२० हविर्धानस्य शकटे अन्तर्भाव्यहविर्धानमण्ट्

०९ हविर्धानस्य शकटे अन्तर्भाव्यहविर्धानमण्टपनिर्माणम् ...{Loading}...

सोमऋषिः

मूलम् (संयुक्तम्)

ब॒द्धमव॑ स्यति वरुणपा॒शादे॒वैने॑ मुञ्चति॒ प्र णे॑नेक्ति॒ मेध्ये॑ ए॒वैने॑ करोति सावित्रि॒यर्चा हु॒त्वा ह॑वि॒र्धाने॒ प्र व॑र्तयति सवि॒तृप्र॑सूत ए॒वैने॒ प्र व॑र्तयति॒ वरु॑णो॒ वा ए॒ष दु॒र्वागु॑भ॒यतो॑ ब॒द्धो यदक्ष॒स्स यदु॒त्सर्जे॒द्यज॑मानस्य गृ॒हान॒भ्युत्स॑र्जेत् सु॒वाग्दे॑व॒ दुर्याँ॒ आ व॒देत्या॑ह गृ॒हा वै दुर्या॒श्शान्त्यै॒

विश्वास-प्रस्तुतिः

ब॒द्धमव॑ स्यति ।
व॒रु॒ण॒पा॒शा॒द् ए॒वैने॑ मुञ्चति ।
प्र णे॑नेक्ति॒ मेध्ये॑ ए॒वैने॑ करोति ।
सा॒वि॒त्रि॒यर्चा हु॒त्वा ह॑वि॒र्धाने॒ प्र व॑र्तयति ।
स॒वि॒तृप्र॑सूत ए॒वैने॒ प्र व॑र्तयति ।

मूलम्

ब॒द्धमव॑ स्यति ।
व॒रु॒ण॒पा॒शा॒द् ए॒वैने॑ मुञ्चति ।
प्र णे॑नेक्ति॒ मेध्ये॑ ए॒वैने॑ करोति ।
सा॒वि॒त्रि॒यर्चा हु॒त्वा ह॑वि॒र्धाने॒ प्र व॑र्तयति ।
स॒वि॒तृप्र॑सूत ए॒वैने॒ प्र व॑र्तयति ।

पद-पाठः

ब॒द्धम् । अवेति॑ । स्य॒ति॒ ।
व॒रु॒ण॒पा॒शादिति॑ वरुण-पा॒शात् । ए॒व । ए॒ने॒ इति॑ । मु॒ञ्च॒ति॒ ।
प्रेति॑ । ने॒ने॒क्ति॒ । मेध्ये॒ इति॑ । ए॒व । ए॒ने॒ इति॑ । क॒रो॒ति॒ ।
सा॒वि॒त्रि॒या । ऋ॒चा । हु॒त्वा । ह॒वि॒र्धाने॒ इति॑ हविः-धाने॑ । प्रेति॑ । व॒र्त॒य॒ति॒ ।

स॒वि॒तृप्र॑सूत॒ इति॑ सवि॒तृ-प्र॒सू॒तः॒ । ए॒व । ए॒ने॒ इति॑ । प्रेति॑ । व॒र्त॒य॒ति॒ ।

भट्टभास्कर-टीका

1बद्धमिति ॥ बद्धं हविर्धानयोरक्षमवस्यति मुञ्चतीति विधिः । वरुणपाशादेव एने हविर्धाने वरुणदेवते मुञ्चति । प्रणेनेक्ति क्षालयति । मेध्ये मेधार्हे एने करोति । सावित्र्यर्चा ‘युञ्जते मन उत’ इत्येतया सवितृप्रसूतः सवित्रा प्रसूतः सवित्राऽनुज्ञातः ।

विश्वास-प्रस्तुतिः

वरु॑णो॒ वा ए॒ष दु॒र्वाग् उ॑भ॒यतो॑ ब॒द्धो यदक्षः॑ ।
स यद् उ॒त्सर्जे॒द् यज॑मानस्य गृ॒हान् अ॒भ्युत्स॑र्जेत् ।
सु॒वाग्दे॑व॒ दुर्याँ॒ आ व॒देत्या॑ह ।
गृ॒हा वै दुर्याः॑ । शान्त्यै॑ ।

मूलम्

वरु॑णो॒ वा ए॒ष दु॒र्वाग् उ॑भ॒यतो॑ ब॒द्धो यदक्षः॑ ।
स यद् उ॒त्सर्जे॒द् यज॑मानस्य गृ॒हान् अ॒भ्युत्स॑र्जेत् ।
सु॒वाग्दे॑व॒ दुर्याँ॒ आ व॒देत्या॑ह ।
गृ॒हा वै दुर्याः॑ । शान्त्यै॑ ।

पद-पाठः

वरु॑णः । वै । ए॒षः । दु॒र्वागिति॑ दुः-वाक् । उ॒भ॒यतः॑ । ब॒द्धः । यत् । अक्षः॑ ।
सः । यत् । उ॒त्सर्जे॒दित्यु॑त्-सर्जे॑त् । यज॑मानस्य । गृ॒हान् । अ॒भ्युत्स॑र्जे॒दित्य॑भि-उत्स॑र्जेत् ।
सु॒वागिति॑ सु-वाक् । दे॒व॒ । दुर्या॑न् । एति॑ । व॒द॒ । इति॑ । आ॒ह॒ ।
गृ॒हाः । वै । दुर्याः॑ ।
शान्त्यै॑ ।

भट्टभास्कर-टीका

वरुणो वा इति । वरुणः खल्वेष दुर्वाक् । दुष्टं वक्तीति दुर्वाक् । यदि वक्ति दुष्टमेव तदिति । ‘क्विब्वचि’ इत्यादिना क्विब्दीर्घौ, कृदुत्तरपदप्रकृतिस्वरत्वम् । क इत्याह - उभयतः उभाभ्यां बद्धो यदक्षो नाम’ स यदुत्सर्जेत् शब्दं करोति यजमानस्य गृहानभ्युत्सर्जेत् । तान् लक्षीकृत्य शब्दं करोति तेष्वरिष्टं करोति तदोत्सर्जनेन, तस्मात् ‘सुवाक्’ इत्यादि जपेत् इति । गृहा वै दुर्याः यजमानसंबन्धिनोभिप्रेताः । तदुत्सर्जनशान्यै भवतीति ॥

मूलम् (संयुक्तम्)

पत्नी॑ [45]
उपा॑नक्ति॒ पत्नी॒ हि सर्व॑स्य मि॒त्रम्मि॑त्र॒त्वाय॒ यद्वै पत्नी॑ य॒ज्ञस्य॑ क॒रोति॑ मिथु॒नन्तदथो॒ पत्नि॑या ए॒वैष य॒ज्ञस्या॑न्वार॒म्भोऽन॑वच्छित्त्यै॒

विश्वास-प्रस्तुतिः

पत्न्य् - उपा॑नक्ति ।[45]
पत्नी॒ हि सर्व॑स्य मि॒त्रम् , मि॑त्र॒त्वाय॑ ।
यद् वै पत्नी॑ य॒ज्ञस्य॑ क॒रोति॑ मिथु॒नन् तत् ।
अथो॒ पत्नि॑या ए॒वैष य॒ज्ञस्या॑न्वार॒म्भो , ऽन॑वच्छित्त्यै ।

मूलम्

पत्न्य् - उपा॑नक्ति ।[45]
पत्नी॒ हि सर्व॑स्य मि॒त्रम् , मि॑त्र॒त्वाय॑ ।
यद् वै पत्नी॑ य॒ज्ञस्य॑ क॒रोति॑ मिथु॒नन् तत् ।
अथो॒ पत्नि॑या ए॒वैष य॒ज्ञस्या॑न्वार॒म्भो , ऽन॑वच्छित्त्यै ।

पद-पाठः

पत्नी॑ । [45] उपेति॑ । अ॒न॒क्ति॒ ।
पत्नी॑ । हि । सर्व॑स्य । मि॒त्रम् । मि॒त्र॒त्वायेति॑ मित्र-त्वाय॑ ।
यत् । वै । पत्नी॑ । य॒ज्ञस्य॑ । क॒रोति॑ । मि॒थु॒नम् । तत् ।
अथो॒ इति॑ । पत्नि॑याः । ए॒व । ए॒षः । य॒ज्ञस्य॑ । अ॒न्वा॒र॒म्भ इत्य॑नु-आ॒र॒म्भः । अन॑वच्छित्त्या॒ इत्यन॑व-छि॒त्त्यै॒ ।

भट्टभास्कर-टीका

2पत्नी अक्षधुरे उपानक्तीति विधिः ॥ पत्नी हि सर्वस्य मित्रं मित्रमिव; स्त्रीत्वात् । तस्मात्तया कृतमुपाञ्जनं मित्रत्वाय भवति वरुणस्य वा अक्षस्य वा । यद्वा इत्यादि । व्याख्यातम् ॥

मूलम् (संयुक्तम्)

वर्त्म॑ना॒ वा अ॒न्वित्य॑ य॒ज्ञँ रक्षाँ॑सि जिघाँसन्ति वैष्ण॒वीभ्या॑मृ॒ग्भ्याव्ँ वर्त्म॑नोर्जुहोति य॒ज्ञो वै विष्णु॑र्य॒ज्ञादे॒व रक्षाँ॒स्यप॑ हन्ति॒

विश्वास-प्रस्तुतिः

वर्त्म॑ना॒ वा अ॒न्वित्य॑ य॒ज्ञँ रक्षाँ॑सि जिघाँसन्ति ।
वै॒ष्ण॒वीभ्या॑म् ऋ॒ग्भ्याव्ँ वर्त्म॑नोर् जुहोति ।
य॒ज्ञो वै विष्णुः॑ । य॒ज्ञादे॒व रक्षाँ॒स्यप॑ हन्ति ।

मूलम्

वर्त्म॑ना॒ वा अ॒न्वित्य॑ य॒ज्ञँ रक्षाँ॑सि जिघाँसन्ति ।
वै॒ष्ण॒वीभ्या॑म् ऋ॒ग्भ्याव्ँ वर्त्म॑नोर् जुहोति ।
य॒ज्ञो वै विष्णुः॑ । य॒ज्ञादे॒व रक्षाँ॒स्यप॑ हन्ति ।

पद-पाठः

वर्त्म॑ना । वै । अ॒न्वित्येत्य॑नु-इत्य॑ । य॒ज्ञम् । रक्षाँ॑सि । जि॒घाँ॒स॒न्ति॒ ।
वै॒ष्ण॒वीभ्या॑म् । ऋ॒ग्भ्यामित्यृ॑क्-भ्याम् । वर्त्म॑नोः । जु॒हो॒ति॒ ।
य॒ज्ञः । वै । विष्णुः॑ ।
य॒ज्ञात् । ए॒व । रक्षाँ॑सि । अपेति॑ । ह॒न्ति॒ ।

भट्टभास्कर-टीका

3वर्त्मनेत्यादि ॥ वर्त्मना शकटमार्गेण अन्वित्यानुप्रविश्य यज्ञं रक्षांसि जिघांसन्ति हन्तुमिच्छन्ति तस्माद्वैष्णवीभ्यामृग्भ्यां वर्त्मनोर्जुहोति ‘इद विष्णुः’ , ‘इरावती धेनुमती'39 इति द्वाभ्यां वर्त्मनोर्जुहोति । प्राधान्याद्दक्षिणस्योभयोः । उभयोर्वैकैकस्मिन् । यज्ञो वा इत्यादि । अयमेव वर्त्महोमलक्षणो यज्ञो विष्णुमन्त्रयोरुच्यते । तस्मादस्मादेव यज्ञान्निमित्ताद्रक्षांस्यपहन्ति ॥

मूलम् (संयुक्तम्)

हिर॑ण्यमु॒पास्य॑ जुहोत्यग्नि॒वत्ये॒व जु॑होति॒ नान्धो॑ऽध्व॒र्युर्भव॑ति॒ न य॒ज्ञँ रक्षाँ॑सि घ्नन्ति॒

विश्वास-प्रस्तुतिः

हिर॑ण्यम् उ॒पास्य॑ जुहोति । अ॒ग्नि॒वत्ये॒व जु॑होति ।
नान्धो॑ऽध्व॒र्युर्भव॑ति॒ , न य॒ज्ञँ रक्षाँ॑सि घ्नन्ति

मूलम्

हिर॑ण्यम् उ॒पास्य॑ जुहोति । अ॒ग्नि॒वत्ये॒व जु॑होति ।
नान्धो॑ऽध्व॒र्युर्भव॑ति॒ , न य॒ज्ञँ रक्षाँ॑सि घ्नन्ति

प्रदीपसिंहः

अत्र मूलं नास्ति -यदध्वर्युः इति वाक्यम्

पद-पाठः

यत् । अ॒ध्व॒र्युः । अ॒न॒ग्नौ । आहु॑ति॒मित्या-हु॒ति॒म् । जु॒हु॒यात् । अ॒न्धः । अ॒ध्व॒र्युः । स्या॒त् । रक्षाँ॑सि । य॒ज्ञम् । ह॒न्युः॒ । [46]

हिर॑ण्यम् । उ॒पास्येत्यु॑प-अस्य॑ । जु॒हो॒ति॒ ।
अ॒ग्नि॒वतीत्य॑ग्नि-वति॑ । ए॒व । जु॒हो॒ति॒ । न । अ॒न्धः । अ॒ध्व॒र्युः । भव॑ति । न । य॒ज्ञम् । रक्षाँ॑सि । घ्न॒न्ति॒ ।

भट्टभास्कर-टीका

4यदध्वर्युरित्यादि ॥ गतम् ॥

प्रदीपसिंहः

व्याख्यानमन्यत्र मृग्यम् गतम् इति टीकायां वर्तते । अतः पूर्वत्र स्थितः अस्य व्याख्याभागः अत्र योजनीयः

मूलम् (संयुक्तम्)

प्राची॒ प्रेत॑मध्व॒रङ्क॒ल्पय॑न्ती॒ इत्या॑ह सुव॒र्गमे॒वैने॑ लो॒कङ्ग॑मय॒त्य्

विश्वास-प्रस्तुतिः

“प्राची॒ प्रेत॑मध्व॒रङ् क॒ल्पय॑न्ती॒” इत्या॑ह । सु॒व॒र्गमे॒वैने॑ लो॒कङ् ग॑मयति ।

मूलम्

“प्राची॒ प्रेत॑मध्व॒रङ् क॒ल्पय॑न्ती॒” इत्या॑ह । सु॒व॒र्गमे॒वैने॑ लो॒कङ् ग॑मयति ।

पद-पाठः

प्राची॒ इति॑ । प्रेति॑ । इ॒त॒म् । अ॒ध्व॒रम् । क॒ल्पय॑न्ती॒ इति॑ । इति॑ । आ॒ह॒ ।
सु॒व॒र्गमिति॑ सुवः-गम् । ए॒व । ए॒ने॒ इति॑ । लो॒कम् । ग॒म॒य॒ति॒ ।

भट्टभास्कर-टीका

5’प्राची’ इत्यादिहविर्धानप्रवर्तनमन्त्रः । तं व्याचष्टे - सुवर्गमिति ॥ तस्मात्प्राचीप्रेतमित्याह यस्माच्चाध्वरं कल्पयन्ति प्रेतमित्याह तेन हेतुना एने हविर्धाने सुवर्गं सुष्ठु गन्तव्यं लोक स्थानं हविर्धानगृहं गमयति । तत्र गमने हि तदुभयमुपपद्यते इति ॥

मूलम् (संयुक्तम्)

अत्र॑ रमेथाव्ँ॒वर्ष्म॑न्पृथि॒व्या इत्या॑ह॒ वर्ष्म॒ ह्ये॑तत्पृ॑थि॒व्या यद्दे॑व॒यज॑नँ॒ शिरो॒ वा ए॒तद्य॒ज्ञस्य॒ यद्ध॑वि॒र्धान॑न्

विश्वास-प्रस्तुतिः

अत्र॑ रमेथाव्ँ॒ वर्ष्म॑न् पृथि॒व्या इत्या॑ह । वर्ष्म॒ ह्ये॑तत् पृ॑थि॒व्या यद् दे॑व॒यज॑नम् । शिरो॒ वा ए॒तद् य॒ज्ञस्य॒ यद्ध॑वि॒र्धान॑म् ।

मूलम्

अत्र॑ रमेथाव्ँ॒ वर्ष्म॑न् पृथि॒व्या इत्या॑ह । वर्ष्म॒ ह्ये॑तत् पृ॑थि॒व्या यद् दे॑व॒यज॑नम् । शिरो॒ वा ए॒तद् य॒ज्ञस्य॒ यद्ध॑वि॒र्धान॑म् ।

पद-पाठः

अत्र॑ । र॒मे॒था॒म् । वर्‌ष्म॑न् । पृ॒थि॒व्याः । इति॑ । आ॒ह॒ ।
वर्‌ष्म॑ । हि । ए॒तत् । पृ॒थि॒व्याः । यत् । दे॒व॒यज॑न॒मिति॑ देव-यज॑नम् ।
शिरः॑ । वै । ए॒तत् । य॒ज्ञस्य॑ । यत् । ह॒वि॒र्धान॒मिति॑ हविः-धान॑म् ।

भट्टभास्कर-टीका

6’अत्र'41 इति स्थापनमन्त्रः । तयोरेतद्धविर्धानं पृथिव्याः वर्ष्म उच्छ्रितं स्थानमेतत् । किम्? यत्र देवा इज्यन्ते तच्च हविर्धानमिति, तदधीनत्वाद्यज्ञस्य । शिरो वा इति । यज्ञस्यैतच्छिर इव प्राधान्यात् यद्धविर्धानं नाम ॥

मूलम् (संयुक्तम्)

दि॒वो वा॑ विष्णवु॒त वा॑ पृथि॒व्याः [47]
इत्या॒शीर्प॑दय॒र्चा दक्षि॑णस्य हवि॒र्धान॑स्य मे॒थीन्नि ह॑न्ति शीर्ष॒त ए॒व य॒ज्ञस्य॒ यज॑मान आ॒शिषोऽव॑ रुन्द्धे

विश्वास-प्रस्तुतिः

दि॒वो वा॑ विष्णवु॒त वा॑ पृथि॒व्या इति॑ ।[47]
आ॒शीर्प॑दय॒र्चा दक्षि॑णस्य हवि॒र्धान॑स्य मे॒थीन्नि ह॑न्ति ।
शी॒र्ष॒त ए॒व य॒ज्ञस्य॒ यज॑मान आ॒शिषोऽव॑ रुन्धे ।

मूलम्

दि॒वो वा॑ विष्णवु॒त वा॑ पृथि॒व्या इति॑ ।[47]
आ॒शीर्प॑दय॒र्चा दक्षि॑णस्य हवि॒र्धान॑स्य मे॒थीन्नि ह॑न्ति ।
शी॒र्ष॒त ए॒व य॒ज्ञस्य॒ यज॑मान आ॒शिषोऽव॑ रुन्धे ।

पद-पाठः

दि॒वः । वा॒ । वि॒ष्णो॒ । उ॒त । वा॒ । पृ॒थि॒व्याः । [47] इति॑ । आ॒शीर्प॑द॒येत्या॒शीः-प॒द॒या॒ । ऋ॒चा । दक्षि॑णस्य । ह॒वि॒र्धान॒स्येति॑ हविः-धान॑स्य । मे॒थीम् । नीति॑ । ह॒न्ति॒ ।
शी॒र्‌ष॒तः । ए॒व । य॒ज्ञस्य॑ । यज॑मानः । आ॒शिष॒ इत्या॑-शिषः॑ । अवेति॑ । रु॒न्द्धे॒ ।

भट्टभास्कर-टीका

7दिव इत्यादि विधिः ॥ आशीर्पदया आशीः आशासनीया अभिलषितविशेषाः पादेपादे यस्यां सा आशीर्पदा । ‘पादस्य’ इति लोपे, ‘टाबृचि’ इति टाप्, ‘पादः पत्’ इति पद्भावः, विसर्जनीयाभावश्छान्दसः । यज्ञस्य शिरस्तः .आशिषोवरुन्धे ॥

मूलम् (संयुक्तम्)

द॒ण्डो वा औ॑प॒रस्तृ॒तीय॑स्य हवि॒र्धान॑स्य वषट्का॒रेणाक्ष॑मच्छिन॒द्यत्तृ॒तीय॑ञ्छ॒दिर्ह॑वि॒र्धान॑योरुदाह्रि॒यते॑ तृ॒तीय॑स्य हवि॒र्धान॒स्याव॑रुद्ध्यै॒

विश्वास-प्रस्तुतिः

द॒ण्डो वा औ॑प॒रस् तृ॒तीय॑स्य हवि॒र्धान॑स्य वषट्का॒रेणाक्ष॑मच्छिनत् ।

यत् तृ॒तीय॑ञ् छ॒दिर् ह॑वि॒र्धान॑योरुदाह्रि॒यते॑ , तृ॒तीय॑स्य हवि॒र्धान॒स्याव॑रुद्ध्यै ।

मूलम्

द॒ण्डो वा औ॑प॒रस् तृ॒तीय॑स्य हवि॒र्धान॑स्य वषट्का॒रेणाक्ष॑मच्छिनत् ।

यत् तृ॒तीय॑ञ् छ॒दिर् ह॑वि॒र्धान॑योरुदाह्रि॒यते॑ , तृ॒तीय॑स्य हवि॒र्धान॒स्याव॑रुद्ध्यै ।

पद-पाठः

द॒ण्डः । वै । औ॒प॒रः । तृ॒तीय॑स्य । ह॒वि॒र्धान॒स्येति॑ हविः-धान॑स्य । व॒ष॒ट्का॒रेणेति॑ वषट्-का॒रेण॑ । अक्ष॑म् । अ॒च्छि॒न॒त् ।

यत् । तृ॒तीय॑म् । छ॒दिः । ह॒वि॒र्धान॑यो॒रिति॑ हविः-धान॑योः । उ॒दा॒ह्रि॒यत॒ इत्यु॑त्-आ॒ह्रि॒यते॑ । तृ॒तीय॑स्य । ह॒वि॒र्धान॒स्येति॑ हविः-धान॑स्य । अव॑रुद्ध्या॒ इत्यव॑-रु॒द्ध्यै॒ ।

भट्टभास्कर-टीका

8दण्ड इत्यादि ॥ उपरस्य पुत्रः औपरः दण्डो नाम तृतीयहविर्धानस्याक्षं वषट्कारेणाच्छिनत् । यदि हविर्धानयोरुदाह्रियते उपर्याह्रियते तृतीयं छदिः तृतीयस्य हविर्धानस्यावरुद्ध्यै भवति अक्षस्य छिन्नत्वाच्छदिर्मात्रमेव हविर्धानत्वेन रूप्यते ॥

मूलम् (संयुक्तम्)

शिरो॒ वा ए॒तद्य॒ज्ञस्य॒ यद्ध॑वि॒र्धानव्ँ॒विष्णो॑ र॒राट॑मसि॒ विष्णोः॑ पृ॒ष्ठम॒सीत्या॑ह॒ तस्मा॑देताव॒द्धा शिरो॒ विष्यू॑तव्ँ॒

विश्वास-प्रस्तुतिः

शिरो॒ वा ए॒तद्य॒ज्ञस्य॒ यद्ध॑वि॒र्धानम् । विष्णो॑ र॒राट॑मसि॒ विष्णोः॑ पृ॒ष्ठम॒सीत्या॑ह । तस्मा॑देताव॒द्धा शिरो॒ विष्यू॑तम् ।

मूलम्

शिरो॒ वा ए॒तद्य॒ज्ञस्य॒ यद्ध॑वि॒र्धानम् । विष्णो॑ र॒राट॑मसि॒ विष्णोः॑ पृ॒ष्ठम॒सीत्या॑ह । तस्मा॑देताव॒द्धा शिरो॒ विष्यू॑तम् ।

पद-पाठः

शिरः॑ । वै । ए॒तत् । य॒ज्ञस्य॑ । यत् । ह॒वि॒र्धान॒मिति॑ हविः-धान॑म् ।
विष्णोः॑ । र॒राट॑म् । अ॒सि॒ । विष्णोः॑ । पृ॒ष्ठम् । अ॒सि॒ । इति॑ । आ॒ह॒ ।
तस्मा॑त् । ए॒ता॒व॒द्धेत्ये॑तावत्-धा । शिरः॑ । विष्यू॑त॒मिति॒ वि-स्यू॒त॒म् ।

भट्टभास्कर-टीका

9शिर इत्यादि ॥ गतम् । हविर्धानशालानिमित्तमिदमुपलक्षणमिदमेव प्रतिपादयितुं मन्त्रद्वयोपादानम् । एतावद्धविर्धानमेव शिरस्थानीयं, यावत्प्रकारं विष्यूतं तावत्प्रकारं प्रजानां शिरो विष्यूतं विविधं स्यूतम् । अस्य च त्रिशब्दादित्वात्त्रिधा विष्यूतमिति गम्यते । यथोक्तं - ‘तस्मान्नवधा शिरः’ इति ‘ते त्रयस्त्रिकपालाः'43 इति च । ‘बहुगणवतु’ इति संख्यात्वात् संख्याया विधार्थे धा, सिवेर्निष्ठायां ‘छ्वोश्शूडनुनासिके च’ इत्यूठ्, ‘गतिरनन्तरः’ इति गतेः प्रकृतिस्वरत्वम् ॥

मूलम् (संयुक्तम्)

विष्णो॒स्स्यूर॑सि॒ विष्णो॑र्ध्रु॒वम॒सीत्या॑ह वैष्ण॒वँ हि दे॒वत॑या हवि॒र्धानय्ँ॒यम्प्र॑थ॒मङ्ग्र॒न्थिङ्ग्र॑थ्नी॒याद्यत्तन्न वि॑स्रँ॒सये॒दमे॑हेनाध्व॒र्युᳶ प्र मी॑येत॒ तस्मा॒त्स वि॒स्रस्यः॑ ॥ [48]

विश्वास-प्रस्तुतिः

विष्णो॒स् स्यूर॑सि॒ , विष्णो॑र्ध्रु॒वम॒सीत्या॑ह ।
वै॒ष्ण॒वँ हि दे॒वत॑या हवि॒र्धान॑म् ।
यम् प्र॑थ॒मङ् ग्र॒न्थिङ् ग्र॑थ्नी॒याद् , यत् तन्न वि॑स्रँ॒सये॒द् - अमे॑हेनाध्व॒र्युᳶ प्र मी॑येत ।
तस्मा॒त् स वि॒स्रस्यः॑ ॥ [48]

मूलम्

विष्णो॒स् स्यूर॑सि॒ , विष्णो॑र्ध्रु॒वम॒सीत्या॑ह ।
वै॒ष्ण॒वँ हि दे॒वत॑या हवि॒र्धान॑म् ।
यम् प्र॑थ॒मङ् ग्र॒न्थिङ् ग्र॑थ्नी॒याद् , यत् तन्न वि॑स्रँ॒सये॒द् - अमे॑हेनाध्व॒र्युᳶ प्र मी॑येत ।
तस्मा॒त् स वि॒स्रस्यः॑ ॥ [48]

पद-पाठः

विष्णोः॑ । स्यूः । अ॒सि॒ । विष्णोः॑ । ध्रु॒वम् । अ॒सि॒ । इति॑ । आ॒ह॒ ।

वै॒ष्ण॒वम् । हि । दे॒वत॑या । ह॒वि॒र्धान॒मिति॑ हविः-धान॑म् ।

यम् । प्र॒थ॒मम् । ग्र॒न्थिम् । ग्र॒थ्नी॒यात् । यत् । तम् । न । वि॒स्रँ॒सये॒दिति॑ वि-स्रँ॒सये॑त् । अमे॑हेन । अ॒ध्व॒र्युः । प्रेति॑ । मी॒ये॒त॒ ।

तस्मा॑त् । सः । वि॒स्रस्य॒ इति॑ वि-स्रस्यः॑ ॥ [48]

भट्टभास्कर-टीका

10विष्णोरित्यादि ॥ अवशेषमन्त्राणामुपलक्षणम् । वैष्णवमिति । देवतासंबन्धेन हविर्धानं वैष्णवम् । यमित्यादि । गतम् । अमेहो मेहनिरोधः । तस्माद्ग्रन्थिं मोचयति ॥

इति षष्ठे द्वितीये नवमोनुवाकः ॥