०८ सोमक्रयण्या गोर्मध्ये मार्गं पदसङ्रहप्रकारः ...{Loading}...
सोमऋषिः
मूलम् (संयुक्तम्)
षट्प॒दान्यनु॒ नि क्रा॑मति षड॒हव्ँवाङ्नाति॑ वदत्यु॒त सव्ँ॑वत्स॒रस्याय॑ने॒ याव॑त्ये॒व वाक्तामव॑ रुन्द्धे
विश्वास-प्रस्तुतिः
षट्प॒दान्यनु॒ नि क्रा॑मति ।
ष॒ड॒हव्ँ वाङ्नाति॑ वदति ।
उ॒त सव्ँ॑वत्स॒रस्याय॑ने॒ याव॑त्ये॒व वाक् , तामव॑ रुन्धे ।
मूलम्
षट्प॒दान्यनु॒ नि क्रा॑मति ।
ष॒ड॒हव्ँ वाङ्नाति॑ वदति ।
उ॒त सव्ँ॑वत्स॒रस्याय॑ने॒ याव॑त्ये॒व वाक् , तामव॑ रुन्धे ।
पद-पाठः
षट् । प॒दानि॑ । अनु॑ । नीति॑ । क्रा॒म॒ति॒ ।
ष॒ड॒हमिति॑ षट्-अ॒हम् । वाक् । न । अतीति॑ । व॒द॒ति॒ ।
उ॒त । सव्ँ॒व॒त्स॒रस्येति॑ सम्-व॒त्स॒रस्य॑ । अय॑ने । याव॑ती । ए॒व । वाक् । ताम् । अवेति॑ । रु॒न्द्धे॒ ।
भट्टभास्कर-टीका
1षट्पदान्यनु नि क्रामतीति विधिः ॥ सोमक्रयणी गच्छन्तीमनुनिक्रामति अनुक्रमेण गच्छति ‘वस्व्यसि’ इत्यादिभिष्षड्भिर्मन्त्रैः । यस्मादेवं तस्मात् षडहं प्रष्ठ्यं वाङ्नातिवदति स्तुतशस्त्रव्यतिरेकेण न प्रवर्तते; अपि च संवत्सरस्यायने सांवत्सरिके यस्मात् एकहायनीवाग्रूपां षट्पदानि यजमानो न विसृजति तस्मात्षडहं वाङ्न विसृज्यते इति । तस्मात् षट्पदानुगमनेन यावत्येव वाक्तां सर्वामवरुन्धे ॥
मूलम् (संयुक्तम्)
सप्त॒मे प॒दे जु॑होति स॒प्तप॑दा॒ शक्व॑री प॒शव॒श्शक्व॑री प॒शूने॒वाव॑ रुन्द्धे स॒प्त ग्रा॒म्याᳶ प॒शव॑स्स॒प्तार॒ण्यास्स॒प्त छन्दाँ॑स्यु॒भय॒स्याव॑रुद्ध्यै॒
विश्वास-प्रस्तुतिः
स॒प्त॒मे प॒दे जु॑होति । स॒प्तप॑दा॒ शक्व॑री ।
प॒शव॒श् शक्व॑री । प॒शून् ए॒वाव॑ रुन्धे ।
स॒प्त ग्रा॒म्याᳶ प॒शव॑स् , स॒प्तार॒ण्यास् , स॒प्त छन्दाँ॑सि ।
उ॒भय॒स्याव॑रुध्यै ।
मूलम्
स॒प्त॒मे प॒दे जु॑होति । स॒प्तप॑दा॒ शक्व॑री ।
प॒शव॒श् शक्व॑री । प॒शून् ए॒वाव॑ रुन्धे ।
स॒प्त ग्रा॒म्याᳶ प॒शव॑स् , स॒प्तार॒ण्यास् , स॒प्त छन्दाँ॑सि ।
उ॒भय॒स्याव॑रुध्यै ।
पद-पाठः
स॒प्त॒मे । प॒दे । जु॒हो॒ति॒ ।
स॒प्तप॒देति॑ सप्त-प॒दा॒ । शक्व॑री ।
प॒शवः॑ । शक्व॑री । प॒शून् । ए॒व । अवेति॑ । रु॒न्द्धे॒ ।
स॒प्त । ग्रा॒म्याः । प॒शवः॑ । स॒प्त । आ॒र॒ण्याः । स॒प्त । छन्दाँ॑सि । उ॒भय॑स्य । अव॑रुद्ध्या॒ इत्यव॑-रु॒द्ध्यै॒ ।
भट्टभास्कर-टीका
2सप्तमे पदे जुहोतीति विधिः ॥ सप्तसंख्यान्वयेन पशुसाधनभूतसप्तपदशक्वरीलाभात् पशूनवरुन्धे । सप्त पादा अस्या इति बहुव्रीहौ ‘संख्यासुपूर्वस्य’ इति लोपे ‘टाबृचि’ इति टापि ‘पादः पत्’ इति पद्भावः । सप्तसंख्याकानां ग्राम्याणामारण्यानां च पशूनां छन्दसां च गायत्र्यादिजगत्यन्तानां प्रधानानां लाभाय भवति । गवादयो ग्राम्याः । ‘ग्रामाद्यखञौ’ इति यः । कष्णादय आरण्याः । उभयस्येति । ग्राम्यारण्यानेकीकृत्य । छन्दोभिरुभयं भवति पशूनां छन्दसां चावरुद्ध्यै इति । उभाववयवावस्य ‘उभादुदात्तो नित्यम्’ इत्ययजाद्युदात्तः, ‘तादौ च’ इति गतेः प्रकृतिस्वरत्वम् ॥
मूलम् (संयुक्तम्)
वस्व्य॑सि रु॒द्रासीत्या॑ह रू॒पमे॒वास्या॑ ए॒तन्म॑हि॒मान॑म् [54]
व्याच॑ष्टे॒
विश्वास-प्रस्तुतिः
“वस्व्य॑सि रु॒द्रासी"त्या॑ह । रू॒पमे॒वास्या॑ ए॒तन् म॑हि॒मानव्ँ॒ व्याच॑ष्टे। [54]
मूलम्
“वस्व्य॑सि रु॒द्रासी"त्या॑ह । रू॒पमे॒वास्या॑ ए॒तन् म॑हि॒मानव्ँ॒ व्याच॑ष्टे। [54]
पद-पाठः
वस्वी॑ । अ॒सि॒ । रु॒द्रा । अ॒सि॒ । इति॑ । आ॒ह॒ ।
रू॒पम् । ए॒व । अ॒स्याः॒ । ए॒तत् । म॒हि॒मान॑म् । [54] व्याच॑ष्ट॒ इति॑ वि-आच॑ष्टे ।
भट्टभास्कर-टीका
3इदानीं निष्क्रमणमन्त्रप्रभृति व्याचष्टे - वस्व्यसीत्यादि ॥ वस्वादिमतो यज्ञस्य साधनभावलक्षणमस्य महिमानमेतन्मन्त्रस्वरूपमेव व्याचष्टे । न किंचिद्व्याख्येयम् ॥
मूलम् (संयुक्तम्)
बृह॒स्पति॑स्त्वा सु॒म्ने र॑ण्व॒त्वित्या॑ह॒ ब्रह्म॒ वै दे॒वाना॒म्बृह॒स्पति॒र्ब्रह्म॑णै॒वास्मै॑ प॒शूनव॑ रुन्द्धे रु॒द्रो वसु॑भि॒रा चि॑के॒त्वित्या॒हावृ॑त्त्यै
विश्वास-प्रस्तुतिः
“बृह॒स्पति॑स्त्वा सु॒म्ने र॑ण्व॒त्वि"त्या॑ह ।
ब्रह्म॒ वै दे॒वाना॒म् बृह॒स्पतिः॑ ।
ब्रह्म॑णै॒वास्मै॑ प॒शूनव॑ रुन्धे ।
“रु॒द्रो वसु॑भि॒र् आ चि॑के॒त्वि"त्या॑ह । आवृ॑त्त्यै ।
मूलम्
“बृह॒स्पति॑स्त्वा सु॒म्ने र॑ण्व॒त्वि"त्या॑ह ।
ब्रह्म॒ वै दे॒वाना॒म् बृह॒स्पतिः॑ ।
ब्रह्म॑णै॒वास्मै॑ प॒शूनव॑ रुन्धे ।
“रु॒द्रो वसु॑भि॒र् आ चि॑के॒त्वि"त्या॑ह । आवृ॑त्त्यै ।
पद-पाठः
बृह॒स्पतिः॑ । त्वा॒ । सु॒म्ने । र॒ण्व॒तु॒ । इति॑ । आ॒ह॒ ।
ब्रह्म॑ । वै । दे॒वाना॑म् । बृह॒स्पतिः॑ ।
ब्रह्म॑णा । ए॒व । अ॒स्मै॒ । प॒शून् । अवेति॑ । रु॒न्द्धे॒ ।
रु॒द्रः । वसु॑भि॒रिति॒ वसु॑-भिः॒ । एति॑ । चि॒के॒तु॒ । इति॑ । आ॒ह॒ । आवृ॑त्त्या॒ इत्या-वृ॒त्त्यै॒ ।
भट्टभास्कर-टीका
4’बृहस्पतिस्त्वा’ इति सप्तपदाभिग्रहागमन्त्रं व्याचष्टे ॥ बृहस्पतिशब्दो वनस्पत्यादिः, पारस्करादिश्च । ब्रह्मणैवास्मै यजमानाय पशूनवरुन्धे । अस्मा इत्यन्वादेशेऽशनुदात्तः । आवृत्त्या इति । आवृत्तिरविनाशः । पराचीयागान्मावर्ततामित्येतदर्थं रुद्रो वसुभिस्सह क्रियमाणं सप्तमं पदमाचिकेतु अनुजानातु यः पशूनां पतिरिति मन्त्रोणाशास्यते, तेन तदनुज्ञालाभादावर्तते अविनाशा वर्तते । अन्यथा रुद्रोभिमन्येत तत् पराच्येव गच्छेदिति । ‘तादौ च’ इति गतेः प्रकृतिस्वरत्वम् ॥
मूलम् (संयुक्तम्)
पृथि॒व्यास्त्वा॑ मू॒र्धन्ना जि॑घर्मि देव॒यज॑न॒ इत्या॑ह पृथि॒व्या ह्ये॑ष मू॒र्धा यद्दे॑व॒यज॑न॒मिडा॑याᳶ प॒द इत्या॒हेडा॑यै॒ ह्ये॑तत्प॒दय्ँयत्सो॑म॒क्रय॑ण्यै घृ॒तव॑ति॒ स्वाहा॑ [55]
इत्या॑ह॒ यदे॒वास्यै॑ प॒दाद्घृ॒तमपी॑ड्यत॒ तस्मा॑दे॒वमा॑ह॒
विश्वास-प्रस्तुतिः
पृ॒थि॒व्यास् त्वा॑ मू॒र्धन्न् आ जि॑घर्मि देव॒यज॑न॒ इत्या॑ह । पृ॒थि॒व्या ह्ये॑ष मू॒र्धा , यद् दे॑व॒यज॑नम् । “इडा॑याᳶ प॒द “इत्या॑ह । इडा॑यै॒ ह्ये॑तत् प॒दय्ँ यत्सो॑म॒क्रय॑ण्यै । “घृ॒तव॑ति॒ स्वाहा॑” इत्या॑ह ।[55] यदे॒वास्यै॑ प॒दाद् घृ॒तमपी॑ड्यत॒ तस्मा॑द् ए॒वमा॑ह ।
मूलम्
पृ॒थि॒व्यास् त्वा॑ मू॒र्धन्न् आ जि॑घर्मि देव॒यज॑न॒ इत्या॑ह । पृ॒थि॒व्या ह्ये॑ष मू॒र्धा , यद् दे॑व॒यज॑नम् । “इडा॑याᳶ प॒द “इत्या॑ह । इडा॑यै॒ ह्ये॑तत् प॒दय्ँ यत्सो॑म॒क्रय॑ण्यै । “घृ॒तव॑ति॒ स्वाहा॑” इत्या॑ह ।[55] यदे॒वास्यै॑ प॒दाद् घृ॒तमपी॑ड्यत॒ तस्मा॑द् ए॒वमा॑ह ।
पद-पाठः
पृ॒थि॒व्याः । त्वा॒ । मू॒र्धन् । एति॑ । जि॒घ॒र्मि॒ । दे॒व॒यज॑न॒ इति॑ देव-यज॑ने । इति॑ । आ॒ह॒ । पृ॒थि॒व्याः । हि । ए॒षः । मू॒र्धा । यत् । दे॒व॒यज॑न॒मिति॑ देव-यज॑नम् ।
इडा॑याः । प॒दे । इति॑ । आ॒ह॒ । इडा॑यै । हि । ए॒तत् । प॒दम् । यत् । सो॒म॒क्रय॑ण्या॒ इति॑ सोम-क्रय॑ण्यै ।
घृ॒तव॒तीति॑ घृ॒त-व॒ति॒ । स्वाहा॑ । [55] इति॑ । आ॒ह॒ ।
यत् । ए॒व । अ॒स्यै॒ । प॒दात् । घृ॒तम् । अपी॑ड्यत । तस्मा॑त् । ए॒वम् । आ॒ह॒ ।
भट्टभास्कर-टीका
5अथ ‘पृथिव्यास्त्वा’ इति पदे जुहोति, तद्व्याचष्टेपृथिव्या ह्येष इति ॥ यद्देवयजनं यत्र देवा इज्यन्ते एष हि पृथिव्या मूर्धा शिरस्थानीयं स्थानं प्रधानभूतमिति पृथिव्या मूर्धस्थानीयदेवतायजनरूपोण सप्तमं पदं स्तूयते । यद्वा - पृथिव्या ह्येष मुर्धा मूर्धस्थानीयं सप्तमं पदम् । कोस्य विशेष इत्याह - यद्देवयजनमिति । ‘उदात्तयणः’ इति पृथिव्या विभक्तेरुदात्तत्वम् । इडायै ह्येतदिति । इडा सोमक्रयागी । ‘पशवो वा इडा’ इति तस्मादेतदिडायाः पदं यत्सोमक्रयण्याः पदम् । षष्ठ्यर्थे चतुर्थी । यदेवास्या इति । सा यत्रयत्र न्यक्रामत् ततो घृतमपीड्यतेति । यस्मादस्याः पदाहतमपीड्यत तस्मादेवमाह ‘इडायाः पदे घृतवति’ इति ॥
मूलम् (संयुक्तम्)
यद॑ध्व॒र्युर॑न॒ग्नावाहु॑तिञ्जुहु॒याद॒न्धो॑ऽध्व॒र्युस्स्या॒द्रक्षाँ॑सि य॒ज्ञँ ह॑न्यु॒र्हिर॑ण्यमु॒पास्य॑ जुहोत्यग्नि॒वत्ये॒व जु॑होति॒ नान्धो॑ऽध्व॒र्युर्भव॑ति॒ न य॒ज्ञँ रक्षाँ॑सि घ्नन्ति॒
विश्वास-प्रस्तुतिः
यद॑ध्व॒र्युर॑न॒ग्नावाहु॑तिञ्जुहु॒यात् ।
अ॒न्धो॑ऽध्व॒र्युस् स्या॒द् , रक्षाँ॑सि य॒ज्ञँ ह॑न्युः ।
हिर॑ण्यमु॒पास्य॑ जुहोति । अ॒ग्नि॒वत्ये॒व जु॑होति ।
नान्धो॑ऽध्व॒र्युर्भव॑ति॒ ,
न य॒ज्ञँ रक्षाँ॑सि घ्नन्ति ।
मूलम्
यद॑ध्व॒र्युर॑न॒ग्नावाहु॑तिञ्जुहु॒यात् ।
अ॒न्धो॑ऽध्व॒र्युस् स्या॒द् , रक्षाँ॑सि य॒ज्ञँ ह॑न्युः ।
हिर॑ण्यमु॒पास्य॑ जुहोति । अ॒ग्नि॒वत्ये॒व जु॑होति ।
नान्धो॑ऽध्व॒र्युर्भव॑ति॒ ,
न य॒ज्ञँ रक्षाँ॑सि घ्नन्ति ।
पद-पाठः
यत् । अ॒ध्व॒र्युः । अ॒न॒ग्नौ । आहु॑ति॒मित्या-हु॒ति॒म् । जु॒हु॒यात् ।
अ॒न्धः । अ॒ध्व॒र्युः । स्या॒त् । रक्षाँ॑सि । य॒ज्ञम् । ह॒न्युः॒ । हिर॑ण्यम् । उ॒पास्येत्यु॑प-अस्य॑ । जु॒हो॒ति॒ ।
अ॒ग्नि॒वतीत्य॑ग्नि-वति॑ । ए॒व । जु॒हो॒ति॒ ।
न । अ॒न्धः । अ॒ध्व॒र्युः । भव॑ति ।
न । य॒ज्ञम् । रक्षाँ॑सि । घ्न॒न्ति॒ ।
भट्टभास्कर-टीका
6’हिरण्यमुपास्य जुहोति’ इति विधास्यन् आह - यदध्वर्युरित्यादि ॥ अनग्नौ अग्निरहिते देशे । ‘नञ्सुभ्याम्’ इत्युत्तरपदान्तोदात्तत्वम् । आहुतिशब्दे ‘तादौ च’ इति गतेः प्रकृतिस्वरत्वम् । अध्वर्योरान्ध्ये सति निर्वाधानि रक्षांसि यज्ञं हन्युः, तस्माद्धिरण्यमुपास्योपधाय जुहोतीति विधिः । एवं सति अग्निवत्येव पदे जुहोति । ततश्चोक्तदोषद्वयाप्रसंगः ॥
मूलम् (संयुक्तम्)
काण्डे॑काण्डे॒ वै क्रि॒यमा॑णे य॒ज्ञँ रक्षाँ॑सि जिघाँसन्ति॒ परि॑लिखितँ॒ रक्ष॒ᳶ परि॑लिखिता॒ अरा॑तय॒ इत्या॑ह॒ रक्ष॑सा॒मप॑हत्यै [56]
इ॒दम॒हँ रक्ष॑सो ग्री॒वा अपि॑ कृन्तामि॒ यो॑ऽस्मान्द्वेष्टि॒ यञ्च॑ व॒यन्द्वि॒ष्म इत्या॑ह॒
विश्वास-प्रस्तुतिः
काण्डे॑काण्डे॒ वै क्रि॒यमा॑णे य॒ज्ञँ रक्षाँ॑सि जिघाँसन्ति ।
परि॑लिखितँ॒ रक्ष॒ᳶ परि॑लिखिता॒ अरा॑तय॒ इत्या॑ह ।
रक्ष॑सा॒मप॑हत्यै ।[56]
“इ॒दम॒हँ रक्ष॑सो ग्री॒वा अपि॑ कृन्तामि॒ , यो॑ऽस्मान् द्वेष्टि॒ यञ्च॑ व॒यन् द्वि॒ष्म” इत्या॑ह ।
मूलम्
काण्डे॑काण्डे॒ वै क्रि॒यमा॑णे य॒ज्ञँ रक्षाँ॑सि जिघाँसन्ति ।
परि॑लिखितँ॒ रक्ष॒ᳶ परि॑लिखिता॒ अरा॑तय॒ इत्या॑ह ।
रक्ष॑सा॒मप॑हत्यै ।[56]
“इ॒दम॒हँ रक्ष॑सो ग्री॒वा अपि॑ कृन्तामि॒ , यो॑ऽस्मान् द्वेष्टि॒ यञ्च॑ व॒यन् द्वि॒ष्म” इत्या॑ह ।
पद-पाठः
परि॑लिखित॒मिति॒ परि॑-लि॒खि॒त॒म् । रक्षः॑ । परि॑लिखिता॒ इति॒ परि॑-लि॒खि॒ताः॒ । अरा॑तयः । इति॑ । आ॒ह॒ ।
रक्ष॑साम् । अप॑हत्या॒ इत्यप॑-ह॒त्यै॒ । [56]
इ॒दम् । अ॒हम् । रक्ष॑सः । ग्री॒वाः । अपीति॑ । कृ॒न्ता॒मि॒ ।
यः । अ॒स्मान् । द्वेष्टि॑ । यम् । च॒ । व॒यम् । द्वि॒ष्मः । इति॑ । आ॒ह॒ ।
काण्डे॑काण्ड॒ इति॒ काण्डे॑-का॒ण्डे॒ । वै । क्रि॒यमा॑णे । य॒ज्ञम् । रक्षाँ॑सि । जि॒घाँ॒स॒न्ति॒ ।
भट्टभास्कर-टीका
7काण्डेकाण्ड इति ॥ व्याख्यातम् ।
- तदभिप्रायमाह - काण्डेकाण्डे इति ॥ काण्डं पर्व अवयव इति पर्यायाः । सर्वस्मिन् यज्ञावयवे क्रियमाणे आरभ्यमाणे यज्ञं रक्षांसि हन्तुमिच्छन्ति ।
पदपरिलेखनेन रक्षःप्रभृतेः परितो नाशितत्वात् एतद्वचनं रक्षसामपहत्यै भवति । पूर्ववद्गतेः प्रकृतिस्वरत्वम् ॥
मूलम् (संयुक्तम्)
द्वौ वाव पुरु॑षौ॒ यञ्चै॒व द्वेष्टि॒ यश्चै॑न॒न्द्वेष्टि॒ तयो॑रे॒वान॑न्तरायङ्ग्री॒वाᳵ कृ॑न्तति
विश्वास-प्रस्तुतिः
द्वौ वाव पुरु॑षौ॒ यञ्चै॒व द्वेष्टि॒ यश् चै॑न॒न् द्वेष्टि॑ । तयो॑र् ए॒वान॑न्तरायङ् ग्री॒वाᳵ कृ॑न्तति ।
मूलम्
द्वौ वाव पुरु॑षौ॒ यञ्चै॒व द्वेष्टि॒ यश् चै॑न॒न् द्वेष्टि॑ । तयो॑र् ए॒वान॑न्तरायङ् ग्री॒वाᳵ कृ॑न्तति ।
पद-पाठः
द्वौ । वाव । पुरु॑षौ । यम् । च॒ । ए॒व । द्वेष्टि॑ । यः । च॒ । ए॒न॒म् । द्वेष्टि॑ ।
तयोः॑ । ए॒व । अन॑न्तराय॒मित्यन॑न्तः-आ॒य॒म् । ग्री॒वाः । कृ॒न्त॒ति॒ ।
भट्टभास्कर-टीका
8द्वौ वावेति ॥ द्वावेतौ पुरुषौ यं च यजमानो द्वेष्टि, यश्चैनं यजमानं द्वेष्टि; एवं यजमानसंबन्धिनौ द्वेष्यद्वेष्टारौ यस्मिन्नित्यात्मसंबन्धितया अध्वर्युराहेति मन्त्राभिप्रायतया ब्राह्मणमाह । अत्रात्मनो द्वेष्टा प्रथमं मन्त्रे निर्दिष्टः, ब्राह्मणे तु द्वेष्यः । तत्र मृग्यो हेतुः । तयोरिति । तयोः द्वेष्यद्वेष्ट्रोः एतेन मन्त्रेणास्येति प्रत्येकविवक्षया एकवचनं प्रयुक्तमिति दर्शयति अस्य द्वेष्टुः द्वेष्यस्य चेति । अनन्तरायमिति । अव्यधानेन द्वयोरपि ग्रीवाः कृन्तति, अप्रत्यूहं वा । एतेन च ‘अपि कृन्तामि’ इत्यपिशब्दस्यार्थो दर्शित. । अनेन हि कर्तनविषयः कामचार उच्यते । तृतीयार्थे द्वितीया, अव्ययपूर्वपदप्रकृतिस्वरत्वम् । बहुव्रीहौ वा व्यत्ययेन ‘नञ्सुभ्याम्’ इति न प्रवर्तते । ग्रीवाशब्दो धमनिवचनः; तासां बहुत्वात् बहुवचनम् । यथा ‘ग्रीवाभ्यस्ते’ इति । कृन्तति छिनत्ति । कृती छेदने, ‘शे मुचादीनाम्’ इति नुम् ॥
मूलम् (संयुक्तम्)
प॒शवो॒ वै सो॑म॒क्रय॑ण्यै प॒दय्ँ या॑वत्त्मू॒तँ सव्ँव॑पति प॒शूने॒वाव॑ रुन्द्धे॒ऽस्मे राय॒ इति॒ सव्ँव॑पत्या॒त्मान॑मे॒वाध्व॒र्युः [57]
प॒शुभ्यो॒ नान्तरे॑ति॒ त्वे राय॒ इति॒ यज॑मानाय॒ प्र य॑च्छति॒ यज॑मान ए॒व र॒यिन्द॑धाति॒ तोते॒ राय॒ इति॒ पत्नि॑या अ॒र्धो वा ए॒ष आ॒त्मनो॒ यत्पत्नी॒ यथा॑ गृ॒हेषु॑ निध॒त्ते ता॒दृगे॒व तत्
विश्वास-प्रस्तुतिः
प॒शवो॒ वै सो॑म॒क्रय॑ण्यै प॒दम् । याँ॑वत्त्मू॒तँ सव्ँव॑पति , प॒शून् ए॒वाव॑ रुन्धे ।
मूलम्
प॒शवो॒ वै सो॑म॒क्रय॑ण्यै प॒दम् । याँ॑वत्त्मू॒तँ सव्ँव॑पति , प॒शून् ए॒वाव॑ रुन्धे ।
पद-पाठः
प॒शवः॑ । वै । सो॒म॒क्रय॑ण्या॒ इति॑ सोम-क्रय॑ण्यै । प॒दम् ।
या॒व॒त्त्मू॒तमिति॑ यावत्-त्मू॒तम् । समिति॑ । व॒प॒ति॒ ।
प॒शून् । ए॒व । अवेति॑ । रु॒न्द्धे॒ ।
भट्टभास्कर-टीका
9पशवो वा इति ॥ यागद्वारेण पशुहेतुत्वात्, सप्तत्वस्य वा शाक्वरस्य शाक्वरपशुसाधनत्वात् । यावत्त्मूतं संवपतीति विधिः । यावत्प्रदेशः स्मृतः आज्येन सिक्तः तावत्संवपति गृहीत्वा मृत् धरण्यां क्षिपति, पशूनवरुन्धे । मव बन्धने, निष्ठायां ‘ज्वरत्वर’ इत्यादिना ऊठादेशः, जस्त्वाभावश्छान्दसः, अनुनासिकाभावश्च ।
विश्वास-प्रस्तुतिः
“अ॒स्मे राय॒” इति॒ सव्ँ व॑पति ।
आ॒त्मान॑म् ए॒वाध्व॒र्युᳶ प॒शुभ्यो॒ नान्तरे॑ति ।[57]
“त्वे राय॒” इति॒ यज॑मानाय॒ प्र य॑च्छति ।
यज॑मान ए॒व र॒यिन्द॑धाति ।
मूलम्
“अ॒स्मे राय॒” इति॒ सव्ँ व॑पति ।
आ॒त्मान॑म् ए॒वाध्व॒र्युᳶ प॒शुभ्यो॒ नान्तरे॑ति ।[57]
“त्वे राय॒” इति॒ यज॑मानाय॒ प्र य॑च्छति ।
यज॑मान ए॒व र॒यिन्द॑धाति ।
पद-पाठः
अ॒स्मे इति॑ । रायः॑ । इति॑ । समिति॑ । व॒प॒ति॒ ।
आ॒त्मान॑म् । ए॒व । अ॒ध्व॒र्युः । [57] प॒शुभ्य॒ इति॑ प॒शु-भ्यः॒ । न । अ॒न्तः । ए॒ति॒ ।
त्वे इति॑ । रायः॑ । इति॑ । यज॑मानाय । प्रेति॑ । य॒च्छ॒ति॒ ।
यज॑माने । ए॒व । र॒यिम् । द॒धा॒ति॒ ।
भट्टभास्कर-टीका
अस्मे राय इति संवपतीति मन्त्रविधिस्स्तुत्यर्थः । आत्मानमेवेति । नान्तरेति न व्यवदधाति आत्मानमेव पशुमन्तं करोति । तस्मादस्मे रायः पशुलक्षणानि धनानि सन्त्वित्यात्मार्थमेवाऽध्वर्युः प्रार्थयते; न यजमानार्थं, तस्य ‘त्वे रायः’ इति प्रार्थयिष्यमाणत्वात् । त्वे राय इत्यादिविधिः । यजमान एव रयिं पशुलक्षणं दधाति स्थापयति ।
विश्वास-प्रस्तुतिः
“तोते॒ राय॒” इति॒ , पत्नि॑यै ।
मूलम्
“तोते॒ राय॒” इति॒ , पत्नि॑यै ।
पद-पाठः
तोते॑ । रायः॑ । इति॑ । पत्नि॑यै ।
भट्टभास्कर-टीका
तोते राय इति पत्निया इति विधिः । प्रयच्छतीत्येव । त्वया ऊतं तोतमिति गृहमुच्यते । तत्र रायो धनानि सन्त्विति पत्न्यै प्रयच्छति । तत्सा गृहेषु निदधाति ।
विश्वास-प्रस्तुतिः
अ॒र्धो वा ए॒ष आ॒त्मनो॒ यत्पत्नी॑ । यथा॑ गृ॒हेषु॑ निध॒त्ते , ता॒दृग् ए॒व तत् ।
मूलम्
अ॒र्धो वा ए॒ष आ॒त्मनो॒ यत्पत्नी॑ । यथा॑ गृ॒हेषु॑ निध॒त्ते , ता॒दृग् ए॒व तत् ।
पद-पाठः
अ॒र्धः । वै । ए॒षः । आ॒त्मनः॑ । यत् । पत्नी॑ ।
यथा॑ । गृ॒हेषु॑ । नि॒ध॒त्त इति॑ नि-ध॒त्ते । ता॒दृक् । ए॒व । तत् ।
भट्टभास्कर-टीका
अर्धो वा इति । आत्मन एवैकदेशः पत्री; नेदृशं विस्रंभपात्रमस्ति । तस्माद्यथा गृहेष्वात्मीयेषु निधत्ते भूमावप्रकाशं स्थापयति तादृगेव तत् पत्न्यै प्रत्तं धनम्, अविनाशि च भवति, काले चोपयुज्यते ॥
मूलम् (संयुक्तम्)
त्वष्टी॑मती ते सपे॒येत्या॑ह॒ त्वष्टा॒ वै प॑शू॒नाम्मि॑थु॒नानाँ॑ रूप॒कृद्रू॒पमे॒व प॒शुषु॑ दधात्य्
विश्वास-प्रस्तुतिः
“त्वष्टी॑मती ते सपे॒ये"त्या॑ह ।
त्वष्टा॒ वै प॑शू॒नाम् मि॑थु॒नानाँ॑ रूप॒कृत् ।
रू॒पमे॒व प॒शुषु॑ दधाति ।
मूलम्
“त्वष्टी॑मती ते सपे॒ये"त्या॑ह ।
त्वष्टा॒ वै प॑शू॒नाम् मि॑थु॒नानाँ॑ रूप॒कृत् ।
रू॒पमे॒व प॒शुषु॑ दधाति ।
पद-पाठः
त्वष्टी॑मती । ते॒ । स॒पे॒य॒ । इति॑ । आ॒ह॒ ।
त्वष्टा॑ । वै । प॒शू॒नाम् । मि॒थु॒नाना॑म् । रू॒प॒कृदिति॑ रूप-कृत् ।
रू॒पम् । ए॒व । प॒शुषु॑ । द॒धा॒ति॒ ।
भट्टभास्कर-टीका
10’त्वष्टीमती’ इत्यादिना पत्नी यजमानमीक्षते, तद्व्याचष्टे त्वष्टा वा इति ॥ त्वष्टुर्व्यापारः विविधप्रजारूपनिमार्णशक्तयः, तद्वत्यहं त्वया सपेय मिथुनीभवेयमिति यस्मादनेन मन्त्रेणाशास्ते त्वष्टा च पशूनां मिथुनानां रूपकृत् तस्मादनेन वचनेन पशुषु रूपं यथाऽनुरूपं दधाति पत्नी ॥
मूलम् (संयुक्तम्)
अ॒स्मै वै लो॒काय॒ गार्ह॑पत्य॒ आ धी॑यते॒ऽमुष्मा॑ आहव॒नीयो॒ यद्गार्ह॑पत्य उप॒वपे॑द॒स्मिल्ँ लो॒के प॑शु॒मान्त्स्या॒द्यदा॑हव॒नीये॒ऽमुष्मिल्ँ॑ लो॒के प॑शु॒मान्त्स्या॑दु॒भयो॒रुप॑ वपत्यु॒भयो॑रे॒वैनल्ँ॑ लो॒कयोः॑ पशु॒मन्त॑ङ्करोति ॥ [58]
विश्वास-प्रस्तुतिः
अ॒स्मै वै लो॒काय॒ गार्ह॑पत्य॒ आ धी॑यते॒ ऽमुष्मा॑ आहव॒नीयः॑ ।
यद्गार्ह॑पत्य उप॒वपे॑द् , अ॒स्मिल्ँ लो॒के +++(यजमानः)+++ प॑शु॒मान्त् स्यात् ।
यदा॑हव॒नीये॒ ऽमुष्मिल्ँ॑ लो॒के प॑शु॒मान्त्स्या॑त् ।
उ॒भयो॒र् उप॑ वपति ।
उ॒भयो॑रे॒वैनल्ँ॑ लो॒कयोः॑ पशु॒मन्त॑ङ् करोति +++(यजमानम्।)+++॥ [58]
मूलम्
अ॒स्मै वै लो॒काय॒ गार्ह॑पत्य॒ आ धी॑यते॒ ऽमुष्मा॑ आहव॒नीयः॑ ।
यद्गार्ह॑पत्य उप॒वपे॑द् , अ॒स्मिल्ँ लो॒के +++(यजमानः)+++ प॑शु॒मान्त् स्यात् ।
यदा॑हव॒नीये॒ ऽमुष्मिल्ँ॑ लो॒के प॑शु॒मान्त्स्या॑त् ।
उ॒भयो॒र् उप॑ वपति ।
उ॒भयो॑रे॒वैनल्ँ॑ लो॒कयोः॑ पशु॒मन्त॑ङ् करोति +++(यजमानम्।)+++॥ [58]
पद-पाठः
अ॒स्मै । वै । लो॒काय॑ । गार्ह॑पत्य॒ इति॒ गार्ह॑-प॒त्यः॒ । एति॑ । धी॒य॒ते॒ । अ॒मुष्मै॑ । आ॒ह॒व॒नीय॒ इत्या॑-ह॒व॒नीयः॑ ।
यत् । गार्ह॑पत्य॒ इति॒ गार्ह॑-प॒त्ये॒ । उ॒प॒वपे॒दित्यु॑प-वपे॑त् । अ॒स्मिन् । लो॒के । प॒शु॒मानिति॑ पशु-मान् । स्या॒त् ।
यत् । आ॒ह॒व॒नीय॒ इत्या॑-ह॒व॒नीये॑ । अ॒मुष्मि॑न् । लो॒के । प॒शु॒मानिति॑ पशु-मान् । स्या॒त् ।
उ॒भयोः॑ । उपेति॑ । व॒प॒ति॒ ।
उ॒भयोः॑ । ए॒व । ए॒न॒म् । लो॒कयोः॑ । प॒शु॒मन्त॒मिति॑ पशु-मन्त॑म् । क॒रो॒ति॒ ॥ [58]
भट्टभास्कर-टीका
11अस्मा इत्यादि ॥ अस्मै लोकाय अस्मिन् लोके यदीप्सितं तत्सिद्धये हेतुः गार्हपत्य आधीयते उत्पाद्यते । ‘गृहपतिना संयुक्ते ञः’ इति ञः । अमुष्मै आमुष्मिकफलसिद्धये आहवनीयः आधीयते । आहूयतेऽस्मिन्नित्याहवनीयः, ‘कृत्यल्युटो बहुलम्’ इत्यधिकरणे अनीयर्, ‘उपोत्तमं रिति’ इत्युपोत्तमस्योदात्त- त्वम् । यदित्यादि । यदि गार्हपत्य एवेपवपेत्पदपांसून्, अस्मिन्नेव लोके पशुमांत्स्याद्यजमानः । ‘ह्रस्वनुड्भ्यां मतुप्’, इति मतुप उदात्तत्वम् । यद्याहवनीय एव, अमुष्मिन्नेव पशुमांत्स्यात् । तस्मादुभयोरुपवपतीति विधिः । उभयोर्लोकयोरेन यजमानं पशुमन्तं करोतीति ॥
इति षष्ठे प्रथमे अष्टमोनुवाकः ॥