०२ तानूनप्त्रसंज्ञकस्याज्यस्य ग्रहणम् , अवान्तरदीक्षा च ...{Loading}...
सोमऋषिः
मूलम् (संयुक्तम्)
दे॒वा॒सु॒रास्सय्ँय॑त्ता आस॒न्ते दे॒वा मि॒थो विप्रि॑या आस॒न्ते३॒॑ऽन्यो॑न्यस्मै॒ ज्यैष्ठ्या॒याति॑ष्ठमानाᳶ पञ्च॒धा व्य॑क्रामन्न॒ग्निर्वसु॑भि॒स्सोमो॑ रु॒द्रैरिन्द्रो॑ म॒रुद्भि॒र्वरु॑ण आदि॒त्यैर्बृह॒स्पति॒र्विश्वै॑र्दे॒वैस्
विश्वास-प्रस्तुतिः
दे॒वा॒सु॒रास्सय्ँय॑त्ता आसन् ।
ते दे॒वा मि॒थो विप्रि॑या आसन् ।
ते३॒॑ऽन्यो॑न्यस्मै॒ ज्यैष्ठ्या॒याति॑ष्ठमानाᳶ पञ्च॒धा व्य॑क्रामन्न् -
अ॒ग्निर् वसु॑भि॒स् , सोमो॑ रु॒द्रैर् - इन्द्रो॑ म॒रुद्भि॒र् , वरु॑ण आदि॒त्यैर् , बृह॒स्पति॒र् विश्वै॑र्दे॒वैः ।
मूलम्
दे॒वा॒सु॒रास्सय्ँय॑त्ता आसन् ।
ते दे॒वा मि॒थो विप्रि॑या आसन् ।
ते३॒॑ऽन्यो॑न्यस्मै॒ ज्यैष्ठ्या॒याति॑ष्ठमानाᳶ पञ्च॒धा व्य॑क्रामन्न् -
अ॒ग्निर् वसु॑भि॒स् , सोमो॑ रु॒द्रैर् - इन्द्रो॑ म॒रुद्भि॒र् , वरु॑ण आदि॒त्यैर् , बृह॒स्पति॒र् विश्वै॑र्दे॒वैः ।
पद-पाठः
दे॒वा॒सु॒रा इति॑ देव-अ॒सु॒राः । सय्यँ॑त्ता॒ इति॒ सम्-य॒त्ताः॒ । आ॒स॒न् ।
ते । दे॒वाः । मि॒थः । विप्रि॑या॒ इति॒ वि-प्रि॒याः॒ । आ॒स॒न् ।
ते । अ॒न्यः । अ॒न्यस्मै॑ । ज्यैष्ठ्या॑य । अति॑ष्ठमानाः । प॒ञ्च॒धेति॑ पञ्च-धा । वीति॑ । अ॒क्रा॒म॒न् । अ॒ग्निः । वसु॑भि॒रिति॒ वसु॑-भिः॒ । सोमः॑ । रु॒द्रैः । इन्द्रः॑ । म॒रुद्भि॒रिति॑ म॒रुत्-भिः॒ । वरु॑णः । आ॒दि॒त्यैः । बृह॒स्पतिः॑ । विश्वैः॑ । दे॒वैः ।
भट्टभास्कर-टीका
1अथ तानूनप्त्रं विधातुमाह - देवासुरा इत्यादि ॥ मिथः परस्परं विप्रिया: विगतप्रिया देवा आसन् । ते ज्यैष्ठ्यार्थमन्योन्यस्मै अतिष्ठमानाः अभिप्रायमप्रकाशयन्तः पञ्चधा व्यक्रामन् पञ्चव्यूहविशिष्टा बभूवुः । प्रकाशने तिष्ठतेरात्मनेपदम् । ‘श्लाघृह्नुञ्स्था’ इति संप्रदानत्वादन्यस्मा इति चतुर्थी, ‘कर्मव्यतिहारे सर्वनाम्नो द्वे भवतः समासवच्च बहुलम्, यदा न समासवत्प्रथमैकवचनं तदा पूर्वपदस्य’ इति ‘स्वरितो वाऽनुदात्ते पदादौ’ इत्येकारौकारयोस्स्वरितत्वम् । अग्निर्वसुभिरित्यादि । गतम् । बृहस्पतिशब्दो वनस्पत्यादिः, पारस्करादित्वात्सुट् ॥
मूलम् (संयुक्तम्)
ते॑ऽमन्य॒न्तासु॑रेभ्यो॒ वा इ॒दम्भ्रातृ॑व्येभ्यो रध्यामो॒ यन्मि॒थो विप्रि॑या॒स्स्मो या न॑ इ॒माᳶ प्रि॒यास्त॒नुव॒स्तास्स॒मव॑द्यामहै॒ ताभ्य॒स्स निर्ऋ॑च्छा॒द्यः [8]
न॒ᳶ प्र॒थ॒मो३॒॑ऽन्यो॑न्यस्मै॒ द्रुह्या॒दिति॒ तस्मा॒द्यस्सता॑नूनप्त्रिणाम्प्रथ॒मो द्रुह्य॑ति॒ स आर्ति॒मार्च्छ॑ति॒
विश्वास-प्रस्तुतिः
ते॑ऽमन्य॒न्त -
असु॑रेभ्यो॒ वा इ॒दम् भ्रातृ॑व्येभ्यो रध्यामो॒ यन्मि॒थो विप्रि॑या॒स् स्मो ,
या न॑ इ॒माᳶ प्रि॒यास् त॒नुव॒स् तास् स॒मव॑द्यामहै॒ ,
ताभ्य॒स् स निर्ऋ॑च्छा॒द् ,
यो न॒ᳶ प्र॒थ॒मो३॒॑ऽन्यो॑न्यस्मै॒ द्रुह्या॒दिति॑ ।[8]
तस्मा॒द् यस् सता॑नूनप्त्रिणाम् प्रथ॒मो द्रुह्य॑ति॒ स आर्ति॒मार्च्छ॑ति ।
मूलम्
ते॑ऽमन्य॒न्त -
असु॑रेभ्यो॒ वा इ॒दम् भ्रातृ॑व्येभ्यो रध्यामो॒ यन्मि॒थो विप्रि॑या॒स् स्मो ,
या न॑ इ॒माᳶ प्रि॒यास् त॒नुव॒स् तास् स॒मव॑द्यामहै॒ ,
ताभ्य॒स् स निर्ऋ॑च्छा॒द् ,
यो न॒ᳶ प्र॒थ॒मो३॒॑ऽन्यो॑न्यस्मै॒ द्रुह्या॒दिति॑ ।[8]
तस्मा॒द् यस् सता॑नूनप्त्रिणाम् प्रथ॒मो द्रुह्य॑ति॒ स आर्ति॒मार्च्छ॑ति ।
पद-पाठः
ते । अ॒म॒न्य॒न्त॒ ।
असु॑रेभ्यः । वै । इ॒दम् । भ्रातृ॑व्येभ्यः । र॒ध्या॒मः॒ । यत् । मि॒थः । विप्रि॑या॒ इति॒ वि-प्रि॒याः॒ । स्मः ।
याः । नः॒ । इ॒माः । प्रि॒याः । त॒नुवः॑ । ताः । स॒मव॑द्यामहा॒ इति॑ सम्-अव॑द्यामहै । ताभ्यः॑ । सः । निरिति॑ । ऋ॒च्छा॒त् । यः । [8]
नः॒ । प्र॒थ॒मः । अ॒न्यः । अ॒न्यस्मै॑ । द्रुह्या॑त् । इति॑ ।
तस्मा॑त् । यः । सता॑नूनप्त्रिणा॒मिति॒ स-ता॒नू॒न॒प्त्रि॒णा॒म् । प्र॒थ॒मः । द्रुह्य॑ति । सः । आर्ति॑म् । एति॑ । ऋ॒च्छ॒ति॒ ।
भट्टभास्कर-टीका
2ते अमन्यन्त देवाः यद्यस्माद्वयं मिथो विप्रियास्स्मः इदमनेन कारणेन असुरेभ्यो भ्रातृव्येभ्यः शत्रुभावमाचरद्भ्यो रध्यामः राध्यामः तेषामेवाभिमतसिद्धये संपद्यामहे तेषामियमृद्धिः यन्मिथो विप्रियास्स्म इति । रध हिंसाराध्योः, दैवादिकः । ‘व्यन् सपत्ने’ इति भ्रातृव्यशब्दात् व्यन्प्रत्ययः, । तस्मादयुक्तमिदमाचरितम् । अतो या नः इमा अस्माकमिष्टास्तनुवः शरीराणि तास्समवद्यामहै एकत्र सङ्घीकुर्मः समयं कर्तुम् । समयस्वरूपं चाह - ताभ्य इत्यादि इत्यन्तम् । न तु तुभ्यं ततः परं प्रियमिवास्तीति ताभिस्समयः क्रियते । तनुशब्दः उकारान्तोप्यस्ति । न्यर्तेः प्राप्तकाले लिङर्थे लोट्, उपसंवादे व्यत्ययेनात्मनेपदम् । एकत्र सन्निधाप्य समयं ताभिः कुर्म इति । यद्वा - व्यतिहारे आत्मनेपदम् । ताः परस्परं सन्निधापयामः । ताभ्यस्तनूभ्यः स निर्ऋच्छात् निर्गच्छेत्, लेट्याडागमः । मीयतामिति यावत् । क इत्याह - यो नः प्रथमोस्माकं मध्ये प्रथमः प्रथमभावी द्रुह्यात् द्रोहमाचरेत् समयं भिन्द्यात् । आशङ्कायां लेट्, पूर्ववदाडागमः । अन्योन्यस्मै अयं वा तस्मै स वाऽस्मै द्रुह्यादिति । ‘क्रुधद्रुहेर्ष्या’ इति संप्रदानत्वम्, पूर्ववद्द्विर्वचनादि । व्यतिहारसामर्थ्याच्च स निर्ऋच्छात् यो यः प्रथमो द्रुह्यादिति गम्यते । न ह्येकस्मिन् अन्योन्यस्मै द्वह्मादिति संभवति । तस्मादित्यादि । अन्यत्वेऽपीत्यर्थः । तनूनपात् तनूनप्ता यस्तनूनां न पातयिता । स चेह शरीरस्थोग्निरुच्यते । तद्रक्षणार्थं कर्म तानूनप्त्रं, तद्वन्तस्तानूनप्त्रिणः, समानास्तानूनप्त्रिणः सतानूनप्त्रिणः । यजमानैक्येन समानत्वम् । यजमानान्तरविषये दोषो मा भूदिति समानत्वेन विशेष्यन्ते । ‘समानस्य छन्दसि’ इति सभावः, उदात्तश्चायं निपात्यते स्वरान्तरबाधनार्थम् । आर्तिमार्छति प्राप्नोति, क्रियते इति यावत् ॥
मूलम् (संयुक्तम्)
यत्ता॑नून॒प्त्रँ स॑मव॒द्यति॒ भ्रातृ॑व्याभिभूत्यै॒ भव॑त्या॒त्मना॒ परा॑स्य॒ भ्रातृ॑व्यो भवति॒
विश्वास-प्रस्तुतिः
यत् ता॑नून॒प्त्रँ स॑मव॒द्यति॒ भ्रातृ॑व्याभिभूत्यै ।
भव॑त्या॒त्मना॑ ।
परा॑स्य॒ भ्रातृ॑व्यो भवति ।
मूलम्
यत् ता॑नून॒प्त्रँ स॑मव॒द्यति॒ भ्रातृ॑व्याभिभूत्यै ।
भव॑त्या॒त्मना॑ ।
परा॑स्य॒ भ्रातृ॑व्यो भवति ।
पद-पाठः
यत् । ता॒नू॒न॒प्त्रमिति॑ तानू-न॒प्त्रम् । स॒म॒व॒द्यतीति॑ सम्-अ॒व॒द्यति॑ । भ्रातृ॑व्याभिभूत्या॒ इति॒ भ्रातृ॑व्य-अ॒भि॒भू॒त्यै॒ ।
भव॑ति । आ॒त्मना॑ ।
परेति॑ । अ॒स्य॒ । भ्रातृ॑व्यः । भ॒व॒ति॒ ।
भट्टभास्कर-टीका
3यदित्यादि ॥ यत्ताननूप्त्रं कर्म समवद्यति एकीभूय संगृह्णाति समयार्थम् । व्यतिहाराभावात् परस्मैपदमेव । प्रत्येकं तानूनप्त्रिणामन्यतम उच्यते । तद्भ्रातृव्याभिभूत्यै । केन प्रकारेणेत्याह - भवत्यात्मना । प्रकृत्यादितृतीया । स्वयं भूतिमान् संपद्यते भ्रातृव्यश्चास्य पराभवति विपद्यते । ‘व्यन् सपत्ने’ इति व्यन् । पूर्वं द्रोग्धुरार्तिरुक्ता, इदं तु समयकरणस्य फलमिति विवेकः । यद्वा - येन तानूनप्त्रकर्मार्थमाज्यं समवद्यति एकत्र गृह्णात्यध्वर्युः, भ्रातृव्याभिभूत्या इति ॥
मूलम् (संयुक्तम्)
पञ्च॒ कृत्वोऽव॑ द्यति पञ्च॒धा हि ते तत्स॑म॒वाद्य॒न्ताथो॒ पञ्चा॑क्षरा प॒ङ्क्तिᳶ पाङ्क्तो॑ य॒ज्ञो य॒ज्ञमे॒वाव॑ रुन्द्ध॒
विश्वास-प्रस्तुतिः
पञ्च॒ कृत्वोऽव॑ द्यति । प॒ञ्च॒धा हि ते तत्स॑म॒वाद्य॑न्त ।
अथो॒ पञ्चा॑क्षरा प॒ङ्क्तिः । पाङ्क्तो॑ य॒ज्ञः ।
य॒ज्ञमे॒वाव॑ रुन्धे ।
मूलम्
पञ्च॒ कृत्वोऽव॑ द्यति । प॒ञ्च॒धा हि ते तत्स॑म॒वाद्य॑न्त ।
अथो॒ पञ्चा॑क्षरा प॒ङ्क्तिः । पाङ्क्तो॑ य॒ज्ञः ।
य॒ज्ञमे॒वाव॑ रुन्धे ।
पद-पाठः
पञ्च॑ । कृत्वः॑ । अवेति॑ । द्य॒ति॒ ।
प॒ञ्च॒धेति॑ पञ्च-धा । हि । ते । तत् । स॒म॒वाद्य॒न्तेति॑ सम्-अ॒वाद्य॑न्त ।
अथो॒ इति॑ । पञ्चा॑क्ष॒रेति॒ पञ्च॑-अ॒क्ष॒रा॒ । प॒ङ्क्तिः ।
पाङ्क्तः॑ । य॒ज्ञः ।
य॒ज्ञम् । ए॒व । अवेति॑ । रु॒न्द्धे॒ ।
भट्टभास्कर-टीका
4पञ्च कृत्व इत्यादि ॥ ‘आपतये त्वा’ इत्यादिभिः पञ्चभिः । अभ्यावृत्तिवाचि शब्दान्तरमेवेदं न प्रत्ययः । अवद्यति आज्यं गृह्णाति । पञ्चधा हीति । पञ्चधा हि सन्तस्ते देवाः तत्तदानीं समवाद्यन्त एकीभूय समयं कृतवन्तः । अथो इति । अपि च । पञ्चाक्षरेत्यादि । गतम् । पञ्चत्वयोगात्पाङ्क्तस्य यज्ञस्यावाप्त्यै भवति ॥
मूलम् (संयुक्तम्)
आप॑तये त्वा गृह्णा॒मीत्या॑ह प्रा॒णो वै [9]
आप॑तिᳶ प्रा॒णमे॒व प्री॑णाति॒ परि॑पतय॒ इत्या॑ह॒ मनो॒ वै परि॑पति॒र्मन॑ ए॒व प्री॑णाति॒ तनू॒नप्त्र॒ इत्या॑ह त॒नुवो॒ हि ते तास्स॑म॒वाद्य॑न्त शाक्व॒रायेत्या॑ह॒ शक्त्यै॒ हि ते तास्स॑म॒वाद्य॑न्त॒ शक्म॒न्नोजि॑ष्ठा॒येत्या॒हौजि॑ष्ठँ॒ हि ते तदा॒त्मन॑स्सम॒वाद्य॒न्त
विश्वास-प्रस्तुतिः
“आप॑तये त्वा गृह्णा॒मी"त्या॑ह ।
प्रा॒णो वै आप॑तिः [9]। प्रा॒णमे॒व प्री॑णाति ।
“परि॑पतय॒” इत्या॑ह । मनो॒ वै परि॑पतिः ।
मन॑ ए॒व प्री॑णाति ।
“तनू॒नप्त्र॒” इत्या॑ह । त॒नुवो॒ हि ते तास् स॑म॒वाद्य॑न्त ।
“शा॒क्व॒राये"त्या॑ह । शक्त्यै॒ हि ते तास् स॑म॒वाद्य॑न्त ।
“शक्म॒॑न्न् ओजि॑ष्ठा॒ये"त्या॑ह । ओजि॑ष्ठँ॒ हि ते तदा॒त्मन॑स् सम॒वाद्य॑न्त ।
मूलम्
“आप॑तये त्वा गृह्णा॒मी"त्या॑ह ।
प्रा॒णो वै आप॑तिः [9]। प्रा॒णमे॒व प्री॑णाति ।
“परि॑पतय॒” इत्या॑ह । मनो॒ वै परि॑पतिः ।
मन॑ ए॒व प्री॑णाति ।
“तनू॒नप्त्र॒” इत्या॑ह । त॒नुवो॒ हि ते तास् स॑म॒वाद्य॑न्त ।
“शा॒क्व॒राये"त्या॑ह । शक्त्यै॒ हि ते तास् स॑म॒वाद्य॑न्त ।
“शक्म॒॑न्न् ओजि॑ष्ठा॒ये"त्या॑ह । ओजि॑ष्ठँ॒ हि ते तदा॒त्मन॑स् सम॒वाद्य॑न्त ।
पद-पाठः
आप॑तय॒ इत्या-प॒त॒ये॒ । त्वा॒ । गृ॒ह्णा॒मि॒ । इति॑ । आ॒ह॒ ।
प्रा॒ण इति॑ प्र-अ॒नः । वै । [9] आप॑ति॒रित्या-प॒तिः॒ ।
प्रा॒णमिति॑ प्र-अ॒नम् । ए॒व । प्री॒णा॒ति॒ ।
परि॑पतय॒ इति॒ परि॑-प॒त॒ये॒ । इति॑ । आ॒ह॒ ।
मनः॑ । वै । परि॑पति॒रिति॒ परि॑-प॒तिः॒ । मनः॑ । ए॒व । प्री॒णा॒ति॒ ।
तनू॒नप्त्र॒ इति॒ तनू॑-नप्त्रे॑ । इति॑ । आ॒ह॒ ।
त॒नुवः॑ । हि । ते । ताः । स॒म॒वाद्य॒न्तेति॑ सम्-अ॒वाद्य॑न्त ।
शा॒क्व॒राय॑ । इति॑ । आ॒ह॒ ।
शक्त्यै॑ । हि । ते । ताः । स॒म॒वाद्य॒न्तेति॑ सम्-अ॒वाद्य॑न्त ।
शक्म॑न् । ओजि॑ष्ठाय । इति॑ । आ॒ह॒ । ओजि॑ष्ठम् । हि । ते । तत् । आ॒त्मनः॑ । स॒म॒वाद्य॒न्तेति॑ सम्-अ॒वाद्य॑न्त ।
भट्टभास्कर-टीका
5इदानीं मन्त्रार्थमनुसन्धत्ते - आपतय इत्यादि ॥ आवृत्त्याऽऽभिमुखेन वा पाति पततीति वा आपतिः प्राणः, पातेर्डतिः, पततेः ‘इन् सर्वधातुभ्यः’ इतीन्, अव्ययपूर्वपदप्रकृतिस्वरत्वम् । प्राणमेव प्रीणाति स च व्रतसमयस्य परिपालयितारं रक्षति । मनः परिपतिः परितः पालनात्, पातनाद्वा । गतमन्यत् । तनुवो हीति । तनुवः शरीराणि हि ते देवाः ताः प्रियाः समवाद्यन्त एकीकृत्य समयं कृतवन्तः । तस्मात्तत्र तनूनां नप्त्रे तनूनामपतनहेतवे शरीरस्थाग्नये इत्युच्यते । शक्त्यै हीति । शक्तिशीलः शक्वरः, तस्य भावश्शाक्वरम्, शक्तिरेवासुरवधसामर्थ्यं, तस्माच्छाक्वरशब्देनोक्तमिति प्रतिपादयति । ओजिष्ठं हीति । शक्तेषु मध्ये ओजिष्ठं अतिशयेन बलवन्तं प्राणमुद्दिश्य ते समयं कृतवन्तः । यद्वा - ओजस्वितमं समयं ते कृतवन्तः । ओजस्विशब्दादिष्ठनि विन्मतोर्लुक्, ‘टेः’ इति टिलोपः ॥
मूलम् (संयुक्तम्)
अना॑धृष्टमस्यनाधृ॒ष्यमित्या॒हाना॑धृष्टँ॒ ह्ये॑तद॑नाधृ॒ष्यन्दे॒वाना॒मोजः॑ [10]
इत्या॑ह दे॒वानाँ॒ ह्ये॑तदोजो॑ऽभिशस्ति॒पा अ॑नभिशस्ते॒न्यमित्या॑हाभिशस्ति॒पा ह्ये॑तद॑नभिशस्ते॒न्यम्
विश्वास-प्रस्तुतिः
अना॑धृष्टमस्य् - अनाधृ॒ष्यमित्या॑ह ।
अना॑धृष्टँ॒ ह्ये॑तद॑नाधृ॒ष्यम् ।
दे॒वाना॒मोज॒ इत्या॑ह ।[10]
दे॒वानाँ॒ ह्ये॑तदोजः॑ ।
अ॒भि॒श॒स्ति॒पा अ॑नभिशस्ते॒न्यमित्या॑ह ।
अ॒भि॒श॒स्ति॒पा ह्य् ए॑तद॑नभिशस्ते॒न्यम् ।
मूलम्
अना॑धृष्टमस्य् - अनाधृ॒ष्यमित्या॑ह ।
अना॑धृष्टँ॒ ह्ये॑तद॑नाधृ॒ष्यम् ।
दे॒वाना॒मोज॒ इत्या॑ह ।[10]
दे॒वानाँ॒ ह्ये॑तदोजः॑ ।
अ॒भि॒श॒स्ति॒पा अ॑नभिशस्ते॒न्यमित्या॑ह ।
अ॒भि॒श॒स्ति॒पा ह्य् ए॑तद॑नभिशस्ते॒न्यम् ।
पद-पाठः
अना॑धृष्ट॒मित्यना॑-धृ॒ष्ट॒म् । अ॒सि॒ । अ॒ना॒धृ॒ष्यमित्य॑ना-धृ॒ष्यम् । इति॑ । आ॒ह॒ ।
अना॑धृष्ट॒मित्यना॑-धृ॒ष्ट॒म् । हि । ए॒तत् । अ॒ना॒धृ॒ष्यमित्य॑ना-धृ॒ष्यम् ।
दे॒वाना॑म् । ओजः॑ । [10] इति॑ । आ॒ह॒ ।
दे॒वाना॑म् । हि । ए॒तत् । ओजः॑ ।
अ॒भि॒श॒स्ति॒पा इत्य॑भिशस्ति-पाः । अ॒न॒भि॒श॒स्ते॒न्यमित्य॑नभि-श॒स्ते॒न्यम् । इति॑ । आ॒ह॒ ।
अ॒भि॒श॒स्ति॒पा इत्य॑भिशस्ति-पाः । हि । ए॒तत् । अ॒न॒भि॒श॒स्ते॒न्यमित्य॑नभि-श॒स्ते॒न्यम् ।
भट्टभास्कर-टीका
6अथानाधृष्टमित्यादिरवमर्शनमन्त्रो व्याख्यायते - अनाधृष्टमेतत्कर्म केनचिदपि आधर्षयितुमशक्यं च । ‘ययतोश्चातदर्थे’ इत्युत्तरपदान्तादोत्तत्वम् । देवानां ह्येतदुज्ज्वलं कर्म अन्येभ्यः कर्मभ्यः । तद्धि कर्म अभिशस्तेभ्यः अभिशंसनेभ्यः अभिशापेभ्यः पातीति विचि लिङ्गव्यत्ययः । स्वयं च केनचिदप्यभिशंसनीयम् । एन्यप्रत्ययस्तुडागमः, उत्तरपदान्तोदात्तत्वं छान्दसम् । यद्वा - अभिशंसनमभिशस्तं, तत्रार्हतीति छान्दस एन्यप्रत्ययः । ‘नञो गुणप्रतिषेधः’ इत्युत्तरपदान्तोदात्तत्वम् ॥
मूलम् (संयुक्तम्)
अनु॑ मे दी॒क्षान्दी॒क्षाप॑तिर्मन्यता॒मित्या॑ह यथाय॒जुरे॒वैतद्
विश्वास-प्रस्तुतिः
अनु॑ मे दी॒क्षान् दी॒क्षाप॑तिर् मन्यता॒मित्या॑ह ।
य॒था॒य॒जुर् ए॒वैतत् ।
मूलम्
अनु॑ मे दी॒क्षान् दी॒क्षाप॑तिर् मन्यता॒मित्या॑ह ।
य॒था॒य॒जुर् ए॒वैतत् ।
पद-पाठः
अन्विति॑ । मे॒ । दी॒क्षाम् । दी॒क्षाप॑ति॒रिति॑ दी॒क्षा-प॒तिः॒ । म॒न्य॒ता॒म् । इति॑ । आ॒ह॒ ।
य॒था॒य॒जुरिति॑ यथा-य॒जुः । ए॒व । ए॒तत् ।
भट्टभास्कर-टीका
7’अनु मे दीक्षां’ इत्यादि यजमानं वाचयति, तद्व्याचष्टे - यथायजुरेवैतदिति ॥ दीक्षापीतर्मां अनुमन्यताम् । तपस्पतिश्च तपोनुमन्यताम् । अञ्जसा ऋजुना सत्यं समयं तानूनप्त्राभिमर्शनेन उपगतोस्मि । मां सुविते सूते अपत्ये सुष्ठु वा इते अस्मिन् कर्मणि स्थापयेति यथा यजुराह तत्तथा तत्साध्यते एवेति ॥
मूलम् (संयुक्तम्)
घृ॒तव्ँ वै दे॒वा वज्र॑ङ्कृ॒त्वा सोम॑मघ्नन्नन्ति॒कमि॑व॒ खलु॒ वा अ॑स्यै॒तच्च॑रन्ति॒ यत्ता॑नून॒प्त्रेण॑ प्र॒चर॑न्त्यँ॒शुरँ॑शुस्ते देव सो॒मा प्या॑यता॒मित्या॑ह॒ यत् [11]
ए॒वास्या॑पुवा॒यते॒ यन्मीय॑ते॒ तदे॒वास्यै॒तेना प्या॑यय॒त्य्
विश्वास-प्रस्तुतिः
घृ॒तव्ँ वै दे॒वा वज्र॑ङ्कृ॒त्वा सोम॑मघ्नन् ।
अ॒न्ति॒कमि॑व॒ खलु॒ वा अ॑स्य+ ए॒तच् च॑रन्ति॒ , यत् ता॑नून॒प्त्रेण॑ प्र॒चर॑न्ति ।
अँ॒शुरँ॑शुस्ते देव सो॒म + आप्या॑यता॒मित्या॑ह ।
यद् ए॒वास्या॑पुवा॒यते॒ यन्मीय॑ते॒ तदे॒वास्यै॒तेना प्या॑ययति ।[11]
मूलम्
घृ॒तव्ँ वै दे॒वा वज्र॑ङ्कृ॒त्वा सोम॑मघ्नन् ।
अ॒न्ति॒कमि॑व॒ खलु॒ वा अ॑स्य+ ए॒तच् च॑रन्ति॒ , यत् ता॑नून॒प्त्रेण॑ प्र॒चर॑न्ति ।
अँ॒शुरँ॑शुस्ते देव सो॒म + आप्या॑यता॒मित्या॑ह ।
यद् ए॒वास्या॑पुवा॒यते॒ यन्मीय॑ते॒ तदे॒वास्यै॒तेना प्या॑ययति ।[11]
पद-पाठः
घृ॒तम् । वै । दे॒वाः । वज्र॑म् । कृ॒त्वा । सोम॑म् । अ॒घ्न॒न् ।
अ॒न्ति॒कम् । इ॒व॒ । खलु॑ । वै । अ॒स्य॒ । ए॒तत् । च॒र॒न्ति॒ । यत् । ता॒नू॒न॒प्त्रेणेति॑ तानू-न॒प्त्रेण॑ । प्र॒चर॒न्तीति॑ प्र-चर॑न्ति ।
अँ॒शुरँ॑शु॒रित्यँ॒शुः-अँ॒शुः॒ । ते॒ । दे॒व॒ । सो॒म॒ । एति॑ । प्या॒य॒ता॒म् । इति॑ । आ॒ह॒ ।
यत् । [11] ए॒व । अ॒स्य॒ । अ॒पुवा॒यते॑ । यत् । मीय॑ते । तत् । ए॒व । अ॒स्य॒ । ए॒तेन॑ । एति॑ । प्या॒य॒य॒ति॒ ।
भट्टभास्कर-टीका
8आप्यायनं विधास्यन्नाह - घृतमित्यादि ॥ यदिदं तानूनप्त्रप्रचरणं, तत्खल्वस्य सोमस्यान्तिकमिव तानूनप्त्रिणश्चरन्ति अवकाशनिरोधेन बाधितुमिव परिवृश्चन्ति घृतवज्रा एते भवन्ति । घृतेन वज्रभूतेन पूर्वं देवैस्सोमो हत आसीत् । तस्मादिवास्य भयं यस्मात् ‘अंशुरंशुस्ते’ इत्यादिना आप्यायनं कुर्यादिति । एतेन चाप्यायनेन यदस्य सोमस्यापुवायते पूतीभवति । अपशब्दस्य छान्दसो वर्णविकारः । उकारान्तो वा उपसर्गसधर्मा शब्दः । तत्पूर्वकश्च सकर्मको वातिः । वातेः कर्मणि कर्तरि वा लकारः, ‘अचः कर्तृयकि’ इत्यस्य पाक्षिकत्वात् यक्स्वरः । यद्वा - अपुवायते अपशुष्यति । पै ओ वै शोषणे, भौवादिकः, व्यत्ययेन शः, आत्मनेपदं च । यच्च मीयते नश्यति क्षीयते वा, मीङ् हिंसायाम्, दैवादिकः । तत्सर्वमाप्याययति अदुष्टं करोति ॥
मूलम् (संयुक्तम्)
आ तुभ्य॒मिन्द्र॑ᳶ प्यायता॒मा त्वमिन्द्रा॑य प्याय॒स्वेत्या॑हो॒भावे॒वेन्द्र॑ञ्च॒ सोम॒ञ्चा प्या॑यय॒त्या प्या॑यय॒ सखी॑न्त्स॒न्या मे॒धयेत्या॑ह॒र्त्विजो॒ वा अ॑स्य॒ सखा॑य॒स्ताने॒वा प्या॑ययति स्व॒स्ति ते॑ देव सोम सु॒त्याम॑शीय [12]
इत्या॑हा॒शिष॑मे॒वैतामा शा॑स्ते॒ प्र वा ए॒ते॑ऽस्माल्लो॒काच्च्य॑वन्ते॒ ये सोम॑माप्या॒यय॑न्त्यन्तरिक्षदेव॒त्यो॑ हि सोम॒ आप्या॑यित॒ एष्टा॒ राय॒ᳶ प्रेषे भगा॒येत्या॑ह॒ द्यावा॑पृथि॒वीभ्या॑मे॒व न॑म॒स्कृत्या॒स्मिल्ँ लो॒के प्रति॑ तिष्ठन्ति
विश्वास-प्रस्तुतिः
आ तुभ्य॒मिन्द्र॑ᳶ प्यायता॒मा त्वमिन्द्रा॑य प्याय॒स्वेत्या॑ह ।
उ॒भावे॒वेन्द्र॑ञ् च॒ सोम॒ञ् चाप्या॑यय॒ति ।
आ प्या॑यय॒ सखी॑न्त्स॒न्या मे॒धयेत्या॑ह ।
ऋ॒र्त्विजो॒ वा अ॑स्य॒ सखा॑यः ।
ताने॒व आ प्या॑ययति ।
स्व॒स्ति ते॑ देव सोम सु॒त्याम् अ॑शीयेत्या॑ह ।[12]
आ॒शिष॑म् ए॒वैताम् आ शा॑स्ते ।
प्र वा ए॒ते॑ऽस्माल् लो॒काच् च्य॑वन्ते॒ , ये सोम॑म् आप्या॒यय॑न्ति ।
अ॒न्त॒रि॒क्ष॒दे॒व॒त्यो॑ हि सोम॒ आप्या॑यितः ।
एष्टा॒ राय॒ᳶ प्रेषे भगा॒येत्या॑ह ।
द्यावा॑पृथि॒वीभ्या॑म् ए॒व न॑म॒स्कृत्य अ॒स्मिल्ँ लो॒के प्रति॑ तिष्ठन्ति ।
मूलम्
आ तुभ्य॒मिन्द्र॑ᳶ प्यायता॒मा त्वमिन्द्रा॑य प्याय॒स्वेत्या॑ह ।
उ॒भावे॒वेन्द्र॑ञ् च॒ सोम॒ञ् चाप्या॑यय॒ति ।
आ प्या॑यय॒ सखी॑न्त्स॒न्या मे॒धयेत्या॑ह ।
ऋ॒र्त्विजो॒ वा अ॑स्य॒ सखा॑यः ।
ताने॒व आ प्या॑ययति ।
स्व॒स्ति ते॑ देव सोम सु॒त्याम् अ॑शीयेत्या॑ह ।[12]
आ॒शिष॑म् ए॒वैताम् आ शा॑स्ते ।
प्र वा ए॒ते॑ऽस्माल् लो॒काच् च्य॑वन्ते॒ , ये सोम॑म् आप्या॒यय॑न्ति ।
अ॒न्त॒रि॒क्ष॒दे॒व॒त्यो॑ हि सोम॒ आप्या॑यितः ।
एष्टा॒ राय॒ᳶ प्रेषे भगा॒येत्या॑ह ।
द्यावा॑पृथि॒वीभ्या॑म् ए॒व न॑म॒स्कृत्य अ॒स्मिल्ँ लो॒के प्रति॑ तिष्ठन्ति ।
पद-पाठः
एति॑ । तुभ्य॑म् । इन्द्रः॑ । प्या॒य॒ता॒म् । एति॑ । त्वम् । इन्द्रा॑य । प्या॒य॒स्व॒ । इति॑ । आ॒ह॒ ।
उ॒भौ । ए॒व । इन्द्र॑म् । च॒ । सोम॑म् । च॒ । एति॑ । प्या॒य॒य॒ति॒ ।
एति॑ । प्या॒य॒य॒ । सखी॑न् । स॒न्या । मे॒धया॑ । इति॑ । आ॒ह॒ ।
ऋ॒त्विजः॑ । वै । अ॒स्य॒ । सखा॑यः ।
तान् । ए॒व । एति॑ । प्या॒य॒य॒ति॒ ।
स्व॒स्ति । ते॒ । दे॒व॒ । सो॒म॒ । सु॒त्याम् । अ॒शी॒य॒ । [12] इति॑ । आ॒ह॒ ।
आ॒शिष॒मित्या॑-शिष॑म् । ए॒व । ए॒ताम् । एति॑ । शा॒स्ते॒ ।
प्रेति॑ । वै । ए॒ते । अ॒स्मा॒त् । लो॒कात् । च्य॒व॒न्ते॒ । ये । सोम॑म् । आ॒प्या॒यय॒न्तीत्या॑-प्या॒यय॑न्ति ।
अ॒न्त॒रि॒क्ष॒दे॒व॒त्य॑ इत्य॑न्तरिक्ष-दे॒व॒त्यः॑ । हि । सोमः॑ । आप्या॑यित॒ इत्या-प्या॒यि॒तः॒ ।
एष्टः॑ । रायः॑ । प्रेति॑ । इ॒षे । भगा॑य । इति॑ । आ॒ह॒ ।
द्यावा॑पृथि॒वीभ्या॒मिति॒ द्यावा॑-पृ॒थि॒वीभ्या॑म् । ए॒व । न॒म॒स्कृत्येति॑ नमः-कृत्य॑ । अ॒स्मिन् । लो॒के । प्रतीति॑ । ति॒ष्ठ॒न्ति॒ ।
भट्टभास्कर-टीका
9आ तुभ्यमित्यादि ॥ गतम् । ऋत्विजस्सखायः यजमानस्य समानख्यानाः, एककार्यत्वात् । आशिषं सुत्यामशीयेत्येतामाशास्ते इदमेव प्रयोजनमिति । प्र वा एत इति । एते अस्माल्लोकात्प्रच्यवन्ते ये सोममाप्याययन्ति यतः अन्तरिक्षदेवत्य आप्यायितस्सोमः अन्तरिक्षदेवतार्थः । देवतान्तात्तादर्थ्ये यत् । तस्मादाप्यायितोन्तरिक्षप्रधानः अस्य आप्यायितारः अन्तरिक्षप्रधानाः इति अस्माल्लोकात्प्रच्युता भवन्ति । तस्मात् ‘एष्टा रायः’ इत्यादिना द्यावाष्टथिवीभ्यां नमस्कृत्य अस्मिन् लोके प्रतितिष्ठन्ति ॥
मूलम् (संयुक्तम्)
देवासु॒रास्सय्ँय॑त्ता आस॒न्ते दे॒वा बिभ्य॑तो॒ऽग्निम्प्रावि॑श॒न्तस्मा॑दाहुर॒ग्निस्सर्वा॑ दे॒वता॒ इति॒ ते [13]
अ॒ग्निमे॒व वरू॑थङ्कृ॒त्वासु॑रान॒भ्य॑भवन्न॒ग्निमि॑व॒ खलु॒ वा ए॒ष प्र वि॑शति॒ यो॑ऽवान्तरदी॒क्षामु॒पैति॒ भ्रातृ॑व्याभिभूत्यै॒ भव॑त्या॒त्मना॒ परा॑स्य॒ भ्रातृ॑व्यो भवत्या॒त्मान॑मे॒व दी॒क्षया॑ पाति प्र॒जाम॑वान्तरदी॒क्षया॑ सन्त॒राम्मेख॑लाँ स॒माय॑च्छते प्र॒जा ह्या॑त्मनोऽन्त॑रतरा त॒प्तव्र॑तो भवति॒ मद॑न्तीभिर्मार्जयते॒ निर्ह्य॑ग्निश्शी॒तेन॒ वाय॑ति॒ समि॑द्ध्यै॒
विश्वास-प्रस्तुतिः
दे॒वा॒सु॒रास् सय्ँय॑त्ता आसन् ।
ते दे॒वा बिभ्य॑तो॒ऽग्निम् प्रावि॑शन् ।
तस्मा॑दाहुर् अ॒ग्निस् सर्वा॑ दे॒वता॒ इति॑ ।
ते॑ऽग्निम् [13] ए॒व वरू॑थङ् कृ॒त्वाऽसु॑रान॒भ्य॑भवन् ।
अ॒ग्निम् इ॑व॒ खलु॒ वा ए॒ष प्र वि॑शति॒ यो॑ऽवान्तरदी॒क्षामु॒पैति ।
भ्रातृ॑व्याभिभूत्यै ।
भव॑त्या॒त्मना॒ परा॑स्य॒ भ्रातृ॑व्यो भवति ।
आ॒त्मान॑मे॒व दी॒क्षया॑ पाति, प्र॒जाम् अ॑वान्तरदी॒क्षया॑ ।
स॒न्त॒राम् मेख॑लाँ स॒माय॑च्छते । प्र॒जा ह्या॑त्मनोऽन्त॑रतरा ।
त॒प्तव्र॑तो भवति । मद॑न्तीभिर् मार्जयते ।
निर्ह्य॑ग्निश्शी॒तेन॒ वाय॑ति॒ समि॑द्ध्यै ।
मूलम्
दे॒वा॒सु॒रास् सय्ँय॑त्ता आसन् ।
ते दे॒वा बिभ्य॑तो॒ऽग्निम् प्रावि॑शन् ।
तस्मा॑दाहुर् अ॒ग्निस् सर्वा॑ दे॒वता॒ इति॑ ।
ते॑ऽग्निम् [13] ए॒व वरू॑थङ् कृ॒त्वाऽसु॑रान॒भ्य॑भवन् ।
अ॒ग्निम् इ॑व॒ खलु॒ वा ए॒ष प्र वि॑शति॒ यो॑ऽवान्तरदी॒क्षामु॒पैति ।
भ्रातृ॑व्याभिभूत्यै ।
भव॑त्या॒त्मना॒ परा॑स्य॒ भ्रातृ॑व्यो भवति ।
आ॒त्मान॑मे॒व दी॒क्षया॑ पाति, प्र॒जाम् अ॑वान्तरदी॒क्षया॑ ।
स॒न्त॒राम् मेख॑लाँ स॒माय॑च्छते । प्र॒जा ह्या॑त्मनोऽन्त॑रतरा ।
त॒प्तव्र॑तो भवति । मद॑न्तीभिर् मार्जयते ।
निर्ह्य॑ग्निश्शी॒तेन॒ वाय॑ति॒ समि॑द्ध्यै ।
पद-पाठः
दे॒वा॒सु॒रा इति॑ देव-अ॒सु॒राः । सय्यँ॑त्ता॒ इति॒ सम्-य॒त्ताः॒ । आ॒स॒न् ।
ते । दे॒वाः । बिभ्य॑तः । अ॒ग्निम् । प्रेति॑ । अ॒वि॒श॒न् ।
तस्मा॑त् । आ॒हुः॒ । अ॒ग्निः । सर्वाः॑ । दे॒वताः॑ । इति॑ ।
ते । [13] अ॒ग्निम् । ए॒व । वरू॑थम् । कृ॒त्वा । असु॑रान् । अ॒भीति॑ । अ॒भ॒व॒न् ।
अ॒ग्निम् । इ॒व॒ । खलु॑ । वै । ए॒षः । प्रेति॑ । वि॒श॒ति॒ । यः । अ॒वा॒न्त॒र॒दी॒क्षामित्य॑वान्तर-दी॒क्षाम् । उ॒पैतीत्यु॑प-एति॑ ।
भ्रातृ॑व्याभिभूत्या॒ इति॒ भ्रातृ॑व्य-अ॒भि॒भू॒त्यै॒ ।
भव॑ति । आ॒त्मना॑ । परेति॑ । अ॒स्य॒ । भ्रातृ॑व्यः । भ॒व॒ति॒ ।
आ॒त्मान॑म् । ए॒व । दी॒क्षया॑ । पा॒ति॒ । प्र॒जामिति॑ प्र-जाम् । अ॒वा॒न्त॒र॒दी॒क्षयेत्य॑वान्तर-दी॒क्षया॑ ।
स॒न्त॒रामिति॑ सम्-त॒राम् । मेख॑लाम् । स॒माय॑च्छत॒ इति॑ सम्-आय॑च्छते ।
प्र॒जेति॑ प्र-जा । हि । आ॒त्मनः॑ । अन्त॑रत॒रेत्यन्त॑र-त॒रा॒ ।
त॒प्तव्र॑त॒ इति॑ त॒प्त-व्र॒तः॒ । भ॒व॒ति॒ ।
मद॑न्तीभिः । मा॒र्ज॒य॒ते॒ ।
निरिति॑ । हि । अ॒ग्निः । शी॒तेन॑ । वाय॑ति । 1समि॑द्ध्या॒ इति॒ सम्-इ॒द्ध्यै॒ ।
भट्टभास्कर-टीका
10अवान्तरदीक्षाविधिः - देवासुरा इत्यादि ॥ ते देवा असुरेभ्यो बिभ्यतः अग्निं प्राविशन्, तस्मादित्याहुः । ते देवाः अग्निमेव वरूथं कृत्वा वारुणं प्राकारं कृत्वा असुरानभ्यभवन् । यद्वा - अग्निं वरूथं गृहं कृत्वा तत्र प्रविश्य निर्वाधाश्च सन्तः असुरानभ्यभवन्निति । तस्मादद्यत्वेऽपि अग्निमेव खल्वेष प्रविशति योवान्तरदीक्षां मध्ये दिक्षामुपैति । भ्रातृव्याभिभूत्यै इत्यादि । गतम् । सेदानीमुच्यते - सन्तरामिति । सन्तरां श्लिष्टतराम् । क्रियाविशेपणम्, ससाधनां क्रियामुपसर्ग आहेति, ‘किमेत्तिङ्व्ययाघात्’ इत्यामुप्रत्ययः । मेखलां समायच्छते यमयति सुदृढमाच्छिद्य बध्नाति । ‘समुदाङ्भ्यः’ इत्यात्मनेपदम् । कारणमाह - प्रजा खल्वात्मनोन्तरतरा; प्रजास्थानीया चावान्तरदीक्षा; तस्मात् समायच्छते इति विधिः, तप्तव्रतं उष्णदुग्धभोजनं, मदन्तीभिस्तप्ताभिः अद्भिर्मार्जयते, अग्निर्हि शीतेन निर्वायति निर्वापितः । व्यत्ययेन श्यन् । वायतिर्वा भौवादिकः । तस्मात्तप्तव्रतादिकं अग्नेस्समिद्ध्यै समिन्धनार्थं भवति । ‘तादौ च’ इति गतेः प्रकतिस्वरत्वम् ॥
मूलम् (संयुक्तम्)
या ते॑ अग्ने॒ रुद्रि॑या त॒नूरित्या॑ह॒ स्वयै॒वैन॑द्दे॒वत॑या व्रतयति सयोनि॒त्वाय॒ शान्त्यै॑ ॥ [14]
विश्वास-प्रस्तुतिः
या ते॑ अग्ने॒ रुद्रि॑या त॒नूरित्या॑ह ।
स्वयै॒वैन॑द् दे॒वत॑या व्रतयति ।
स॒यो॒नि॒त्वाय॒ शान्त्यै॑ ॥ [14]
मूलम्
या ते॑ अग्ने॒ रुद्रि॑या त॒नूरित्या॑ह ।
स्वयै॒वैन॑द् दे॒वत॑या व्रतयति ।
स॒यो॒नि॒त्वाय॒ शान्त्यै॑ ॥ [14]
पद-पाठः
या । ते॒ । अग्ने॑ । रुद्रि॑या । त॒नूः । इति॑ । आ॒ह॒ ।
स्वया॑ । ए॒व । ए॒न॒त् । दे॒वत॑या । व्र॒त॒य॒ति॒ ।
स॒यो॒नि॒त्वायेति॑ सयोनि-त्वाय॑ । शान्त्यै॑ ॥ [14]
भट्टभास्कर-टीका
11अथ ‘या ते अग्ने रुद्रिया तनूः’ इत्यादि व्रतमन्त्रं व्याचष्टे - स्वया देवतया सह एनद्दुग्धं व्रतयति भुङ्क्ते । यद्वा - स्वयैव देवतया देवताभावेन रुद्रिया अग्निरूपेण एतद्भुङ्क्ते । किमर्थम्? - सयोनित्वाय अग्निना योनिभूतेन सहभुक्तिः यथा स्यात् । एवं हि भुक्तं अग्निना च भुक्तं भवति । ततश्च शान्त्यै भवति तप्तव्रताद्युपचारेणोद्दीपितोग्निरनेन शान्तिसुखो भवति ॥
इति षष्ठे द्वितीये द्वितीयोनुवाकः ॥