०६ यागार्थं काम्या भूमयः ...{Loading}...
सोमऋषिः
मूलम् (संयुक्तम्)
पु॒रोह॑विषि देव॒यज॑ने याजये॒द्यङ्का॒मये॒तोपै॑न॒मुत्त॑रो य॒ज्ञो न॑मेद॒भि सु॑व॒र्गल्ँ लो॒कञ्ज॑ये॒दित्ये॒तद्वै पु॒रोह॑विर्देव॒यज॑नय्ँ॒यस्य॒ होता॑ प्रातरनुवा॒कम॑नुब्रु॒वन्न॒ग्निम॒प आ॑दि॒त्यम॒भि वि॒पश्य॒त्युपै॑न॒मुत्त॑रो य॒ज्ञो न॑मत्य॒भि सु॑व॒र्गल्ँ लो॒कञ्ज॑यत्य्…
विश्वास-प्रस्तुतिः
पु॒रोह॑विषि देव॒यज॑ने याजये॒द् यङ् का॒मये॑त ।
उपै॑न॒मुत्त॑रो य॒ज्ञो न॑मेद् अ॒भि सु॑व॒र्गल्ँ लो॒कञ् ज॑ये॒दिति॑ ।
ए॒तद् वै पु॒रोह॑विर् देव॒यज॑नय्ँ॒ यस्य॒ होता॑ प्रातरनुवा॒कम॑नुब्रु॒वन्न् अ॒ग्निम् अ॒प आ॑दि॒त्यम॒भि वि॒पश्य॑ति ।
उपै॑न॒मुत्त॑रो य॒ज्ञो न॑मत्य॒भि सु॑व॒र्गल्ँ लो॒कञ् ज॑यति ।
मूलम्
पु॒रोह॑विषि देव॒यज॑ने याजये॒द् यङ् का॒मये॑त ।
उपै॑न॒मुत्त॑रो य॒ज्ञो न॑मेद् अ॒भि सु॑व॒र्गल्ँ लो॒कञ् ज॑ये॒दिति॑ ।
ए॒तद् वै पु॒रोह॑विर् देव॒यज॑नय्ँ॒ यस्य॒ होता॑ प्रातरनुवा॒कम॑नुब्रु॒वन्न् अ॒ग्निम् अ॒प आ॑दि॒त्यम॒भि वि॒पश्य॑ति ।
उपै॑न॒मुत्त॑रो य॒ज्ञो न॑मत्य॒भि सु॑व॒र्गल्ँ लो॒कञ् ज॑यति ।
पद-पाठः
पु॒रोह॑वि॒षीति॑ पु॒रः-ह॒वि॒षि॒ । दे॒व॒यज॑न॒ इति॑ देव-यज॑ने । या॒ज॒ये॒त् । यम् । का॒मये॑त ।
उपेति॑ । ए॒न॒म् । उत्त॑र॒ इत्युत्-त॒रः॒ । य॒ज्ञः । न॒मे॒त् । अ॒भीति॑ । सु॒व॒र्गमिति॑ सुवः-गम् । लो॒कम् । ज॒ये॒त् । इति॑ ।
ए॒तत् । वै । पु॒रोह॑वि॒रिति॑ पु॒रः-ह॒विः । दे॒व॒यज॑न॒मिति॑ देव-यज॑नम् । यस्य॑ । होता॑ । प्रा॒त॒र॒नुवा॒कमिति॑ प्रातः-अ॒नु॒वा॒कम् ।
अ॒नु॒ब्रु॒वन्नित्य॑नु-ब्रु॒वन् । अ॒ग्निम् । अ॒पः । आ॒दि॒त्यम् । अ॒भीति॑ । वि॒पश्य॒तीति॑ वि-पश्य॑ति ।
उपेति॑ । ए॒न॒म् । उत्त॑र॒ इत्युत्-त॒रः॒ । य॒ज्ञः । न॒म॒ति॒ । अ॒भीति॑ । सु॒व॒र्गमिति॑ सुवः-गम् । लो॒कम् । ज॒य॒ति॒ ।
भट्टभास्कर-टीका
1पुरोहविषीत्यादयः काम्याः । तत्र पुरोहविरादयश्शब्दाः वक्ष्यमाणानां नामानि । उत्तरो यज्ञः उत्तरः क्रतुः उक्थ्यादिः । अथ पुरोहविषो लक्ष्णामाह - एतदित्यादि । यस्य हविर्धाने आसीनः प्रातरनुवाकमनुब्रुवन् अग्निमाहवनीयं अपश्चादित्यं च एतत्त्रयमाभिमुख्येन पश्यति । एतत्पुरोहविः देवयजनम् । हूयतेऽस्मिन्निदं अस्मै इति च हवींष्यग्न्यादयः पुरस्ताद्यस्मिन्निति ॥
मूलम् (संयुक्तम्)
आ॒प्ते दे॑व॒यज॑ने याजये॒द्भ्रातृ॑व्यवन्त॒म्पन्थाव्ँ॑वाधिस्प॒र्शये॑त्क॒र्तव्ँवा॒ याव॒न्नान॑से॒ यात॒वै [30]
न रथा॑यै॒तद्वा आ॒प्तन्दे॑व॒यज॑नमा॒प्नोत्ये॒व भ्रातृ॑व्य॒न्नैन॒म्भ्रातृ॑व्य आप्नो॒त्य्…
विश्वास-प्रस्तुतिः
आ॒प्ते दे॑व॒यज॑ने याजये॒द् भ्रातृ॑व्यवन्तम् ।
पन्थाव्ँ॑ वाधिस्प॒र्शये॑त् क॒र्तव्ँ वा ।
या॒व॒न्नान॑से॒ यात॒वै न रथा॑य [30] ।
ए॒तद्वा आ॒प्तन् दे॑व॒यज॑नम् ।
आ॒प्नोत्ये॒व भ्रातृ॑व्य॒न् नैन॒म् भ्रातृ॑व्य आप्नोति ।
मूलम्
आ॒प्ते दे॑व॒यज॑ने याजये॒द् भ्रातृ॑व्यवन्तम् ।
पन्थाव्ँ॑ वाधिस्प॒र्शये॑त् क॒र्तव्ँ वा ।
या॒व॒न्नान॑से॒ यात॒वै न रथा॑य [30] ।
ए॒तद्वा आ॒प्तन् दे॑व॒यज॑नम् ।
आ॒प्नोत्ये॒व भ्रातृ॑व्य॒न् नैन॒म् भ्रातृ॑व्य आप्नोति ।
पद-पाठः
आ॒प्ते । दे॒व॒यज॑न॒ इति॑ देव-यज॑ने । या॒ज॒ये॒त् । भ्रातृ॑व्यवन्त॒मिति॒ भ्रातृ॑व्य-व॒न्त॒म् ।
पन्था॑म् । वा॒ । अ॒धि॒स्प॒र्शये॒दित्य॑धि-स्प॒र्शये॑त् । क॒र्तम् । वा॒ ।
याव॑त् । न । अन॑से । यात॒वै । [30] न । रथा॑य ।
ए॒तत् । वै । आ॒प्तम् । दे॒व॒यज॑न॒मिति॑ देव-यज॑नम् ।
आ॒प्नोति॑ । ए॒व । भ्रातृ॑व्यम् । न । ए॒न॒म् । भ्रातृ॑व्यः । आ॒प्नो॒ति॒ ।
भट्टभास्कर-टीका
2आप्ते देवयजने याजयेद्भातृव्यवन्तं भ्रातृव्यैराप्तमित्यर्थः । तत्स्वरूपमाह - पन्थामित्यादि । पन्थां मार्गं वा अधिस्पर्शयेत् अधिष्ठायाभिभूय स्पर्शयेत् कर्तं वा गर्तं वाऽधिस्पर्शयेत् तावति समीपे तत्कुर्यात् यावदनसे रथाय वा यातुं न पर्याप्तम् । पर्याप्तौ चतुर्थी । तुमर्थे तवैप्रत्ययः । यद्वा - यावदन्तरे सति अनसे वा रथाय वा न यातवै यातुं ताभ्यां न शक्यते । तृतीयार्थे चतुर्थी, तादर्थ्ये वा, ’ कृत्यार्थे तवैकेन्’ इति तवैप्रत्ययः, ‘अन्तश्च तवै युगपत्’ इत्याद्यन्तयोर्युगपदुदात्तत्वम्, ‘नलोकाव्यय’ इति षष्ठीप्रतिषेधः । व्यत्ययेन वा षष्ठ्यर्थे चतुर्थी । द्वितीयायामपि व्यत्ययेन पथ आकारः, नकारलोपो वा । एतदिति । आप्नोतीत्याप्तं पन्थानं कर्तं वाऽऽप्नोतीति कृत्वा तत्सामर्थ्याद्यजमानोपि भ्रातृव्यमाप्नोति स्वीकरोति, भ्रातृव्यश्चैनं नाप्नोति । न हि पन्थां गर्तं वा देवयजनसमीपे, अपि तु तयोः समीपे देवयजनमिति अनेनैव तयोराप्तिरिति कृत्वा ॥
मूलम् (संयुक्तम्)
एको॑न्नते देव॒यज॑ने याजयेत्प॒शुका॑म॒मेको॑न्नता॒द्वै दे॑व॒यज॑ना॒दङ्गि॑रसᳶ प॒शून॑सृजन्तान्त॒रा स॑दोहविर्धा॒ने उ॑न्न॒तँ स्या॑दे॒तद्वा एको॑न्नतन्देव॒यज॑नम्पशु॒माने॒व भ॑वति॒
विश्वास-प्रस्तुतिः
एको॑न्नते देव॒यज॑ने याजयेत् प॒शुका॑मम् ।
एको॑न्नता॒द् वै दे॑व॒यज॑ना॒दङ्गि॑रसᳶ प॒शून् अ॑सृजन्त ।
अ॒न्त॒रा स॑दोहविर्धा॒ने उ॑न्न॒तँ स्या॑त् ।
ए॒तद्वा एको॑न्नतन् देव॒यज॑नम् ।
प॒शु॒माने॒व भ॑वति ।
मूलम्
एको॑न्नते देव॒यज॑ने याजयेत् प॒शुका॑मम् ।
एको॑न्नता॒द् वै दे॑व॒यज॑ना॒दङ्गि॑रसᳶ प॒शून् अ॑सृजन्त ।
अ॒न्त॒रा स॑दोहविर्धा॒ने उ॑न्न॒तँ स्या॑त् ।
ए॒तद्वा एको॑न्नतन् देव॒यज॑नम् ।
प॒शु॒माने॒व भ॑वति ।
पद-पाठः
एको॑न्नत॒ इत्येक॑-उ॒न्न॒ते॒ । दे॒व॒यज॑न॒ इति॑ देव-यज॑ने । या॒ज॒ये॒त् । प॒शुका॑म॒मिति॑ प॒शु-का॒म॒म् ।
एको॑न्नता॒दित्येक॑-उ॒न्न॒ता॒त् । वै । दे॒व॒यज॑ना॒दिति॑ देव-यज॑नात् । अङ्गि॑रसः । प॒शून् । अ॒सृ॒ज॒न्त॒ ।
अ॒न्त॒रा । स॒दो॒ह॒वि॒र्धा॒ने इति॑ सदः-ह॒वि॒र्धा॒ने । उ॒न्न॒तमित्यु॑त्-न॒तम् । स्या॒त् ।
ए॒तत् । वै । एको॑न्नत॒मित्येक॑-उ॒न्न॒त॒म् । दे॒व॒यज॑न॒मिति॑ देव-यज॑नम् ।
प॒शु॒मानिति॑ पशु-मान् । ए॒व । भ॒व॒ति॒ ।
भट्टभास्कर-टीका
3एकोन्नत इति ॥ पशूनामेकोन्नतत्वात् सादृश्याच्च पशुसाधनम् । एक उन्नतोऽवयवो यस्येति एकोन्नते । ‘शीलिकामि’ इति कमेर्णः । तल्लक्षणमाह-अन्तरेति । सदोहविर्धानयोर्मध्यमुच्छ्रितं स्यात् । ‘अन्तराऽन्तरेण’ इति द्वितीया ॥
मूलम् (संयुक्तम्)
त्र्यु॑न्नते देव॒यज॑ने याजयेत्सुव॒र्गका॑म॒न्त्र्यु॑न्नता॒द्वै दे॑व॒यज॑ना॒दङ्गि॑रसस्सुव॒र्गल्ँ लो॒कमा॑यन्नन्त॒राह॑व॒नीय॑ञ्च हवि॒र्धान॑ञ्च [31]
उ॒न्न॒तँ स्या॑दन्त॒रा ह॑वि॒र्धान॑ञ्च॒ सद॑श्चान्त॒रा सद॑श्च॒ गार्ह॑पत्यञ्चै॒तद्वै त्र्यु॑न्नतन्देव॒यज॑नँ सुव॒र्गमे॒व लो॒कमे॑ति॒ प्रति॑ष्ठिते देव॒यज॑ने याजयेत्प्रति॒ष्ठाका॑ममे॒तद्वै प्रति॑ष्ठितन्देव॒यज॑नय्ँ॒यत्स॒र्वत॑स्स॒मम्प्रत्ये॒व ति॑ष्ठति॒
विश्वास-प्रस्तुतिः
त्र्यु॑न्नते देव॒यज॑ने याजयेत् सुव॒र्गका॑मम् ।
त्र्यु॑न्नता॒द् वै दे॑व॒यज॑ना॒दङ्गि॑रसस् सुव॒र्गल्ँ लो॒कमा॑यन् ।
अ॒न्त॒राऽऽह॑व॒नीय॑ञ् च हवि॒र्धान॑ञ् च + उ॒न्न॒तँ स्या॑द् ,
अन्त॒रा ह॑वि॒र्धान॑ञ् च॒ , सद॑श्चान्त॒रा सद॑श्च॒ गार्ह॑पत्यञ् च ।
ए॒तद् वै त्र्यु॑न्नतन् देव॒यज॑नँ सुव॒र्गमे॒व लो॒कमे॑ति ।
प्रति॑ष्ठिते देव॒यज॑ने याजयेत् प्रति॒ष्ठाका॑मम् ।
ए॒तद्वै प्रति॑ष्ठितन् देव॒यज॑नय्ँ॒ यत् स॒र्वत॑स् स॒मम्प्रत्ये॒व ति॑ष्ठति ।
मूलम्
त्र्यु॑न्नते देव॒यज॑ने याजयेत् सुव॒र्गका॑मम् ।
त्र्यु॑न्नता॒द् वै दे॑व॒यज॑ना॒दङ्गि॑रसस् सुव॒र्गल्ँ लो॒कमा॑यन् ।
अ॒न्त॒राऽऽह॑व॒नीय॑ञ् च हवि॒र्धान॑ञ् च + उ॒न्न॒तँ स्या॑द् ,
अन्त॒रा ह॑वि॒र्धान॑ञ् च॒ , सद॑श्चान्त॒रा सद॑श्च॒ गार्ह॑पत्यञ् च ।
ए॒तद् वै त्र्यु॑न्नतन् देव॒यज॑नँ सुव॒र्गमे॒व लो॒कमे॑ति ।
प्रति॑ष्ठिते देव॒यज॑ने याजयेत् प्रति॒ष्ठाका॑मम् ।
ए॒तद्वै प्रति॑ष्ठितन् देव॒यज॑नय्ँ॒ यत् स॒र्वत॑स् स॒मम्प्रत्ये॒व ति॑ष्ठति ।
पद-पाठः
त्र्यु॑न्नत॒ इति॒ त्रि-उ॒न्न॒ते॒ । दे॒व॒यज॑न॒ इति॑ देव-यज॑ने । या॒ज॒ये॒त् । सु॒व॒र्गका॑म॒मिति॑ सुव॒र्ग-का॒म॒म् ।
त्र्यु॑न्नता॒दिति॒ त्रि-उ॒न्न॒ता॒त् । वै । दे॒व॒यज॑ना॒दिति॑ देव-यज॑नात् । अङ्गि॑रसः । सु॒व॒र्गमिति॑ सुवः-गम् । लो॒कम् । आ॒य॒न् ।
अ॒न्त॒रा । आ॒ह॒व॒नीय॒मित्या॑-ह॒व॒नीय॑म् । च॒ । ह॒वि॒र्धान॒मिति॑ हविः-धान॑म् । च॒ । [31] उ॒न्न॒तमित्यु॑त्-न॒तम् । स्या॒त् ।
अ॒न्त॒रा । ह॒वि॒र्धान॒मिति॑ हविः-धान॑म् । च॒ । सदः॑ । च॒ । अ॒न्त॒रा । सदः॑ । च॒ । गार्ह॑पत्य॒मिति॒ गार्ह॑-प॒त्य॒म् । च॒ ।
ए॒तत् । वै । त्र्यु॑न्नत॒मिति॒ त्रि-उ॒न्न॒त॒म् । दे॒व॒यज॑न॒मिति॑ देव-यज॑नम् ।
सु॒व॒र्गमिति॑ सुवः-गम् । ए॒व । लो॒कम् । ए॒ति॒ ।
प्रति॑ष्ठित॒ इति॒ प्रति॑-स्थि॒ते॒ । दे॒व॒यज॑न॒ इति॑ देव-यज॑ने । या॒ज॒ये॒त् । प्र॒ति॒ष्ठाका॑म॒मिति॑ प्रति॒ष्ठा-का॒म॒म् ।
ए॒तत् । वै । प्रति॑ष्ठित॒मिति॒ प्रति॑-स्थि॒त॒म् । दे॒व॒यज॑न॒मिति॑ देव-यज॑नम् । यत् । स॒र्वतः॑ । स॒मम् । प्रतीति॑ । ए॒व । ति॒ष्ठ॒ति॒ ।
भट्टभास्कर-टीका
4त्र्युन्नते इति ॥ त्रीणि स्थानान्युन्नतानि अस्मिन्निति । अनेकोन्नतसाम्यात्स्वर्गसाम्यमिति स्वर्गसाधनम् । लक्षागमाह - अन्तरेति । आहवनीयहविर्धानयोः हविर्धानसदसोः सदोगार्हपत्ययोश्च मध्यमुन्नतं स्यात् । पूर्ववद्द्वितीया । सर्वतः प्रतिष्ठित इति । यत्सर्वतस्समं प्रतिष्ठितं, विषमस्याप्रतिष्ठितत्वात् । प्रतिष्ठितसंबन्धी यजमानोपि प्रतितिष्ठति ॥
मूलम् (संयुक्तम्)
यत्रा॒न्याअ॑न्या॒ ओष॑धयो॒ व्यति॑षक्ता॒स्स्युस्तद्या॑जयेत्प॒शुका॑ममे॒तद्वै प॑शू॒नाँ रू॒पँ रू॒पेणै॒वास्मै॑ प॒शून् [32]
अव॑ रुन्द्धे पशु॒माने॒व भ॑वति॒
विश्वास-प्रस्तुतिः
यत्रा॒न्याअ॑न्या॒ ओष॑धयो॒ व्यति॑षक्ता॒स्स्युस्तद्या॑जयेत्प॒शुका॑मम् ।
ए॒तद्वै प॑शू॒नाँ रू॒पम् ।
रू॒पेणै॒वास्मै॑ प॒शून् अव॑ रुन्धे ।[32] प॒शु॒मान् ए॒व भ॑वति ।
मूलम्
यत्रा॒न्याअ॑न्या॒ ओष॑धयो॒ व्यति॑षक्ता॒स्स्युस्तद्या॑जयेत्प॒शुका॑मम् ।
ए॒तद्वै प॑शू॒नाँ रू॒पम् ।
रू॒पेणै॒वास्मै॑ प॒शून् अव॑ रुन्धे ।[32] प॒शु॒मान् ए॒व भ॑वति ।
पद-पाठः
यत्र॑ । अ॒न्याअ॑न्या॒ इत्य॒न्याः-अ॒न्याः॒ । ओष॑धयः । व्यति॑षक्ता॒ इति॑ वि-अति॑षक्ताः । स्युः । तत् । या॒ज॒ये॒त् । प॒शुका॑म॒मिति॑ प॒शु-का॒म॒म् ।
ए॒तत् । वै । प॒शू॒नाम् । रू॒पम् ।
रू॒पेण॑ । ए॒व । अ॒स्मै॒ । प॒शून् । [32] अवेति॑ । रु॒न्द्धे॒ ।
प॒शु॒मानिति॑ पशु-मान् । ए॒व । भ॒व॒ति॒ ।
भट्टभास्कर-टीका
5यत्रेति ॥ लक्षणमात्रमत्रोच्यते न संज्ञा । अन्याअन्या इति । ‘कर्मव्यतिहारे सर्वनाम्नो द्वे भवतस्समासवच्च बहुलम्’ इति समासवद्भावः । तद्याजयेत् तत्र याजयेत् । एतद्वै पशूनां रूपं पशूनां वृद्धिहेतुत्वात् ॥
मूलम् (संयुक्तम्)
निर्ऋ॑तिगृहीते देव॒यज॑ने याजये॒द्यङ्का॒मये॑त॒ निर्ऋ॑त्यास्य य॒ज्ञङ्ग्रा॑हयेय॒मित्ये॒तद्वै निर्ऋ॑तिगृहीतन्देव॒यज॑नय्ँ॒यत्स॒दृश्यै॑ स॒त्या॑ ऋ॒क्षन्निर्ऋ॑त्यै॒वास्य॑ य॒ज्ञङ्ग्रा॑हयति॒
विश्वास-प्रस्तुतिः
निर्ऋ॑तिगृहीते देव॒यज॑ने याजये॒द्यङ्का॒मये॑त ।
निर्ऋ॑त्याऽस्य य॒ज्ञङ् ग्रा॑हयेय॒मिति॑ ।
ए॒तद् वै निर्ऋ॑तिगृहीतन् देव॒यज॑नय्ँ॒ , यत् स॒दृश्यै॑ स॒त्या॑ ऋ॒क्षम् ।
निर्ऋ॑त्यै॒वास्य॑ य॒ज्ञङ् ग्रा॑हयति ।
मूलम्
निर्ऋ॑तिगृहीते देव॒यज॑ने याजये॒द्यङ्का॒मये॑त ।
निर्ऋ॑त्याऽस्य य॒ज्ञङ् ग्रा॑हयेय॒मिति॑ ।
ए॒तद् वै निर्ऋ॑तिगृहीतन् देव॒यज॑नय्ँ॒ , यत् स॒दृश्यै॑ स॒त्या॑ ऋ॒क्षम् ।
निर्ऋ॑त्यै॒वास्य॑ य॒ज्ञङ् ग्रा॑हयति ।
पद-पाठः
निर्ऋ॑तिगृहीत॒ इति॒ निर्ऋ॑ति-गृ॒ही॒ते॒ । दे॒व॒यज॑न॒ इति॑ देव-यज॑ने । या॒ज॒ये॒त् । यम् । का॒मये॑त ।
निर्ऋ॒त्येति॒ निः-ऋ॒त्या॒ । अ॒स्य॒ । य॒ज्ञम् । ग्रा॒ह॒ये॒य॒म् । इति॑ ।
ए॒तत् । वै । निर्ऋ॑तिगृहीत॒मिति॒ निर्ऋ॑ति-गृ॒ही॒त॒म् । दे॒व॒यज॑न॒मिति॑ देव-यज॑नम् । यत् । स॒दृश्यै॑ । स॒त्याः॑ । ऋ॒क्षम् ।
निर्ऋ॒त्येति॒ निः-ऋ॒त्या॒ । ए॒व । अ॒स्य॒ । य॒ज्ञम् । ग्रा॒ह॒य॒ति॒ ।
भट्टभास्कर-टीका
6निर्ऋतिगृहीते इति ॥ यं यजमानं कामयेताध्वर्युः अस्य यज्ञं निर्ऋत्या ग्राहयेयमिति । ‘तृतीया कर्मणि’ इति पूर्वपदप्रकृतिस्वरत्वम् । निर्ऋतिः बहुव्रीहिः । सदृश्यै सत्या ऋक्षमिति । यत्सदृश्यास्सत्याः पृथिव्याः ऋक्षं तृणादिशून्यं इरिणं वा पृथिवीत्वे अवशिष्टे वैलक्षण्यहेतावसत्येव यत्स्वयमेव ऋक्षमित्यर्थः । सत्या इति । ‘शतुरनुमः’ इति नद्या उदात्तत्वम्, ‘उदात्तस्वरितयोर्यणः’ इति विभक्तिः स्वर्यते ॥
मूलम् (संयुक्तम्)
व्यावृ॑त्ते देव॒यज॑ने याजयेद्व्या॒वृत्का॑मय्ँ॒यम्पात्रे॑ वा॒ तल्पे॑ वा॒ मीमाँ॑सेरन्प्रा॒चीन॑माहव॒नीया॑त्प्रव॒णँ स्या॑त्प्रती॒चीन॒ङ्गार्ह॑पत्यादे॒तद्वै व्यावृ॑त्तन्देव॒यज॑नव्ँ॒वि पा॒प्मना॒ भ्रातृ॑व्ये॒णा व॑र्तते॒ नैन॒म्पात्रे॒ न तल्पे॑ मीमाँसन्ते
विश्वास-प्रस्तुतिः
व्यावृ॑त्ते देव॒यज॑ने याजयेद्व्या॒वृत्का॑मय्ँ॒यम्पात्रे॑ वा॒ तल्पे॑ वा॒ मीमाँ॑सेरन् ।
प्रा॒चीन॑माहव॒नीया॑त् प्रव॒णँ स्या॑त् प्रती॒चीन॒ङ् गार्ह॑पत्याद् ए॒तद्वै व्यावृ॑त्तन् देव॒यज॑नम् ।
वि पा॒प्मना॒ भ्रातृ॑व्ये॒णाऽऽ व॑र्तते॒ नैन॒म्पात्रे॒ न तल्पे॑ मीमाँसन्ते ।
मूलम्
व्यावृ॑त्ते देव॒यज॑ने याजयेद्व्या॒वृत्का॑मय्ँ॒यम्पात्रे॑ वा॒ तल्पे॑ वा॒ मीमाँ॑सेरन् ।
प्रा॒चीन॑माहव॒नीया॑त् प्रव॒णँ स्या॑त् प्रती॒चीन॒ङ् गार्ह॑पत्याद् ए॒तद्वै व्यावृ॑त्तन् देव॒यज॑नम् ।
वि पा॒प्मना॒ भ्रातृ॑व्ये॒णाऽऽ व॑र्तते॒ नैन॒म्पात्रे॒ न तल्पे॑ मीमाँसन्ते ।
पद-पाठः
व्यावृ॑त्त॒ इति॑ वि-आवृ॑त्ते । दे॒व॒यज॑न॒ इति॑ देव-यज॑ने । या॒ज॒ये॒त् । व्या॒वृत्का॑म॒मिति॑ व्या॒वृत्-का॒म॒म् । यम् । पात्रे॑ । वा॒ । तल्पे॑ । वा॒ । मीमाँ॑सेरन् ।
प्रा॒चीन॑म् । आ॒ह॒व॒नीया॒दित्या॑-ह॒व॒नीया॑त् । प्र॒व॒णमिति॑ प्र-व॒नम् । स्या॒त् । प्र॒ती॒चीन॑म् । गार्ह॑पत्या॒दिति॒ गार्ह॑-प॒त्या॒त् । ए॒तत् । वै । व्यावृ॑त्त॒मिति॑ वि-आवृ॑त्तम् । दे॒व॒यज॑न॒मिति॑ देव-यज॑नम् ।
वीति॑ । पा॒प्मना॑ । भ्रातृ॑व्येण । एति॑ । व॒र्त॒ते॒ ।
न । ए॒न॒म् । पात्रे॑ । न । तल्पे॑ । मी॒माँ॒स॒न्ते॒ ।
भट्टभास्कर-टीका
7व्यावृत्ते इति ॥ व्यावृत्कामं पाप्मनः पृथग्भावं कामयमानं यं पात्रे वा भोजने वा तल्पे वा शयने वा मीमांसेरन् । ‘मान् बध’ इत्यादिना सन् । वर्जयेयुरिति यावत् स्वेन सह भोजनं शयनं न कुर्युरिति । केचिदाहुः - पात्रे श्राद्धे तल्पे विवाहे यं मीमांसेरन्निति । तस्य लक्षणं - प्राचीनमिति । आहवनीयात्प्राचीनं प्राक्प्रदेशः गार्हपत्यात्प्रतीचीनं प्रत्यग्देशः प्रवणं निम्नस्थानं मध्ये उन्नतो व्यावृत्तिः पृथिव्या भवतीति । तत्साधर्म्याद्यजमानोपि पाप्यना भ्रातृव्येण च भ्रातृव्यभूतेनापि पाप्मना व्यावर्तते पृथग्भूतो भवतीति ततः परं नैनं पात्रे तल्पे वा मीमांसन्ते । ‘विभाषाञ्चेरदिक्स्त्रियाम्’ इति खः, ‘प्रनिरन्त’ इत्यादिना वनो नकारस्य णत्वम् ॥
मूलम् (संयुक्तम्)
का॒र्ये॑ देव॒यज॑ने याजये॒द्भूति॑कामङ्का॒र्यो॑ वै पुरु॑षो॒ भव॑त्ये॒व ॥ [33]
विश्वास-प्रस्तुतिः
का॒र्ये॑ देव॒यज॑ने याजये॒द् भूति॑कामम् ।
का॒र्यो॑ वै पुरु॑षो॒ , भव॑त्ये॒व ॥ [33]
मूलम्
का॒र्ये॑ देव॒यज॑ने याजये॒द् भूति॑कामम् ।
का॒र्यो॑ वै पुरु॑षो॒ , भव॑त्ये॒व ॥ [33]
पद-पाठः
का॒र्ये॑ । दे॒व॒यज॑न॒ इति॑ देव-यज॑ने । या॒ज॒ये॒त् । भूति॑काम॒मिति॒ भूति॑-का॒म॒म् ।
का॒र्यः॑ । वै । पुरु॑षः । भव॑ति । ए॒व ॥ [33]
भट्टभास्कर-टीका
8कार्य इति ॥ पुरीषेणोच्चारभावमासादनीयः । पुरुषोपि हि कार्यः संस्कार्यः । संस्कारैरुच्चीकार्यो वा । तस्माद्भवत्येव भूतिमान् संपद्यत एवेति ॥
इति षष्ठे द्वितीये षष्ठोनुवाकः ॥