतेः प्रकृतिस्वरत्वम् ॥]
विश्वास-प्रस्तुतिः
परि॑लिखितँ॒ रक्ष॒ᳶ परि॑लिखिता॒ अरा॑तय॒ इत्या॑ह॒ रक्ष॑सा॒मप॑हत्यै ।[49]
मूलम्
परि॑लिखितँ॒ रक्ष॒ᳶ परि॑लिखिता॒ अरा॑तय॒ इत्या॑ह॒ रक्ष॑सा॒मप॑हत्यै ।[49]
पद-पाठः
परि॑लिखित॒मिति॒ परि॑-लि॒खि॒त॒म् । रक्षः॑ । परि॑लिखिता॒ इति॒ परि॑-लि॒खि॒ताः॒ । अरा॑तयः । इति॑ । आ॒ह॒ । रक्ष॑साम् । अप॑हत्या॒ इत्यप॑-ह॒त्यै॒ । [49]
भट्टभास्कर-टीका
परिलिखितमित्यादि । रक्षसामपहत्यै भवति । पूर्ववद्गतेः प्रकतिस्वरत्वम् ॥
विश्वास-प्रस्तुतिः
इ॒दम॒हँ रक्ष॑सो ग्री॒वा अपि॑ कृन्तामि॒, यो॑ऽस्मान्द्वेष्टि॒ यञ्च॑ व॒यन् द्वि॒ष्म इत्या॑ह॒
द्वौ वाव पुरु॑षौ॒ यञ्चै॒व द्वेष्टि॒ यश्चै॑न॒न्द्वेष्टि॒ , तयो॑रे॒वान॑न्तरायङ्ग्री॒वाᳵ कृ॑न्तति ।
मूलम्
इ॒दम॒हँ रक्ष॑सो ग्री॒वा अपि॑ कृन्तामि॒, यो॑ऽस्मान्द्वेष्टि॒ यञ्च॑ व॒यन् द्वि॒ष्म इत्या॑ह॒
द्वौ वाव पुरु॑षौ॒ यञ्चै॒व द्वेष्टि॒ यश्चै॑न॒न्द्वेष्टि॒ , तयो॑रे॒वान॑न्तरायङ्ग्री॒वाᳵ कृ॑न्तति ।
पद-पाठः
इ॒दम् । अ॒हम् । रक्ष॑सः । ग्री॒वाः । अपीति॑ । कृ॒न्ता॒मि॒ । यः । अ॒स्मान् । द्वेष्टि॑ । यम् । च॒ । व॒यम् । द्वि॒ष्मः । इति॑ । आ॒ह॒ । द्वौ । वाव । पुरु॑षौ । यम् । च॒ । ए॒व । द्वेष्टि॑ । यः । च॒ । ए॒न॒म् । द्वेष्टि॑ । तयोः॑ । ए॒व । अन॑न्तराय॒मित्यन॑न्तः-आ॒य॒म् । ग्री॒वाः । कृ॒न्त॒ति॒ ।
भट्टभास्कर-टीका
इदमहमित्यादि ॥ व्याख्यातम् । +++(सम्पादकटिप्पनी - प्रथमे काण्डे , द्वितीये प्रपाठके ।)+++ अनन्तरायं अव्यवधानेन ग्रीवाश्छिनत्ति ॥
मूलम् (संयुक्तम्)
- परि॑लिखितँ॒ रक्ष॒ᳶ परि॑लिखिता॒ अरा॑तय इ॒दम॒हँ रक्ष॑सो ग्री॒वा अपि॑ कृन्तामि॒ यो॑ऽस्मान्द्वेष्टि॒ यञ्च॑ व॒यन्द्वि॒ष्म इ॒दम॑स्य ग्री॒वाः [11] अपि॑ कृन्तामि
भट्टभास्कर-टीका
9पदं परिलिखति - परिलिखितमिति ॥ परिलिखितं परितो नाशितं रक्षोस्तु यदत्र छिद्रान्वेषि । 'गतिरनन्तरः' इति पूर्वपदप्रकृतिस्वरत्वम् । किच्च अरातयो धनस्यादातारः शत्रवः । वहुळवचनात्कर्तरि क्तिन् । अव्ययपूर्वपदप्रकृतिस्वरत्वम् । तेपि परिलिखितास्सन्तु अनेन पदविलेखनेन ।कथमित्याह - यदेतत्परिलिखामि इदं खल्वहं रक्षसः ग्रीवा अपिकृन्तामि यथेष्टं कृन्तामि छिनद्मि । अपिशब्दः कामचारं द्योतयति । ग्रीवाशब्दो धमनिवचनः, तासां बहुत्वाद्बहुवचनं, यथा ‘ग्रीवाभ्योण्च` इति । कृती छेदने, ‘शेमुचादीनाम्’ इति नुम् ।
तथा योऽस्मान् द्वेष्टि यं च वयं द्विष्मः तस्य द्वेष्टुः द्वेष्यस्य शत्रोः ग्रीवाः इदमपि कृन्तामि यदेतत्परिलिखामि । ‘द्वौ वाव पुरुषौ’ इत्यादि ब्राह्मणम् । इदमिति क्रियाविषेणत्वान्नपुंसकत्वम् ॥
मूलम् (संयुक्तम्)
दि॒वे त्वा॒न्तरि॑क्षाय त्वा पृथि॒व्यै त्वेत्या॑है॒भ्य ए॒वैनाल्ँ॑ लो॒केभ्य॒ᳶ प्रोक्ष॑ति प॒रस्ता॑द॒र्वाची॒म्प्रोक्ष॑ति॒ तस्मा॑त् [50]
प॒रस्ता॑द॒र्वाची॑म्मनु॒ष्या॑ ऊर्ज॒मुप॑ जीवन्ति
विश्वास-प्रस्तुतिः
दि॒वे त्वा॒ , ऽन्तरि॑क्षाय त्वा , पृथि॒व्यै त्वेत्या॑ह - ए॒भ्य ए॒वैनाल्ँ॑ लो॒केभ्य॒ᳶ प्रोक्ष॑ति ।
प॒रस्ता॑द॒र्वाची॒म् प्रोक्ष॑ति ।
तस्मा॑त् प॒रस्ता॑द् अ॒र्वाची॑म् मनु॒ष्या॑ ऊर्ज॒मुप॑ जीवन्ति ।[50]
मूलम्
दि॒वे त्वा॒ , ऽन्तरि॑क्षाय त्वा , पृथि॒व्यै त्वेत्या॑ह - ए॒भ्य ए॒वैनाल्ँ॑ लो॒केभ्य॒ᳶ प्रोक्ष॑ति ।
प॒रस्ता॑द॒र्वाची॒म् प्रोक्ष॑ति ।
तस्मा॑त् प॒रस्ता॑द् अ॒र्वाची॑म् मनु॒ष्या॑ ऊर्ज॒मुप॑ जीवन्ति ।[50]
पद-पाठः
दि॒वे । त्वा॒ । अ॒न्तरि॑क्षाय । त्वा॒ । पृ॒थि॒व्यै । त्वा॒ । इति॑ । आ॒ह॒ । ए॒भ्यः । ए॒व । ए॒ना॒म् । लो॒केभ्यः॑ । प्रेति॑ । उ॒क्ष॒ति॒ ।
प॒रस्ता॑त् । अ॒र्वाची॑म् । प्रेति॑ । उ॒क्ष॒ति॒ । तस्मा॑त् । [50]
प॒रस्ता॑त् । अ॒र्वाची॑म् । म॒नु॒ष्याः॑ । ऊर्ज॑म् । उपेति॑ । जी॒व॒न्ति॒ ।
भट्टभास्कर-टीका
3दिव इत्यादि एभ्यः दिवादिलोकार्थं एनामौदुम्बरीं प्रोक्षति । परस्तादित्यादि । अग्रादारभ्य मूलात्प्रोक्षति । परशब्दादस्तातिः पञ्चम्याः । अर्वागञ्चतीति क्विनि नकाराकारयोर्लुप्तयोः ‘चौ’ इति पूर्वपदस्य दीर्घत्वम्, अन्तोदात्तत्वं च । ततस्स्वादग्रादारम्य यावन्मूलमन्नं भुञ्जते । यद्वा - परस्तात्प्रक्षिप्तां अर्वाचीमधोगच्छन्तीं मनुष्या भुञ्जते ॥
मूलम् (संयुक्तम्)
क्रू॒रमि॑व॒ वा ए॒तत्क॑रोति॒ यत्खन॑त्य॒पोऽव॑ नयति॒ शान्त्यै॒ यव॑मती॒रव॑ नय॒त्यूर्ग्वै यव॒ ऊर्गु॑दु॒म्बर॑ ऊ॒र्जैवोर्जँ॒ सम॑र्धयति॒
विश्वास-प्रस्तुतिः
क्रू॒रमि॑व॒ वा ए॒तत् क॑रोति॒ , यत् खन॑त्य॒पोऽव॑ नयति॒ , शान्त्यै॑ ।
यव॑मती॒रव॑ नय॒त्यूर्ग्वै यव॒ ऊर्गु॑दु॒म्बर॑ ऊ॒र्जैवोर्जँ॒ सम॑र्धयति ।
मूलम्
क्रू॒रमि॑व॒ वा ए॒तत् क॑रोति॒ , यत् खन॑त्य॒पोऽव॑ नयति॒ , शान्त्यै॑ ।
यव॑मती॒रव॑ नय॒त्यूर्ग्वै यव॒ ऊर्गु॑दु॒म्बर॑ ऊ॒र्जैवोर्जँ॒ सम॑र्धयति ।
पद-पाठः
क्रू॒रम् । इ॒व॒ । वै । ए॒तत् । क॒रो॒ति॒ । यत् । खन॑ति । अ॒पः । अवेति॑ । न॒य॒ति॒ । शान्त्यै॑ ।
यव॑मती॒रिति॒ यव॑-म॒तीः॒ । अवेति॑ । न॒य॒ति॒ । ऊर्क् । वै । यवः॑ । ऊर्क् । उ॒दु॒म्बरः॑ । ऊ॒र्जा । ए॒व । ऊर्ज॑म् । समिति॑ । अ॒र्ध॒य॒ति॒ ।
भट्टभास्कर-टीका
4क्रूरमिवेत्यादि ॥ गतम् । +++(समप्पादकटिप्पनी - विस्तृतव्याख्यानमन्यत्र मृग्यम्)+++ अवटेऽपोवनयनं शान्त्यै भवति । यवमतीरिति । उभयोरेतद्धेतुत्वादुभयोर्योगस्तत्समृद्ध्यै भवति ॥
मूलम् (संयुक्तम्)
यज॑मानेन॒ सम्मि॒तौदु॑म्बरी भवति॒ यावा॑ने॒व यज॑मान॒स्ताव॑तीमे॒वास्मि॒न्नूर्ज॑न्दधाति
विश्वास-प्रस्तुतिः
यज॑मानेन॒ सम्मि॒तौदु॑म्बरी भवति ।
यावा॑ने॒व यज॑मान॒स् ताव॑तीम् ए॒वास्मि॒न्न् ऊर्ज॑न्दधाति ।
मूलम्
यज॑मानेन॒ सम्मि॒तौदु॑म्बरी भवति ।
यावा॑ने॒व यज॑मान॒स् ताव॑तीम् ए॒वास्मि॒न्न् ऊर्ज॑न्दधाति ।
पद-पाठः
यज॑मानेन । सम्मि॒तेति॒ सम्-मि॒ता॒ । औदु॑म्बरी । भ॒व॒ति॒ । यावा॑न् । ए॒व । यज॑मानः । ताव॑तीम् । ए॒व । अ॒स्मि॒न् । ऊर्ज॑म् । द॒धा॒ति॒ ।
भट्टभास्कर-टीका
5यजमानेन संमितेति ॥ निखातादूर्ध्वमित्याहुः । औदुम्बरी उदुम्बरविकारा । अनुदात्तादेरञ् । यावानिति । यजमानमात्रमन्नमस्मिन्नेव यजमाने दधाति ॥
मूलम् (संयुक्तम्)
पितृ॒णाँ सद॑नम॒सीति॑ ब॒र्हिरव॑ स्तृणाति पितृदेव॒त्य॑म् [51]
ह्ये॑तद्यन्निखा॑तय्ँ॒यद्ब॒र्हिरन॑वस्तीर्य मिनु॒यात्पि॑तृदेव॒त्या॑ निखा॑ता स्याद्ब॒र्हिर॑व॒स्तीर्य॑ मिनोत्य॒स्यामे॒वैना॑म्मिनो॒त्यथो॑ स्वा॒रुह॑मे॒वैना॑ङ्करो॒त्य्
विश्वास-प्रस्तुतिः
पि॒तृ॒णाँ सद॑नम॒सीति॑ ब॒र्हिरव॑ स्तृणाति , पितृदेव॒त्यँ॑ ह्ये॑तद् यन् निखा॑तम् ।[51]
यद् ब॒र्हिरन॑वस्तीर्य मिनु॒यात् ,
पि॑तृदेव॒त्या॑ निखा॑ता स्यात् ।
ब॒र्हिर॑व॒स्तीर्य॑ मिनोत्य् अ॒स्यामे॒वैना॑म् मिनो॒ति ।
अथो॑ स्वा॒रुह॑म् ए॒वैना॑ङ् करो॒ति ।
मूलम्
पि॒तृ॒णाँ सद॑नम॒सीति॑ ब॒र्हिरव॑ स्तृणाति , पितृदेव॒त्यँ॑ ह्ये॑तद् यन् निखा॑तम् ।[51]
यद् ब॒र्हिरन॑वस्तीर्य मिनु॒यात् ,
पि॑तृदेव॒त्या॑ निखा॑ता स्यात् ।
ब॒र्हिर॑व॒स्तीर्य॑ मिनोत्य् अ॒स्यामे॒वैना॑म् मिनो॒ति ।
अथो॑ स्वा॒रुह॑म् ए॒वैना॑ङ् करो॒ति ।
पद-पाठः
पि॒तृ॒णाम् । सद॑नम् । अ॒सि॒ । इति॑ । ब॒र्हिः । अवेति॑ । स्तृ॒णा॒ति॒ । पि॒तृ॒दे॒व॒त्य॑मिति॑ पितृ-दे॒व॒त्य॑म् । [51] हि । ए॒तत् । यत् । निखा॑त॒मिति॒ नि-खा॒त॒म् ।
यत् । ब॒र्हिः । अन॑वस्ती॒र्येत्यन॑व-स्ती॒र्य॒ । मि॒नु॒यात् ।
पि॒तृ॒दे॒व॒त्येति॑ पितृ-दे॒व॒त्या॑ । निखा॒तेति॒ नि-खा॒ता॒ । स्या॒त् ।
ब॒र्हिः । अ॒व॒स्तीर्येत्य॑व-स्तीर्य॑ । मि॒नो॒ति॒ । अ॒स्याम् । ए॒व । ए॒ना॒म् । मि॒नो॒ति॒ ।
अथो॒ इति॑ । स्वा॒रुह॒मिति॑ स्व-रुह॑म् । ए॒व । ए॒ना॒म् । क॒रो॒ति॒ ।
भट्टभास्कर-टीका
6पितृणामिति ॥ पितृदेवत्यं निखातं, मन्त्रलिङ्गात्, पितृणां निखातप्रदेशान्तरे दर्शनाच्च । देवतान्तात्तादर्थ्ये यत् । ‘तित्स्वरितम्’ इति स्वरितत्वम्, ‘उदात्तस्वरितयोर्यणः’ इति ततः पर एकारस्स्वर्यते । पूर्वत्र सांहितिको दीर्घः अध्ययनविकारः । निखातशब्दे ‘जनसनखनां’ इति आत्वम्, ‘गतिरनन्तरः’ इति गतेः प्रकृतिस्वरत्वम् । यदित्यादि । यद्यवटे वर्हिरनवस्तीर्य औदुम्बरीं मिनुयात् प्रक्षिपेत् उच्छ्रयेदिति यावत् । डुमिञ् प्रक्षेपणे । पितृदेवत्या पित्रर्थे उच्छ्रिता औदुम्बरी स्यात् सर्वाऽपि पित्रर्था स्यात् ‘पितृणां निखातं मनुष्याणामूर्ध्वं निखातात्’ इति विभागो न स्यात् । तस्माद्बर्हिरवस्तीर्य मिनोति अस्यां पृथिव्यामेव एनां मिनोति नावटे । गर्तश्च पितृदेवत्यः । अवटाद्व्यावृत्तेर्यथोक्तदोषाप्रसङ्गः । अथो अपिच स्वारुहं आत्मार्थमारोहितामेतां करोति न पित्रर्थमेव । स्वार्थं रोहन्ती स्वारुट्, सांहितिको दीर्घ: ॥
मूलम् (संयुक्तम्)
उद्दिवँ॑ स्तभा॒नान्तरि॑क्षम्पृ॒णेत्या॑है॒षाल्ँ लो॒कानाव्ँ॒विधृ॑त्यै
विश्वास-प्रस्तुतिः
उद्दिवँ॑ स्तभा॒नान्तरि॑क्षम् पृ॒णेत्या॑ह । ए॒षाल्ँ लो॒कानाव्ँ॒ विधृ॑त्यै ।
मूलम्
उद्दिवँ॑ स्तभा॒नान्तरि॑क्षम् पृ॒णेत्या॑ह । ए॒षाल्ँ लो॒कानाव्ँ॒ विधृ॑त्यै ।
पद-पाठः
उदिति॑ । दिव॑म् । स्त॒भा॒न॒ । एति॑ । अ॒न्तरि॑क्षम् । पृ॒ण॒ । इति॑ । आ॒ह॒ ।
ए॒षाम् । लो॒काना॑म् । विधृ॑त्या॒ इति॒ वि-धृ॒त्यै॒ ।
भट्टभास्कर-टीका
7उद्दिवमिति ॥ एषां त्रयाणां लोकानां विधारणाय भवति । ‘तादौ च’ इति गतेः प्रकृतिस्वरत्वम् ॥
मूलम् (संयुक्तम्)
द्युता॒नस्त्वा॑ मारु॒तो मि॑नो॒त्वित्या॑ह द्युता॒नो ह॑ स्म॒ वै मा॑रु॒तो दे॒वाना॒मौदु॑म्बरीम्मिनोति॒ तेनै॒व [52]
ए॒ना॒म्मि॒नो॒ति॒
विश्वास-प्रस्तुतिः
द्यु॒ता॒नस् त्वा॑ मारु॒तो मि॑नो॒त्वित्या॑ह । द्यु॒ता॒नो ह॑ स्म॒ वै मा॑रु॒तो दे॒वाना॒म् - औदु॑म्बरीम् मिनोति । तेन + ए॒वैना॑म् मिनोति । [52]
मूलम्
द्यु॒ता॒नस् त्वा॑ मारु॒तो मि॑नो॒त्वित्या॑ह । द्यु॒ता॒नो ह॑ स्म॒ वै मा॑रु॒तो दे॒वाना॒म् - औदु॑म्बरीम् मिनोति । तेन + ए॒वैना॑म् मिनोति । [52]
पद-पाठः
द्यु॒ता॒नः । त्वा॒ । मा॒रु॒तः । मि॒नो॒तु॒ । इति॑ । आ॒ह॒ ।
द्यु॒ता॒नः । ह॒ । स्म॒ । वै । मा॒रु॒तः । दे॒वाना॑म् । औदु॑म्बरीम् । मि॒नो॒ति॒ ।
तेन॑ । ए॒व । [52] ए॒ना॒म् । मि॒नो॒ति॒ ।
भट्टभास्कर-टीका
8द्युतान इति ॥ द्युताननामा मारुतः देवानामौदुम्बरीं मिनोति अमिनोत् । मिनोतेर्व्यत्ययेन लट् । तेनैवैनां मिनोति । मापयति वा तेन सहायेन सह विमिनोति ॥
मूलम् (संयुक्तम्)
ब्र॒ह्म॒वनि॑न्त्वा क्षत्र॒वनि॒मित्या॑ह यथाय॒जुरे॒वैतद्घृ॒तेन॑ द्यावापृथिवी॒ आ पृ॑णेथा॒मित्यौदु॑म्बर्याञ्जुहोति॒ द्यावा॑पृथि॒वी ए॒व रसे॑नानक्त्य्
विश्वास-प्रस्तुतिः
ब्र॒ह्म॒वनि॑न् त्वा क्षत्र॒वनि॒मित्या॑ह , यथाय॒जुर् ए॒वैतत् ।
घृ॒तेन॑ द्यावापृथिवी॒ आ पृ॑णेथा॒मित्यौदु॑म्बर्याञ् जुहोति॒ , द्यावा॑पृथि॒वी ए॒व रसे॑नानक्ति ।
मूलम्
ब्र॒ह्म॒वनि॑न् त्वा क्षत्र॒वनि॒मित्या॑ह , यथाय॒जुर् ए॒वैतत् ।
घृ॒तेन॑ द्यावापृथिवी॒ आ पृ॑णेथा॒मित्यौदु॑म्बर्याञ् जुहोति॒ , द्यावा॑पृथि॒वी ए॒व रसे॑नानक्ति ।
पद-पाठः
ब्र॒ह्म॒वनि॒मिति॑ ब्रह्म-वनि॑म् । त्वा॒ । क्ष॒त्र॒वनि॒मिति॑ क्षत्र-वनि॑म् । इति॑ । आ॒ह॒ । य॒था॒य॒जुरिति॑ यथा-य॒जुः । ए॒व । ए॒तत् ।
घृ॒तेन॑ । द्या॒वा॒पृ॒थि॒वी॒ इति॑ द्यावा-पृ॒थि॒वी॒ । एति॑ । पृ॒णे॒था॒म् । इति॑ । औदु॑म्बर्याम् । जु॒हो॒ति॒ । द्यावा॑पृथि॒वी इति॒ द्यावा॑-पृ॒थि॒वी । ए॒व । रसे॑न । अ॒न॒क्ति॒ ।
भट्टभास्कर-टीका
9ब्रह्मवनिमित्यादि ॥ पुरीषेण पर्यूहनम् । त्वं ब्रह्मवननादिसिद्धिः । यथायजुस्तत्फलत्येव । घृतेनेति । द्यावापृथिव्यौ सारवत्यौ करोति । ‘वा छन्दसि’ इति पूर्वसवर्णदीर्घत्वम्, ‘देवताद्वन्द्रे च’ इति पूर्वोत्तरपदयोर्युगपत्प्रकृतिस्वरत्वम् ॥
मूलम् (संयुक्तम्)
आ॒न्तम॒न्वव॑स्रावयत्या॒न्तमे॒व यज॑मान॒न्तेज॑साऽनक्त्य्
विश्वास-प्रस्तुतिः
आ॒न्तम् अ॒न्वव॑स्रावयत्य् - आ॒न्तमे॒व यज॑मान॒न् तेज॑सा ऽनक्ति ।
मूलम्
आ॒न्तम् अ॒न्वव॑स्रावयत्य् - आ॒न्तमे॒व यज॑मान॒न् तेज॑सा ऽनक्ति ।
पद-पाठः
आ॒न्तमित्या॑-अ॒न्तम् । अ॒न्वव॑स्रावय॒तीत्य॑नु-अव॑स्रावयति । आ॒न्तमित्या॑-अ॒न्तम् । ए॒व । यज॑मानम् । तेज॑सा । अ॒न॒क्ति॒ ।
भट्टभास्कर-टीका
10आन्तमिति ॥ आमूलं यजमानमप्यान्तं यूपात् अतस्तेजसाऽनक्ति प्रकाशयति ॥
मूलम् (संयुक्तम्)
ऐ॒न्द्रम॒सीति॑ छ॒दिरधि॒ नि द॑धात्यै॒न्द्रँ हि दे॒वत॑या॒ सदो॑
विश्वास-प्रस्तुतिः
ऐ॒न्द्रम् अ॒सीति॑ छ॒दिरधि॒ नि द॑धात्य् , ऐ॒न्द्रँ हि दे॒वत॑या॒ सदः॑ ।
मूलम्
ऐ॒न्द्रम् अ॒सीति॑ छ॒दिरधि॒ नि द॑धात्य् , ऐ॒न्द्रँ हि दे॒वत॑या॒ सदः॑ ।
पद-पाठः
ऐ॒न्द्रम् । अ॒सि॒ । इति॑ । छ॒दिः । अधि॑ । नीति॑ । द॒धा॒ति॒ । ऐ॒न्द्रम् । हि । दे॒वत॑या । सदः॑ ।
भट्टभास्कर-टीका
11ऐन्द्रमिति ॥ देवतातद्धितग्रहणात् ‘इन्द्रस्य सदः’ हति मन्त्रगता षष्ठी व्याख्यायत इत्येके । शाखान्तरीयं पदं ब्राह्मणं दर्शयतीत्यन्ये । छदिरधि निदधाति छादनार्थं कटमुपरि निदधाति । देवतासम्बन्धेन हि सद ऐन्द्रम् । तस्मादिन्द्रस्य सदः सदनमित्युच्यते इन्द्रस्य प्राधान्यात् ॥
मूलम् (संयुक्तम्)
विश्वज॒नस्य॑ छा॒येत्या॑ह विश्वज॒नस्य॒ ह्ये॑षा छा॒या यत्सदो॒
विश्वास-प्रस्तुतिः
वि॒श्व॒ज॒नस्य॑ छा॒येत्या॑ह । वि॒श्व॒ज॒नस्य॒ ह्ये॑षा छा॒या यत् सदः॑ ।
मूलम्
वि॒श्व॒ज॒नस्य॑ छा॒येत्या॑ह । वि॒श्व॒ज॒नस्य॒ ह्ये॑षा छा॒या यत् सदः॑ ।
पद-पाठः
वि॒श्व॒ज॒नस्येति॑ विश्व-ज॒नस्य॑ । छा॒या । इति॑ । आ॒ह॒ ।
वि॒श्व॒ज॒नस्येति॑ विश्व-ज॒नस्य॑ । हि । ए॒षा । छा॒या । यत् । सदः॑ ।
भट्टभास्कर-टीका
12विश्वजनस्येति ॥ विश्वयोः [पार्श्वयोः] छदिनिधानमन्त्रः । विश्वो जनो विश्वजनः । यो वा कश्चिदागतः तस्य सर्वस्यैषा छाया ग्रहणं यत्सदो नाम ॥
मूलम् (संयुक्तम्)
नव॑छदि [53]
तेज॑स्कामस्य मिनुयात्त्रि॒वृता॒ स्तोमे॑न॒ सम्मि॑त॒न्तेज॑स्त्रि॒वृत्ते॑ज॒स्व्ये॑व भ॑व॒त्येका॑दशछदीन्द्रि॒यका॑म॒स्य
विश्वास-प्रस्तुतिः
नव॑छदि तेज॑स्कामस्य मिनुयात् त्रि॒वृता॒ स्तोमे॑न॒ सम्मि॑त॒न् तेज॑स्त्रि॒वृत् ते॑ज॒स्व्ये॑व भ॑व॒ति ।[53]
मूलम्
नव॑छदि तेज॑स्कामस्य मिनुयात् त्रि॒वृता॒ स्तोमे॑न॒ सम्मि॑त॒न् तेज॑स्त्रि॒वृत् ते॑ज॒स्व्ये॑व भ॑व॒ति ।[53]
पद-पाठः
नव॑छ॒दीति॒ नव॑-छ॒दि॒ । [53]
तेज॑स्काम॒स्येति॒ तेजः॑-का॒म॒स्य॒ । मि॒नु॒या॒त् । त्रि॒वृतेति॑ त्रि-वृता॑ । स्तोमे॑न । सम्मि॑त॒मिति॒ सम्-मि॒त॒म् । तेजः॑ । त्रि॒वृदिति॑ त्रि-वृत् । ते॒ज॒स्वी । ए॒व । भ॒व॒ति॒ ।
भट्टभास्कर-टीका
13नवछदीत्याद्याः काम्याः ॥ विश्वजनाद्याः काम्याः । विश्वजनादित्वात्तुगभावः । ‘शीलिकामि’ इत्यादिना णः, पूर्वपदप्रकृतिस्वरत्वम्, ‘अतः कृकमि’ इति सत्वम् । त्रिवृतेति । तस्यापि नवस्तोत्रीयत्वान्नवत्वयोगेन तुल्यता । तेजस्त्रिवृदिति । तेजोहेतुत्वात्तेजसा सहोत्पन्नत्वाच्च, यथा - ‘तमग्निर्देवताऽन्वसृज्यत’ इति । तेजस्व्येव भवति यजमानः ॥
मूलम् (संयुक्तम्)
एका॑दशछदीन्द्रि॒यका॑मस्य ।
एका॑दशाक्षरा त्रि॒ष्टुगि॑न्द्रि॒यन्त्रि॒ष्टुगि॑न्द्रिया॒व्ये॑व भ॑वति॒ पञ्च॑दशछदि॒ भ्रातृ॑व्यवतᳶ
विश्वास-प्रस्तुतिः
एका॑दशछदीन्द्रि॒यका॑मस्य ।
एका॑दशाक्षरा त्रि॒ष्टुग् , इ॑न्द्रि॒यन् त्रि॒ष्टुग् , इ॑न्द्रिया॒व्ये॑व भ॑वति ।
मूलम्
एका॑दशछदीन्द्रि॒यका॑मस्य ।
एका॑दशाक्षरा त्रि॒ष्टुग् , इ॑न्द्रि॒यन् त्रि॒ष्टुग् , इ॑न्द्रिया॒व्ये॑व भ॑वति ।
पद-पाठः
एका॑दशछ॒दीत्येका॑दश-छ॒दि॒ । इ॒न्द्रि॒यका॑म॒स्येती॑न्द्रि॒य-का॒म॒स्य॒ ।
एका॑दशाक्ष॒रेत्येका॑दश-अ॒क्ष॒रा॒ । त्रि॒ष्टुक् । इ॒न्द्रि॒यम् । त्रि॒ष्टुक् । इ॒न्द्रि॒या॒वी । ए॒व । भ॒व॒ति॒ ।
भट्टभास्कर-टीका
14एकादशछदीति ॥ बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम्, तत्रापि ‘संख्या’ इति पूर्वपदप्रकृतिस्वरत्वम् । इन्द्रियं त्रिष्टुगिति । इन्द्रियहेतुत्वादिन्द्रियतुल्यत्वाद्वा इन्द्रियाणामप्येकादशत्वात् । इन्द्रियावी इन्द्रियवान् । ‘बहुलं छन्दसि’ इति विनिः, ‘मन्त्रे सोमाश्व’ इति दीर्घत्वं व्यत्ययेनामन्त्रेऽपि भवति ।
मूलम् (संयुक्तम्)
पञ्च॑दशछदि॒ भ्रातृ॑व्यवतᳶ पञ्चद॒शो वज्रो॒ भ्रातृ॑व्याभिभूत्यै
विश्वास-प्रस्तुतिः
पञ्च॑दशछदि॒ भ्रातृ॑व्यवतᳶ , पञ्चद॒शो वज्रो॒ भ्रातृ॑व्याभिभूत्यै।
मूलम्
पञ्च॑दशछदि॒ भ्रातृ॑व्यवतᳶ , पञ्चद॒शो वज्रो॒ भ्रातृ॑व्याभिभूत्यै।
पद-पाठः
पञ्च॑दशछ॒दीति॒ पञ्च॑दश-छ॒दि॒ । भ्रातृ॑व्यवत॒ इति॒ भ्रातृ॑व्य-व॒तः॒ । प॒ञ्च॒द॒श इति॑ पञ्च-द॒शः । वज्रः॑ । भ्रातृ॑व्याभिभूत्या॒ इति॒ भ्रातृ॑व्य-अ॒भि॒भू॒त्यै॒ ।
भट्टभास्कर-टीका
15पञ्चदशो वज्र इति ॥ वज्रतुल्यत्वात् वीर्यवत्वाद्वा । तस्माद्वीर्यावन्त इति । ‘स्तोमे डविधिः पञ्चदशाद्यर्थे’ इति डः, भ्रातृव्याभिभूत्यै । दासीभारादिः ॥
मूलम् (संयुक्तम्)
स॒प्तद॑शछदि प्र॒जाका॑मस्य सप्तद॒शᳶ प्र॒जाप॑तिᳶ , प्र॒जाप॑ते॒राप्त्या॒
विश्वास-प्रस्तुतिः
स॒प्तद॑शछदि प्र॒जाका॑मस्य , सप्तद॒शᳶ प्र॒जाप॑तिᳶ , प्र॒जाप॑ते॒राप्त्यै॑ ।
मूलम्
स॒प्तद॑शछदि प्र॒जाका॑मस्य , सप्तद॒शᳶ प्र॒जाप॑तिᳶ , प्र॒जाप॑ते॒राप्त्यै॑ ।
पद-पाठः
स॒प्तद॑शछ॒दीति॑ स॒प्तद॑श-छ॒दि॒ । प्र॒जाका॑म॒स्येति॑ प्र॒जा-का॒म॒स्य॒ । स॒प्त॒द॒श इति॑ सप्त-द॒शः । प्र॒जाप॑ति॒रिति॑ प्र॒जा-प॒तिः॒ । प्र॒जाप॑ते॒रिति॑ प्र॒जा-प॒तेः॒ । आप्त्यै॑ ।
भट्टभास्कर-टीका
16सप्तदशः प्रजापतिरिति ॥ ‘यो वे सप्तदशं प्रजापतिम्’ इत्यादिषु प्रसिद्धम् । प्रजापतेराख्या इति । तदाप्तौ हि प्रजास्सिध्यन्त्येवेति ॥
मूलम् (संयुक्तम्)
एक॑विँशतिछदि प्रति॒ष्ठाका॑मस्यैकविँ॒शस्स्तोमा॑नाम्प्रति॒ष्ठा प्रति॑ष्ठित्या
विश्वास-प्रस्तुतिः
एक॑विँशतिछदि प्रति॒ष्ठाका॑मस्य + ए॒क॒विँ॒शस् स्तोमा॑नाम् प्रति॒ष्ठा , प्रति॑ष्ठित्यै ।
मूलम्
एक॑विँशतिछदि प्रति॒ष्ठाका॑मस्य + ए॒क॒विँ॒शस् स्तोमा॑नाम् प्रति॒ष्ठा , प्रति॑ष्ठित्यै ।
पद-पाठः
एक॑विँशतिछ॒दीत्येक॑विँशति-छ॒दि॒ । प्र॒ति॒ष्ठाका॑म॒स्येति॑ प्रति॒ष्ठा-का॒म॒स्य॒ । ए॒क॒विँ॒श इत्ये॑क-विँ॒शः । स्तोमा॑नाम् । प्र॒ति॒ष्ठेति॑ प्रति-स्था । प्रति॑ष्ठित्या॒ इति॒ प्रति॑-स्थि॒त्यै॒ ।
भट्टभास्कर-टीका
17एकविंशस्स्तोमानां प्रतिष्ठेति ॥ त्रिवृदादीनां ज्योतिषां तत्रान्तर्भावात् प्रतिष्ठित्यै प्रतिष्ठार्थं भवति । ‘तादौ च’ इति गतेः प्रकृतिस्वरत्वम् ॥
मूलम् (संयुक्तम्)
उ॒दरव्ँ॒ वै सद॒ ऊर्गु॑दु॒म्बरो॑ मध्य॒त औदु॑म्बरीम्मिनोति मध्य॒त ए॒व प्र॒जाना॒मूर्ज॑न्दधाति॒ तस्मा॑त् [54]
म॒ध्य॒त ऊ॒र्जा भु॑ञ्जते
विश्वास-प्रस्तुतिः
उ॒दरव्ँ॒ वै सद॒ ऊर्गु॑दु॒म्बरो॑ मध्य॒त औदु॑म्बरीम् मिनोति ।
म॒ध्य॒त॒ ए॒व प्र॒जाना॒मूर्ज॑न् दधाति ।
तस्मा॑न् मध्य॒त ऊ॒र्जा भु॑ञ्जते ।[54]
पद-पाठः
उ॒दर॑म् । वै । सदः॑ । ऊर्क् । उ॒दु॒म्बरः॑ । म॒ध्य॒तः । औदु॑म्बरीम् । मि॒नो॒ति॒ ।
म॒ध्य॒तः । ए॒व । प्र॒जाना॒मिति॑ प्र-जाना॑म् । ऊर्ज॑म् । द॒धा॒ति॒ ।
तस्मा॑त् । [54] म॒ध्य॒तः । ऊ॒र्जा । भु॒ञ्ज॒ते॒ ।
मूलम्
उ॒दरव्ँ॒ वै सद॒ ऊर्गु॑दु॒म्बरो॑ मध्य॒त औदु॑म्बरीम् मिनोति ।
म॒ध्य॒त॒ ए॒व प्र॒जाना॒मूर्ज॑न् दधाति ।
तस्मा॑न् मध्य॒त ऊ॒र्जा भु॑ञ्जते ।[54]
भट्टभास्कर-टीका
18उदरस्थानीयं सदः, ऊर्गन्नं तत्स्थानीयः तद्धेतुत्वादुदुम्बरः । मध्यतः मध्ये । ‘आद्यादिभ्यस्तसिः’ । मिनोति प्रक्षिपति । तस्मान्मध्यतः मध्यमे उरसि [वयसि] ऊर्जा भुञ्जते भूयिष्ठेन प्रजास्सुखिता भवन्ति ॥
मूलम् (संयुक्तम्)
यजमानलो॒के वै दक्षि॑णानि छ॒दीँषि॑ भ्रातृव्यलो॒क उत्त॑राणि॒ दक्षि॑णा॒न्युत्त॑राणि करोति॒ यज॑मानमे॒वाय॑जमाना॒दुत्त॑रङ्करोति॒ तस्मा॒द्यज॑मा॒नोऽय॑जमाना॒दुत्त॑रो
विश्वास-प्रस्तुतिः
य॒ज॒मा॒न॒लो॒के वै दक्षि॑णानि छ॒दीँषि॑ भ्रातृव्यलो॒क उत्त॑राणि॒ दक्षि॑णा॒न्युत्त॑राणि करोति ।
यज॑मानमे॒वाय॑जमाना॒द् उत्त॑रङ् करोति॒ ।
तस्मा॒द् यज॑मा॒नोऽय॑जमाना॒दुत्त॑रः ।
मूलम्
य॒ज॒मा॒न॒लो॒के वै दक्षि॑णानि छ॒दीँषि॑ भ्रातृव्यलो॒क उत्त॑राणि॒ दक्षि॑णा॒न्युत्त॑राणि करोति ।
यज॑मानमे॒वाय॑जमाना॒द् उत्त॑रङ् करोति॒ ।
तस्मा॒द् यज॑मा॒नोऽय॑जमाना॒दुत्त॑रः ।
पद-पाठः
य॒ज॒मा॒न॒लो॒क इति॑ यजमान-लो॒के । वै । दक्षि॑णानि । छ॒दीँषि॑ । भ्रा॒तृ॒व्य॒लो॒क इति॑ भ्रातृव्य-लो॒के । उत्त॑रा॒णीत्युत्-त॒रा॒णि॒ । दक्षि॑णानि । उत्त॑रा॒णीत्युत्-त॒रा॒णि॒ । क॒रो॒ति॒ ।
यज॑मानम् । ए॒व । अय॑जमानात् । उत्त॑र॒मित्युत्-त॒र॒म् । क॒रो॒ति॒ ।
तस्मा॑त् । यज॑मानः । अय॑जमानात् । उत्त॑र॒ इत्युत्-त॒रः॒ ।
भट्टभास्कर-टीका
19यजमानलोक इत्यादि ॥ दक्षिणानीति । उत्तराणि स्युः उत्तारकाणि । दक्षिणानि उत्तराणि उद्गततराणि भवन्ति यथोदगग्राणि छदींषि दृश्यन्ते । एवं हि अयजमानाद्भातृव्यादुत्तरं उद्गततरं करोति । तस्मादित्यादि । गतम् । उच्छब्दात् ‘साधनक्रियावचने’ इत्यादिना तरप् ॥
मूलम् (संयुक्तम्)
ऽन्तर्व॒र्तान्क॑रोति॒ व्यावृ॑त्त्यै॒ तस्मा॒दर॑ण्यम्प्र॒जा उप॑ जीवन्ति॒
विश्वास-प्रस्तुतिः
अ॒न्त॒र्व॒र्तान् क॑रोति॒ व्यावृ॑त्त्यै ।
तस्मा॒दर॑ण्यम् प्र॒जा उप॑ जीवन्ति ।
मूलम्
अ॒न्त॒र्व॒र्तान् क॑रोति॒ व्यावृ॑त्त्यै ।
तस्मा॒दर॑ण्यम् प्र॒जा उप॑ जीवन्ति ।
पद-पाठः
अ॒न्त॒र्व॒र्तानित्य॑न्तः-व॒र्तान् । क॒रो॒ति॒ । व्यावृ॑त्त्या॒ इति॑ वि-आवृ॑त्त्यै ।
तस्मा॑त् । अर॑ण्यम् । प्र॒जा इति॑ प्र-जाः । उपेति॑ । जी॒व॒न्ति॒ ।
भट्टभास्कर-टीका
20अन्तर्वर्तानिति ॥ अन्तर्वर्तयन्तीत्यन्तर्वर्ताः, ‘अन्तरपरिग्रहे’ इति गतित्वं, पचाद्यचि थाथादिनोत्तरपदान्तोदात्तत्वम् । छदिरन्तर्धानाच्छादिततृणमूलान्युच्यन्ते । आरण्यकतृणकुला नामियं संज्ञेति केचित् । छदिच्छायमुपरि करोति अवस्तात्करोति । तद्व्यावृत्त्यै भवति । केभ्यः? ग्राम्येभ्यः छदिभ्य इति केचित् । अयजमानेभ्यो यजमानस्यैवेत्यन्ये । ग्राम्येभ्यस्तृणादिम्यः आरण्यानामित्यन्ये । तस्मादिति । यस्मादेव यजमानेनारण्यकोपजीवनं क्रियते तस्मादारण्यमपि प्रजा उपजीवन्ति ॥
मूलम् (संयुक्तम्)
परि॑ त्वा गिर्वणो॒ गिर॒ इत्या॑ह यथाय॒जुरे॒वैतद्
विश्वास-प्रस्तुतिः
“परि॑ त्वा गिर्वणो॒ गिर॒” इत्या॑ह । य॒था॒य॒जुर् ए॒वैतत् ।
मूलम्
“परि॑ त्वा गिर्वणो॒ गिर॒” इत्या॑ह । य॒था॒य॒जुर् ए॒वैतत् ।
पद-पाठः
परीति॑ । त्वा॒ । गि॒र्व॒णः॒ । गिरः॑ । इति॑ । आ॒ह॒ । य॒था॒य॒जुरिति॑ यथा-य॒जुः । ए॒व । ए॒तत् ।
भट्टभास्कर-टीका
21’परित्वा गिर्वणो गिरः’ इत्यादिसदःपरिश्रयणमन्त्रः । तेन प्रतिपादितमेवं सर्वं यथायजुर्भवत्येव । पूर्ववदस्य यजुष्ट्वं वेदितव्यम् ॥
मूलम् (संयुक्तम्)
इन्द्र॑स्य॒ स्यूर॒सीन्द्र॑स्य ध्रु॒वम॒सीत्या॑है॒न्द्रँ हि दे॒वत॑या॒ सदो॒ यम्प्र॑थ॒मङ्ग्र॒न्थिङ्ग्र॑थ्नी॒याद्यत्तन्न वि॑स्रँ॒सये॒दमे॑हेनाध्व॒र्युᳶ प्र मी॑येत॒ तस्मा॒त्स वि॒स्रस्यः॑ ॥ [55]
विश्वास-प्रस्तुतिः
इन्द्र॑स्य॒ स्यूर॒सीन्द्र॑स्य ध्रु॒वम॒सीत्या॑ह , ऐ॒न्द्रँ हि दे॒वत॑या॒ सदः ।
यम् प्र॑थ॒मङ् ग्र॒न्थिङ् ग्र॑थ्नी॒याद् यत् तन्न वि॑स्रँ॒सये॒दमे॑हेनाध्व॒र्युᳶ प्र मी॑येत॒ तस्मा॒त् स वि॒स्रस्यः॑ ॥ [55]
मूलम्
इन्द्र॑स्य॒ स्यूर॒सीन्द्र॑स्य ध्रु॒वम॒सीत्या॑ह , ऐ॒न्द्रँ हि दे॒वत॑या॒ सदः ।
यम् प्र॑थ॒मङ् ग्र॒न्थिङ् ग्र॑थ्नी॒याद् यत् तन्न वि॑स्रँ॒सये॒दमे॑हेनाध्व॒र्युᳶ प्र मी॑येत॒ तस्मा॒त् स वि॒स्रस्यः॑ ॥ [55]
पद-पाठः
इन्द्र॑स्य । स्यूः । अ॒सि॒ । इन्द्र॑स्य । ध्रु॒वम् । अ॒सि॒ । इति॑ । आ॒ह॒ । ऐ॒न्द्रम् । हि । दे॒वत॑या । सदः॑ ।
यम् । प्र॒थ॒मम् । ग्र॒न्थिम् । ग्र॒थ्नी॒यात् । यत् । तम् । न । वि॒स्रँ॒सये॒दिति॑ वि-स्रँ॒सये॑त् । अमे॑हेन । अ॒ध्व॒र्युः । प्रेति॑ । मी॒ये॒त॒ । तस्मा॑त् । सः । वि॒स्रस्य॒ इति॑ वि-स्रस्यः॑ ॥ [55]
भट्टभास्कर-टीका
22इन्द्रस्यस्यूरसीत्यादि ॥ गतम् । यं प्रथममित्यादि। व्याख्यातम् ॥
+++(सम्पादकटिप्पनी - विस्तृतव्याख्यानमन्यत्र मृग्यम् )+++।
इति षष्ठे द्वितीये दशमोनुवाकः ॥