१५ सौमिक्या वेद्यभिधानम्

०४ सौमिक्या वेद्यभिधानम् ...{Loading}...

सोमऋषिः

मूलम् (संयुक्तम्)

सु॒व॒र्गव्ँवा ए॒ते लो॒कय्ँय॑न्ति॒ य उ॑प॒सद॑ उप॒यन्ति॒ तेषाय्ँ॒य उ॒न्नय॑ते॒ हीय॑त ए॒व सः

विश्वास-प्रस्तुतिः

सु॒व॒र्गव्ँ वा ए॒ते लो॒कय्ँ य॑न्ति॒ ,य उ॑प॒सद॑ उप॒यन्ति॑ ।
तेषाय्ँ॒ य उ॒न्नय॑ते॒ , हीय॑त ए॒व सः ।

मूलम्

सु॒व॒र्गव्ँ वा ए॒ते लो॒कय्ँ य॑न्ति॒ ,य उ॑प॒सद॑ उप॒यन्ति॑ ।
तेषाय्ँ॒ य उ॒न्नय॑ते॒ , हीय॑त ए॒व सः ।

पद-पाठः

सु॒व॒र्गमिति॑ सुवः-गम् । वै । ए॒ते । लो॒कम् । य॒न्ति॒ । ये । उ॒प॒सद॒ इत्यु॑प-सदः॑ । उ॒प॒यन्तीत्यु॑प-यन्ति॑ ।

तेषा॑म् । यः । उ॒न्नय॑त॒ इत्यु॑त्-नय॑ते । हीय॑ते । ए॒व । सः ।

भट्टभास्कर-टीका

1उक्तमुपसत्सु स्तनव्रतं, तत्राशक्तविषये कथं कर्तव्यमित्याह - सुवर्गमित्यादि ॥ द्वादशाहविषयमेवेति केचित् । य उपसद उपयन्ति उपगच्छन्ति स्वर्गं खल्वेते यन्ति प्राप्नुवन्ति न तुच्छसुखान्तरं तस्मादेभिर्मात्राऽपि नापचरितव्या । अवहितैरेव विहितकरणाय भवितव्यम् । एवं स्थिते तेषां मध्ये य उन्नयत उत्कृष्य नयते नयनं देहयात्रा अशनमिति यावत् । यथोक्तं स्तनव्रतमतिक्रम्य ओदनादिना देहं धारयतीत्यर्थः । यद्वा - स्तन्यं य उन्नयते उपरि नयते ओदनादेरुपर्युन्नीय भुङ्क्ते एवमपि स्तन्यमुपकृतं भवतीति । हीयत एव स इति । सः तत्कारी हीयत एव फलात्स्वर्गप्राप्तिलक्षणात् । विहितकरणात् तस्मान्नो हीयते इति ॥

मूलम् (संयुक्तम्)

नोद॑ने॒षीति॒ सू॑न्नीयमिव॒

विश्वास-प्रस्तुतिः

नोद॑ने॒षीति॒ सू॑न्नीयमिव ।

मूलम्

नोद॑ने॒षीति॒ सू॑न्नीयमिव ।

पद-पाठः

न । उदिति॑ । अ॒ने॒षि॒ । इति॑ । सू॑न्नीय॒मिति॒ सु-उ॒न्नी॒य॒म् । इ॒व॒ ।

भट्टभास्कर-टीका

2इदानीमशक्तैः कथं प्रतिपत्तव्यमित्याह - नोदनेषीति सून्नीयमिवेति ॥ नोदनेषि नोन्नयनं करोमि नोन्नयनमकार्षमित्येव वा यथा वकुं शक्यते तथा सून्नीयं साधून्नेतव्यं तथाऽशितव्यं साध्वेवाशक्तैरित्यभिप्रायः, ‘श्रान्तो हीयते’ इति दृष्टान्तदर्शनात् । ‘छन्दसि निष्टर्क्य’ इत्यादिना उन्नीयशब्दो निपात्यते, ततः प्रादिसमासे अव्ययपर्वूपदप्रकृतिस्वरत्वम् । ‘स्वरितो वाऽनुदात्ते पदादौ’ इति स्वरितत्वम् । केचिदाहुः - उदञ्चनेषु सकृदिति कृत्वा सून्नेतव्यं भूय उन्नेतव्यं; तदयुक्तं, उन्नयनविशेषणत्वे गतित्वेन कृदुत्तरपदप्रकृतिस्वरत्वप्रसंगादिति । नयतेर्लुङि सिचि गुणे च कृते उदनेषीति रूपम् । उन्नयननिवृत्तिरेव साधीयसीति प्रदर्शनार्थमुन्नयतेररुचिं द्योतयितुमिवेत्युक्तम् ॥

मूलम् (संयुक्तम्)

यो वै स्वा॒र्थेताय्ँ॑य॒ताँ श्रा॒न्तो हीय॑त उ॒त स नि॒ष्ट्याय॑ स॒ह व॑सति॒

विश्वास-प्रस्तुतिः

यो वै स्वा॒र्थेता॑य् यँ॒ताँ श्रा॒न्तो हीय॑त , उ॒त स नि॒ष्ट्याय॑ स॒ह व॑सति ।

मूलम्

यो वै स्वा॒र्थेता॑य् यँ॒ताँ श्रा॒न्तो हीय॑त , उ॒त स नि॒ष्ट्याय॑ स॒ह व॑सति ।

पद-पाठः

यः । वै । स्वा॒र्थेता॒मिति॑ स्वार्थ-इता॑म् । य॒ताम् । श्रा॒न्तः । हीय॑ते । उ॒त । सः । नि॒ष्ट्याय॑ । स॒ह । व॒स॒ति॒ ।

भट्टभास्कर-टीका

3अथ योऽशक्तानामनुग्रह उक्तः तं लौकिकेन दृष्टान्तेन द्रढयितुमाह - यो वा इत्यादि ॥ स्वार्थेतां स्वार्थं गच्छतां आत्मीयं प्रयोजनं साधयितुं गच्छताम् । एतेन एतेरनुदात्तेतो भाव उक्तः । एतेः क्विप् । यतां यतमानानाम्, यतेः क्विप्, ‘सावेकाचः’ इति विभक्तेरुदात्तत्वम् । एतेनालस्याभाव उक्तः । यद्वा - स्वार्थेतां स्वप्रयोजनमुपगतानां यतां स्वप्रयोजनं साधयितुं गच्छताम् । एतेश्शतरि ‘शतुरनुमः’ इति विभक्तेरुदात्तत्वम् । ईदृशानां मध्ये यः कश्चिच्छ्रान्तो हीयते स्वार्थात्प्रच्युतो भवति, उत सोपि निष्ट्याय स्वार्थान्निर्गत्य विश्राम्य च सह वसति पुनस्स्वार्थेनैकीभूतः शेषं कार्यं सह करोति । स्त्यायतेर्ल्यपि कृदुत्तरपदप्रकृतिस्वरत्वम् । स यथा स्वार्थान्न हीयते एवमयमपि फलान्न हीयते इति ॥

मूलम् (संयुक्तम्)

तस्मा॑त्स॒कृदु॒न्नीय॒ नाप॑र॒मुन्न॑येत द॒ध्नोन्न॑येतै॒तद्वै प॑शू॒नाँ रू॒पँ रू॒पेणै॒व प॒शूनव॑ रुन्द्धे [20]

विश्वास-प्रस्तुतिः

तस्मा॑त् स॒कृद् उ॒न्नीय॒ नाप॑र॒म् उन्न॑येत ।
द॒ध्नोन्न॑येत । ए॒तद्वै प॑शू॒नाँ रू॒पम् । रू॒पेणै॒व प॒शूनव॑ रुन्धे ।[20]

मूलम्

तस्मा॑त् स॒कृद् उ॒न्नीय॒ नाप॑र॒म् उन्न॑येत ।
द॒ध्नोन्न॑येत । ए॒तद्वै प॑शू॒नाँ रू॒पम् । रू॒पेणै॒व प॒शूनव॑ रुन्धे ।[20]

पद-पाठः

तस्मा॑त् । स॒कृत् । उ॒न्नीयेत्यु॑त्-नीय॑ । न । अप॑रम् । उदिति॑ । न॒ये॒त॒ ।
द॒ध्ना । उदिति॑ । न॒ये॒त॒ ।
ए॒तत् । वै । प॒शू॒नाम् । रू॒पम् ।
रू॒पेण॑ । ए॒व । प॒शून् । अवेति॑ । रु॒न्द्धे॒ । [20]

भट्टभास्कर-टीका

4तर्हि कथमुन्नयने कृते नोदनेषीति वक्तुं शक्यते इत्याह - तस्मात्सकृदित्यादि ॥ यस्मादेवमुन्नेतव्यश्च भवाति तस्मात्सकृदेकवारमुन्नीय नापरं न पुनर्द्वितीयमुन्नयेत । तद्धि नैवोन्नीतं नैवानुन्नीतम् । उन्नयनेऽशक्तो ध्रियते, अनुन्नयने विहिताकरणदोषप्रसङ्गात् । दध्नोन्नयेतेत्यादि । गतम् । ‘अस्थिदधि’ इत्यादिनानङ्, अल्लोपे उदात्तनिवृत्तिस्वरेण विभक्तेरुदात्तत्वम् ‘नामन्यतरस्याम्’ इति नामउदात्तत्वम् ॥

मूलम् (संयुक्तम्)

य॒ज्ञो दे॒वेभ्यो॒ निला॑यत॒ विष्णू॑ रू॒पङ्कृ॒त्वा स पृ॑थि॒वीम्प्रावि॑श॒त्तन्दे॒वा हस्ता॑न्त्सँ॒रभ्यै॑च्छ॒न्तमिन्द्र॑ उ॒पर्यु॑प॒र्यत्य॑क्राम॒त्

विश्वास-प्रस्तुतिः

य॒ज्ञो दे॒वेभ्यो॒ निला॑यत॒ विष्णू॑ रू॒पङ् कृ॒त्वा स पृ॑थि॒वीम् प्रावि॑शत् ।

तन् दे॒वा हस्ता॑न्त्सँ॒रभ्यै॑च्छन् ।
तमिन्द्र॑ उ॒पर्य् उ॑प॒र्य् अत्य॑क्रामत् ।

मूलम्

य॒ज्ञो दे॒वेभ्यो॒ निला॑यत॒ विष्णू॑ रू॒पङ् कृ॒त्वा स पृ॑थि॒वीम् प्रावि॑शत् ।

तन् दे॒वा हस्ता॑न्त्सँ॒रभ्यै॑च्छन् ।
तमिन्द्र॑ उ॒पर्य् उ॑प॒र्य् अत्य॑क्रामत् ।

पद-पाठः

य॒ज्ञः । दे॒वेभ्यः॑ । निला॑यत । विष्णुः॑ । रू॒पम् । कृ॒त्वा । सः । पृ॒थि॒वीम् । प्रेति॑ । अ॒वि॒श॒त् ।
तम् । दे॒वाः । हस्ता॑न् । सँ॒रभ्येति॑ सम्-रभ्य॑ । ऐ॒च्छ॒न् ।
तम् । इन्द्रः॑ । उ॒पर्यु॑प॒रीत्यु॒परि॑-उ॒प॒रि॒ । अतीति॑ । अ॒क्रा॒म॒त् ।

भट्टभास्कर-टीका

5अथ सौमिकीं विधास्यन्नाह - यज्ञो देवेभ्य इत्यादि ॥ निलायत निरगच्छत् । अयतेर्लङि ‘उपसर्गस्यायतौ ’ इति लत्वम् । विष्णुर्भूत्वा रूपं च वैष्णवं व्यापनशीलमव्यक्तलक्षणं कृत्वा देवेभ्यः अगच्छत् । ततस्स पृथिवीं प्राविशत् । तं यज्ञं देवाः इन्द्रादयः हस्तान् संरभ्य अन्योन्यस्य गृहीत्वा वेष्टित्वा तमैच्छन् । यद्वा - हस्तान् संरभ्य संसृष्टान् वितत्य तं ग्रहीतुमैच्छन् । इन्द्रस्तु तं यज्ञमुपर्युपरि यत्रयत्र गतः तत्रतत्रोपर्यत्यक्रामत् अतिक्रम्य स्थितः । ‘उपर्यध्यधस्सामीप्ये’ इति द्विर्वचनम्, ‘अनुदात्तं च’ इति द्वितीयस्यानुदात्तत्वम् ॥

मूलम् (संयुक्तम्)

सो॑ऽब्रवी॒त्को मा॒यमु॒पर्यु॑प॒र्यत्य॑क्रमी॒दित्य॒हन्दु॒र्गे हन्तेत्यथ॒ कस्त्वमित्य॒हन्दु॒र्गादाह॒र्तेति॒ सो॑ऽब्रवीद्दु॒र्गे वै हन्ता॑वोचथा वरा॒हो॑ऽयव्ँवा॑ममो॒षः [21]
स॒प्ता॒नाङ्गि॑री॒णाम्प॒रस्ता॑द्वि॒त्तव्ँवेद्य॒मसु॑राणाम्बिभर्ति॒ तञ्ज॑हि॒ यदि॑ दु॒र्गे हन्तासीति॒ स द॑र्भपुञ्जी॒लमु॒द्वृह्य॑ स॒प्त गि॒रीन्भि॒त्त्वा तम॑ह॒न्त्सो॑ऽब्रवीद्दु॒र्गाद्वा आह॑र्तावोचथा ए॒तमा ह॒रेति॒ तमे॑भ्यो य॒ज्ञ ए॒व य॒ज्ञमाह॑र॒द्यत्तद्वि॒त्तव्ँवेद्य॒मसु॑राणा॒मवि॑न्दन्त॒ तदेकव्ँ॒वेद्यै॑ वेदि॒त्वम्

विश्वास-प्रस्तुतिः

सो॑ऽब्रवी॒त् , को मा॒यमु॒पर्यु॑प॒र्यत्य॑क्रमी॒दिति॑ । अ॒हन्दु॒र्गे हन्तेत्यथ॒ कस्त्वमिति॑।
अ॒हन् दु॒र्गादाह॒र्तेति॑ । सो॑ऽब्रवीद् दु॒र्गे वै हन्ता॑ ऽवोचथा वरा॒हो॑ऽयव्ँ वा॑ममो॒षस् [21]
स॑प्ता॒नाङ् गि॑री॒णाम् प॒रस्ता॑द् वि॒त्तव्ँ वेद्य॒मसु॑राणाम् बिभर्ति॒ ,
तञ् ज॑हि॒ यदि॑ दु॒र्गे हन्तासीति॑ ।
स द॑र्भपुञ्जी॒लम् उ॒द्वृह्य॑ स॒प्त गि॒रीन् भि॒त्त्वा तम॑हन् ।
सो॑ ऽब्रवीद् दु॒र्गाद् वा आह॑र्ता ऽवोचथा ए॒तमा ह॒रेति॑ ।
तमे॑भ्यो य॒ज्ञ ए॒व य॒ज्ञमाह॑रत् ।
यत्तद्वि॒त्तव्ँ वेद्य॒मसु॑राणा॒मवि॑न्दन्त॒ तदेकव्ँ॒ वेद्यै॑ वेदि॒त्वम् ।

मूलम्

सो॑ऽब्रवी॒त् , को मा॒यमु॒पर्यु॑प॒र्यत्य॑क्रमी॒दिति॑ । अ॒हन्दु॒र्गे हन्तेत्यथ॒ कस्त्वमिति॑।
अ॒हन् दु॒र्गादाह॒र्तेति॑ । सो॑ऽब्रवीद् दु॒र्गे वै हन्ता॑ ऽवोचथा वरा॒हो॑ऽयव्ँ वा॑ममो॒षस् [21]
स॑प्ता॒नाङ् गि॑री॒णाम् प॒रस्ता॑द् वि॒त्तव्ँ वेद्य॒मसु॑राणाम् बिभर्ति॒ ,
तञ् ज॑हि॒ यदि॑ दु॒र्गे हन्तासीति॑ ।
स द॑र्भपुञ्जी॒लम् उ॒द्वृह्य॑ स॒प्त गि॒रीन् भि॒त्त्वा तम॑हन् ।
सो॑ ऽब्रवीद् दु॒र्गाद् वा आह॑र्ता ऽवोचथा ए॒तमा ह॒रेति॑ ।
तमे॑भ्यो य॒ज्ञ ए॒व य॒ज्ञमाह॑रत् ।
यत्तद्वि॒त्तव्ँ वेद्य॒मसु॑राणा॒मवि॑न्दन्त॒ तदेकव्ँ॒ वेद्यै॑ वेदि॒त्वम् ।

पद-पाठः

सः । अ॒ब्र॒वी॒त् ।
कः । मा॒ । अ॒यम् । उ॒पर्यु॑प॒रीत्यु॒परि॑-उ॒प॒रि॒ । अतीति॑ । अ॒क्र॒मी॒त् । इति॑ ।
अ॒हम् । दु॒र्ग इति॑ दुः-गे । हन्ता॑ । इति॑ । अथ॑ । कः । त्वम् । इति॑ ।
अ॒हम् । दु॒र्गादिति॑ दुः-गात् । आह॒र्तेत्या-ह॒र्ता॒ । इति॑ ।
सः । अ॒ब्र॒वी॒त् ।
दु॒र्ग इति॑ दुः-गे । वै । हन्ता॑ । अ॒वो॒च॒थाः॒ । व॒रा॒हः । अ॒यम् । वा॒म॒मो॒ष इति॑ वाम-मो॒षः । [21]
स॒प्ता॒नाम् । गि॒री॒णाम् । प॒रस्ता॑त् । वि॒त्तम् । वेद्य॑म् । असु॑राणाम् । बि॒भ॒र्ति॒ । तम् । ज॒हि॒ । यदि॑ । दु॒र्ग इति॑ दुः-गे । हन्ता॑ । असि॑ । इति॑ । सः । द॒र्भ॒पु॒ञ्जी॒लमिति॑ दर्भ-पु॒ञ्जी॒लम् । उ॒द्वृह्येत्यु॑त्-वृह्य॑ । स॒प्त । गि॒रीन् । भि॒त्त्वा । तम् । अह॑न् ।
सः । अ॒ब्र॒वी॒त् ।
दु॒र्गादिति॑ दुः-गात् । वै । आह॒र्तेत्या-ह॒र्ता॒ । अ॒वो॒च॒थाः॒ । ए॒तम् । एति॑ । ह॒र॒ । इति॑ ।
तम् । ए॒भ्यः॒ । य॒ज्ञः । ए॒व । य॒ज्ञम् । एति॑ । अ॒ह॒र॒त् ।
यत् । तत् । वि॒त्तम् । वेद्य॑म् । असु॑राणाम् । अवि॑न्दन्त । तत् । एक॑म् । वेद्यै॑ । वे॒दि॒त्वमिति॑ वेदि-त्वम् ।

भट्टभास्कर-टीका

6स यज्ञोब्रवीत् - को यज्ञं मामुपर्युपर्यत्यक्रमीदिति । अद्यतनत्वाल्लङ्न भवति । लुङि ‘नेटि’ इति वृद्ध्यभावः । अथोचे - अहं दुर्गे हन्ता यत्रान्येन केन चिद्गन्तुं न शक्यते तत्रागन्तुं तत्र न्यञ्चं गन्तुं शक्तोहं कश्चिदिति । ‘सुदुरोरधिकरणे’ इति डः । हन्तेस्साधुकारिणि तृन् । एवमुक्त्वा इन्द्र एव पुनरूचे - अथ कस्त्वमिति । अथ यज्ञ ऊचे - अहं तादृशाद्दुर्गादाहर्तेति दुर्गादिष्टमाहर्तुं समर्थोहं कश्चिदिति । पूर्ववत् तृनि ‘तादौ च’ इति गतेः प्रकृतिस्वरत्वमुभयत्र । एवमुक्त्वा स एवाब्रवीद्यज्ञः - दुर्गे हन्तेत्यवोचथास्त्वमिदानीम् । प्रूर्ववदद्यतनत्वात् लुङेव । सत्यमुच्यते वराहः सुत्यायज्ञाख्यो वरणीयदिवसात्मा वाममोषः वननीयानां धनानां मोषकः वननीयो वा मोषकः सप्तानां गिरीणामहरात्मनां दुर्गाणां परस्तात्परतः असुराणां वित्तं वसु वेद्यं वेदितव्यं वेत्तुं वा शक्यं यावत्किंचित्तत्सर्वं बिभर्ति रक्षति तं जहीति दुर्गे हन्ताऽसि अहं दुर्गे हन्तेति यत्त्वयोक्तं यदि तत्सत्यमिति । स इन्द्रः दर्भपुञ्जीलमुद्वृह्य आदाय तेन सप्त गिरीन् भित्त्वा तमहन् तं हतवान् । हत्वा च सोब्रवीदिन्द्रः - त्वमपि दुर्गादाहर्तेत्यवोचथाः तद्यदि सत्यं यदि तथा तत्कर्तुं शक्यते तमाहर यमहं हतवानिति । अथ तं यज्ञं वराहाख्यं यज्ञ एव विष्णुरूपः एभ्यो देवेभ्य आहरत् । ततो देवा असुराणां वित्तं वेद्यं यावत्किंचित् वराहो बिभर्ति स्म तत्सर्वमविन्दन्त, यतस्तेन तत्सर्वं देवेभ्यो दत्तमित्यर्थाद्गम्यते । यदाह - यत्तदित्यादि । अहो एषां संगतं यदिदमसुराणां वित्तं वेद्यं देवा अविन्दन्त तदिदं वेद्या वेदित्वमिति । अयमभिप्रायः - वेदिलक्षणविशिष्टसंबन्धसमासादितमहिमातिशयाङ्गिना यज्ञेन यद्वित्तं वेद्यं देवा अलभन्त तदङ्गेन वेद्या अलभन्तेत्यपि हि वक्तुं शक्यते, तस्माद्वित्तं वेद्यते लभ्यते अनयेति वेदिः । कलो ‘इन् सर्वधातुभ्यः’ इतीन्प्रत्ययः । केचिदाहुः - विद्यत इति वेदिरिति कर्मणि इन्प्रत्ययः । यदा हिं यज्ञो देवैरलभ्यत तदा वेदिरपि लब्धेति तेषां यत्तद्वित्तं वेद्यमित्यस्योपन्यासोनर्थकस्स्यात् । तस्मात् यत्तदसुराणां वित्तं वेद्यं यज्ञेन देवा अलभन्त तत्तदङ्गस्य वेद्या वेदित्वं तद्द्वारवमिति वेदितव्यम् । इदं तावदेकं वेद्या वेदित्वम् ॥

मूलम् (संयुक्तम्)

असु॑राणाम् [22]
वा इ॒यमग्र॑ आसी॒द्याव॒दासी॑नᳶ परा॒पश्य॑ति॒ ताव॑द्दे॒वाना॒न्ते दे॒वा अ॑ब्रुव॒न्नस्त्वे॒व नो॒ऽस्यामपीति॒ किय॑द्वो दास्याम॒ इति॒ याव॑दि॒यँ स॑लावृ॒की त्रिᳶ प॑रि॒क्राम॑ति॒ ताव॑न्नो द॒त्तेति॒ स इन्द्र॑स्सलावृ॒की रू॒पङ्कृ॒त्वेमान्त्रिस्स॒र्वत॒ᳶ पर्य॑क्राम॒त्तदि॒माम॑विन्दन्त॒ यदि॒मामवि॑न्दन्त॒ तद्वेद्यै॑ वेदि॒त्वम् [23]
सा वा इ॒यँ सर्वै॒व वेदि॒रिय॑ति शक्ष्या॒मीति॒ त्वा अ॑व॒माय॑ यजन्ते

विश्वास-प्रस्तुतिः

असु॑राणाव्ँ॒ वा इ॒यमग्र॑ आसीत् । [22]
याव॒दासी॑नᳶ परा॒पश्य॑ति॒ ताव॑द् दे॒वाना॑म् ।

मूलम्

असु॑राणाव्ँ॒ वा इ॒यमग्र॑ आसीत् । [22]
याव॒दासी॑नᳶ परा॒पश्य॑ति॒ ताव॑द् दे॒वाना॑म् ।

पद-पाठः

असु॑राणाम् । [22] वै । इ॒यम् । अग्रे॑ । आ॒सी॒त् ।
याव॑त् । आसी॑नः । प॒रा॒पश्य॒तीति॑ परा-पश्य॑ति । ताव॑त् । दे॒वाना॑म् ।

भट्टभास्कर-टीका

7अथापरं वेदित्वं दर्शयितुमाह - सुराणां वा इयमित्यादि ॥ इयं पृथिवी प्रथममग्रे असुराणामासीत् । यावदासीनः परापश्यति दूरं पश्यति तावद्देवानामासीत् ।

विश्वास-प्रस्तुतिः

ते दे॒वा अ॑ब्रुव॒न्न् -
अस्त्वे॒व नो॒ ऽस्यामपीति॑ । किय॑द्वो दास्याम॒ इति॑ ।

याव॑दि॒यँ स॑लावृ॒की त्रिᳶ प॑रि॒क्राम॑ति॒ ताव॑न्नो द॒त्तेति॑ ।

मूलम्

ते दे॒वा अ॑ब्रुव॒न्न् -
अस्त्वे॒व नो॒ ऽस्यामपीति॑ । किय॑द्वो दास्याम॒ इति॑ ।

याव॑दि॒यँ स॑लावृ॒की त्रिᳶ प॑रि॒क्राम॑ति॒ ताव॑न्नो द॒त्तेति॑ ।

पद-पाठः

ते । दे॒वाः । अ॒ब्रु॒व॒न् ।
अस्तु॑ । ए॒व । नः॒ । अ॒स्याम् । अपीति॑ । इति॑ ।
किय॑त् । वः॒ । दा॒स्या॒मः॒ । इति॑ ।

याव॑त् । इ॒यम् । स॒ला॒वृ॒की । त्रिः । प॒रि॒क्राम॒तीति॑ परि-क्राम॑ति । ताव॑त् । नः॒ । द॒त्त॒ । इति॑ ।

भट्टभास्कर-टीका

ते देवा अब्रुवन् - अस्यामितरस्यामपि नोस्माकं किञ्चिदस्त्वेव अवश्यमस्त्वेवेति । असुरा ऊचुः - कियद्वो युष्मभ्यं दास्याम इति । ‘किमिदम्भ्यां वोघः’, ‘इदंकिमोरीश्की’, छान्दसो वर्णलोपः । देवा ऊचिरे - यावदियं सलावृकी सालावृकीति केचित् । गजमतंगजवत् । सृगालीत्यन्ये । वानरीत्यपरे । त्रिः परिक्रामति अश्रान्ता त्रिः परिक्रामति तावन्नोऽस्मभ्यं दत्तेति ।

विश्वास-प्रस्तुतिः

स इन्द्र॑स् सलावृ॒की रू॒पङ् कृ॒त्वेमान् त्रिस् स॒र्वत॒ᳶ पर्य॑क्रामत् ।
तदि॒माम् अ॑विन्दन्त । यदि॒मामवि॑न्दन्त॒ तद् वेद्यै॑ वेदि॒त्वम् ।[23]
सा वा इ॒यँ सर्वै॒व वेदिः॑ । इय॑ति शक्ष्या॒मीति॒ त्वा अ॑व॒माय॑ यजन्ते ।

मूलम्

स इन्द्र॑स् सलावृ॒की रू॒पङ् कृ॒त्वेमान् त्रिस् स॒र्वत॒ᳶ पर्य॑क्रामत् ।
तदि॒माम् अ॑विन्दन्त । यदि॒मामवि॑न्दन्त॒ तद् वेद्यै॑ वेदि॒त्वम् ।[23]
सा वा इ॒यँ सर्वै॒व वेदिः॑ । इय॑ति शक्ष्या॒मीति॒ त्वा अ॑व॒माय॑ यजन्ते ।

पद-पाठः

सः । इन्द्रः॑ । स॒ला॒वृ॒की । रू॒पम् । कृ॒त्वा । इ॒माम् । त्रिः । स॒र्वतः॑ । परीति॑ । अ॒क्रा॒म॒त् ।
तत् । इ॒माम् । अ॒वि॒न्द॒न्त॒ ।
यत् । इ॒माम् । अवि॑न्दन्त । तत् । वेद्यै॑ । वे॒दि॒त्वमिति॑ वेदि-त्वम् । [23]
सा । वै । इ॒यम् । सर्वा॑ । ए॒व । वेदिः॑ ।
इय॑ति । श॒क्ष्या॒मि॒ । इति॑ । तु । वै । अ॒व॒मायेत्य॑व-माय॑ । य॒ज॒न्ते॒ ।

भट्टभास्कर-टीका

अथ स इन्द्रः तथा देवैः कृतसंकेतः सलावृकी भूत्वा रूपं रूपं च तस्याः कृत्वा परिगृह्य इमां पृथिवीं सर्वतस्सर्वां त्रिः पर्यक्रामत्, तत्तस्मादिमां पृथिवीं सर्वां देवा अविन्दन्त । इमां पृथिवीम् । तदप्येकं वेद्या वेदित्वं, तदवयवत्वात् । कर्मणीन् प्रत्ययः । सा खल्वियं सर्वैव पृथिवी वेदिः, विन्दतिकर्मत्वात् । विशेषस्तु - इयति एतावति प्रदेशे यष्टुं शक्यमिति तद्योग्यमवकाशमवमाय मित्वा ता वेदिं मन्यमानास्तत्र यजन्ते यजमानाः । तु वै इति द्वौ निपातौ, वर्णलोपश्छान्दसः ॥

मूलम् (संयुक्तम्)

त्रिँ॒शत्प॒दानि॑ प॒श्चात्ति॒रश्ची॑ भवति॒ षट्त्रिँ॑श॒त्प्राची॒ चतु॑र्विँशतिᳶ पु॒रस्ता॑त्ति॒रश्ची॒ दश॑दश॒ सम्प॑द्यन्ते॒ दशा॑क्षरा वि॒राडन्नव्ँ॑वि॒राड्वि॒राजै॒वान्नाद्य॒मव॑ रुन्द्ध॒

विश्वास-प्रस्तुतिः

त्रिँ॒शत्प॒दानि॑ प॒श्चात् ति॒रश्ची॑ भवति॒ , षट्त्रिँ॑श॒त्प्राची॒ चतु॑र्विँशतिᳶ पु॒रस्ता॑त् ।
ति॒रश्ची॒ दश॑दश॒ सम्प॑द्यन्ते ।
दशा॑क्षरा वि॒राट् । अन्नव्ँ॑ वि॒राट् । वि॒राजै॒वान्नाद्य॒मव॑ रुन्धे ।

मूलम्

त्रिँ॒शत्प॒दानि॑ प॒श्चात् ति॒रश्ची॑ भवति॒ , षट्त्रिँ॑श॒त्प्राची॒ चतु॑र्विँशतिᳶ पु॒रस्ता॑त् ।
ति॒रश्ची॒ दश॑दश॒ सम्प॑द्यन्ते ।
दशा॑क्षरा वि॒राट् । अन्नव्ँ॑ वि॒राट् । वि॒राजै॒वान्नाद्य॒मव॑ रुन्धे ।

पद-पाठः

त्रिँ॒शत् । प॒दानि॑ । प॒श्चात् । ति॒रश्ची॑ । भ॒व॒ति॒ । षट्त्रिँ॑श॒दिति॒ षट्-त्रिँ॒श॒त् । प्राची॑ । चतु॑र्विँशति॒रिति॒ चतुः॑-विँ॒श॒तिः॒ । पु॒रस्ता॑त् । ति॒रश्ची॑ ।
दश॑द॒शेति॒ दश॑-द॒श॒ । समिति॑ । प॒द्य॒न्ते॒ ।
दशा॑क्ष॒रेति॒ दश॑-अ॒क्ष॒रा॒ । वि॒राडिति॑ वि-राट् ।
अन्न॑म् । वि॒राडिति॑ वि-राट् ।
वि॒राजेति॑ वि-राजा॑ । ए॒व । अ॒न्नाद्य॒मित्य॑न्न-अद्य॑म् । अवेति॑ । रु॒न्द्धे॒ ।

भट्टभास्कर-टीका

8अधुना कियानवकाशो वेदित्वेन गृह्यते इति तत्प्रमाणं दर्शयितुमाह - त्रिंशत्पदानीति ॥ तस्मादपरस्यां दिशि त्रिंशत्पदानि । तिरश्ची दक्षिणोत्तरायता सौमिकी वेदिर्भवति । तिर्यगञ्चतीति ऋत्विगादिना क्विनि लुप्तयोर्नकाराकारयोः ‘चौ’ इति पूर्वपदान्तोदात्तत्वम् । षट्त्रिंशत्पदानि प्राची भवति । पुरस्तात्पूर्वस्यां दिशि चतुर्विंशतिपदानि तिरश्ची भवति । एवं सा मातव्या । प्राग्वंशस्य मध्यमाल्ललाटिकात् त्रीन् प्राचः प्रक्रमान् प्रक्रम्य शङ्कून्निहन्ति । ततः पुरस्तात् षट्रिंशतिशङ्कुव्यापिनी रेखा पृष्ठ्या । अथ षट्त्रिंशिकायां रज्ज्वां अष्टादशोपसमस्या- परस्मादन्ताद्द्वादशसु लक्षणं पञ्चदशसु लक्षणम् । पृष्ठ्यन्तयोरन्तौ नियम्य पञ्चदशिकेन दक्षिणावायम्य शङ्कुं निहन्ति । एवमुत्तरतस्ते श्रोणी विपर्यस्तया तया अंसावुत्पादयेत् । पञ्चदशिकेन दक्षिणावायम्य शङ्कुं निहन्ति । एवमुत्तरतस्तावंसाविति । दशदशेति । त्रिंशत् षट्त्रिंशत् चतुर्विंशतिश्चेत्येकत्र पिण्डिता नवतिः । सा च दशभागहारेण ह्रियमाणा शुद्धं भागं ददातीत्यर्थः । अन्नं विराडिति । अन्नसाधनत्वात् । अन्नाद्यमन्नस्यादनम् । छान्दसो यत्, कृदुत्तरपदप्रकृतिस्वरत्वम्, ‘यतोऽनावः’ ॥

मूलम् (संयुक्तम्)

उद्ध॑न्ति॒ यदे॒वास्या॑ अमे॒ध्यन्तदप॑ ह॒न्त्युद्ध॑न्ति॒ तस्मा॒दोष॑धय॒ᳶ परा॑ भवन्ति ब॒र्हिस्स्तृ॑णाति॒ तस्मा॒दोष॑धय॒ᳶ पुन॒रा भ॑व॒न्त्य्…

विश्वास-प्रस्तुतिः

उद्ध॑न्ति॒ , यदे॒वास्या॑ अमे॒ध्यन्तदप॑ ह॒न्ति ।
उद्ध॑न्ति॒ , तस्मा॒दोष॑धय॒ᳶ परा॑ भवन्ति ।
ब॒र्हिस्स्तृ॑णाति॒ , तस्मा॒दोष॑धय॒ᳶ पुन॒रा भ॑वन्ति ।

मूलम्

उद्ध॑न्ति॒ , यदे॒वास्या॑ अमे॒ध्यन्तदप॑ ह॒न्ति ।
उद्ध॑न्ति॒ , तस्मा॒दोष॑धय॒ᳶ परा॑ भवन्ति ।
ब॒र्हिस्स्तृ॑णाति॒ , तस्मा॒दोष॑धय॒ᳶ पुन॒रा भ॑वन्ति ।

पद-पाठः

उदिति॑ । ह॒न्ति॒ ।
यत् । ए॒व । अ॒स्याः॒ । अ॒मे॒ध्यम् । तत् । अपेति॑ । ह॒न्ति॒ ।
उदिति॑ । ह॒न्ति॒ । तस्मा॑त् । ओष॑धयः । परेति॑ । भ॒व॒न्ति॒ ।
ब॒र्‌हिः । स्तृ॒णा॒ति॒ । तस्मा॑त् । ओष॑धयः । पुनः॑ । एति॑ । भ॒व॒न्ति॒ ।

भट्टभास्कर-टीका

9उद्धन्तीति विधिः ॥ अमेध्यममेधार्हम् । ‘ययतोश्चातदर्थे’ इत्युत्तरपदान्तोदात्तत्वम् । गुणान्तरबाधनार्थं द्वितीयं विधानम् । उद्धननेनौषधयो नश्यन्ति । तस्मात् बर्हिस्स्तृणातीति विधिः । तस्मादोषधयः पुनरुद्भवन्ति ॥

मूलम् (संयुक्तम्)

ुत्त॑रम्ब॒र्हिष॑ उत्तरब॒र्हिस्स्तृ॑णाति प्र॒जा वै ब॒र्हिर्यज॑मान उत्तरब॒र्हिर्यज॑मानमे॒वाय॑जमाना॒दुत्त॑रङ्करोति॒ तस्मा॒द्यज॑मा॒नोऽय॑जमाना॒दुत्त॑रः ॥ [24]

विश्वास-प्रस्तुतिः

उत्त॑रम् ब॒र्हिष॑ उत्तरब॒र्हिस्स्तृ॑णाति ।
प्र॒जा वै ब॒र्हिर् यज॑मान उत्तरब॒र्हिः ।
यज॑मानम् ए॒वाय॑जमाना॒द् उत्त॑रङ् करोति ।
तस्मा॒द् यज॑मा॒नो ऽय॑जमाना॒दुत्त॑रः ॥ [24]

मूलम्

उत्त॑रम् ब॒र्हिष॑ उत्तरब॒र्हिस्स्तृ॑णाति ।
प्र॒जा वै ब॒र्हिर् यज॑मान उत्तरब॒र्हिः ।
यज॑मानम् ए॒वाय॑जमाना॒द् उत्त॑रङ् करोति ।
तस्मा॒द् यज॑मा॒नो ऽय॑जमाना॒दुत्त॑रः ॥ [24]

पद-पाठः

उत्त॑र॒मित्युत्-त॒र॒म् । ब॒र्‌हिषः॑ । उ॒त्त॒र॒ब॒र्‌हिरित्यु॑त्तर-ब॒र्‌हिः । स्तृ॒णा॒ति॒ ।
प्र॒जा इति॑ प्र-जाः । वै । ब॒र्‌हिः । यज॑मानः । उ॒त्त॒र॒ब॒र्‌हिरित्यु॑त्तर-ब॒र्‌हिः ।
यज॑मानम् । ए॒व । अय॑जमानात् । उत्त॑र॒मित्युत्-त॒र॒म् । क॒रो॒ति॒ ।
तस्मा॑त् । यज॑मानः । अय॑जमानात् । उत्त॑र॒ इत्युत्-त॒रः॒ ॥ [24]

भट्टभास्कर-टीका

10उत्तरमित्यादिविधिः ॥ सौमिकस्योपरि पाशुकं बर्हिस्स्तृणाति । उत्तरं च तद्बर्हिश्चेत्युत्तरबर्हिः । प्रवा वा इत्यादि । गतम् ॥

इति षष्ठे द्वितीये चतुर्थोनवाकः ॥