१६ दीक्षितस्य व्रतनिर्णयः

०५ दीक्षितस्य व्रतनिर्णयः ...{Loading}...

सोमऋषिः

मूलम् (संयुक्तम्)

यद्वा अनी॑शानो भा॒रमा॑द॒त्ते वि वै स लि॑शते॒ यद्द्वाद॑श सा॒ह्नस्यो॑प॒सद॒स्स्युस्ति॒स्रो॑ऽहीन॑स्य य॒ज्ञस्य॒ विलो॑म क्रियेत

विश्वास-प्रस्तुतिः

यद्वा अनी॑शानो भा॒रम् आ॑द॒त्ते वि वै स लि॑शते ।

यद् द्वाद॑श सा॒ह्नस्यो॑प॒सद॒स् स्युस् ति॒स्रो॑ ऽहीन॑स्य य॒ज्ञस्य॒ विलो॑म क्रियेत ।

मूलम्

यद्वा अनी॑शानो भा॒रम् आ॑द॒त्ते वि वै स लि॑शते ।

यद् द्वाद॑श सा॒ह्नस्यो॑प॒सद॒स् स्युस् ति॒स्रो॑ ऽहीन॑स्य य॒ज्ञस्य॒ विलो॑म क्रियेत ।

पद-पाठः

यत् । वै । अनी॑शानः । भा॒रम् । आ॒द॒त्त इत्या॑-द॒त्ते । वीति॑ । वै । सः । लि॒श॒ते॒ ।
यत् । द्वाद॑श । सा॒ह्नस्येति॑ स-अ॒ह्नस्य॑ । उ॒प॒सद॒ इत्यु॑प-सदः॑ । स्युः । ति॒स्रः । अ॒हीन॑स्य । य॒ज्ञस्य॑ । विलो॒मेति॒ वि-लो॒म॒ । क्रि॒ये॒त॒ ।

भट्टभास्कर-टीका

1यद्वा अनीशान इत्यादि ॥ यद्यनीशानस्तादृशं भारं वोढुमक्षमस्सन् भारं योग्यमादत्ते गृह्णाति स खलु विलिशते अल्पीभवति क्षीयते इति यावत् । लिश अल्पीभावे । तस्माद्यदि साह्नस्य एकाहस्य द्वादशोपसदः स्युः, तदा सोतिभाराद्विलिशते ततो यजमानो म्रियेत, तस्मात्तिस्र उपसद उपैतीति पर्वूमेवावोचामेति तस्यैवेदं समर्थनम् । अह्ना सह वर्तते इति साह्नः क्रतुः, ‘अह्नोह्न एतेभ्यः’ इत्यच्समासान्तः, अह्नादेशश्च । अथ यदि तिस्रोहीनस्याह्नां समूहस्य क्रतोरुपसदस्स्युः, तदा यज्ञस्थ विलोम विपरीतं क्रियेत । शक्तस्याशक्तत्वरव्यापनं वैपरीत्यम् । ततश्चाशक्त एव क्रतुस्स्यादह्नां समूहः । ‘अह्नः खः क्रतौ’ इति खः ॥

मूलम् (संयुक्तम्)

ति॒स्र ए॒व सा॒ह्नस्यो॑प॒सदो॒ द्वाद॑शा॒हीन॑स्य य॒ज्ञस्य॑ सवीर्य॒त्वायाथो॒ सलो॑म क्रियते

विश्वास-प्रस्तुतिः

ति॒स्र ए॒व सा॒ह्नस्यो॑प॒सदो॒ द्वाद॑शा॒हीन॑स्य य॒ज्ञस्य॑ सवीर्य॒त्वाय॑+अथो॒ सलो॑म क्रियते ।

मूलम्

ति॒स्र ए॒व सा॒ह्नस्यो॑प॒सदो॒ द्वाद॑शा॒हीन॑स्य य॒ज्ञस्य॑ सवीर्य॒त्वाय॑+अथो॒ सलो॑म क्रियते ।

भट्टभास्कर-टीका

2तिस्र एवेत्यादि ॥ तस्मात्तिस्र एव साह्नस्योपसदो द्वादशाहीनस्येति पूर्वमेवावोचामेति भावः । यज्ञस्येत्यादि । एवं क्रियमाणे यज्ञस्य साह्नस्य शक्यभारभरणात् सवीर्यत्वाय भवति । अथो अपि च अहीनस्य यज्ञस्य सलोम अनुरूपमेव क्रियते । उक्तं व्रतविशेषनिबन्धनं अवान्तरदीक्षायास्संज्ञाद्वयं आराग्रा परोवरीयसीति ॥

पद-पाठः

ति॒स्रः । ए॒व । सा॒ह्नस्येति॑ स-अ॒ह्नस्य॑ । उ॒प॒सद॒ इत्यु॑प-सदः॑ । द्वाद॑श । अ॒हीन॑स्य । य॒ज्ञस्य॑ । स॒वी॒र्य॒त्वायेति॑ सवीर्य-त्वाय॑ । अथो॒ इति॑ । सलो॒मेति॒ स-लो॒म॒ । क्रि॒य॒ते॒ ।

मूलम् (संयुक्तम्)

व॒त्सस्यैक॒स्स्तनो॑ भा॒गी हि सोऽथैकँ॒ स्तन॑व्व्ँर॒तमुपै॒त्यथ॒ द्वावथ॒ त्रीनथ॑ च॒तुर॑ ए॒तद्वै [25]
क्षु॒रप॑वि॒ नाम॑ व्र॒तय्ँयेन॒ प्र जा॒तान्भ्रातृ॑व्यान्नु॒दते॒ प्रति॑ जनि॒ष्यमा॑णा॒नथो॒ कनी॑यसै॒व भूय॒ उपै॑ति च॒तुरोऽग्रे॒ स्तना॑न्व्र॒तमुपै॒त्यथ॒ त्रीनथ॒ द्वावथैक॑मे॒तद्वै सु॑जघ॒नन्नाम॑ व्र॒तन्त॑प॒स्यँ॑ सुव॒र्ग्य॑मथो॒ प्रैव जा॑यते प्र॒जया॑ प॒शुभि॑र्…

विश्वास-प्रस्तुतिः

व॒त्सस्यैक॒स् स्तनो॑ भा॒गी हि सोऽथैकँ॒ स्तनव्ँ॑ व्र॒तमुपै॒त्य् , अथ॒ द्वाव् अथ॒ त्रीन् अथ॑ च॒तुर॑ ,
ए॒तद् वै क्षु॒रप॑वि॒ नाम॑ व्र॒तय्ँ [25],
येन॒ प्र जा॒तान् भ्रातृ॑व्यान्नु॒दते॒ प्रति॑ जनि॒ष्यमा॑णा॒न् , अथो॒ कनी॑यसै॒व भूय॒ उपै॑ति ।

च॒तुरोऽग्रे॒ स्तना॑न् व्र॒तमुपै॒त्य् अथ॒ त्रीनथ॒ द्वावथैक॑म् ,
ए॒तद् वै सु॑जघ॒नन्नाम॑ व्र॒तन् त॑प॒स्यँ॑ सुव॒र्ग्य॑मथो॒ प्रैव जा॑यते प्र॒जया॑ प॒शुभिः॑ ।

मूलम्

व॒त्सस्यैक॒स् स्तनो॑ भा॒गी हि सोऽथैकँ॒ स्तनव्ँ॑ व्र॒तमुपै॒त्य् , अथ॒ द्वाव् अथ॒ त्रीन् अथ॑ च॒तुर॑ ,
ए॒तद् वै क्षु॒रप॑वि॒ नाम॑ व्र॒तय्ँ [25],
येन॒ प्र जा॒तान् भ्रातृ॑व्यान्नु॒दते॒ प्रति॑ जनि॒ष्यमा॑णा॒न् , अथो॒ कनी॑यसै॒व भूय॒ उपै॑ति ।

च॒तुरोऽग्रे॒ स्तना॑न् व्र॒तमुपै॒त्य् अथ॒ त्रीनथ॒ द्वावथैक॑म् ,
ए॒तद् वै सु॑जघ॒नन्नाम॑ व्र॒तन् त॑प॒स्यँ॑ सुव॒र्ग्य॑मथो॒ प्रैव जा॑यते प्र॒जया॑ प॒शुभिः॑ ।

पद-पाठः

व॒त्सस्य॑ । एकः॑ । स्तनः॑ । भा॒गी । हि । सः । अथ॑ । एक॑म् । स्तन॑म् । व्र॒तम् । उपेति॑ । ए॒ति॒ । अथ॑ । द्वौ । अथ॑ । त्रीन् । अथ॑ । च॒तुरः॑ ।

ए॒तत् । वै । [25] क्षु॒रप॒वीति॑ क्षु॒र-प॒वि॒ । नाम॑ । व्र॒तम् । येन॑ । प्रेति॑ । जा॒तान् । भ्रातृ॑व्यान् । नु॒दते॑ । प्रतीति॑ । ज॒नि॒ष्यमा॑णान् । अथो॒ इति॑ । कनी॑यसा । ए॒व । भूयः॑ । उपेति॑ । ए॒ति॒ ।

च॒तुरः॑ । अग्रे॑ । स्तना॑न् । व्र॒तम् । उपेति॑ । ए॒ति॒ । अथ॑ । त्रीन् । अथ॑ । द्वौ । अथ॑ । एक॑म् । ए॒तत् । वै । सु॒ज॒घ॒नमिति॑ सु-ज॒घ॒नम् । नाम॑ । व्र॒तम् । त॒प॒स्य॑म् । सु॒व॒र्ग्य॑मिति॑ सुवः-ग्य॑म् । अथो॒ इति॑ । प्रेति॑ । ए॒व । जा॒य॒ते॒ । प्र॒जयेति॑ प्र-जया॑ । प॒शुभि॒रिति॑ प॒शु-भिः॒ ।

भट्टभास्कर-टीका

3इदानीं तु तयोर्व्रतयोः स्वरूपं संज्ञां च प्रदर्शयितुमाह- वत्सस्येत्यादि ॥ वत्सस्य एकस्तनस्स्वभूतः कुतः भागी हि सः सोपि भागी, न केवलं गोस्वामी यजमान एव । तस्मादेकं स्तनं तस्मै दत्वा अथान्यतरेष्वितरेष्वेव एकस्तनं व्रतमुपैति । अथ द्वावित्यादि । पूर्ववत् ‘चतुरश्शसि’ इत्यन्तोदात्तत्वम् । एतद्वा इत्यादि । क्षुरवत्पुनातीति क्षुरपविः, ‘अच हः’ इतीप्रत्ययः, उपमानपर्वूपदप्रकृतिस्वरत्वम् । संज्ञा चेयं, क्षुरग्रहणेन चैहिकफलहेतुत्वमस्य प्रतिपाद्यते । यथोक्तं - ‘यः कामयेतास्मिन्मे लोहऽर्धुकं स्यात्’ इति । तदेवाह - येन प्रजातानित्यादि । अन्य अहुः - पविशब्देन मुखमुच्यते । क्षुरस्य पविरिव पविर्यस्येति ‘सप्तम्युपमानपर्वूपदस्य’ इति बहुव्रीहिः । क्षुरधारा नामैतद्व्रतं अकार्त्स्न्येन सद्यश्शातकमिति । तदेवाह - येनेति । येन जातान् भ्रातृव्यान् प्रणुदते प्रतिनिवर्तयति तदिदं क्षुरपविनाम व्रतमिति । यद्वा - येन कारणेन जातान् प्रणुदते जनिष्यमाणांश्च प्रणुदते तेनेदं क्षुरपवीत्याचक्षते इति । अथो अपिच कनीयसा भूय उपैति अल्पतरेण बहुतरं प्राप्नोति, लोके ह्यल्पीयसा महीयः प्राप्नोति बीजेनेव पादपम् । ‘युवाल्पयोः कनन्यतरस्यां’ इति कनादेशः । एवमिदमपीति । सुजघनं नामैतत् व्रतं तपस्यं सुवर्ग्यं च तपस्स्वर्गयोर्निमित्तम् । ‘गोद्व्यचः’ इति यत् । यद्वा - तपसे स्वर्गाय च हितम् । गवादित्वाद्यत् । सुजघनमिति संज्ञानिर्वचनं तु - शोभनोस्य जघनश्चरमो भागः महाफलत्वादिति । ‘नञ्सुभ्याम्’ इत्युत्तरपदान्तोदात्तत्वम् । अथो अपिच प्रजया पशुभिश्च प्रजायते अनेन यजमानः, सुजघनत्वेन प्रजननहेतुत्वात् ॥

मूलम् (संयुक्तम्)

यवा॒गू रा॑ज॒न्य॑स्य व्र॒तङ्क्रू॒रेव॒ वै य॑वा॒गूᳵ क्रू॒र इ॑व [26]
रा॒ज॒न्यो॑ वज्र॑स्य रू॒पँ समृ॑द्ध्या

विश्वास-प्रस्तुतिः

यवा॒गू रा॑ज॒न्य॑स्य व्र॒तङ् क्रू॒रेव॒ वै य॑वा॒गूᳵ क्रू॒र इ॑व रा॒ज॒न्यो॑ वज्र॑स्य रू॒पँ ,
समृ॑द्ध्यै। [26]

मूलम्

यवा॒गू रा॑ज॒न्य॑स्य व्र॒तङ् क्रू॒रेव॒ वै य॑वा॒गूᳵ क्रू॒र इ॑व रा॒ज॒न्यो॑ वज्र॑स्य रू॒पँ ,
समृ॑द्ध्यै। [26]

पद-पाठः

य॒वा॒गूः । रा॒ज॒न्य॑स्य । व्र॒तम् । क्रू॒रा । इ॒व॒ । वै । य॒वा॒गूः । क्रू॒रः । इ॒व॒ । [26] रा॒ज॒न्यः॑ । वज्र॑स्य । रू॒पम् । समृ॑द्ध्या॒ इति॒ सम्-ऋ॒द्ध्यै॒ ।

भट्टभास्कर-टीका

4यवागूरिति ॥ राजन्यस्य । ‘राजश्वशुराद्यत्’ राज्ञोपत्ये जातिग्रहणमिति । क्रूरेवेति । भोक्तुः पीडाकरत्वात् । राजन्योपि क्रूरः पीडारुचित्वात् । वज्रस्येदं रूपं यत्क्रूरत्वं नाम, तस्मात्समृद्ध्यै भवति स्वयं क्रूरस्य क्रूरेण योगः । ‘तादौ च’ इति गतेः प्रकृतिस्वरत्वम् ॥

मूलम् (संयुक्तम्)

आ॒मिक्षा॒ वैश्य॑स्य पाकय॒ज्ञस्य॑ रू॒पम्पुष्ट्यै॒

विश्वास-प्रस्तुतिः

आ॒मिक्षा॒ वैश्य॑स्य पाकय॒ज्ञस्य॑ रू॒पम् पुष्ट्यै॑ ।

मूलम्

आ॒मिक्षा॒ वैश्य॑स्य पाकय॒ज्ञस्य॑ रू॒पम् पुष्ट्यै॑ ।

पद-पाठः

आ॒मिक्षा॑ । वैश्य॑स्य । पा॒क॒य॒ज्ञस्येति॑ पाक-य॒ज्ञस्य॑ । रू॒पम् । पुष्ट्यै॑ ।

भट्टभास्कर-टीका

5आमिक्षेति ॥ यत्संवर्तते साऽऽमिक्षेति । विशोपत्यं वैश्यः, गर्गादित्याद्यञ् । पाकयज्ञस्येदं रूपं, तस्य तथाविधद्रव्यसाध्यत्वात् । पक्वेन अन्नादिना यज्ञः पाकयज्ञः, कृदुत्तरपदप्रकृतिस्वरत्वम् । तस्मात्पुष्ट्यै भवति ॥

मूलम् (संयुक्तम्)

पयो॑ ब्राह्म॒णस्य॒ तेजो॒ वै ब्रा॑ह्म॒णस्तेज॒ᳶ पय॒स्तेज॑सै॒व तेज॒ᳶ पय॑ आ॒त्मन्ध॒त्तेऽथो॒ पय॑सा॒ वै गर्भा॑ वर्धन्ते॒ गर्भ॑ इव॒ खलु॒ वा ए॒ष यद्दी॑क्षि॒तो यद॑स्य॒ पयो॑ व्र॒तम्भव॑त्या॒त्मान॑मे॒व तद्व॑र्धयति॒

विश्वास-प्रस्तुतिः

पयो॑ ब्राह्म॒णस्य॒ तेजो॒ वै ब्रा॑ह्म॒णस् , तेज॒ᳶ पय॒स् , तेज॑सै॒व तेज॒ᳶ पय॑ आ॒त्मन् ध॑त्ते ।
अथो॒ पय॑सा॒ वै गर्भा॑ वर्धन्ते । गर्भ॑ इव॒ खलु॒ वा ए॒ष यद् दी॑क्षि॒तो यद॑स्य॒ पयो॑ व्र॒तम् भव॑त्या॒त्मान॑मे॒व तद्व॑र्धयति ।

मूलम्

पयो॑ ब्राह्म॒णस्य॒ तेजो॒ वै ब्रा॑ह्म॒णस् , तेज॒ᳶ पय॒स् , तेज॑सै॒व तेज॒ᳶ पय॑ आ॒त्मन् ध॑त्ते ।
अथो॒ पय॑सा॒ वै गर्भा॑ वर्धन्ते । गर्भ॑ इव॒ खलु॒ वा ए॒ष यद् दी॑क्षि॒तो यद॑स्य॒ पयो॑ व्र॒तम् भव॑त्या॒त्मान॑मे॒व तद्व॑र्धयति ।

पद-पाठः

पयः॑ । ब्रा॒ह्म॒णस्य॑ । तेजः॑ । वै । ब्रा॒ह्म॒णः । तेजः॑ । पयः॑ । तेज॑सा । ए॒व । तेजः॑ । पयः॑ । आ॒त्मन् । ध॒त्ते॒ ।

अथो॒ इति॑ । पय॑सा । वै । गर्भाः॑ । व॒र्ध॒न्ते॒ । गर्भः॑ । इ॒व॒ । खलु॑ । वै । ए॒षः । यत् । दी॒क्षि॒तः । यत् । अ॒स्य॒ । पयः॑ । व्र॒तम् । भव॑ति । आ॒त्मान॑म् । ए॒व । तत् । व॒र्ध॒य॒ति॒ ।

भट्टभास्कर-टीका

6पयो ब्राह्मणस्येति ॥ तेजस्वी ब्राह्मणः, तेजः पयः, तस्मादात्मीयेन तेजसा सह तेजनं पय आत्मन् धत्ते । पूर्ववत् ङेर्लुक्, नलोपाभावश्च । अथो अपि च । पयसा वा इत्यादि । गतम् ॥

मूलम् (संयुक्तम्)

त्रिव्र॑तो॒ वै मनु॑रासी॒द्द्विव्र॑ता॒ असु॑रा॒ एक॑व्रताः [27]
दे॒वाᳶ प्रा॒तर्म॒ध्यन्दि॑ने सा॒यन्तन्मनो॑र्व्र॒तमा॑सीत्पाकय॒ज्ञस्य॑ रू॒पम्पुष्ट्यै॑ प्रा॒तश्च॑ सा॒यञ्चासु॑राणान्निर्म॒ध्यङ्क्षु॒धो रू॒पन्तत॒स्ते परा॑भवन्म॒ध्यन्दि॑ने मध्यरा॒त्रे दे॒वाना॒न्तत॒स्ते॑ऽभवन्त्सुव॒र्गल्ँ लो॒कमा॑य॒न्यद॑स्य म॒ध्यन्दि॑ने मध्यरा॒त्रे व्र॒तम्भव॑ति मध्य॒तो वा अन्ने॑न भुञ्जते मध्य॒त ए॒व तदूर्ज॑न्धत्ते॒ भ्रातृ॑व्याभिभूत्यै॒ भव॑त्या॒त्मना॑ [28]
परा॑ऽस्य॒ भ्रातृ॑व्यो भवति॒

विश्वास-प्रस्तुतिः

त्रिव्र॑तो॒ वै मनु॑रासी॒द् द्विव्र॑ता॒ असु॑रा॒ एक॑व्रताः दे॒वाः ।[27]

प्रा॒तर्म॒ध्यन्दि॑ने सा॒यन् तन्मनो॑र् व्र॒तमा॑सीत् पाकय॒ज्ञस्य॑ रू॒पम् , पुष्ट्यै॑ ।
प्रा॒तश्च॑ सा॒यञ्चासु॑राणान् निर्म॒ध्यङ् क्षु॒धो रू॒पन् , तत॒स् ते परा॑भवन् ।
म॒ध्यन्दि॑ने मध्यरा॒त्रे दे॒वाना॒न् तत॒स् ते॑ ऽभवन्त् , सुव॒र्गल्ँ लो॒कमा॑य॒न् ।
यद॑स्य म॒ध्यन्दि॑ने मध्यरा॒त्रे व्र॒तम्भव॑ति , मध्य॒तो वा अन्ने॑न भुञ्जते , मध्य॒त ए॒व तदूर्ज॑न् धत्ते॒ , भ्रातृ॑व्याभिभूत्यै ।
भव॑त्या॒त्मना॑ ।[28] परा॑ऽस्य॒ भ्रातृ॑व्यो भवति ।

मूलम्

त्रिव्र॑तो॒ वै मनु॑रासी॒द् द्विव्र॑ता॒ असु॑रा॒ एक॑व्रताः दे॒वाः ।[27]

प्रा॒तर्म॒ध्यन्दि॑ने सा॒यन् तन्मनो॑र् व्र॒तमा॑सीत् पाकय॒ज्ञस्य॑ रू॒पम् , पुष्ट्यै॑ ।
प्रा॒तश्च॑ सा॒यञ्चासु॑राणान् निर्म॒ध्यङ् क्षु॒धो रू॒पन् , तत॒स् ते परा॑भवन् ।
म॒ध्यन्दि॑ने मध्यरा॒त्रे दे॒वाना॒न् तत॒स् ते॑ ऽभवन्त् , सुव॒र्गल्ँ लो॒कमा॑य॒न् ।
यद॑स्य म॒ध्यन्दि॑ने मध्यरा॒त्रे व्र॒तम्भव॑ति , मध्य॒तो वा अन्ने॑न भुञ्जते , मध्य॒त ए॒व तदूर्ज॑न् धत्ते॒ , भ्रातृ॑व्याभिभूत्यै ।
भव॑त्या॒त्मना॑ ।[28] परा॑ऽस्य॒ भ्रातृ॑व्यो भवति ।

पद-पाठः

त्रिव्र॑त॒ इति॒ त्रि-व्र॒तः॒ । वै । मनुः॑ । आ॒सी॒त् । द्विव्र॑ता॒ इति॒ द्वि-व्र॒ताः॒ । असु॑राः । एक॑व्रता॒ इत्येक॑-व्र॒ताः॒ । [27]
दे॒वाः ।
प्रा॒तः । म॒ध्यन्दि॑ने । सा॒यम् । तत् । मनोः॑ । व्र॒तम् । आ॒सी॒त् । पा॒क॒य॒ज्ञस्येति॑ पाक-य॒ज्ञस्य॑ । रू॒पम् । पुष्ट्यै॑ । प्रा॒तः । च॒ । सा॒यम् । च॒ । असु॑राणाम् । नि॒र्म॒ध्यमिति॑ निः-म॒ध्यम् । क्षु॒धः । रू॒पम् । ततः॑ । ते॒ । परेति॑ । अ॒भ॒व॒न् ।
म॒ध्यन्दि॑ने । म॒ध्य॒रा॒त्र इति॑ मध्य-रा॒त्रे । दे॒वाना॑म् । ततः॑ । ते । अ॒भ॒व॒न् । सु॒व॒र्गमिति॑ सुवः-गम् । लो॒कम् । आ॒य॒न् ।
यत् । अ॒स्य॒ । म॒ध्यन्दि॑ने । म॒ध्य॒रा॒त्र इति॑ मध्य-रा॒त्रे । व्र॒तम् । भव॑ति । म॒ध्य॒तः । वै । अन्ने॑न । भु॒ञ्ज॒ते॒ । म॒ध्य॒तः । ए॒व । तत् । ऊर्ज॑म् । ध॒त्ते॒ । भ्रातृ॑व्याभिभूत्या॒ इति॒ भ्रातृ॑व्य-अ॒भि॒भू॒त्यै॒ ।
भव॑ति । आ॒त्मना॑ । [28] परेति॑ । अ॒स्य॒ । भ्रातृ॑व्यः । भ॒व॒ति॒ ।

भट्टभास्कर-टीका

7त्रिव्रत इति ॥ त्रिषु लोकेषु व्रतं भोजनमस्येति त्रिव्रतः, द्वयोः द्विव्रतः, एकस्मिन् एकव्रतः । व्रतसमानाधिकरणा वा बहुव्रीहयः । तत्र मनोः कालत्रयमाह - प्रातरित्यादि । तन्मनोः प्रातर्मध्यन्दिने सायं च यस्मादासीत् तस्मात्त्रिव्रतो मनुरासीदिति । द्वितीयपक्षे व्रतस्य त्रैविध्याय कालभेदप्रदर्शनम् । मध्ये भवः कालो मध्यन्दिनं, प्रातरादिना साहचर्यादह्न इति गम्यते । ‘मध्यो मध्यन्दिनं चास्मात्’ । पाकयज्ञस्येदं रूपं, तस्य तेषु त्रिषु लोकेषु कालेषु विधानात् । तस्मात्ते पुष्ट्यै भवन्ति । प्रातश्च सायं चेति । प्रातस्सायं चासुराणां भोजनमासीत्, तस्माद्द्विव्रता इति । निर्मध्यं मध्यशून्यम् । निरुदकादिरुत्तरपदान्तोदात्तः । क्षुध एतद्रूपं, यत्र क्षुत्तीव्रा भवति तत्र भोजनस्य लुप्तत्वात् । ततस्ते असुराः पराभवम् नष्टाः । मध्यन्दिने इति । मध्यन्दिने व्रतं भोजनमेकं मध्यरात्रे चैषामेकमिति एकव्रताः । ततस्ते अभवन् भूतिमन्तस्स्वर्गं च गताः । यदस्येत्यादि । यद्यस्मादस्य मध्यन्दिने मध्यरात्रे व्रतं भवति तस्मान्मध्यतो मध्यमे वयसि अन्नेन सह मांसादि प्रभूतं भुञ्जते मध्यमे एव स्थाने ऊर्जमन्नं धत्ते स्थापयति । ‘आद्यादिभ्यस्तसिः’ । तस्माद्भ्रातृव्याभिभूत्यै भवति । दासीभारादिः । भवत्यात्मनेत्यादि । गतम् ॥

मूलम् (संयुक्तम्)

गर्भो॒ वा ए॒ष यद्दी॑क्षि॒तो योनि॑र्दीक्षितविमि॒तय्ँयद्दी॑क्षि॒तो दी॑क्षितविमि॒तात्प्र॒वसे॒द्यथा॒ योने॒र्गर्भ॒स्स्कन्द॑ति ता॒दृगे॒व तन्न प्र॑वस्त॒व्य॑मा॒त्मनो॑ गोपी॒थायै॒ष वै व्या॒घ्रᳵ कु॑लगो॒पो यद॒ग्निस्तस्मा॒द्यद्दी॑क्षि॒तᳶ प्र॒वसे॒त्स ए॑नमीश्व॒रो॑ऽनू॒त्थाय॒ हन्तो॒र्न प्र॑वस्त॒व्य॑मा॒त्मनो॒ गुप्त्यै॑

विश्वास-प्रस्तुतिः

गर्भो॒ वा ए॒ष यद् दी॑क्षि॒तो योनि॑र् दीक्षितविमि॒तय्ँ यद् दी॑क्षि॒तो दी॑क्षितविमि॒तात् प्र॒वसे॒द् ,
यथा॒ योने॒र् गर्भ॒स् स्कन्द॑ति ता॒दृग् ए॒व तन् न प्र॑वस्त॒व्य॑म् , आ॒त्मनो॑ गोपी॒थाय॑ ।
ए॒ष वै व्या॒घ्रᳵ कु॑लगो॒पो यद् अ॒ग्निस् तस्मा॒द् यद् दी॑क्षि॒तᳶ प्र॒वसे॒त् ,
स ए॑नमीश्व॒रो॑ ऽनू॒त्थाय॒ हन्तो॒र् न प्र॑वस्त॒व्य॑म् आ॒त्मनो॒ गुप्त्यै॑ ।

मूलम्

गर्भो॒ वा ए॒ष यद् दी॑क्षि॒तो योनि॑र् दीक्षितविमि॒तय्ँ यद् दी॑क्षि॒तो दी॑क्षितविमि॒तात् प्र॒वसे॒द् ,
यथा॒ योने॒र् गर्भ॒स् स्कन्द॑ति ता॒दृग् ए॒व तन् न प्र॑वस्त॒व्य॑म् , आ॒त्मनो॑ गोपी॒थाय॑ ।
ए॒ष वै व्या॒घ्रᳵ कु॑लगो॒पो यद् अ॒ग्निस् तस्मा॒द् यद् दी॑क्षि॒तᳶ प्र॒वसे॒त् ,
स ए॑नमीश्व॒रो॑ ऽनू॒त्थाय॒ हन्तो॒र् न प्र॑वस्त॒व्य॑म् आ॒त्मनो॒ गुप्त्यै॑ ।

पद-पाठः

गर्भः॑ । वै । ए॒षः । यत् । दी॒क्षि॒तः । योनिः॑ । दी॒क्षि॒त॒वि॒मि॒तमिति॑ दीक्षित-वि॒मि॒तम् । यत् । दी॒क्षि॒तः । दी॒क्षि॒त॒वि॒मि॒तादिति॑ दीक्षित-वि॒मि॒तात् । प्र॒वसे॒दिति॑ प्र-वसे॑त् ।

यथा॑ । योनेः॑ । गर्भः॑ । स्कन्द॑ति । ता॒दृक् । ए॒व । तत् । न । प्र॒व॒स्त॒व्य॑मिति॑ प्र-व॒स्त॒व्य॑म् । आ॒त्मनः॑ । गो॒पी॒थाय॑ ।

ए॒षः । वै । व्या॒घ्रः । कु॒ल॒गो॒प इति॑ कुल-गो॒पः । यत् । अ॒ग्निः । तस्मा॑त् । यत् । दी॒क्षि॒तः । प्र॒वसे॒दिति॑ प्र-वसे॑त् ।

सः । ए॒न॒म् । ई॒श्व॒रः । अ॒नू॒त्थायेत्य॑नु-उ॒त्थाय॑ । हन्तोः॑ । न । प्र॒व॒स्त॒व्य॑मिति॑ प्र-व॒स्त॒व्य॑म् । आ॒त्मनः॑ । गुप्त्यै॑ ।

भट्टभास्कर-टीका

8गर्भ इत्यादि ॥ गर्भस्थानीयो दीक्षितः योनिस्थानीयं दीक्षितविमितम् । दीक्षितस्य विमितं यत्र यत्र दीक्षितो विमीयते विशेषेण प्रक्षिप्यते योनाविव गर्भः । डु मिञ् प्रक्षेपणे । शालायां च दीक्षितो विमीयते तस्मात्तत्स्थानाद्यदि प्रवसेत् योनेर्गर्भस्रावसमं तत्स्यात् तस्मान्न प्रवस्तव्यमात्मनो गोपीथाय अविनाशाय स्थापनार्थम् । एष वा इति । अग्निः व्याघ्रस्थानीयः कुलस्य च गोप्ता भवति । तस्मादप्रमत्तेनोपचरितव्यं, दुराराधत्वादुपकारित्वाच्च । तस्मादीदृशमेनमुत्सृज्य यदि प्रवसेत् एन मनूत्थाय स्वयमपि स्वस्थानादुच्चलितो भूत्वा हन्तोः हन्तुमीश्वरः प्रभुः । तस्मान्न प्रवस्तव्यमात्मनो गुप्त्यै स यथात्मानं गोपायेत् । ‘ईश्वरे तोसुन्कसुनौ’ इति तोसुन्प्रत्ययः ॥

मूलम् (संयुक्तम्)

दक्षिण॒तश्श॑य ए॒तद्वै यज॑मानस्या॒यत॑नँ॒ स्व ए॒वायत॑ने शये॒

विश्वास-प्रस्तुतिः

द॒क्षि॒ण॒तश् श॑ये ।
ए॒तद् वै यज॑मानस्या॒यत॑नँ॒ , स्व ए॒वायत॑ने शये ।

मूलम्

द॒क्षि॒ण॒तश् श॑ये ।
ए॒तद् वै यज॑मानस्या॒यत॑नँ॒ , स्व ए॒वायत॑ने शये ।

पद-पाठः

द॒क्षि॒ण॒तः । श॒ये॒ ।
ए॒तत् । वै । यज॑मानस्य । आ॒यत॑न॒मित्या॑-यत॑नम् । स्वे । ए॒व । आ॒यत॑न॒ इत्या॑-यत॑ने । श॒ये॒ ।

भट्टभास्कर-टीका

9दक्षिणतश्शय इति विधिः ॥ आहवनीयस्य दक्षिणतश्शयीत यजमानः । ‘लोपस्त आत्मनेपदेषु’ इति तलोपः । एतत् यजमानस्यायतनं, तस्मात्स्व एवायतने शये शयनं कृतं भवति ॥

मूलम् (संयुक्तम्)

ऽग्निम॑भ्या॒वृत्य॑ शये दे॒वता॑ ए॒व य॒ज्ञम॑भ्या॒वृत्य॑ शये ॥ [29]

विश्वास-प्रस्तुतिः

अग्निम॑भ्या॒वृत्य॑ शये । दे॒वता॑ ए॒व य॒ज्ञम् अ॑भ्या॒वृत्य॑ शये ॥ [29]

मूलम्

अग्निम॑भ्या॒वृत्य॑ शये । दे॒वता॑ ए॒व य॒ज्ञम् अ॑भ्या॒वृत्य॑ शये ॥ [29]

पद-पाठः

अ॒ग्निम् । अ॒भ्या॒वृत्येत्य॑भि-आ॒वृत्य॑ । श॒ये॒ । दे॒वताः॑ । ए॒व । य॒ज्ञम् । अ॒भ्या॒वृत्येत्य॑भि-आ॒वृत्य॑ । श॒ये॒ ॥ [29]

भट्टभास्कर-टीका

10अग्निमित्यादिविधिः ॥ अग्निमभ्यावृत्याभिमुख्येनावृत्य शयीत अग्न्यभिमुख इत्यर्थः । देवताश्च यज्ञं चाभ्यावृत्य शयनं कृतं भवति । न ते ष्टष्ठतः कृता भवन्ति ॥

इति षष्ठे द्वितीये पञ्चमोनुवाकः ॥