११ क्रीतस्य सोमस्य शकटेन प्राचीनवंशं प्रतिनयनम् ...{Loading}...
सोसोमऋषिः
मूलम् (संयुक्तम्)
वा॒रु॒णो वै क्री॒तस्सोम॒ उप॑नद्धो मि॒त्रो न॒ एहि॒ सुमि॑त्रधा॒ इत्या॑ह॒ शान्त्या॒
विश्वास-प्रस्तुतिः
वा॒रु॒णो वै क्री॒तस्सोम॒ उप॑नद्धः ।
मि॒त्रो न॒ एहि॒ सुमि॑त्रधा॒ इत्या॑ह॒ ,
शान्त्यै॑ ।
मूलम्
वा॒रु॒णो वै क्री॒तस्सोम॒ उप॑नद्धः ।
मि॒त्रो न॒ एहि॒ सुमि॑त्रधा॒ इत्या॑ह॒ ,
शान्त्यै॑ ।
पद-पाठः
वा॒रु॒णः । वै । क्री॒तः । सोमः॑ । उप॑नद्ध॒ इत्युप॑-न॒द्धः॒ ।
मि॒त्रः । नः॒ । एति॑ । इ॒हि॒ । सुमि॑त्रधा॒ इति॒ सुमि॑त्र-धाः॒ । इति॑ । आ॒ह॒ ।
शान्त्यै॑ ।
भट्टभास्कर-टीका
1वरुण इत्यादि ॥ यदा सोमः क्रीतः उपनद्धो बद्धो भवति तदा एनं वरुणो गृह्णाति तस्मात्तदाऽसौ वारुणः, वरुणस्यायं वारुणः । ‘गतिरनन्तरः’ इति गतेः प्रकृतिस्वरत्वम् । तस्मान्मित्रो भूत्वाऽस्मानेहि आगच्छेति वचनं तस्य शान्त्यै भवति ॥
मूलम् (संयुक्तम्)
इन्द्र॑स्यो॒रुमा वि॑श॒ दक्षि॑ण॒मित्या॑ह दे॒वा वै यँ सोम॒मक्री॑ण॒न्तमिन्द्र॑स्यो॒रौ दक्षि॑ण॒ आसा॑दयन्ने॒ष खलु॒ वा ए॒तर्हीन्द्रो॒ यो यज॑ते॒ तस्मा॑दे॒वमा॒ह
विश्वास-प्रस्तुतिः
इन्द्र॑स्यो॒रुम् आ वि॑श॒ दक्षि॑ण॒मित्या॑ह ।
दे॒वा वै यँ सोम॒मक्री॑ण॒न्तमिन्द्र॑स्यो॒रौ दक्षि॑ण॒ आसा॑दयन् ।
ए॒ष खलु॒ वा ए॒तर्हीन्द्रो॒ यो यज॑ते ।
तस्मा॑दे॒वमा॑ह ।
मूलम्
इन्द्र॑स्यो॒रुम् आ वि॑श॒ दक्षि॑ण॒मित्या॑ह ।
दे॒वा वै यँ सोम॒मक्री॑ण॒न्तमिन्द्र॑स्यो॒रौ दक्षि॑ण॒ आसा॑दयन् ।
ए॒ष खलु॒ वा ए॒तर्हीन्द्रो॒ यो यज॑ते ।
तस्मा॑दे॒वमा॑ह ।
पद-पाठः
इन्द्र॑स्य । ऊ॒रुम् । एति॑ । वि॒श॒ । दक्षि॑णम् । इति॑ । आ॒ह॒ ।
दे॒वाः । वै । यम् । सोम॑म् । अक्री॑णन् । तम् । इन्द्र॑स्य । ऊ॒रौ । दक्षि॑णे । एति॑ । अ॒सा॒द॒य॒न् ।
ए॒षः । खलु॑ । वै । ए॒तर्हि॑ । इन्द्रः॑ । यः । यज॑ते ।
तस्मा॑त् । ए॒वम् । आ॒ह॒ ।
भट्टभास्कर-टीका
2इन्द्रस्योरुमित्यादि ॥ देवास्सोमं क्रीत्वा इन्द्रस्य दक्षिणे ऊरावासादयन् । अस्मिंश्च काले अयमिन्द्रः यो यजते । तस्मात् ‘इन्द्रस्योरुमाविश’ इति मन्त्रमाह । ‘इदमोर्हिल्’ ‘एतेतौ रथोः’ इत्येतादेशः ॥
मूलम् (संयुक्तम्)
उदायु॑षा स्वा॒युषेत्या॑ह दे॒वता॑ ए॒वान्वा॒रभ्योत् [71]
ति॒ष्ठ॒त्य्
विश्वास-प्रस्तुतिः
उदायु॑षा स्वा॒युषेत्या॑ह । दे॒वता॑ ए॒वान्वा॒रभ्योत्तिष्ठति ।[71]
मूलम्
उदायु॑षा स्वा॒युषेत्या॑ह । दे॒वता॑ ए॒वान्वा॒रभ्योत्तिष्ठति ।[71]
पद-पाठः
उदिति॑ । आयु॑षा । स्वा॒युषेति॑ सु-आ॒युषा॑ । इति॑ । आ॒ह॒ ।
दे॒वताः॑ । ए॒व । अ॒न्वा॒रभ्येत्य॑नु-आ॒रभ्य॑ । उदिति॑ । [71] ति॒ष्ठ॒ति॒ ।
भट्टभास्कर-टीका
3उदायुषेति ॥ यस्मात् ‘अमृताननु’ इत्यस्मिन् मन्त्रे उच्यते तस्माद्देवता अन्वारभ्यावष्टभ्योत्तिष्ठति ॥
मूलम् (संयुक्तम्)
उ॒र्व॑न्तरि॑क्ष॒मन्वि॒हीत्या॑हान्तरिक्षदेव॒त्यो ३॒॑ ह्ये॑तर्हि॒ सोमो
विश्वास-प्रस्तुतिः
उ॒र्व॑न्तरि॑क्ष॒मन्वि॒हीत्या॑ह ।
अ॒न्त॒रि॒क्ष॒दे॒व॒त्यो॑ ह्ये॑तर्हि॒ सोमः॑ ।
मूलम्
उ॒र्व॑न्तरि॑क्ष॒मन्वि॒हीत्या॑ह ।
अ॒न्त॒रि॒क्ष॒दे॒व॒त्यो॑ ह्ये॑तर्हि॒ सोमः॑ ।
पद-पाठः
उ॒रु । अ॒न्तरि॑क्षम् । अन्विति॑ । इ॒हि॒ । इति॑ । आ॒ह॒ ।
अ॒न्त॒रि॒क्ष॒दे॒व॒त्य॑ इत्य॑न्तरिक्ष-दे॒व॒त्यः॑ । हि । ए॒तर्हि॑ । सोमः॑ ।
भट्टभास्कर-टीका
4उर्वन्तरिक्षमिति ॥ यदाऽन्तरिक्षेण सोमे इच्छति [मो गच्छति] अस्मिन् कालेऽयमन्तरिक्षदैवत्यः । तस्मादात्मीयानां देवानां अन्तरिक्षं विस्तीर्णमन्विहि अनुगच्छेति मन्त्राभिप्राय इत्यर्थः । ‘देवतान्तात्तादर्थ्ये यत्’, ‘तित्स्वरितम्’ इति स्वरितत्वम्, ‘उदात्तस्वरितयोर्यणः’, इति हिशब्दात्पर एकारस्स्वर्यते ॥
मूलम् (संयुक्तम्)
ऽदि॑त्या॒स्सदो॒ऽस्यदि॑त्या॒स्सद॒ आ सी॒देत्या॑ह यथाय॒जुरे॒वैतद्
विश्वास-प्रस्तुतिः
अदि॑त्या॒स् सदो॒ ऽस्यदि॑त्या॒स्सद॒ आ सी॒देत्या॑ह । य॒था॒य॒जुर् ए॒वैतत् ।
मूलम्
अदि॑त्या॒स् सदो॒ ऽस्यदि॑त्या॒स्सद॒ आ सी॒देत्या॑ह । य॒था॒य॒जुर् ए॒वैतत् ।
पद-पाठः
अदि॑त्याः । सदः॑ । अ॒सि॒ । अदि॑त्याः । सदः॑ । एति॑ । सी॒द॒ । इति॑ । आ॒ह॒ ।
य॒था॒य॒जुरिति॑ यथा-य॒जुः । ए॒व । ए॒तत् ।
भट्टभास्कर-टीका
5अदित्यास्सद इत्यादि ॥ कृष्णाजिनस्यादित्यास्सदनतुल्यत्वात् यजुर्यथा वदति तथैवैतदित्यर्थः ॥
मूलम् (संयुक्तम्)
वि वा ए॑नमे॒तद॑र्धयति॒ यद्वा॑रु॒णँ सन्त॑म्मै॒त्रङ्क॒रोति॑ वारु॒ण्यर्चा सा॑दयति॒ स्वयै॒वैन॑न्दे॒वत॑या॒ सम॑र्धयति॒ वास॑सा प॒र्यान॑ह्यति सर्वदेव॒त्यव्ँ॑ वै वास॒स्सर्वा॑भिरे॒व [72]
ए॒न॒न्दे॒वता॑भि॒स्सम॑र्धय॒त्यथो॒ रक्ष॑सा॒मप॑हत्यै॒
विश्वास-प्रस्तुतिः
वि वा ए॑नमे॒तद॑र्धयति॒ यद्वा॑रु॒णँ सन्त॑म् मै॒त्रङ्क॒रोति॑ ।
वा॒रु॒ण्यर्चा सा॑दयति॒ स्वयै॒वैन॑न् दे॒वत॑या॒ सम॑र्धयति ।
वास॑सा प॒र्यान॑ह्यति । सर्वदेव॒त्यव्ँ॑ वै वासः॑ ।
सर्वा॑भिरे॒वैनन् दे॒वता॑भि॒स् सम॑र्धय॒ति ।[72]
अथो॒ रक्ष॑सा॒मप॑हत्यै ।
मूलम्
वि वा ए॑नमे॒तद॑र्धयति॒ यद्वा॑रु॒णँ सन्त॑म् मै॒त्रङ्क॒रोति॑ ।
वा॒रु॒ण्यर्चा सा॑दयति॒ स्वयै॒वैन॑न् दे॒वत॑या॒ सम॑र्धयति ।
वास॑सा प॒र्यान॑ह्यति ।
सर्वदेव॒त्यव्ँ॑ वै वासः॑ ।
सर्वा॑भिरे॒वैनन् दे॒वता॑भि॒स् सम॑र्धय॒ति ।[72]
अथो॒ रक्ष॑सा॒मप॑हत्यै ।
पद-पाठः
वीति॑ । वै । ए॒न॒म् । ए॒तत् । अ॒र्ध॒य॒ति॒ । यत् । वा॒रु॒णम् । सन्त॑म् । मै॒त्रम् । क॒रोति॑ ।
वा॒रु॒ण्या । ऋ॒चा । एति॑ । सा॒द॒य॒ति॒ । स्वया॑ । ए॒व । ए॒न॒म् । दे॒वत॑या । समिति॑ । अ॒र्ध॒य॒ति॒ ।
वास॑सा । प॒र्यान॑ह्य॒तीति॑ परि-आन॑ह्यति ।
स॒र्व॒दे॒व॒त्य॑मिति॑ सर्व-दे॒व॒त्य॑म् । वै । वासः॑ ।
सर्वा॑भिः । ए॒व । [72] ए॒न॒म् । दे॒वता॑भिः । समिति॑ । अ॒र्ध॒य॒ति॒ ।
अथो॒ इति॑ । रक्ष॑साम् । अप॑हत्या॒ इत्यप॑-ह॒त्यै॒ ।
भट्टभास्कर-टीका
6वि वा एनमिति ॥ एनं सोमं विवर्धयति वृद्धिं करोति खल्वेतत् यद्वारुणं सन्तं मैत्रं करोति ‘मित्रो न एहि’ इति मन्त्रेण मैत्रतामापादयति । वरुणपरित्यागेन व्यृद्धस्स्यात्, तस्माद्वारुण्यर्चा ‘वरुणोसि धृतव्रतः’ इत्यनया आसादयति । स्वयैवैनं देवतया अप्रच्युतया एनं समर्धयति । वाससा पर्यानह्यति सर्वतो बध्नाति सोममिति विधिः । सर्वदेवत्यमित्यादि । गतम् । अथो अपिच रक्षसामपहत्यै भवति अपहननाय संपद्यते, सोमस्य हन्तुमशक्यत्वात् । ‘तादौ च ’ इति गतेः प्रकृतिस्वरत्वम् ॥
मूलम् (संयुक्तम्)
वने॑षु॒ व्य॑न्तरि॑क्षन्तता॒नेत्या॑ह॒ वने॑षु॒ हि व्य॑न्तरि॑क्षन्त॒तान॒ वाज॒मर्व॒त्स्वित्या॑ह॒ वाजँ॒ ह्यर्व॑त्सु॒ पयो॑ अघ्नि॒यास्वित्या॑ह॒ पयो॒ ह्य॑घ्नि॒यासु॑ हृ॒त्सु क्रतु॒मित्या॑ह हृ॒त्सु हि क्रतुव्ँ॒वरु॑णो वि॒क्ष्व॑ग्निमित्या॑ह॒ वरु॑णो॒ हि वि॒क्ष्व॑ग्निन्दि॒वि सूर्य॑म् [73]
इत्या॑ह दि॒वि हि सूर्यँ॒ सोम॒मद्रा॒वित्या॑ह॒ ग्रावा॑णो॒ वा अद्र॑य॒स्तेषु॒ वा ए॒ष सोम॑न्दधाति॒ यो यज॑ते॒ तस्मा॑दे॒वमा॒ह
विश्वास-प्रस्तुतिः
वने॑षु॒ व्य॑न्तरि॑क्षन्तता॒नेत्या॑ह ।
वने॑षु॒ हि व्य॑न्तरि॑क्षन् त॒तान ।
वाज॒मर्व॒त्स्वित्या॑ह । वाजँ॒ ह्यर्व॑त्सु॑ ।
पयो॑ अघ्नि॒यास्वित्या॑ह । पयो॒ ह्य॑घ्नि॒यासु॑ ।
हृ॒त्सु क्रतु॒मित्या॑ह । हृ॒त्सु हि क्रतु॑म् ।
वरु॑णो वि॒क्ष्व॑ग्निमित्या॑ह । वरु॑णो॒ हि वि॒क्ष्व॑ग्निम् ।
दि॒वि सूर्य॑म् इत्या॑ह [73]। दि॒वि हि सूर्य॑म् ।
सोम॒मद्रा॒व् इत्या॑ह । ग्रावा॑णो॒ वा अद्र॑यः ।
तेषु॒ वा ए॒ष सोम॑न् दधाति॒ यो यज॑ते ।
तस्मा॑दे॒वमा॑ह ।
मूलम्
वने॑षु॒ व्य॑न्तरि॑क्षन्तता॒नेत्या॑ह ।
वने॑षु॒ हि व्य॑न्तरि॑क्षन् त॒तान ।
वाज॒मर्व॒त्स्वित्या॑ह । वाजँ॒ ह्यर्व॑त्सु॑ ।
पयो॑ अघ्नि॒यास्वित्या॑ह । पयो॒ ह्य॑घ्नि॒यासु॑ ।
हृ॒त्सु क्रतु॒मित्या॑ह । हृ॒त्सु हि क्रतु॑म् ।
वरु॑णो वि॒क्ष्व॑ग्निमित्या॑ह । वरु॑णो॒ हि वि॒क्ष्व॑ग्निम् ।
दि॒वि सूर्य॑म् इत्या॑ह [73]। दि॒वि हि सूर्य॑म् ।
सोम॒मद्रा॒व् इत्या॑ह । ग्रावा॑णो॒ वा अद्र॑यः ।
तेषु॒ वा ए॒ष सोम॑न् दधाति॒ यो यज॑ते ।
तस्मा॑दे॒वमा॑ह ।
पद-पाठः
वने॑षु । वीति॑ । अ॒न्तरि॑क्षम् । त॒ता॒न॒ । इति॑ । आ॒ह॒ ।
वने॑षु । हि । वीति॑ । अ॒न्तरि॑क्षम् । त॒तान॑ ।
वाज॑म् । अर्व॒त्स्वित्यर्व॑त्-सु॒ । इति॑ । आ॒ह॒ ।
वाज॑म् । हि । अर्व॒त्स्वित्यर्व॑त्-सु॒ ।
पयः॑ । अ॒घ्नि॒यासु॑ । इति॑ । आ॒ह॒ ।
पयः॑ । हि । अ॒घ्नि॒यासु॑ ।
हृ॒त्स्विति॑ हृत्-सु । क्रतु॑म् । इति॑ । आ॒ह॒ ।
हृ॒त्स्विति॑ हृत्-सु । हि । क्रतु॑म् । वरु॑णः । वि॒क्षु । अ॒ग्निम् । इति॑ । आ॒ह॒ ।
वरु॑णः । हि । वि॒क्षु । अ॒ग्निम् ।
दि॒वि । सूर्य॑म् । [73] इति॑ । आ॒ह॒ ।
दि॒वि । हि । सूर्य॑म् ।
सोम॑म् । अद्रौ॑ । इति॑ । आ॒ह॒ ।
ग्रावा॑णः । वै । अद्र॑यः ।
तेषु॑ । वै । ए॒षः । सोम॑म् । द॒धा॒ति॒ । यः । यज॑ते ।
तस्मा॑त् । ए॒वम् । आ॒ह॒ ।
भट्टभास्कर-टीका
7वनेष्विति ॥ यस्माद्वनेपु वृक्षेषु वा अन्तरिक्षं विततान विविधं स्थापितवान् तस्मादेवमाह । वाजं गतिं वेगं वा । यस्मादर्वत्सु अश्वेषु विततानेत्येव । यागद्वारेण सर्वाऽपीयं व्यवस्था । पयः क्षीरादिकं अघ्नियासु गोषु विततान । हृत्सु क्रतुं ज्ञानं विततान । वरुणः विश्वस्य वारयिता । विश्वेन त्वावृतो देवो व्यवस्थाः सर्वा एताः कृतवानिति । विक्षु मनुष्येषु अग्निं वैश्वानरं विततान । दिवि अन्तरिक्षे सूर्यमदधात् दधाति धारयति यागद्वारेणैव । दिव्येव हि सूर्यं दधाति । सोममित्यादि । ग्रावाणो वा अद्रयस्तेपु वा एष सोमं दधाति स्थापयति यो यजते । तस्मात्सोममद्रावदधादित्याह । ग्राव्णां पर्वतत्वमध्यारोप्यैवमाहेति ॥
मूलम् (संयुक्तम्)
उदु॒ त्यञ्जा॒तवे॑दस॒मिति॑ सौ॒र्यर्चा कृ॑ष्णाजि॒नम्प्र॒त्यान॑ह्यति॒ रक्ष॑सा॒मप॑हत्या॒ उस्रा॒वेत॑न्धूर्षाहा॒वित्या॑ह यथाय॒जुरे॒वैतत्प्र च्य॑वस्व भुवस्पत॒ इत्या॑ह भू॒तानाँ॒ हि [74]
ए॒ष पति॒र्विश्वा॑न्य॒भि धामा॒नीत्या॑ह॒ विश्वा॑नि॒ ह्ये ३॒॑ षो॑ऽभि धामा॑नि प्र॒च्यव॑ते॒ मा त्वा॑ परिप॒री वि॑द॒दित्या॑ह॒ यदे॒वादस्सोम॑माह्रि॒यमा॑णङ्गन्ध॒र्वो वि॒श्वाव॑सुᳶ प॒र्यमु॑ष्णा॒त्तस्मा॑दे॒वमा॒हाप॑रिमोषाय॒ यज॑मानस्य स्व॒स्त्यय॑न्य॒सीत्या॑ह॒ यज॑मानस्यै॒वैष य॒ज्ञस्या॑न्वार॒म्भोऽन॑वच्छित्त्यै॒
विश्वास-प्रस्तुतिः
उदु॒ त्यञ्जा॒तवे॑दस॒मिति॑ सौ॒र्यर्चा कृ॑ष्णाजि॒नम् प्र॒त्यान॑ह्यति ।
रक्ष॑सा॒मप॑हत्यै ।
उस्रा॒वेत॑न् धूर्षाहा॒वित्या॑ह ।
य॒था॒य॒जु॒र् ए॒वैतत् ।
प्र च्य॑वस्व भुवस्पत॒ इत्या॑ह । भू॒तानाँ॒ हि ए॒ष पतिः॑ ।[74]
विश्वा॑न्य॒भि धामा॒नीत्या॑ह । विश्वा॑नि॒ ह्ये ३॒॑ षो॑ऽभि धामा॑नि प्र॒च्यव॑ते ।
मा त्वा॑ परिप॒री वि॑द॒दित्या॑ह ।
यदे॒वादस् सोम॑माह्रि॒यमा॑णङ् गन्ध॒र्वो वि॒श्वाव॑सुᳶ प॒र्यमु॑ष्णा॒त् तस्मा॑दे॒वमा॑ह।
अप॑रिमोषाय ।
यज॑मानस्य स्व॒स्त्यय॑न्य॒सीत्या॑ह ।
यज॑मानस्यै॒वैष य॒ज्ञस्या॑न्वार॒म्भो , ऽन॑वच्छित्त्यै ।
मूलम्
उदु॒ त्यञ्जा॒तवे॑दस॒मिति॑ सौ॒र्यर्चा कृ॑ष्णाजि॒नम् प्र॒त्यान॑ह्यति ।
रक्ष॑सा॒मप॑हत्यै ।
उस्रा॒वेत॑न् धूर्षाहा॒वित्या॑ह ।
य॒था॒य॒जु॒र् ए॒वैतत् ।
प्र च्य॑वस्व भुवस्पत॒ इत्या॑ह । भू॒तानाँ॒ हि ए॒ष पतिः॑ ।[74]
विश्वा॑न्य॒भि धामा॒नीत्या॑ह । विश्वा॑नि॒ ह्ये ३॒॑ षो॑ऽभि धामा॑नि प्र॒च्यव॑ते ।
मा त्वा॑ परिप॒री वि॑द॒दित्या॑ह ।
यदे॒वादस् सोम॑माह्रि॒यमा॑णङ् गन्ध॒र्वो वि॒श्वाव॑सुᳶ प॒र्यमु॑ष्णा॒त् तस्मा॑दे॒वमा॑ह।
अप॑रिमोषाय ।
यज॑मानस्य स्व॒स्त्यय॑न्य॒सीत्या॑ह ।
यज॑मानस्यै॒वैष य॒ज्ञस्या॑न्वार॒म्भो , ऽन॑वच्छित्त्यै ।
पद-पाठः
उदिति॑ । उ॒ । त्यम् । जा॒तवे॑दस॒मिति॑ जा॒त-वे॒द॒स॒म् । इति॑ । सौ॒र्या । ऋ॒चा । कृ॒ष्णा॒जि॒नमिति॑ कृष्ण-अ॒जि॒नम् । प्र॒त्यान॑ह्य॒तीति॑ प्रति-आन॑ह्यति ।
रक्ष॑साम् । अप॑हत्या॒ इत्यप॑-ह॒त्यै॒ ।
उस्रौ॑ । एति॑ । इ॒त॒म् । धू॒र्षा॒हा॒विति॑ धूः-सा॒हौ॒ । इति॑ । आ॒ह॒ ।
य॒था॒य॒जुरिति॑ यथा-य॒जुः । ए॒व । ए॒तत् ।
प्रेति॑ । च्य॒व॒स्व॒ । भु॒वः॒ । प॒ते॒ । इति॑ । आ॒ह॒ ।
भू॒ताना॑म् । हि । [74] ए॒षः । पतिः॑ ।
विश्वा॑नि । अ॒भीति॑ । धामा॑नि । इति॑ । आ॒ह॒ ।
विश्वा॑नि । हि । ए॒षः । अ॒भीति॑ । धामा॑नि । प्र॒च्यव॑त॒ इति॑ प्र-च्यव॑ते ।
मा । त्वा॒ । प॒रि॒प॒रीति॑ परि-प॒री । वि॒द॒त् । इति॑ । आ॒ह॒ ।
यत् । ए॒व । अ॒दः । सोम॑म् । आ॒ह्रि॒यमा॑ण॒मित्या॑-ह्रि॒यमा॑णम् । ग॒न्ध॒र्वः । वि॒श्वाव॑सु॒रिति॑ वि॒श्व-व॒सुः॒ । प॒र्यमु॑ष्णा॒दिति॑ परि-अमु॑ष्णात् । तस्मा॑त् । ए॒वम् । आ॒ह॒ ।
अप॑रिमोषा॒येत्यप॑रि-मो॒षा॒य॒ ।
यज॑मानस्य । स्व॒स्त्यय॒नीति॑ स्वस्ति-अय॑नी । अ॒सि॒ । इति॑ । आ॒ह॒ ।
यज॑मानस्य । ए॒व । ए॒षः । य॒ज्ञस्य॑ । अ॒न्वा॒र॒म्भ इत्य॑नु-आ॒र॒म्भः । अन॑वच्छित्त्या॒ इत्यन॑व-छि॒त्त्यै॒ ।
भट्टभास्कर-टीका
8उदु त्यमिति प्रत्यानह्यति प्रतिबद्धद्वारं सर्वतो बध्नातीति मन्त्रविधिः । उस्रावेतमित्यादियुग्यानयोजनमन्त्रेषु धूर्षाहावित्यादिगुणकथनम् । यथा यजुर्वदति तथा वेदितव्यम् । प्र च्यवस्वेति । भूतानामिति भुव इत्यस्यार्थमाचष्टे । यद्विश्वानि धामानि स्थानानि तेजांसि अभि प्रच्यवते आभिमुख्येन गन्तुमेष प्रारभते तस्मादेवमाह - मा त्वेति । यस्माद्विश्वावसुर्नाम गन्धर्वः परितस्सर्वतः आवृत्य सोमममुष्माल्लोकाद्गायत्र्या आह्रियमाणमपाहरत् तस्मात्परि मा विदत् पथि पर्यवस्थाता चोरो विश्वावसुर्मा विदत् मा लब्ध, मा गन्धर्वो विश्वावसुः आदधत् आत्मसात्कुर्यादिति च मन्त्रे आह । अदश्शब्दात्परस्याः पञ्चम्याः ‘सुपां सुलुक्’ इति लुक् । यद्वा - पर्यमुष्णादिति यददः यदिदं कारणं तस्मादेवमाह । तस्मादपरिमोषाय एतद्वचनं भवति यजमानस्येति । एष हि यजमानस्य यज्ञस्यान्वारम्भः यजमानो यज्ञमन्वारभते स्मृशत्येतद्वचनेन । तस्मादेतद्वचनं अनवच्छित्यै अप्रच्युत्यै भवति यजमानस्य । स्वस्ति अविघ्नेन अयनं प्राप्नोति यज्ञस्य स्वस्त्ययनं तद्वान् सोमः तत्कारिका असीति ॥
मूलम् (संयुक्तम्)
वरु॑णो॒ वा ए॒ष यज॑मानम॒भ्यैति॒ यत् [75]
क्री॒तस्सोम॒ उप॑नद्धो॒ नमो॑ मि॒त्रस्य॒ वरु॑णस्य॒ चक्ष॑स॒ इत्या॑ह॒ शान्त्या॒
विश्वास-प्रस्तुतिः
वरु॑णो॒ वा ए॒ष यज॑मानम॒भ्यैति॒ यत् क्री॒तस्सोम॒ उप॑नद्धः ।[75]
नमो॑ मि॒त्रस्य॒ वरु॑णस्य॒ चक्ष॑स॒ इत्या॑ह । शान्त्यै॑ ।
मूलम्
वरु॑णो॒ वा ए॒ष यज॑मानम॒भ्यैति॒ यत् क्री॒तस्सोम॒ उप॑नद्धः ।[75]
नमो॑ मि॒त्रस्य॒ वरु॑णस्य॒ चक्ष॑स॒ इत्या॑ह । शान्त्यै॑ ।
पद-पाठः
वरु॑णः । वै । ए॒षः । यज॑मानम् । अ॒भि । एति॑ । ए॒ति॒ । यत् । [75] क्री॒तः । सोमः॑ । उप॑नद्ध॒ इत्युप॑-न॒द्धः॒ ।
नमः॑ । मि॒त्रस्य॑ । वरु॑णस्य । चक्ष॑से । इति॑ । आ॒ह॒ ।
शान्त्यै॑ ।
भट्टभास्कर-टीका
9वरुणो वा इत्यादि ॥ योयं क्रीत उपनद्धश्च सोमः एषः वरुणः यजमानमभ्येति अभिगमनि वित्तमुक्तम् तथा हरणात् वरुण इवायं स्यात् । ततश्च यजमानो वरुणगृहीतो भवेत्, तस्मात् ‘नमो मित्रस्य’ इति वचनं शान्त्यै भवति मित्रत्ववचनेन बोधिते ॥
मूलम् (संयुक्तम्)
आ सोमव्ँ॒वह॑न्त्य॒ग्निना॒ प्रति॑ तिष्ठते॒ तौ स॒म्भव॑न्तौ॒ यज॑मानम॒भि सम्भ॑वतᳶ पु॒रा खलु॒ वावैष मेधा॑या॒त्मान॑मा॒रभ्य॑ चरति॒ यो दी॑क्षि॒तो यद॑ग्नीषो॒मीय॑म्प॒शुमा॒लभ॑त आत्मनि॒ष्क्रय॑ण ए॒वास्य॒ स तस्मा॒त्तस्य॒ नाश्य॑म्पुरुषनि॒ष्क्रय॑ण इव॒ ह्य्
विश्वास-प्रस्तुतिः
आ सोमव्ँ॒ वह॑न्ति ।
अ॒ग्निना॒ प्रति॑ तिष्ठते ।
तौ स॒म्भव॑न्तौ॒ यज॑मानम॒भि सम्भ॑वतः ।
पु॒रा खलु॒ वावैष मेधा॑या॒त्मान॑मा॒रभ्य॑ चरति॒ यो दी॑क्षि॒तः ।
यद॑ग्नीषो॒मीय॑म् प॒शुमा॒लभ॑त आत्मनि॒ष्क्रय॑ण ए॒वास्य॒ सः ।
तस्मा॒त् तस्य॒ नाश्य॑म् ।
पु॒रु॒ष॒नि॒ष्क्रय॑ण इव॒ हि ।
मूलम्
आ सोमव्ँ॒ वह॑न्ति ।
अ॒ग्निना॒ प्रति॑ तिष्ठते ।
तौ स॒म्भव॑न्तौ॒ यज॑मानम॒भि सम्भ॑वतः ।
पु॒रा खलु॒ वावैष मेधा॑या॒त्मान॑मा॒रभ्य॑ चरति॒ यो दी॑क्षि॒तः ।
यद॑ग्नीषो॒मीय॑म् प॒शुमा॒लभ॑त आत्मनि॒ष्क्रय॑ण ए॒वास्य॒ सः ।
तस्मा॒त् तस्य॒ नाश्य॑म् ।
पु॒रु॒ष॒नि॒ष्क्रय॑ण इव॒ हि ।
पद-पाठः
एति॑ । सोम॑म् । वह॑न्ति ।
अ॒ग्निना॑ । प्रतीति॑ । ति॒ष्ठ॒ते॒ ।
तौ । स॒म्भव॑न्ता॒विति॑ सम्-भव॑न्तौ । यज॑मानम् । अ॒भि । समिति॑ । भ॒व॒तः॒ ।
पु॒रा । खलु॑ । वाव । ए॒षः । मेधा॑य । आ॒त्मान॑म् । आ॒रभ्येत्या॑-रभ्य॑ । च॒र॒ति॒ । यः । दी॒क्षि॒तः ।
यत् । अ॒ग्नी॒षो॒मीय॒मित्य॑ग्नी-सो॒मीय॑म् । प॒शुम् । आ॒लभ॑त॒ इत्या॑-लभ॑ते । आ॒त्म॒नि॒ष्क्रय॑ण॒ इत्या॑त्म-नि॒ष्क्रय॑णः । ए॒व । अ॒स्य॒ । सः ।
तस्मा॑त् । तस्य॑ । न । आ॒श्य॑म् ।
पु॒रु॒ष॒नि॒ष्क्रय॑ण॒ इति॑ पुरुष-नि॒ष्क्रय॑णः । इ॒व॒ । हि ।
भट्टभास्कर-टीका
10अग्नीषोमीयं पशुं विधास्यन् आह - आ सोममित्यादि ॥ सोमं चानयन्ति आवहन्ति, अग्निना च प्रतितिष्ठते अग्निना च संगच्छति यजमानः । ‘समवप्रविभ्यस्स्थः’ इत्यात्मनेपदम् । ‘चादिलोपे विभाषा’ इति प्रथमा तिङ्विभक्तिर्न निहन्यते । ततश्च तौ सोमश्चाग्निश्च संभवन्तौ यजमानमभि यजमानमेव लक्षीकृत्य संभवतः यजमानमभिभवत एव सह तिष्ठतः । यद्वा - प्रमाणानतिरेकस्संभवः । यजमानमभितो व्याप्य तिष्ठतः । किञ्च - पुरा खलु दीक्षाकाल एव एष मेघाय यज्ञार्थं आत्मानमारभ्य आलभ्य नियुज्य आत्मानं दत्वा चरति यो दीक्षितः स्रुक्स्थानीयः परार्थे वर्तते । तस्मादग्नीषोमीयं पशुमालभते तस्यात्मनिष्क्रयणे भवत्येव । आत्मा निष्क्रीयते येन यथोक्तलक्षणाच्चरितादिति करणे ल्युट् । अग्नीषोमौ देवते अस्येति ‘द्यावापृथिवी’ इत्यादिना छः । अन्यस्त्वाह - तौ संभवन्तौ यजमानमभिसंवभत इत्युक्तम् । तस्माद्यजमानमभिसंभवतः । पुरा खल्वित्यादि । पूर्वं खलु यजमानः मेधायात्मानमालभ्य वर्तते, तस्मादिदमेव कृतं भवति भवत इति ताभ्यामात्मा निष्क्रीयते अग्नीषोमीयपशुनेत्यादि । तस्मादेव कारणात् तस्य पशोस्संबन्धीडादिकमन्नाद्यं न भक्ष्यम् । कस्मादित्याह - पुरुषनिष्क्रयण इव हीति । यस्मादेव पुरुषनिष्क्रयण इव भवति । पुरुषो निष्क्रीयते येन स पुरुषसंमितो भवति तस्य भक्षणं पुरुषस्येव भक्षणं भवति । तस्मान्नाश्यम् । पूर्ववत्करणे ल्युट् ॥
मूलम् (संयुक्तम्)
अथो॒ खल्वा॑हुर॒ग्नीषोमा॑भ्याव्ँ॒वा इन्द्रो॑ वृ॒त्रम॑ह॒न्निति॒ यद॑ग्नीषो॒मीय॑म्प॒शुमा॒लभ॑ते॒ वार्त्र॑घ्न ए॒वास्य॒ स तस्मा॑द्वा॒श्यव्ँ॑वारु॒ण्यर्चा परि॑ चरति॒ स्वयै॒वैन॑न्दे॒वत॑या॒ परि॑ चरति ॥ [76]
विश्वास-प्रस्तुतिः
अथो॒ खल्वा॑हुर्
अ॒ग्नीषोमा॑भ्याव्ँ॒ वा इन्द्रो॑ वृ॒त्रम॑ह॒न्निति॑ ।
यद॑ग्नीषो॒मीय॑म् प॒शुमा॒लभ॑ते॒ वार्त्र॑घ्न ए॒वास्य॒ सः ।
तस्मा॑द्वा॒श्यम् ।
वा॒रु॒ण्यर्चा परि॑ चरति ।
स्वयै॒वैन॑न् दे॒वत॑या॒ परि॑ चरति ॥ [76]
मूलम्
अथो॒ खल्वा॑हुर्
अ॒ग्नीषोमा॑भ्याव्ँ॒ वा इन्द्रो॑ वृ॒त्रम॑ह॒न्निति॑ ।
यद॑ग्नीषो॒मीय॑म् प॒शुमा॒लभ॑ते॒ वार्त्र॑घ्न ए॒वास्य॒ सः ।
तस्मा॑द्वा॒श्यम् ।
वा॒रु॒ण्यर्चा परि॑ चरति ।
स्वयै॒वैन॑न् दे॒वत॑या॒ परि॑ चरति ॥ [76]
पद-पाठः
अथो॒ इति॑ । खलु॑ । आ॒हुः॒ ।
अ॒ग्नीषोमा॑भ्या॒मित्य॒ग्नी-सोमा॑भ्याम् । वै । इन्द्रः॑ । वृ॒त्रम् । अ॒ह॒न् । इति॑ ।
यत् । अ॒ग्नी॒षो॒मीय॒मित्य॑ग्नी-सो॒मीय॑म् । प॒शुम् । आ॒लभ॑त॒ इत्या॑-लभ॑ते । वार्त्र॑घ्न॒ इति॒ वार्त्र॑-घ्नः॒ । ए॒व । अ॒स्य॒ । सः ।
तस्मा॑त् । उ॒ । आ॒श्य॑म् ।
वा॒रु॒ण्या । ऋ॒चा । परीति॑ । च॒र॒ति॒ । स्वया॑ । ए॒व । ए॒न॒म् । दे॒वत॑या । परीति॑ । च॒र॒ति॒ ॥ [76]
भट्टभास्कर-टीका
11अथो इति ॥ अन्ये खलु पदार्थविदोन्यदाहुः । अग्नीषोमाभ्यामिन्द्रो वृत्रमहन् हतवान् । तस्मादग्रीषोमीयः पशुः वार्त्रघ्नः एवास्य यजमानस्य न तु पुरुषनिष्क्रयणः, तस्माद्वाश्यमेवेति । उशब्दोवधारणे । वृत्रस्य पापस्य हन्तुर्यजमानस्य संबन्धी वार्त्रघ्नः वृत्रहननार्थ एवेति यावत् । उपस्थानादिकमस्य करोति । अणन्तादपि ‘यस्य’ इति लोपे उदात्तनिवृत्तिस्वरेण ‘उदात्तयणः’ इति तृतीयाया उदात्तत्वम् । स्वयैव देवतया वरुणरूपयैनं परिचरति तस्या एवेदं परिचरणं भवतीति आत्मीयदेवताया एवेदं परिचरतीत्यर्थः । यद्वा - स्वया देवतया सहैनं परिचरति ॥
इति श्रीभट्टभास्कृरमिश्रविरचिते ज्ञानयज्ञाख्ये यजुर्वेदभाष्ये षष्ठकाण्डे प्रथमप्रश्ने एकादशानुवाकः ॥ समाप्तश्च प्रथमः प्रश्नः ॥