१० अजादिभिर्नवद्रव्यान्तरैः सोमक्रयणम् १०

१० अजादिभिर्नवद्रव्यान्तरैः सोमक्रयणम् १० ...{Loading}...

सोमऋषिः

मूलम् (संयुक्तम्)

यत्क॒लया॑ ते श॒फेन॑ ते क्रीणा॒नीति॒ पणे॒तागो॑अर्घँ॒ सोम॑ङ्कु॒र्यादगो॑अर्घय्ँ॒यज॑मान॒मगो॑अर्घमध्व॒र्युङ्गोस्तु म॑हि॒मान॒न्नाव॑ तिरे॒द्

विश्वास-प्रस्तुतिः

यत् “क॒लया॑ ते श॒फेन॑ ते क्रीणा॒नी"ति॑
पणे॒तागो॑अर्घँ॒ सोम॑ङ् कु॒र्याद् , अगो॑अर्घय्ँ॒ यज॑मान॒म् , अगो॑अर्घमध्व॒र्युम् ।
गोस्तु म॑हि॒मान॒न् नाव॑ तिरेत् ।

मूलम्

यत् “क॒लया॑ ते श॒फेन॑ ते क्रीणा॒नी"ति॑
पणे॒तागो॑अर्घँ॒ सोम॑ङ् कु॒र्याद् , अगो॑अर्घय्ँ॒ यज॑मान॒म् , अगो॑अर्घमध्व॒र्युम् ।
गोस्तु म॑हि॒मान॒न् नाव॑ तिरेत् ।

पद-पाठः

यत् । क॒लया॑ । ते । श॒फेन॑ । ते । क्री॒णा॒नि॒ । इति॑ ।
पणे॑त । अगो॑अर्घ॒मित्यगो॑-अ॒र्घ॒म् । सोम॑म् । कु॒र्यात् ।

अगो॑अर्घ॒मित्यगो॑-अ॒र्घ॒म् । यज॑मानम् । अगो॑अर्घ॒मित्यगो॑-अ॒र्घ॒म् । अ॒ध्व॒र्युम् ।

गोः । तु । म॒हि॒मान॑म् । न । अवेति॑ । ति॒रे॒त् ।

भट्टभास्कर-टीका

1यत्कलयेत्यादि ॥ यदि ‘कलया ते क्रीणानि’ इति ‘शफेन ते क्रीणानि’ इत्यादिशाखान्तरीयैः मूल्यपदैः सोमं पणेत । अगोअर्घं अगोमूल्यं सोमं कुर्यात् ऊनमूलं सोमं कुर्यात् । गौरर्घो मूल्यं यस्य स गोअर्घः गवा समानमहिमा । ‘सर्वत्र विभाषा गोः’ इति प्रकृतिभावः, न गोअर्घ अगोअर्घः ततो न्यूनमूल्यम्, तादृशं सोमं कुर्यात् तत्संबन्धाद्यजमानमध्वर्युं च । तस्मादन्यथा पणितव्यं - गवा ते क्रीणानीति । तत्रापि दोषमाह - गोस्त्विति । तुशब्दस्तत्रारुचिं द्योतयति । तदन्यथा पणेत । गोर्महिमानं महत्त्वं नावतिरेत् नावशेषयेत् सोममहिम्नः गोर्महिमानं नातिरेचयेदित्यर्थः । ततश्च सोममूल्यभूताया गोः महत्त्वं न प्रतिपादितं स्यात् । कलयेत्यादिना तु पणने गवैकदेशमल्यूता सोमस्य प्रतिपाद्यत इति गोर्महिमातिरकेस्सूचितो भवति, तन्मूल्यत्वात्सोमस्य माहात्म्यमाविष्कृतं भवति । एवं च द्वयोरपि पक्षयोर्दोषावुक्तौ ॥

मूलम् (संयुक्तम्)

गवा॑ ते क्रीणा॒नीत्ये॒व ब्रू॑याद्गोअ॒र्घमे॒व सोम॑ङ्क॒रोति॑ गोअ॒र्घय्ँयज॑मानङ्गोअ॒र्घम॑ध्व॒र्युन्न गोर्म॑हि॒मान॒मव॑ तिरत्य्

विश्वास-प्रस्तुतिः

“गवा॑ ते क्रीणा॒नी"त्ये॒व ब्रू॑यात् ।
गोअ॒र्घमे॒व सोम॑ङ्क॒रोति॑ , गोअ॒र्घय्ँ यज॑मानङ् , गोअ॒र्घम॑ध्व॒र्युम् ।
न गोर्म॑हि॒मान॒मव॑ तिरति ।

मूलम्

“गवा॑ ते क्रीणा॒नी"त्ये॒व ब्रू॑यात् ।
गोअ॒र्घमे॒व सोम॑ङ्क॒रोति॑ , गोअ॒र्घय्ँ यज॑मानङ् , गोअ॒र्घम॑ध्व॒र्युम् ।
न गोर्म॑हि॒मान॒मव॑ तिरति ।

पद-पाठः

गवा॑ । ते । क्री॒णा॒नि॒ । इति॑ । ए॒व । ब्रू॒या॒त् ।
गो॒अ॒र्घमिति॑ गो-अ॒र्घम् । ए॒व । सोम॑म् । क॒रोति॑ ।
गो॒अ॒र्घमिति॑ गो-अ॒र्घम् । यज॑मानम् । गो॒अ॒र्घमिति॑ गो-अ॒र्घम् । अ॒ध्व॒र्युम् ।
न । गोः । म॒हि॒मान॑म् । अवेति॑ । ति॒र॒ति॒ ।

भट्टभास्कर-टीका

2अधुनाऽभिमतं पक्षं परिगृह्णाति - गवा ते क्रीणानित्येव ब्रूयात् । अयमेव पक्षो ज्यायान् । एवं हि सोमादयः गोअर्घाः कृता भवन्ति । ननूक्तं गोस्तु महिमानं नावतिरेदिति । सत्यमुक्तं, न गोर्महिमानमवतिरति नावशेषयति सोमाद्गोमहिमातिरेको नास्त्येवेति । तस्मान्न तत्प्रतिपादनाय यतितव्यमिति । तुल्यमहिमानावेतौ गौश्च सोमश्चेत्यभिप्रायः । ‘त्रिचक्रादीनामन्तः’ इति गोअर्घशब्दे उत्तरपदान्तोदात्तत्वम् ॥

मूलम् (संयुक्तम्)

अ॒जया॑ क्रीणाति॒ सत॑पसमे॒वैन॑ङ्क्रीणाति॒ हिर॑ण्येन क्रीणाति॒ सशु॑क्रमे॒व [66]
ए॒न॒ङ्क्री॒णा॒ति॒ धे॒न्वा क्री॑णाति॒ साशि॑रमे॒वैन॑ङ्क्रीणात्यृष॒भेण॑ क्रीणाति॒ सेन्द्र॑मे॒वैन॑ङ्क्रीणात्यन॒डुहा॑ क्रीणाति॒ वह्नि॒र्वा अ॑न॒ड्वान्वह्नि॑नै॒व वह्नि॑ य॒ज्ञस्य॑ क्रीणाति मिथु॒नाभ्या॑ङ्क्रीणाति मिथु॒नस्याव॑रुद्ध्यै॒ वास॑सा क्रीणाति सर्वदेव॒त्यव्ँ॑ वै वास॒स्सर्वा॑भ्य ए॒वैन॑न्दे॒वता॑भ्यᳵ क्रीणाति॒ दश॒ सम्प॑द्यन्ते॒ दशा॑क्षरा वि॒राडन्नव्ँवि॒राड्वि॒राजै॒वान्नाद्य॒मव॑ रुन्द्धे [67]
तप॑सस्त॒नूर॑सि प्र॒जाप॑ते॒र्वर्ण॒ इत्या॑ह

विश्वास-प्रस्तुतिः

अ॒जया॑ क्रीणाति । सत॑पसमे॒वैन॑ङ् क्रीणाति ।
हिर॑ण्येन क्रीणाति । सशु॑क्रमे॒वैन॑ङ् क्रीणाति ।[66]
धे॒न्वा क्री॑णाति । साशि॑रमे॒वैन॑ङ् क्रीणाति ।
ऋ॒ष॒भेण॑ क्रीणाति । सेन्द्र॑मे॒वैन॑ङ् क्रीणाति ।
अ॒न॒डुहा॑ क्रीणाति । वह्नि॒र्वा अ॑न॒ड्वान् ।
वह्नि॑नै॒व वह्नि॑ य॒ज्ञस्य॑ क्रीणाति ।
मि॒थु॒नाभ्या॑ङ्क्रीणाति । मि॒थु॒नस्याव॑रुद्ध्यै ।
वास॑सा क्रीणाति । स॒र्व॒दे॒वत्यव्ँ॑ वै वासः॑ ।
सर्वा॑भ्य ए॒वैन॑न्दे॒वता॑भ्यᳵ क्रीणाति ।
दश॒ सम्प॑द्यन्ते॒ ।

मूलम्

अ॒जया॑ क्रीणाति । सत॑पसमे॒वैन॑ङ् क्रीणाति ।
हिर॑ण्येन क्रीणाति । सशु॑क्रमे॒वैन॑ङ् क्रीणाति ।[66]
धे॒न्वा क्री॑णाति । साशि॑रमे॒वैन॑ङ् क्रीणाति ।
ऋ॒ष॒भेण॑ क्रीणाति । सेन्द्र॑मे॒वैन॑ङ् क्रीणाति ।
अ॒न॒डुहा॑ क्रीणाति । वह्नि॒र्वा अ॑न॒ड्वान् ।
वह्नि॑नै॒व वह्नि॑ य॒ज्ञस्य॑ क्रीणाति ।
मि॒थु॒नाभ्या॑ङ्क्रीणाति । मि॒थु॒नस्याव॑रुद्ध्यै ।
वास॑सा क्रीणाति । स॒र्व॒दे॒वत्यव्ँ॑ वै वासः॑ ।
सर्वा॑भ्य ए॒वैन॑न्दे॒वता॑भ्यᳵ क्रीणाति ।
दश॒ सम्प॑द्यन्ते॒ ।

पद-पाठः

अ॒जया॑ । क्री॒णा॒ति॒ ।
सत॑पस॒मिति॒ स-त॒प॒स॒म् । ए॒व । ए॒न॒म् । क्री॒णा॒ति॒ । हिर॑ण्येन । क्री॒णा॒ति॒ ।
सशु॑क्र॒मिति॒ स-शु॒क्र॒म् । ए॒व । [66] ए॒न॒म् । क्री॒णा॒ति॒ । धे॒न्वा । क्री॒णा॒ति॒ । साशि॑र॒मिति॒ स-आ॒शि॒र॒म् । ए॒व । ए॒न॒म् । क्री॒णा॒ति॒ । ऋ॒ष॒भेण॑ । क्री॒णा॒ति॒ ।
सेन्द्र॒मिति॒ स-इ॒न्द्र॒म् । ए॒व । ए॒न॒म् । क्री॒णा॒ति॒ ।
अ॒न॒डुहा॑ । क्री॒णा॒ति॒ ।
वह्निः॑ । वै । अ॒न॒ड्वान् ।
वह्नि॑ना । ए॒व । वह्नि॑ । य॒ज्ञस्य॑ । क्री॒णा॒ति॒ ।
मि॒थु॒नाभ्या॑म् । क्री॒णा॒ति॒ ।
मि॒थु॒नस्य॑ । अव॑रुद्ध्या॒ इत्यव॑-रु॒द्ध्यै॒ ।
वास॑सा । क्री॒णा॒ति॒ ।
स॒र्व॒दे॒व॒त्य॑मिति॑ सर्व-दे॒व॒त्य॑म् । वै । वासः॑ ।
सर्वा॑भ्यः । ए॒व । ए॒न॒म् । दे॒वता॑भ्यः । क्री॒णा॒ति॒ । दश॑ । समिति॑ । प॒द्य॒न्ते॒ ।

भट्टभास्कर-टीका

3अजयेत्यादयो विधयः ॥ सतपसं सयज्ञमेव सोमं क्रीणाति । मन्त्रे ‘तपसस्तनूः’ इत्यजाया अभिधानात् । हिरण्येनेति । सशुक्रं सरसम् । धन्वेति । साशिरं सपोळम् । ऋषभेणेति । सेन्द्रम् । इन्द्रो हि देवर्षभः वर्षिता च कामानाम् । अनडुहेति । वह्निर्वा अनड्वान् । अनो वहतीत्यनड्वान्, पृषोदरादिः । वह्निना अनोवोढ्रा अनडुहा यज्ञस्य वोढारं सोमं क्रीणाति । ‘सुपां सुलुक्’ - इति द्वितीयाया लुक् । मिथुनाभ्यामिति । गतम् । वाससेति । सर्वदेवत्यत्वमुक्तम् । सर्वाभ्यो देवताभ्यः सर्व देवतार्थमेनं क्रीणाति । यद्वा - सर्व देवतासकाशादेनं क्रीणाति । दश संपद्यन्ते इत्यादि । गवा वत्सेन च सह दश भवन्त्यजादयः ।

विश्वास-प्रस्तुतिः

दशा॑क्षरा वि॒राट् । अन्नव्ँ॑ वि॒राट् ।
वि॒राजै॒वान्नाद्य॒मव॑ रुन्धे ।[67]

मूलम्

दशा॑क्षरा वि॒राट् । अन्नव्ँ॑ वि॒राट् ।
वि॒राजै॒वान्नाद्य॒मव॑ रुन्धे ।[67]

पद-पाठः

दशा॑क्ष॒रेति॒ दश॑-अ॒क्ष॒रा॒ । वि॒राडिति॑ वि-राट् ।
अन्न॑म् । वि॒राडिति॑ वि-राट् ।
वि॒राजेति॑ वि-राजा॑ । ए॒व । अ॒न्नाद्य॒मित्य॑न्न-अद्य॑म् । अवेति॑ । रु॒न्द्धे॒ । [67]

भट्टभास्कर-टीका

दशाक्षरेत्यादि । व्याख्यातम् ॥

  • पञ्च॒ कृत्व॑स् तू॒ष्णीम् दश॒ सम्प॑द्यन्ते ।[63]
    दशा॑क्षरा वि॒राट् ।
    अन्नव्ँ॑ वि॒राट् ।
    वि॒राजै॒वान्नाद्य॒मव॑ रुन्धे ।

10पञ्च कृत्वस्तूष्णीमिति ॥ मिमीते इत्येव । दश दशमुष्टयस्संपद्यन्ते । ततश्च दशसंख्यान्वयात् दशाक्षरा विराट्परिगृहीता भवति । सा च छन्दोलक्षणा विराट्परिगृहीता अन्नात्मिकामपि विराजं प्रतिलम्भयतीति । तथा अन्नाद्यमवरुन्धे । यद्वा - अन्नं विराट् अन्नहेतुर्विराडित्यर्थः । तस्माद्विराजा अन्नाद्यमवरुन्धे । विविधं राजतीति विराट् । ‘सत्सूद्विष’ इति क्विप्, व्रश्चादिना षत्वम्, कृदुत्तरपदप्रकृतिस्वरत्वम् । अन्नस्यादनमन्नाद्यम्, अन्नादनसामर्थ्यम् । छान्दसो भावे क्यप्, कृदुत्तरपदप्रकृतिस्वरत्वम् ।

मूलम् (संयुक्तम्)

तप॑सस्त॒नूर॑सि प्र॒जाप॑ते॒र्वर्ण॒ इत्या॑ह प॒शुभ्य॑ ए॒व तद॑ध्व॒र्युर्नि ह्नु॑त आ॒त्मनोऽना॑व्रस्काय॒ गच्छ॑ति॒ श्रिय॒म्प्र प॒शूना॑प्नोति॒ य ए॒वव्ँ वेद॑

विश्वास-प्रस्तुतिः

“तप॑सस् त॒नूर॑सि प्र॒जाप॑ते॒र्वर्ण॒” इत्या॑ह ।

प॒शुभ्य॑ ए॒व तद॑ध्व॒र्युर्नि ह्नु॑ते ,

आ॒त्मनोऽना॑व्रस्काय॒ गच्छ॑ति ,

श्रिय॒म् प्र प॒शूना॑प्नोति॒ य ए॒वव्ँ वेद॑ ।

मूलम्

“तप॑सस् त॒नूर॑सि प्र॒जाप॑ते॒र्वर्ण॒” इत्या॑ह ।

प॒शुभ्य॑ ए॒व तद॑ध्व॒र्युर्नि ह्नु॑ते ,

आ॒त्मनोऽना॑व्रस्काय॒ गच्छ॑ति ,

श्रिय॒म् प्र प॒शूना॑प्नोति॒ य ए॒वव्ँ वेद॑ ।

पद-पाठः

तप॑सः । त॒नूः । अ॒सि॒ । प्र॒जाप॑ते॒रिति॑ प्र॒जा-प॒तेः॒ । वर्णः॑ । इति॑ । आ॒ह॒ ।

प॒शुभ्य॒ इति॑ प॒शु-भ्यः॒ । ए॒व । तत् । अ॒ध्व॒र्युः । नीति॑ । ह्नु॒ते॒ ।
आ॒त्मनः॑ । अना॑व्रस्का॒येत्यना॑-व्र॒स्का॒य॒ । गच्छ॑ति ।
श्रिय॑म् । प्रेति॑ । प॒शून् । आ॒प्नो॒ति॒ । यः । ए॒वम् । वेद॑ ।

भट्टभास्कर-टीका

4पशुभ्य एवेति ॥ ‘तपसस्तनूः’ ‘प्रजापतेर्वर्णः'51 इति च अजया क्रीणन् अध्वर्युः यस्मादेवं रूपयति तदध्वर्युः अजया क्रयं पशुभ्यः निह्नुते तिरस्करोति । आत्मनोनाव्रस्काय पशूनामविच्छेदाय तद्भवति । एवं विद्वान् गच्छति श्रियं, पशूंश्च प्राप्नोति । व्रश्चतेः घञ्, ’ चजोः कुघिण्यतोः’ इति कुत्वम्, ततो निमित्ताभावाच्छत्वं निवर्तते ॥

मूलम् (संयुक्तम्)

शु॒क्रन्ते॑ शु॒क्रेण॑ क्रीणा॒मीत्या॑ह यथाय॒जुरे॒वैतद्

विश्वास-प्रस्तुतिः

“शु॒क्रन्ते॑ शु॒क्रेण॑ क्रीणा॒मी"त्या॑ह यथाय॒जुर् ए॒वैतत् ।

मूलम्

“शु॒क्रन्ते॑ शु॒क्रेण॑ क्रीणा॒मी"त्या॑ह यथाय॒जुर् ए॒वैतत् ।

पद-पाठः

शु॒क्रम् । ते॒ । शु॒क्रेण॑ । क्री॒णा॒मि॒ । इति॑ । आ॒ह॒ ।
य॒था॒य॒जुरिति॑ यथा-य॒जुः । ए॒व । ए॒तत् ।

भट्टभास्कर-टीका

5यथायजुरिति ॥ उभयोरपि शुक्रादिगुणवत्त्वात् । यद्वा - ‘शुक्रेण क्रीणामि’ इति हिरण्येन यत्क्रयणं ‘अस्मे चन्द्राणि'52 इति हिरण्यस्य च यदादानं तदुभयथा यजुप्रसिद्धमेवेति आदानमन्त्रानुसारेण क्रयमन्त्र उत्कृष्य व्याख्यायते एवं ब्राह्मणं दृष्ट्वा । सर्वान्ते हिरण्यादानमन्त्रं दृष्ट्वा तु अजया क्रयात्प्रागेव हिरण्येन क्रीयते तदानीमेव तदानीयते इति प्रतिभाति ॥

मूलम् (संयुक्तम्)

दे॒वा वै येन॒ हिर॑ण्येन॒ सोम॒मक्री॑ण॒न्तद॑भी॒षहा॒ पुन॒राद॑दत॒ को हि तेज॑सा विक्रे॒ष्यत॒ इति॒ येन॒ हिर॑ण्येन [68]
सोम॑ङ्क्रीणी॒यात्तद॑भी॒षहा॒ पुन॒रा द॑दीत॒ तेज॑ ए॒वात्मन्ध॑त्ते॒

विश्वास-प्रस्तुतिः

दे॒वा वै येन॒ हिर॑ण्येन॒ सोम॒मक्री॑ण॒न् , तद॑भी॒षहा॒ पुन॒राद॑दत॒ - “को हि तेज॑सा विक्रे॒ष्यत॒ “इति॑ ।
येन॒ हिर॑ण्येन सोम॑ङ्क्रीणी॒यात् , तद॑भी॒षहा॒ पुन॒रा द॑दीत॒ , तेज॑ ए॒वात्मन्ध॑त्ते ।

मूलम्

दे॒वा वै येन॒ हिर॑ण्येन॒ सोम॒मक्री॑ण॒न् , तद॑भी॒षहा॒ पुन॒राद॑दत॒ - “को हि तेज॑सा विक्रे॒ष्यत॒ “इति॑ ।
येन॒ हिर॑ण्येन सोम॑ङ्क्रीणी॒यात् , तद॑भी॒षहा॒ पुन॒रा द॑दीत॒ , तेज॑ ए॒वात्मन्ध॑त्ते ।

पद-पाठः

दे॒वाः । वै । येन॑ । हिर॑ण्येन । सोम॑म् । अक्री॑णन् । तत् । अ॒भी॒षहेत्य॑भि-सहा॑ । पुनः॑ । एति॑ । अद॑दत । कः । हि । तेज॑सा । वि॒क्रे॒ष्यत॒ इति॑ वि-क्रे॒ष्यते॑ । इति॑ ।

येन॑ । हिर॑ण्येन । [68] सोम॑म् । क्री॒णी॒यात् । तत् । अ॒भी॒षहेत्य॑भि-सहा॑ । पुनः॑ । एति॑ । द॒दी॒त॒ । तेजः॑ । ए॒व । आ॒त्मन् । ध॒त्ते॒ ।

भट्टभास्कर-टीका

6देवा वा इत्यादि ॥ अभीषहा अभिभवेन प्रसह्य तद्धिरण्यमाददत आर्जितवन्तः । सहतेः क्विपि ‘नहिवृति’ इत्यादिनोपसर्गस्य दीर्घत्वम् । को हीत्यादि । को नाम तेजसा तेजो विक्रेष्यते विक्रीतं कुर्यादिति मन्यमानास्तदाददत । ‘परिव्यवेभ्यः क्रियः’ इत्यात्मनेपदम्, ‘हि च’ इति निघाताभावः । तस्मात् येनेत्वादिविधिः । आत्मन्येव तेजो धत्ते । पूर्ववत् ङेर्लोपः, नलोपप्रतिषेधश्च ॥

मूलम् (संयुक्तम्)

ऽस्मे ज्योति॑स्सोमविक्र॒यिणि॒ तम॒ इत्या॑ह॒ ज्योति॑रे॒व यज॑माने दधाति॒ तम॑सा॒ सोमविक्र॒यिण॑मर्पयति॒

विश्वास-प्रस्तुतिः

“अस्मे ज्योति॑स् - सोमविक्र॒यिणि॒ तम॒” इत्या॑ह ।

ज्योति॑रे॒व यज॑माने दधाति ।

तम॑सा॒ सोमविक्र॒यिण॑मर्पयति ।

मूलम्

“अस्मे ज्योति॑स् - सोमविक्र॒यिणि॒ तम॒” इत्या॑ह ।

ज्योति॑रे॒व यज॑माने दधाति ।

तम॑सा॒ सोमविक्र॒यिण॑मर्पयति ।

पद-पाठः

अ॒स्मे इति॑ । ज्योतिः॑ । सो॒म॒वि॒क्र॒यिणीति॑ सोम-वि॒क्र॒यिणि॑ । तमः॑ । इति॑ । आ॒ह॒ ।

ज्योतिः॑ । ए॒व । यज॑माने । द॒धा॒ति॒ ।
तम॑सा । सो॒म॒वि॒क्र॒यिण॒मिति॑ सोम-वि॒क्र॒यिण॑म् । अ॒र्प॒य॒ति॒ ।

भट्टभास्कर-टीका

7अस्मे इत्यादि ॥ शुक्लामूर्णास्तुकां यजमानाय प्रयच्छन् ‘अस्मे ज्योतिः’ इति यदाह तेन यजमाने ज्योतिर्दधाति । कृष्णामूर्णास्तुकां सोमविक्रयिणे प्रयच्छत् ‘सोमविक्रयिणि तमः'53 इति यदाह तेन तमसा सोमविक्रीयागमर्पयति तमसा अप्रकाशेन प्राप्तं करोति । ‘गतिबुद्धि’ इत्यादिना कर्मत्वं व्यत्ययेन न प्रवर्तते । यद्वा - अर्पयति आर्तिं गमयति । अर्तोर्गौ पुगागमः ॥

मूलम् (संयुक्तम्)

यदनु॑पग्रथ्य ह॒न्याद्द॑न्द॒शूका॒स्ताँ समाँ॑ स॒र्पास्स्यु॑रि॒दम॒हँ स॒र्पाणा॑न्दन्द॒शूका॑नाङ्ग्री॒वा उप॑ ग्रथ्ना॒मीत्या॒हाद॑न्दशूका॒स्ताँ समाँ॑ स॒र्पा भ॑वन्ति॒ तम॑सा सोमविक्र॒यिणव्ँ॑विध्यति॒

विश्वास-प्रस्तुतिः

यदनु॑पग्रथ्य ह॒न्याद् द॑न्द॒शूका॒स्ताँ समाँ॑ स॒र्पास्स्युः॑ ।

“इ॒दम॒हँ स॒र्पाणा॑न् दन्द॒शूका॑नाङ् ग्री॒वा उप॑ ग्रथ्ना॒मी"त्या॑ह ।

अद॑न्दशूका॒स्ताँ समाँ॑ स॒र्पा भ॑वन्ति ,

तम॑सा सोमविक्र॒यिणव्ँ॑ विध्यति ।

मूलम्

यदनु॑पग्रथ्य ह॒न्याद् द॑न्द॒शूका॒स्ताँ समाँ॑ स॒र्पास्स्युः॑ ।

“इ॒दम॒हँ स॒र्पाणा॑न् दन्द॒शूका॑नाङ् ग्री॒वा उप॑ ग्रथ्ना॒मी"त्या॑ह ।

अद॑न्दशूका॒स्ताँ समाँ॑ स॒र्पा भ॑वन्ति ,

तम॑सा सोमविक्र॒यिणव्ँ॑ विध्यति ।

पद-पाठः

यत् । अनु॑पग्र॒थ्येत्यनु॑प-ग्र॒थ्य॒ । ह॒न्यात् । द॒न्द॒शूकाः॑ । ताम् । समा॑म् । स॒र्पाः । स्युः॒ ।

इ॒दम् । अ॒हम् । स॒र्पाणा॑म् । द॒न्द॒शूका॑नाम् । ग्री॒वाः । उपेति॑ । ग्र॒थ्ना॒मि॒ । इति॑ । आ॒ह॒ ।

अद॑न्दशूकाः । ताम् । समा॑म् । स॒र्पाः । भ॒व॒न्ति॒ ।

तम॑सा । सो॒म॒वि॒क्र॒यिण॒मिति॑ सोम-वि॒क्र॒यिण॑म् । वि॒ध्य॒ति॒ ।

भट्टभास्कर-टीका

8यदित्यादि ॥ यदि कृष्णोर्णकामनुपग्रथ्य अबद्ध्वा तया यदि सोमविक्रयिणं हन्यात् तां समां तं वत्सरं प्रजा दन्दशूका दंशनशीलाः सर्पाः स्युः । दंशेर्यङ्लुगन्तात् ‘यजजपदशाम्’ इत्युकञ्प्रत्ययः । तस्मात् इदमहमित्यादिमन्त्रविधिः । अहं सर्पाणां दन्दशूकानां प्रजादंशनशीलानां ग्रीवाः धमनीः इदमुपग्रथ्नामीत्यनेन कृष्णोर्णुकया उपग्रथनेन उपसंगृह्य बध्नामि यथा ते दष्टुं न शक्रुवन्ति इत्येवं वदता यदुपग्रथ्नाति तेन ते अदन्दशूका भवन्ति; सोमविक्रयिणमेव तमसा मर्छूनालक्षणेन विध्यति पीडयति ॥

मूलम् (संयुक्तम्)

स्वान॑ [69]
भ्राजेत्या॑है॒ते वा अ॒मुष्मिल्ँ॑ लो॒के सोम॑मरक्ष॒न्तेभ्योऽधि॒ सोम॒माह॑र॒न्यदे॒तेभ्य॑स्सोम॒क्रय॑णा॒न्नानु॑दि॒शेदक्री॑तोऽस्य॒ सोम॑स्स्या॒न्नास्यै॒ते॑ऽमुष्मिल्ँ॑ लो॒के सोमँ॑ रक्षेयु॒र्यदे॒तेभ्य॑स्सोम॒क्रय॑णाननुदि॒शति॑ क्री॒तो॑ऽस्य॒ सोमो॑ भवत्ये॒ते॑ऽस्या॒मुष्मिल्ँ॑ लो॒के सोमँ॑ रक्षन्ति ॥ [70]

विश्वास-प्रस्तुतिः

“स्वान॑ भ्राजे"त्या॑ह । ए॒ते वा अ॒मुष्मिल्ँ॑ लो॒के सोम॑मरक्ष॒न् , तेभ्योऽधि॒ सोम॒माऽऽह॑रन् ।[69]

यदे॒तेभ्य॑स् सोम॒क्रय॑णा॒न्नानु॑दि॒शेदक्री॑तोऽस्य॒ सोम॑स् स्या॒न्नास्यै॒ते॑ऽमुष्मिल्ँ॑ लो॒के सोमँ॑ रक्षेयुः ।

यदे॒तेभ्य॑स् सोम॒क्रय॑णाननुदि॒शति॑ क्री॒तो॑ऽस्य॒ सोमो॑ भवत्य् - ए॒ते॑ऽस्या॒मुष्मिल्ँ॑ लो॒के सोमँ॑ रक्षन्ति ॥ [70]

मूलम्

“स्वान॑ भ्राजे"त्या॑ह । ए॒ते वा अ॒मुष्मिल्ँ॑ लो॒के सोम॑मरक्ष॒न् , तेभ्योऽधि॒ सोम॒माऽऽह॑रन् ।[69]

यदे॒तेभ्य॑स् सोम॒क्रय॑णा॒न्नानु॑दि॒शेदक्री॑तोऽस्य॒ सोम॑स् स्या॒न्नास्यै॒ते॑ऽमुष्मिल्ँ॑ लो॒के सोमँ॑ रक्षेयुः ।

यदे॒तेभ्य॑स् सोम॒क्रय॑णाननुदि॒शति॑ क्री॒तो॑ऽस्य॒ सोमो॑ भवत्य् - ए॒ते॑ऽस्या॒मुष्मिल्ँ॑ लो॒के सोमँ॑ रक्षन्ति ॥ [70]

पद-पाठः

स्वान॑ । [69] भ्राज॑ । इति॑ । आ॒ह॒ ।

ए॒ते । वै । अ॒मुष्मि॑न् । लो॒के । सोम॑म् । अ॒र॒क्ष॒न् ।
तेभ्यः॑ । अधीति॑ । सोम॑म् । एति॑ । अ॒ह॒र॒न् ।

यत् । ए॒तेभ्यः॑ । सो॒म॒क्रय॑णा॒निति॑ सोम-क्रय॑णान् । न । अ॒नु॒दि॒शेदित्य॑नु-दि॒शेत् । अक्री॑तः । अ॒स्य॒ । सोमः॑ । स्या॒त् । न । अ॒स्य॒ । ए॒ते । अ॒मुष्मि॑न् । लो॒के । सोम॑म् । र॒क्षे॒युः॒ ।

यत् । ए॒तेभ्यः॑ । सो॒म॒क्रय॑णा॒निति॑ सोम-क्रय॑णान् । अ॒नु॒दि॒शतीत्य॑नु-दि॒शति॑ । क्री॒तः । अ॒स्य॒ । सोमः॑ । भ॒व॒ति॒ । ए॒ते । अ॒स्य॒ । अ॒मुष्मि॑न् । लो॒के । सोम॑म् । र॒क्ष॒न्ति॒ ॥ [70]

भट्टभास्कर-टीका

9स्वानेत्यादि ॥ स्वानादयोमुष्मिन् लोके सोमस्य रक्षितारः । तस्मात्तेभ्योधिसोममाहरत् आहरन्ति तदनुज्ञानादेव यजमानाः सोममात्मसात्कुर्वन्ति । एवं हि कर्तुं युज्यते । तस्मात्स्वानेत्यादिना यदेतेभ्य आकाशः तेम्यस्मोमक्रयणान् गवादीन्नानुदिशेत् अनुक्रमेण न निर्दिशेत् । यद्वा - क्रयानन्तरमेव नानुदिशेत् । अस्य यजमानस्य अक्रीत एव सोमस्स्यात् रक्षकविसंवादात् । न चास्य सोममेतेऽमुष्मिन् लोके रक्षेयुः । अमुष्मिन् लोकेसोमसंबन्धोस्य न स्यात् । तस्मात् यदेतेभ्य इत्यादि । गतम् ॥

इति षष्ठे प्रथमे दशमोनुवाकः ॥