१४ उपसद्धोमविधानम्

०३ उपसद्धोमविधानम् ...{Loading}...

सोमऋषिः

मूलम् (संयुक्तम्)

तेषा॒मसु॑राणान्ति॒स्रᳶ पुर॑ आसन्नय॒स्मय्य॑व॒माऽथ॑ रज॒ताऽथ॒ हरि॑णी॒ ता दे॒वा जेतु॒न्नाश॑क्नुव॒न्ता उ॑प॒सदै॒वाजि॑गीष॒न्तस्मा॑दाहु॒र्यश्चै॒वव्ँवेद॒ यश्च॒ नोप॒सदा॒ वै म॑हापु॒रञ्ज॑य॒न्तीति॒

विश्वास-प्रस्तुतिः

तेषा॒मसु॑राणान् ति॒स्रᳶ पुर॑ आसन्नय॒स्मय्य् अ॑व॒मा ऽथ॑ रज॒ता ऽथ॒ हरि॑णी ।

मूलम्

तेषा॒मसु॑राणान् ति॒स्रᳶ पुर॑ आसन्नय॒स्मय्य् अ॑व॒मा ऽथ॑ रज॒ता ऽथ॒ हरि॑णी ।

पद-पाठः

तेषा॑म् । असु॑राणाम् । ति॒स्रः । पुरः॑ । आ॒स॒न् । अ॒य॒स्मयी॑ । अ॒व॒मा । अथ॑ । र॒ज॒ता । अथ॑ । हरि॑णी ।

भट्टभास्कर-टीका

1उपसदो विधास्यन् आह - तेषामित्यादि ॥ सर्वनाम्नस्सापेक्षत्वात् प्रकृतमत्रापेक्ष्यते, उक्तमिदानीं ‘देवासुरास्संयत्ता आसन्ते देवा बिभ्यतोग्निं प्राविशन्’ इत्यादि । तत्र देवा अग्निं वरूथं कृत्वा तदनुप्रविश्य निर्बाधास्सन्तोसुरानभ्यभवन् । अथ तं दृष्टवतां देवैः परिभूतानां ततोप्यधिकं कर्तुं संरब्धवतां तेषामसुराणां तिस्रः पुरः पुंसंस्थानान्यधिष्ठानान्यासन् । ‘तिसृभ्यो जसः’ इति जस उदात्तत्वम् । तासां चोपर्यधोभावेनावस्थितानां अवमा अधरा अयस्मयी अयसा निर्मिता । ‘द्व्यचश्छन्दसि’ इति मयट्, अयस्मयादित्वाद्भत्वम् । अथानन्तरं तस्या उपरि रजता रूप्यमयी । अथ तस्याश्चोपरि हरिणी सौवर्णी । एतयोः प्रकृतिविकारभावस्यावि- वक्षितत्वात् विकारप्रत्ययो न कृतः । गुणवचनत्वाद्वा मतुब्विकारप्रत्ययो लुप्यते । ‘वर्णादनुदात्तात्’ इति हरितशब्दात् ङीप् तकारस्य च नकारः ।

विश्वास-प्रस्तुतिः

ता दे॒वा जेतु॒न्नाश॑क्नुव॒न् , ता उ॑प॒सदै॒वाजि॑गीषन् ।
तस्मा॑दाहु॒र् यश् चै॒वव्ँ वेद॒ यश्च॒ न ।
उ॒प॒सदा॒ वै म॑हापु॒रञ् ज॑य॒न्तीति॑ ।

मूलम्

ता दे॒वा जेतु॒न्नाश॑क्नुव॒न् , ता उ॑प॒सदै॒वाजि॑गीषन् ।
तस्मा॑दाहु॒र् यश् चै॒वव्ँ वेद॒ यश्च॒ न ।
उ॒प॒सदा॒ वै म॑हापु॒रञ् ज॑य॒न्तीति॑ ।

पद-पाठः

ताः । दे॒वाः । जेतु॑म् । न । अ॒श॒क्नु॒व॒न् । ताः । उ॒प॒सदेत्यु॑प-सदा॑ । ए॒व । अ॒जि॒गी॒ष॒न् ।
तस्मा॑त् । आ॒हुः॒ । यः । च॒ । ए॒वम् । वेद॑ । यः । च॒ । न ।
उ॒प॒सदेत्यु॑प-सदा॑ । वै । म॒हा॒पु॒रमिति॑ महा-पु॒रम् । ज॒य॒न्ति॒ । इति॑ ।

भट्टभास्कर-टीका

ततः ताः पुरः देवा जेतुं नाशक्रुवन् तासु स्थितानसुरानित्यर्थः । अग्निनाऽपि वरूथेनेत्यभिप्रायः । अथ देवास्ताः उपसदा उपसदनेन समीपासनेन अजिगीषन् जेतुमैच्छन् । शत्रुबलादिपरीक्षार्थं तत्समीपावस्थानमन्तिकासनमिति प्रसिद्धं उपसच्छब्देनोच्यते । तस्मादाहुः - अद्यत्वेऽपि यश्चैव देवैः कृतं वेद यश्च न वेद लौकिकश्शूद्रादिः ते सर्वेऽप्याहुः । कथं? - उपसदा उपसदनेनैव महापुरं जयन्तीति । यदा शत्रवो महापुरजयाय भवन्ति तदोपसदनमेव तावत्कर्तव्यम्, न सहसोत्थातव्यम् । एवं कृतोपसदनैः सहायादिसामग्रीविशेषसंपन्नैः परिच्छिन्नशात्रवबलैः पश्चादभियोक्तव्याः शत्रव इति सार्वलौकिकमेतदित्यर्थः । ‘ऋवपूरब्धूः’ इत्यकारस्समासान्तः, व्यत्ययेन पुल्लिङ्गता न भवति । पुरशब्दो वा ॥

मूलम् (संयुक्तम्)

त इषुँ॒ सम॑स्कुर्वता॒ग्निमनी॑कँ॒ सोमँ॑ श॒ल्यव्ँविष्णु॒न्तेज॑न॒न्ते॑ऽब्रुव॒न्क इ॒माम॑सिष्य॒तीति॑ [15]
रु॒द्र इत्य॑ब्रुवन्रु॒द्रो वै क्रू॒रस्सो॑ऽस्य॒त्विति॒

विश्वास-प्रस्तुतिः

त इषुँ॒ सम॑स्कुर्वता॒ग्निमनी॑कँ॒ सोमँ॑ श॒ल्यव्ँ विष्णु॒न् तेज॑नन् ।

ते॑ऽब्रुव॒न् “क इ॒माम् अ॑सिष्य॒ती"ति॑ ।[15]
रु॒द्र इत्य॑ब्रुवन् रु॒द्रो वै क्रू॒रस् सो॑ ऽस्य॒त्विति॑ ।

मूलम्

त इषुँ॒ सम॑स्कुर्वता॒ग्निमनी॑कँ॒ सोमँ॑ श॒ल्यव्ँ विष्णु॒न् तेज॑नन् ।

ते॑ऽब्रुव॒न् “क इ॒माम् अ॑सिष्य॒ती"ति॑ ।[15]
रु॒द्र इत्य॑ब्रुवन् रु॒द्रो वै क्रू॒रस् सो॑ ऽस्य॒त्विति॑ ।

पद-पाठः

ते । इषु॑म् । समिति॑ । अ॒स्कु॒र्व॒त॒ ।
अ॒ग्निम् । अनी॑कम् । सोम॑म् । श॒ल्यम् । विष्णु॑म् । तेज॑नम् ।

ते । अ॒ब्रु॒व॒न् ।
कः । इ॒माम् । अ॒सि॒ष्य॒ति॒ । इति॑ । [15]

रु॒द्रः । इति॑ । अ॒ब्रु॒व॒न् ।
रु॒द्रः । वै । क्रू॒रः । सः । अ॒स्य॒तु॒ । इति॑ ।

भट्टभास्कर-टीका

2अथ ते तथाकृताध्यवसायाः उपसीदन्तो देवाः इषुं समस्कुर्वत संस्कृतवन्तः । अग्निमनीकं मुखं तस्याः, सोमं शल्यं शरीरं पुच्छ वा, विष्णुं तेजनं धारां काष्ठं वा इषोः संस्कृतवन्तः । ततस्ते सर्वे अब्रुवन् क इमामसिष्यति क्षेप्स्यति स्त्रीबालसहितास्वासुरपुरीषु क इत्थं क्रूरं करिष्यतीति । यद्वा - सम्भावनायां किंशब्दः, एवमाश्चर्यभूतामिषुं कः क्षेप्तुं प्रभवति न कश्चिदस्मात्वित्यर्थः । एवं निरूपयन्तो देवाः सर्वेऽपि रुद्र इत्यब्रुवन् । रुद्रो वै क्रूरस्वभावः । तस्मात्स इमामस्यतु स एवास्मिन् कर्मणि प्राप्तकाल इति अन्यैः कर्तुमशक्यत्वादिति प्राप्तकाले लोट् । यद्वा - महार्थसंहारकारित्वं क्रूर इति विवक्षितं, तत्कारिणोस्य किं नाम कर्तुमशक्यं, तस्मात्सोस्यत्विति । आशिषि लोट्, स इदं क्रियात् इत्याशास्महे इति ॥

मूलम् (संयुक्तम्)

सो॑ऽब्रवी॒द्वरव्ँ॑वृणा अ॒हमे॒व प॑शू॒नामधि॑पतिरसा॒नीति॒ तस्मा॑द्रु॒द्रᳶ प॑शू॒नामधि॑पति॒स्

विश्वास-प्रस्तुतिः

सो॑ऽब्रवी॒द् ,
“वरव्ँ॑ वृणा अ॒हमे॒व प॑शू॒नामधि॑पतिरसा॒नी"ति॑ तस्मा॑द् रु॒द्रᳶ प॑शू॒नामधि॑पतिः ।

मूलम्

सो॑ऽब्रवी॒द् ,
“वरव्ँ॑ वृणा अ॒हमे॒व प॑शू॒नामधि॑पतिरसा॒नी"ति॑ ।

तस्मा॑द् रु॒द्रᳶ प॑शू॒नामधि॑पतिः ।

पद-पाठः

सः । अ॒ब्र॒वी॒त् ।
वर॑म् । वृ॒णै॒ । अ॒हम् । ए॒व । प॒शू॒नाम् । अधि॑पति॒रित्यधि॑-प॒तिः॒ । अ॒सा॒नि॒ । इति॑ ।

तस्मा॑त् । रु॒द्रः । प॒शू॒नाम् । अधि॑पति॒रित्यधि॑-प॒तिः॒ ।

भट्टभास्कर-टीका

3अथ स देव आगत्याब्रवीत् वरं वृणै वरं वरयितुं प्राप्तोयं कालः । आह - अहमेव पशूनामधिपतिरसानीति द्विपदां चतुष्पदां चाधिपतिः स्वामी असानि भवानीति । देवैश्च दत्तो वरः, तस्माद्रुद्रः पशूनामधिपतिः । ‘नामन्यतरस्याम्’ इति नाम उदात्तत्वम् । किंनु भोस्ततः पूर्वं देवः पशूनामधिपतिर्न भवति? भवत्येव । इदं पृच्छामः - ‘साब्रवीद्वरं वृणै मत्प्रायणा एव वो यज्ञाः’ इत्यादिवरलाभात्पूर्वं किं प्रायणीयोदयनीयौ अदितिदेवत्यौ न भवतः? । अत्राह - भवत इति, सर्वदा तावादित्यावेव । एवं अस्मिन् देवेऽपि । सर्वदा पशूनां देवोधिपतिरेव, विद्यमानार्थस्यैव द्रढिमानमापादयति श्रुतिरिति सर्वत्र वेदितव्यम् । अनेनैवाभिप्रायेण ततः प्रभृतीति न क्वचिदुच्यते । एवं सर्वदा विद्यमानमेव अवसरे देवो देवान् प्रबोधयति । ततश्चाग्न्यादीनामपि रुद्रस्वभूतख्यापनात् ‘या ते अग्ने रुद्रिया तनूः’ इतिमन्त्रादौ क्रियमाणः प्रयोगश्च भवति । अन्य आह - ग्राम्यारण्यानां पशूनामाधिपत्यं देवेन विद्यमानमेव वृतं, तच्च देवैर्दत्तम् । तस्मात्ततः प्रभृति तेषां रुद्रोधिपीतरासीत् । ततस्स वरलाभेन तृप्तः कृतो देवकार्यमकरोदिति तेन पशुविशेषग्रहणे प्रमाणं वक्तव्यम् । तेनाधिपत्यप्रतिपादनस्य चाज्यहविषि क उपयोग इति क्रियमाणसंगताभावात् देवाश्च विश्वाधिपत्यं देवाय दातुं विद्यमानमेव दातुमीशते । ईर्ष्यामात्रमणुरेव (?) । इषुं मोक्तं न क्रमन्ते इति महच्छ्र द्धेयम् ॥

मूलम् (संयुक्तम्)

ताँ रु॒द्रोऽवा॑सृज॒त्स ति॒स्रᳶ पुरो॑ भि॒त्त्वैभ्यो लो॒केभ्योऽसु॑रा॒न्प्राणु॑दत॒ यदु॑प॒सद॑ उपस॒द्यन्ते॒ भ्रातृ॑व्यपराणुत्त्यै॒

विश्वास-प्रस्तुतिः

ताँ रु॒द्रोऽवा॑सृज॒त् , स ति॒स्रᳶ पुरो॑ भि॒त्त्वैभ्यो लो॒केभ्यो ऽसु॑रा॒न् प्राणु॑दत ।
यदु॑प॒सद॑ उपस॒द्यन्ते॒ भ्रातृ॑व्यपराणुत्त्यै ।

मूलम्

ताँ रु॒द्रोऽवा॑सृज॒त् , स ति॒स्रᳶ पुरो॑ भि॒त्त्वैभ्यो लो॒केभ्यो ऽसु॑रा॒न् प्राणु॑दत ।
यदु॑प॒सद॑ उपस॒द्यन्ते॒ भ्रातृ॑व्यपराणुत्त्यै ।

पद-पाठः

ताम् । रु॒द्रः । अवेति॑ । अ॒सृ॒ज॒त् ।
सः । ति॒स्रः । पुरः॑ । भि॒त्त्वा । ए॒भ्यः । लो॒केभ्यः॑ । असु॑रान् । प्रेति॑ । अ॒नु॒द॒त॒ ।

यत् । उ॒प॒सद॒ इत्यु॑प-सदः॑ । उ॒प॒स॒द्यन्त॒ इत्यु॑प-स॒द्यन्ते॑ । भ्रातृ॑व्यपराणुत्त्या॒ इति॒ भ्रातृ॑व्य-प॒रा॒णु॒त्त्यै॒ ।

भट्टभास्कर-टीका

4अथ देवो देवैः प्रार्थितः देवांश्चात्मनो विश्वाधिपत्यं बोधयित्वा तां अन्यैर्मोक्तुमशक्यां इषुमवासृजदमुञ्चत् । अथ सोवसृष्टशरो देवः त्रिस्रः पुरो भित्त्वा नाशयित्वा एम्यो लोकेभ्योसुरान् प्राणुदत अपनीतवान् । ‘उदात्तयणः’ इति तिसृभ्यो विभक्तिरुदात्ता । यदुपसदः संरोधस्थानीयाः उपसद्यन्ते नीयन्ते भ्रातृव्यपराणुत्यै शत्रूणामपनयनाय भवतीत्युपसदां विधिः । दासीभारादित्वात्पूर्वपदप्रकृतिस्वरत्वम् ॥

मूलम् (संयुक्तम्)

नान्यामाहु॑तिम्पु॒रस्ता॑ज्जुहुया॒द्यद॒न्यामाहु॑तिम्पु॒रस्ता॑ज्जुहु॒यात् [16]
अ॒न्यन्मुख॑ङ्कुर्याथ्

विश्वास-प्रस्तुतिः

नान्यामाहु॑तिम् पु॒रस्ता॑ज् जुहुया॒द् ।
यद् अ॒न्यामाहु॑तिम् पु॒रस्ता॑ज् जुहु॒यात् ।[16]
अ॒न्यन् मुख॑ङ् कुर्यात् ।

मूलम्

नान्यामाहु॑तिम् पु॒रस्ता॑ज् जुहुया॒द् ।
यद् अ॒न्यामाहु॑तिम् पु॒रस्ता॑ज् जुहु॒यात् ।[16]
अ॒न्यन् मुख॑ङ् कुर्यात् ।

पद-पाठः

न । अ॒न्याम् । आहु॑ति॒मित्या-हु॒ति॒म् । पु॒रस्ता॑त् । जु॒हु॒या॒त् । यत् । अ॒न्याम् । आहु॑ति॒मित्या-हु॒ति॒म् । पु॒रस्ता॑त् । जु॒हु॒यात् । [16]
अ॒न्यत् । मुख॑म् । कु॒र्या॒त् ।

भट्टभास्कर-टीका

5अत्राग्निसोमविष्णूनां तिस्र आहुतयो होतव्याः अयाशयादितनुमते विशिष्टायाग्नये एकाहुतिरोपसदिका । तासां क्रमं विधातुमाह - नान्यामिति ॥ प्रसिद्ध्यभावादौपसदी आहुतिरन्येत्युच्यते । तामाहुतिं पुरस्तात्प्रथमं अग्न्याद्याहुतिभ्यः पूर्वं न जुहुयात् । अन्यन्मुखं कुर्यात् प्रसिद्धोग्निर्देवताभिमुखः तमविधायाप्रसिद्धमुखं कुर्यात् । ततश्च यज्ञत्वहानिः । तस्मात् अग्न्यादिभ्य एव पुरस्तादाहुतयो होतव्याः यज्ञत्वायेति विधिर्गम्यते ॥

मूलम् (संयुक्तम्)

स्रु॒वेणा॑घा॒रमा घा॑रयति य॒ज्ञस्य॒ प्रज्ञा॑त्यै॒

विश्वास-प्रस्तुतिः

स्रु॒वेण॑ + आ॑घा॒रम् - आ घा॑रयति , य॒ज्ञस्य॒ प्रज्ञा॑त्यै ।

मूलम्

स्रु॒वेण॑ + आ॑घा॒रम् - आ घा॑रयति , य॒ज्ञस्य॒ प्रज्ञा॑त्यै ।

पद-पाठः

स्रु॒वेण॑ । आ॒घा॒रमित्या॑-घा॒रम् । एति॑ । घा॒र॒य॒ति॒ । य॒ज्ञस्य॑ । प्रज्ञा॑त्या॒ इति॒ प्र-ज्ञा॒त्यै॒ ।

भट्टभास्कर-टीका

6किंचेत्याह - स्रुवेणेति विधिः ॥ प्रज्ञात्यै प्रत्यभिज्ञानार्थं यज्ञत्वमासां यथा प्रत्यभिज्ञायेतेति तत्पूर्वकत्वप्रसिद्ध्यै यज्ञानाम् । ‘तादो च’ इति गतेः प्रकृतिस्वरत्वम् ॥

मूलम् (संयुक्तम्)

परा॑ङति॒क्रम्य॑ जुहोति॒ परा॑च ए॒वैभ्यो लो॒केभ्यो॒ यज॑मानो॒ भ्रातृ॑व्या॒न्प्र णु॑दते॒

विश्वास-प्रस्तुतिः

परा॑ङति॒क्रम्य॑ जुहोति ।
परा॑च ए॒वैभ्यो लो॒केभ्यो॒ यज॑मानो॒ भ्रातृ॑व्या॒न् प्रणु॑दते ।

मूलम्

परा॑ङति॒क्रम्य॑ जुहोति ।
परा॑च ए॒वैभ्यो लो॒केभ्यो॒ यज॑मानो॒ भ्रातृ॑व्या॒न् प्रणु॑दते ।

पद-पाठः

पराङ्॑ । अ॒ति॒क्रम्येत्य॑ति-क्रम्य॑ । जु॒हो॒ति॒ ।
परा॑चः । ए॒व । ए॒भ्यः । लो॒केभ्यः॑ । यज॑मानः । भ्रातृ॑व्यान् । प्रेति॑ । नु॒द॒ते॒ ।

भट्टभास्कर-टीका

7पराङित्यादिविधिः ॥ पराङ् अपुनरावृत्त एव अतिक्रम्याग्निसोमविष्णून् जुहोति । ‘अनिगन्तोञ्चतौ’ इति गतेः प्रकृतिस्वरत्वम् । पराच इत्यादि । पराचः अपुनरावृत्तानेव भ्रातृव्यान् प्रणुदते । ‘अञ्चतेश्छन्दसि’ इति विभक्त्युदात्तत्वम्, ‘चौ’ इति पूर्वपदान्तोदात्तत्वं च परत्वाद्बाधित्वा ‘अनिगन्तोञ्चतौ’ इति गतेः प्रकृतिस्वरत्वं प्रवर्तते । ‘ऊडिदम्’ इतीदमो विभक्तिरुदात्ता ॥

मूलम् (संयुक्तम्)

पुन॑रत्या॒क्रम्यो॑प॒सद॑ञ्जुहोति प्र॒णुद्यै॒वैभ्यो लो॒केभ्यो॒ भ्रातृ॑व्याञ्जि॒त्वा भ्रा॑तृव्यलो॒कम॒भ्यारो॑हति

विश्वास-प्रस्तुतिः

पुन॑र् अत्या॒क्रम्य + उ॑प॒सद॑ञ् जुहोति ।
प्र॒णुद्यै॒वैभ्यो लो॒केभ्यो॒ भ्रातृ॑व्याञ् जि॒त्वा , भ्रा॑तृव्यलो॒कम् अ॒भ्यारो॑हति ।

पद-पाठः

पुनः॑ । अ॒त्या॒क्रम्येत्य॑ति-आ॒क्रम्य॑ । उ॒प॒सद॒मित्यु॑प-सद॑म् । जु॒हो॒ति॒ ।

प्र॒णुद्येति॑ प्र-नुद्य॑ । ए॒व । ए॒भ्यः । लो॒केभ्यः॑ । भ्रातृ॑व्यान् । जि॒त्वा । भ्रा॒तृ॒व्य॒लो॒कमिति॑ भ्रातृव्य-लो॒कम् । अ॒भ्यारो॑ह॒तीत्य॑भि-आरो॑हति ।

मूलम्

पुन॑र् अत्या॒क्रम्य + उ॑प॒सद॑ञ् जुहोति ।
प्र॒णुद्यै॒वैभ्यो लो॒केभ्यो॒ भ्रातृ॑व्याञ् जि॒त्वा , भ्रा॑तृव्यलो॒कम् अ॒भ्यारो॑हति ।

भट्टभास्कर-टीका

8पुनरत्याक्रम्येति विधिः ॥ पुनरावृत्याद्यदेशं आगत्य ‘या ते अग्रे’ इत्याहुतिं स्रुवेण जुहोति । एभ्यो लोकेभ्यः भ्रातृव्यान् प्रणुद्य अपनीय भ्रातृव्यलोकं शत्रूणां स्थानं च जित्वा आत्मीयं कृत्वा तमभ्यारोहति अधितिष्ठति भ्रातृव्यलोकम् ॥

मूलम् (संयुक्तम्)

दे॒वा वै याᳶ प्रा॒तरु॑प॒सद॑ उ॒पासी॑द॒न्नह्न॒स्ताभि॒रसु॑रा॒न्प्राणु॑दन्त॒ यास्सा॒यँ रात्रि॑यै॒ ताभि॒र्यत्सा॒यम्प्रा॑तरुप॒सदः॑ [17]
उ॒प॒स॒द्यन्ते॑ऽहोरा॒त्राभ्या॑मे॒व तद्यज॑मानो॒ भ्रातृ॑व्या॒न्प्र णु॑दते॒ याᳶ प्रा॒तर्या॒ज्याः॑ स्युस्तास्सा॒यम्पु॑रोनुवा॒क्याः॑ कुर्या॒दया॑तयामत्वाय

विश्वास-प्रस्तुतिः

दे॒वा वै याᳶ प्रा॒तरु॑प॒सद॑ उ॒पासी॑द॒न्नह्न॒स्ताभि॒रसु॑रा॒न् प्राणु॑दन्त ।
यास् सा॒यँ रात्रि॑यै॒ ताभि॒भिः॑ ।

यत्सा॒यम् प्रा॑तरुप॒सद॑ उपस॒द्यन्ते॑ , ऽहोरा॒त्राभ्या॑मे॒व तद् यज॑मानो॒ भ्रातृ॑व्या॒न् प्र णु॑दते ।[17]
याᳶ प्रा॒तर्या॒ज्याः॑ स्युस् , तास् सा॒यम् पु॑रोनुवा॒क्याः॑ कुर्या॒द् , अया॑तयामत्वाय ।

मूलम्

दे॒वा वै याᳶ प्रा॒तरु॑प॒सद॑ उ॒पासी॑द॒न्नह्न॒स्ताभि॒रसु॑रा॒न् प्राणु॑दन्त ।
यास् सा॒यँ रात्रि॑यै॒ ताभि॒भिः॑ ।

यत्सा॒यम् प्रा॑तरुप॒सद॑ उपस॒द्यन्ते॑ , ऽहोरा॒त्राभ्या॑मे॒व तद् यज॑मानो॒ भ्रातृ॑व्या॒न् प्र णु॑दते ।[17]

याᳶ प्रा॒तर्या॒ज्याः॑ स्युस् , तास् सा॒यम् पु॑रोनुवा॒क्याः॑ कुर्या॒द् , अया॑तयामत्वाय ।

पद-पाठः

दे॒वाः । वै । याः । प्रा॒तः । उ॒प॒सद॒ इत्यु॑प-सदः॑ । उ॒पासी॑द॒न्नित्यु॑प-असी॑दन् । अह्नः॑ । ताभिः॑ । असु॑रान् । प्रेति॑ । अ॒नु॒द॒न्त॒ ।

याः । सा॒यम् । रात्रि॑यै । ताभिः॑ ।

यत् । सा॒यम्प्रा॑त॒रिति॑ सा॒यम्-प्रा॒तः॒ । उ॒प॒सद॒ इत्यु॑प-सदः॑ । [17] उ॒प॒स॒द्यन्त॒ इत्यु॑प-स॒द्यन्ते॑ । अ॒हो॒रा॒त्राभ्या॒मित्य॑हः-रा॒त्राभ्या॑म् । ए॒व । तत् । यज॑मानः । भ्रातृ॑व्यान् । प्रेति॑ । नु॒द॒ते॒ ।

याः । प्रा॒तः । या॒ज्याः॑ । स्युः । ताः । सा॒यम् । पु॒रो॒नु॒वा॒क्या॑ इति॑ पुरः-अ॒नु॒वा॒क्याः॑ । कु॒र्या॒त् । अया॑तयामत्वा॒येत्यया॑तयाम-त्वा॒य॒ ।

भट्टभास्कर-टीका

9देवा वै या इत्यादि ॥ प्रातस्तनीभिरुपसद्भिः आसुरान् प्राणुदन्त । यास्सायमुपसद उपासीदन्नित्येव । ताभिः रात्रियै रात्र्या असुरान् प्राणुदन्तेत्येव । यत्सायं प्रातरित्यादि । गतम् । तस्य सायंप्रातरुपसदनं कर्तव्यमिति विधिः । सायंप्रातश्शब्दः कार्तकौजपादिषु द्रष्टव्यः । याः प्रातरग्न्यादीनां याज्यास्स्युः तास्सायं पुरोनुवाक्याः तेषां कुर्यात् अयातयामत्वाय अगलितसारत्वाय ॥

मूलम् (संयुक्तम्)

ति॒स्र उ॑प॒सद॒ उपै॑ति॒ त्रय॑ इ॒मे लो॒का इ॒माने॒व लो॒कान्प्री॑णाति॒ षट्त्सम्प॑द्यन्ते॒ षड्वा ऋ॒तव॑ ऋ॒तूने॒व प्री॑णाति॒ द्वाद॑शा॒हीने॒ सोम॒ उपै॑ति॒ द्वाद॑श॒ मासाः॑ सव्ँवत्स॒रस्सव्ँ॑वत्स॒रमे॒व प्री॑णाति॒ चतु॑र्विँशति॒स्सम् [18]
प॒द्य॒न्ते॒ चतु॑र्विँशतिरर्धमा॒सा अ॑र्धमा॒साने॒व प्री॑णा॒त्य्

विश्वास-प्रस्तुतिः

ति॒स्र उ॑प॒सद॒ उपै॑ति॒ , त्रय॑ इ॒मे लो॒का , इ॒माने॒व लो॒कान् प्री॑णाति ।
षट्त्सम्प॑द्यन्ते॒ , षड्वा ऋ॒तव॑ , ऋ॒तून् ए॒व प्री॑णाति ।
द्वाद॑शा॒हीने॒ सोम॒ उपै॑ति॒ , द्वाद॑श॒ मासाः॑ सव्ँवत्स॒रस् , सव्ँ॑वत्स॒रम् ए॒व प्री॑णाति ।
चतु॑र्विँशति॒स् सम्प॑द्यन्तेे॒ , चतु॑र्विँशतिरर्धमा॒सा , अ॑र्धमा॒सान् ए॒व प्री॑णाति ।[18]

मूलम्

ति॒स्र उ॑प॒सद॒ उपै॑ति॒ , त्रय॑ इ॒मे लो॒का , इ॒माने॒व लो॒कान् प्री॑णाति ।
षट्त्सम्प॑द्यन्ते॒ , षड्वा ऋ॒तव॑ , ऋ॒तून् ए॒व प्री॑णाति ।
द्वाद॑शा॒हीने॒ सोम॒ उपै॑ति॒ , द्वाद॑श॒ मासाः॑ सव्ँवत्स॒रस् , सव्ँ॑वत्स॒रम् ए॒व प्री॑णाति ।
चतु॑र्विँशति॒स् सम्प॑द्यन्तेे॒ , चतु॑र्विँशतिरर्धमा॒सा , अ॑र्धमा॒सान् ए॒व प्री॑णाति ।[18]

पद-पाठः

ति॒स्रः । उ॒प॒सद॒ इत्यु॑प-सदः॑ । उपेति॑ । ए॒ति॒ । त्रयः॑ । इ॒मे । लो॒काः । इ॒मान् । ए॒व । लो॒कान् । प्री॒णा॒ति॒ ।
षट् । समिति॑ । प॒द्य॒न्ते॒ । षट् । वै । ऋ॒तवः॑ । ऋ॒तून् । ए॒व । प्री॒णा॒ति॒ । द्वाद॑श । अ॒हीने॑ । सोमे॑ । उपेति॑ । ए॒ति॒ । द्वाद॑श । मासाः॑ । सव्ँ॒व॒त्स॒र इति॑ सम्-व॒त्स॒रः । सव्ँ॒व॒त्स॒रमिति॑ सम्-व॒त्स॒रम् । ए॒व । प्री॒णा॒ति॒ ।
चतु॑र्विँशति॒रिति॒ चतुः॑-विँ॒श॒तिः॒ । समिति॑ । [18] प॒द्य॒न्ते॒ । चतु॑र्विँशति॒रिति॒ चतुः॑-विँ॒श॒तिः॒ । अ॒र्ध॒मा॒सा इत्य॑र्ध-मा॒साः । अ॒र्ध॒मा॒सानित्य॑र्ध-मा॒सान् । ए॒व । प्री॒णा॒ति॒ ।

भट्टभास्कर-टीका

10तिस्र उपसद उपैतीति विधिः ॥ तिस्रः स्थितीरुपसदः उपैति उपचारवतीर्नयति । त्रय इत्यादि । गतम् । षट् संपद्यन्त इति । तस्मात्सायन्तन्यः तिस्रः प्रातस्तन्यश्च तिस्र इति षडुपसदः उपसत्तव्यास्संपद्यन्ते । षड्वा इत्यादि । गतम् । द्वादशेत्यादि । अहीने अह्नां समुदायात्मनि सोमे द्विरात्रादौ द्वादशोपसद्भिस्तिसृभिरुपैति । द्वौ च दश च द्वादश, ‘संख्या’ इति पूर्वपदप्रकृतिस्वरत्वम् ‘अह्नः खः क्रतौ’ इति खस्समूहे । द्वादशेति । गतम् । चतुर्विंशतिरित्यादि । तस्मात्सायंप्रातरुपसर्त्तव्याः, चतुर्विंशतिरुपसदस्संपद्यन्ते । पूर्ववत्समासस्स्वरश्च । अर्धानि मासानां अर्धमासाः ॥

मूलम् (संयुक्तम्)

आरा॑ग्रामवान्तरदी॒क्षामुपे॑या॒द्यᳵ का॒मये॑ता॒स्मिन्मे॑ लो॒केऽर्धु॑कँ स्या॒दित्येक॒मग्रेऽथे॒ द्वावथ॒ त्रीनथ॑ च॒तुर॑ ए॒षा वा आरा॑ग्रावान्तरदी॒क्षास्मिन्ने॒वास्मै॑ लो॒केऽर्धु॑कम्भवति

विश्वास-प्रस्तुतिः

आरा॑ग्रामवान्तरदी॒क्षाम् उपे॑या॒द् यᳵ का॒मये॑त ।
अ॒स्मिन् मे॑ लो॒के ऽर्धु॑कँ स्या॒दित्येक॒म् अग्रे ऽथे॒ द्वाव् अथ॒ त्रीन् अथ॑ च॒तुरः॑ ।
ए॒षा वा आरा॑ग्रा ऽवान्तरदी॒क्षा ऽस्मिन्न् ए॒वास्मै॑ लो॒के ऽर्धु॑कम् भवति ।

मूलम्

आरा॑ग्रामवान्तरदी॒क्षाम् उपे॑या॒द् यᳵ का॒मये॑त ।
अ॒स्मिन् मे॑ लो॒के ऽर्धु॑कँ स्या॒दित्येक॒म् अग्रे ऽथे॒ द्वाव् अथ॒ त्रीन् अथ॑ च॒तुरः॑ ।
ए॒षा वा आरा॑ग्रा ऽवान्तरदी॒क्षा ऽस्मिन्न् ए॒वास्मै॑ लो॒के ऽर्धु॑कम् भवति ।

पद-पाठः

आरा॑ग्रा॒मित्यारा॑-अ॒ग्रा॒म् । अ॒वा॒न्त॒र॒दी॒क्षामित्य॑वान्तर-दी॒क्षाम् । उपेति॑ । इ॒या॒त् । यः । का॒मये॑त ।
अ॒स्मिन् । मे॒ । लो॒के । अर्धु॑कम् । स्या॒त् । इति॑ । एक॑म् । अग्रे॑ । अथ॑ । द्वौ । अथ॑ । त्रीन् । अथ॑ । च॒तुरः॑ । ए॒षा । वै । आरा॒ग्रेत्यारा॑-अ॒ग्रा॒ । अ॒वा॒न्त॒र॒दी॒क्षेत्य॑वान्तर-दी॒क्षा । अ॒स्मिन् । ए॒व । अ॒स्मै॒ । लो॒के । अर्धु॑कम् । भ॒व॒ति॒ ।

भट्टभास्कर-टीका

11आराग्रामित्यादि ॥ संज्ञेयमन्वर्था । आरमल्पमग्रमुपक्रमो यस्यास्सा आराग्रा । तादृशीमवान्तरदीक्षां पूर्वोक्तामुपयोत् यः कामयेत मम यज्ञफलमर्धुकमृद्धिशीलं स्यादिति । तस्यास्स्वरूपमाह - एकमित्यादि । एकं स्तनमग्रे प्रथमेऽह्नि उपैति भू[व्र]तम् । अथ अनन्तरेऽह्नि द्वावित्यादिवक्ष्यमाणम् । ‘चतुरश्शसि’ इति चतुरोन्तोदात्तत्वम् । एषेत्यादि । यस्यामीदृशी स्तनवृद्धिः एषा क्षुरपविनाम व्रतं क्रियते । सैवाराग्रेति प्रदेशान्तरसिद्धानुवादत्वात्संस्थानमात्रमेवोपात्तम् । ‘ऊडिदम्’ इतीदमस्सप्तम्या उदात्तत्वम्, अन्वादेशत्वाच्चतुर्थ्यन्तं निहन्यते ॥

मूलम् (संयुक्तम्)

प॒रोव॑रीयसीमवान्तरदी॒क्षामुपे॑या॒द्यᳵ का॒मये॑ता॒मुष्मि॑न्मे लो॒केऽर्धु॑कँ स्या॒दिति॑ च॒तुरोऽग्रेऽथ॒ त्रीनथ॒ द्वावथैक॑मे॒षा वै प॒रोव॑रीयस्यवान्तरदी॒क्षामुष्मि॑न्ने॒वास्मै॑ लो॒केऽर्धु॑कम्भवति ॥ [19]

विश्वास-प्रस्तुतिः

प॒रोव॑रीयसीम् अवान्तरदी॒क्षाम् उपे॑या॒द् ,
यᳵ का॒मये॑त - अ॒मुष्मि॑न् मे लो॒के ऽर्धु॑कँ स्या॒दिति॑ ।
च॒तुरो ऽग्रे ऽथ॒ त्रीन् अथ॒ द्वाव् अथैक॑म्,
ए॒षा वै प॒रोव॑रीयस्यवान्तरदी॒क्षामुष्मि॑न्न् ए॒वास्मै॑ लो॒के ऽर्धु॑कम् भवति ॥ [19]

मूलम्

प॒रोव॑रीयसीम् अवान्तरदी॒क्षाम् उपे॑या॒द् ,
यᳵ का॒मये॑त - अ॒मुष्मि॑न् मे लो॒के ऽर्धु॑कँ स्या॒दिति॑ ।
च॒तुरो ऽग्रे ऽथ॒ त्रीन् अथ॒ द्वाव् अथैक॑म्,
ए॒षा वै प॒रोव॑रीयस्यवान्तरदी॒क्षामुष्मि॑न्न् ए॒वास्मै॑ लो॒के ऽर्धु॑कम् भवति ॥ [19]

पद-पाठः

प॒रोव॑रीयसी॒मिति॑ प॒रः-व॒री॒य॒सी॒म् । अ॒वा॒न्त॒र॒दी॒क्षामित्य॑वान्तर-दी॒क्षाम् । उपेति॑ । इ॒या॒त् ।

यः । का॒मये॑त । अ॒मुष्मि॑न् । मे॒ । लो॒के । अर्धु॑कम् । स्या॒त् । इति॑ ।

च॒तुरः॑ । अग्रे॑ । अथ॑ । त्रीन् । अथ॑ । द्वौ । अथ॑ । एक॑म् । ए॒षा । वै । प॒रोव॑रीय॒सीति॑ प॒रः-व॒री॒य॒सी॒ । अ॒वा॒न्त॒र॒दी॒क्षेत्य॑वान्तर-दी॒क्षा । अ॒मुष्मि॑न् । ए॒व । अ॒स्मै॒ । लो॒के । अर्धु॑कम् । भ॒व॒ति॒ ॥ [19]

भट्टभास्कर-टीका

12परोवरीयसीमत्यादि ॥ इयमपि परस्तात् वरीयसी परत्र लोके वरीयसी उरुतरं फलं यस्यास्तादृशीमुपेयात् अमुष्मिन् लोके फलर्धिकामो । परशब्दाच्छान्दसोसिप्रत्ययः, उरुशब्दादीयसुनि ‘प्रियस्थिर’ इत्यादिना वरादेशे बहुव्रीहौ ‘उगितश्च’ इति ङीप्, ‘नद्यृतश्च’ इति प्राप्तः कप् ‘ईयसश्च’ इति प्रतिषिध्यते । अन्ये तु - पूर्वानुसारेण स्वरूपलक्षणत्वेन व्याचक्षते, परो[पूर्व]वरीयसीमिति वक्तव्ये परोवरीयसीमाचक्षते परोक्षेणेति । परस्तात्पूर्वस्मिन्नहनि वरीय उरुतरं व्रतं यस्याः । ‘पूर्वाधर’ इति पूर्वशब्दस्यासिप्रत्ययः परादेशश्च । ननु बह्वतिशयनीयत्वादीयसुना न भाव्यम्, न हि वीप्सिष्यते पूर्वंपूर्वं परस्माद्वरीयो यस्यामिति । तस्यास्स्वरूपमाह - चतुरोग्र इत्यादि । गतम् । अयमपि सुजघनव्रतानुवादः ॥

इति षष्ठे द्वितीये तृतीयोनुवाकः ॥