०७ सोमक्रयप्रकारः ...{Loading}...
सोमऋषिः
मूलम् (संयुक्तम्)
तद्धिर॑ण्यमभव॒त्तस्मा॑द॒द्भ्यो हिर॑ण्यम्पुनन्ति
विश्वास-प्रस्तुतिः
तद्धिर॑ण्यम् अभवत् । तस्मा॑द् अ॒द्भ्यो हिर॑ण्यम् पुनन्ति ।
मूलम्
तद्धिर॑ण्यम् अभवत् । तस्मा॑द् अ॒द्भ्यो हिर॑ण्यम् पुनन्ति ।
पद-पाठः
तत् । हिर॑ण्यम् । अ॒भ॒व॒त् ।
तस्मा॑त् । अ॒द्भ्य इत्य॑त्-भ्यः । हिर॑ण्यम् । पु॒न॒न्ति॒ ।
भट्टभास्कर-टीका
1स्रुक्स्थे घृते हिरण्यमवधायाहवनीये होष्यतो हिरण्यं विशिष्टोत्पत्तितया स्तौति - तद्धिरण्यमभवदिति ॥ अत्र तदित्यस्य साकांक्षत्वाद्ब्राह्मणशेषेणास्य भवितव्यम् । कः पुनस्सः? उच्यते - ‘आपो वरुणस्य पत्नय आसन्’ इति । वरुणस्य पत्नीरपोग्निरभ्यध्यायत् अकामयत । ततस्तास्समभवत् मिथुनीभूयाभुङ्क्त । तस्याग्नेः रेतः परापतत् । तद्धिरण्यमभवदिति ब्राह्मणान्तरप्रसिद्धां हिरण्योत्पत्तिं बोधयितुं तत्रस्थं पदत्रयमुपादत्ते - तस्मादिति । यस्मादप्सु हिरण्यमुत्पन्नं, तस्मादद्भ्यो हिरण्यं पुनन्ति शोधयन्ति न भस्मादिना । ‘सुपां सुपो भवन्ति’ इति तृतीयार्थे पञ्चमी, हेतौ वा । ‘ऊडिदम्’ इति भ्यस उदात्तत्वम् ॥
मूलम् (संयुक्तम्)
ब्रह्मवा॒दिनो॑ वदन्ति॒ कस्मा॑त्स॒त्याद॑न॒स्थिके॑न प्र॒जाᳶ प्र॒वीय॑न्तेऽस्थ॒न्वती॑र्जायन्त॒ इति॒
विश्वास-प्रस्तुतिः
ब्र॒ह्म॒वा॒दिनो॑ वदन्ति॒ -
“कस्मा॑त् स॒त्याद् अ॑न॒स्थिके॑न प्र॒जाᳶ प्र॒वीय॑न्ते ऽस्थ॒न्वती॑र् जायन्त॒” इति॑ ।
मूलम्
ब्र॒ह्म॒वा॒दिनो॑ वदन्ति॒ -
“कस्मा॑त् स॒त्याद् अ॑न॒स्थिके॑न प्र॒जाᳶ प्र॒वीय॑न्ते ऽस्थ॒न्वती॑र् जायन्त॒” इति॑ ।
पद-पाठः
ब्र॒ह्म॒वा॒दिन॒ इति॑ ब्रह्म-वा॒दिनः॑ । व॒द॒न्ति॒ ।
कस्मा॑त् । स॒त्यात् । अ॒न॒स्थिके॑न । प्र॒जा इति॑ प्र-जाः । प्र॒वीय॑न्त॒ इति॑ प्र-वीय॑न्ते । अ॒स्थ॒न्वती॒रित्य॑स्थन्न्-वतीः॑ । जा॒य॒न्ते॒ । इति॑ ।
भट्टभास्कर-टीका
2ब्रह्मवादिन इति ॥ कस्मात्कारणात् अनस्थिकेन अस्थिरहितेन प्रजनेन प्रजाः प्रवीयन्ते गर्भार्थमन्तः प्रक्षिप्यन्ते । वेतिः प्रजननकर्मा । प्रजननो गर्भग्रहणम् । ‘नञ्सुभ्याम्’ इत्युत्तरपदान्तोदात्तत्वम् । अस्थन्वतीः अस्थिमत्यः जायन्ते प्रजाः इति प्रश्नं वदन्ति ब्रह्मवादिनः । ‘छन्दस्यपि दृश्यते’ इत्यनञ्, ‘अनो नुट्’, ‘ह्रस्वनुङ्भ्यां मतुप्’ इति मतुप उदात्तत्वम्, ‘वा छन्दसि’ इति पूर्वसवर्णदीर्घत्वम् ॥
मूलम् (संयुक्तम्)
यद्धिर॑ण्यङ्घृ॒ते॑ऽव॒धाय॑ जु॒होति॒ तस्मा॑दन॒स्थिके॑न प्र॒जाᳶ प्र वी॑यन्तेऽस्थ॒न्वती॑र्जायन्त
विश्वास-प्रस्तुतिः
यद्धिर॑ण्यङ् घृ॒ते॑ऽव॒धाय॑ जु॒होति॒ , तस्मा॑द् अन॒स्थिके॑न प्र॒जाᳶ प्र वी॑यन्तेऽस्थ॒न्वती॑र्जायन्त।
मूलम्
यद्धिर॑ण्यङ् घृ॒ते॑ऽव॒धाय॑ जु॒होति॒ , तस्मा॑द् अन॒स्थिके॑न प्र॒जाᳶ प्र वी॑यन्तेऽस्थ॒न्वती॑र्जायन्त।
पद-पाठः
यत् । हिर॑ण्यम् । घृ॒ते । अ॒व॒धायेत्य॑व-धाय॑ । जु॒होति॑ ।
तस्मा॑त् । अ॒न॒स्थिके॑न । प्र॒जा इति॑ प्र-जाः । प्रेति॑ । वी॒य॒न्ते॒ । अ॒स्थ॒न्वती॒रित्य॑स्थन्न्-वतीः॑ । जा॒य॒न्ते॒ ।
भट्टभास्कर-टीका
3अत्रोत्तरं - यदित्यादि ॥ यस्मात्कारणाद्धिरण्यं रेतस्थानीयं घृते प्रजननस्थानीये अवधाय जुहोति तस्मादेतदेवं भवति ॥
मूलम् (संयुक्तम्)
ए॒तद्वा अ॒ग्नेᳶ प्रि॒यन्धाम॒ यद्घृ॒तन्तेजो॒ हिर॑ण्यमि॒यन्ते॑ शुक्र त॒नूरि॒दव्ँवर्च॒ इत्या॑ह॒ सते॑जसमे॒वैनँ॒ सत॑नुम् [46]
क॒रो॒त्यथो॒ सम्भ॑रत्ये॒वैनय्ँ॒
विश्वास-प्रस्तुतिः
ए॒तद्वा अ॒ग्नेᳶ प्रि॒यन्धाम॒ यद्घृ॒तन् तेजो॒ हिर॑ण्यम् ।
“इ॒यन्ते॑ शुक्र त॒नूर् , इ॒दव्ँ वर्च॒” इत्या॑ह ।
सते॑जसम् ए॒वैनँ॒ सत॑नुङ्करोति । [46]
अथो॒ सम्भ॑रत्ये॒वैन॑म् ।
मूलम्
ए॒तद्वा अ॒ग्नेᳶ प्रि॒यन्धाम॒ यद्घृ॒तन् तेजो॒ हिर॑ण्यम् ।
“इ॒यन्ते॑ शुक्र त॒नूर् , इ॒दव्ँ वर्च॒” इत्या॑ह ।
सते॑जसम् ए॒वैनँ॒ सत॑नुङ्करोति । [46]
अथो॒ सम्भ॑रत्ये॒वैन॑म् ।
पद-पाठः
ए॒तत् । वै । अ॒ग्नेः । प्रि॒यम् । धाम॑ ।
यत् । घृ॒तम् । तेजः॑ । हिर॑ण्यम् ।
इ॒यम् । ते॒ । शु॒क्र॒ । त॒नूः । इ॒दम् । वर्चः॑ । इति॑ । आ॒ह॒ ।
सते॑जस॒मिति॒ स-ते॒ज॒स॒म् । ए॒व । ए॒न॒म् । सत॑नु॒मिति॒ स-त॒नु॒म् । [46] क॒रो॒ति॒ ।
अथो॒ इति॑ । समिति॑ । भ॒र॒ति॒ । ए॒व । ए॒न॒म् ।
भट्टभास्कर-टीका
4इदानीं ‘इयं ते शुक्र तनूः’ इति हिरण्यावधानमन्त्रं व्याख्यातुमाह - एतदिति ॥ यद्घृतं नाम एतत् अग्नेः प्रिया इष्टा तनूः । हिरण्यं नामाग्नेस्तेजः । तस्मात् ‘इयं ते शुक्र तनूः’ इत्यादि यदाह, तेन हेतुना एनमग्निं सतेजसं तेजसा युक्तं सतनुं शरीरयुक्तं च करोति । ‘तेन सहेति तुल्ययोगे’ इति बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम् । अथो अपि च सम्भरत्येवैनं एनद्धिरण्यं तेजोरूपं शरीरेणैकीकरोति यद्घृते हिरण्यमवदधाति, यद्वा ‘तया संभव’ इति मन्त्र आह । अत्र मन्त्रे हिरण्यस्य शुक्रं तनूरुच्यते घृतं तेजः । ब्राह्मणे तु अग्नेर्घृतं तनूः, हिरण्यं तेजः । ततः अग्नेः तत्तेजसश्च हिरण्यस्याभेदविवक्षया मन्त्रब्राह्मणयोर्विरोधः परिहार्यः ॥
मूलम् (संयुक्तम्)
यदब॑द्धमवद॒ध्याद्गर्भा॑ᳶ प्र॒जाना॑म्परा॒पातु॑कास्स्युर्ब॒द्धमव॑ दधाति॒ गर्भा॑णा॒न्धृत्यै॑
विश्वास-प्रस्तुतिः
यदब॑द्धमवद॒ध्याद् गर्भा॑ᳶ प्र॒जाना॑म् परा॒पातु॑कास् स्युः ।
ब॒द्धमव॑ दधाति॒ , गर्भा॑णा॒न् धृत्यै॑ ।
मूलम्
यदब॑द्धमवद॒ध्याद् गर्भा॑ᳶ प्र॒जाना॑म् परा॒पातु॑कास् स्युः ।
ब॒द्धमव॑ दधाति॒ , गर्भा॑णा॒न् धृत्यै॑ ।
पद-पाठः
यत् । अब॑द्धम् । अ॒व॒द॒ध्यादित्य॑व-द॒ध्यात् । गर्भाः॑ । प्र॒जाना॒मिति॑ प्र-जाना॑म् । प॒रा॒पातु॑का॒ इति॑ परा-पातु॑काः । स्युः॒ ।
ब॒द्धम् । अवेति॑ । द॒धा॒ति॒ । गर्भा॑णाम् । धृत्यै॑ ।
भट्टभास्कर-टीका
5यदबद्धमित्यादि ॥ यदि हिरण्यं सूत्रेणाबद्धं हि स्रुच्यवदध्यात् प्रजानां गर्भाः परापातुकाः परापतनशीलास्स्युः । गर्भस्थानीयस्य हिरण्यस्यावद्धत्वात् । ‘लषपत ’ इत्यादिना उकञ्, कृदुत्तरपदप्रकृतिस्वरत्वम् । तस्माद्बद्धमवदधातीति विधिः । बद्धं हिरण्यं सुच्यवदधाति गर्भाणां धृत्यै धारणाय भवति ॥
मूलम् (संयुक्तम्)
निष्ट॒र्क्य॑म्बध्नाति प्र॒जाना॑म्प्र॒जन॑नाय॒
विश्वास-प्रस्तुतिः
नि॒ष्ट॒र्क्य॑म् बध्नाति , प्र॒जाना॑म् प्र॒जन॑नाय ।
मूलम्
नि॒ष्ट॒र्क्य॑म् बध्नाति , प्र॒जाना॑म् प्र॒जन॑नाय ।
पद-पाठः
नि॒ष्ट॒र्क्य॑म् । ब॒ध्ना॒ति॒ ।
प्र॒जाना॒मिति॑ प्र-जाना॑म् । प्र॒जन॑ना॒येति॑ प्र-जन॑नाय ।
भट्टभास्कर-टीका
6निष्टर्क्यं बध्नातीति विधिः ॥ संबद्ध्य पाशं अमुक्त्वैव ग्रन्थिमाकृष्टे मुच्यते [तथा] बध्नाति । ‘छन्दसि निष्टर्क्य’ इति कृत्ये ण्यति निपात्यते । ‘निष्टर्क्ये व्यत्ययं विद्यान्निसष्षत्वं निपातनात्’ इति । एवं बद्धं प्रजानां प्रजननाय भवति । अन्यथा अनुत्पत्तिस्स्यात् ॥
मूलम् (संयुक्तम्)
वाग्वा ए॒षा यत्सो॑म॒क्रय॑णी॒ जूर॒सीत्या॑ह॒ यद्धि मन॑सा॒ जव॑ते॒ तद्वा॒चा वद॑ति धृ॒ता मन॒सेत्या॑ह॒ मन॑सा॒ हि वाग्धृ॒ता जुष्टा॒
विश्वास-प्रस्तुतिः
वाग्वा ए॒षा यत्सो॑म॒क्रय॑णी । “जूर॑सी"त्या॑ह । यद्धि मन॑सा॒ जव॑ते॒ , तद् वा॒चा वद॑ति । धृ॒ता मन॒सेत्या॑ह॒ मन॑सा॒ हि वाग्धृ॒ता जुष्टा॑ ।
मूलम्
वाग्वा ए॒षा यत्सो॑म॒क्रय॑णी । “जूर॑सी"त्या॑ह । यद्धि मन॑सा॒ जव॑ते॒ , तद् वा॒चा वद॑ति । धृ॒ता मन॒सेत्या॑ह॒ मन॑सा॒ हि वाग्धृ॒ता जुष्टा॑ ।
पद-पाठः
वाक् । वै । ए॒षा । यत् । सो॒म॒क्रय॒णीति॑ सोम-क्रय॑णी ।
जूः । अ॒सि॒ । इति॑ । आ॒ह॒ ।
यत् । हि । मन॑सा । जव॑ते । तत् । वा॒चा । वद॑ति ।
धृ॒ता । मन॑सा । इति॑ । आ॒ह॒ ।
मन॑सा । हि । वाक् । धृ॒ता । जुष्टा॑ ।
भट्टभास्कर-टीका
7अत्राहवनीये ‘जूरसि’ इति हूयते । अनेन मन्त्रेण सोमक्रयणी प्रतिपाद्यते दति दर्शयितुमाह - वाग्वा इत्यादि ॥ वाचा हि सोमं देवा निरक्रीणन् । तस्माद्वाक् सोमक्रयणी । सोमः क्रीयते अनयेति करणे ल्युट्, कृदुत्तरपदप्रकृतिस्वरत्वम्, तेन लित्स्वरः । तस्मादेनां वाग्रूपेण वर्णयन्तीति ब्राह्मणाभिप्रायः । एतदेव प्रकटयति - जूरसीत्यादि । यद्धि मनसा जवते गच्छति तद्वाचा वदति । मनसो जवः पाटवम् । यतो जवं करोति तस्मात् जूरिति मन उच्यते, प्रत्यर्थं गन्तृ इत्यर्थः । जोर्गतिकर्मणः ‘क्विब्वचि’ इत्यादिना क्विब्दीर्घौ । यस्मादेवं तस्माज्जूरसीति सोमक्रयणीं मन्त्र आहेत्यर्थः । धृता मनसेति । यस्मान्मनसा वाग्धृता तदिच्छातस्तत्प्रवृत्तेः तस्माद्धृता मनसेति सोमक्रयाणीमाह ॥
मूलम् (संयुक्तम्)
विष्ण॑व॒ इत्या॑ह [47]
य॒ज्ञो वै विष्णु॑र्य॒ज्ञायै॒वैना॒ञ्जुष्टा॑ङ्करोति॒ तस्या॑स्ते स॒त्यस॑वसᳶ प्रस॒व इत्या॑ह सवि॒तृप्र॑सूतामे॒व वाच॒मव॑ रुन्द्धे॒
विश्वास-प्रस्तुतिः
विष्ण॑व॒ इत्या॑ह ।[47]
य॒ज्ञो वै विष्णुः॑ ।
य॒ज्ञायै॒वैना॒ञ् जुष्टा॑ङ्करोति ।
तस्या॑स् ते स॒त्यस॑वसᳶ प्रस॒व इत्या॑ह ।
स॒वि॒तृ॒प्र॑सूताम् ए॒व वाच॒मव॑ रुन्धे ।
मूलम्
विष्ण॑व॒ इत्या॑ह ।[47]
य॒ज्ञो वै विष्णुः॑ ।
य॒ज्ञायै॒वैना॒ञ् जुष्टा॑ङ्करोति ।
तस्या॑स् ते स॒त्यस॑वसᳶ प्रस॒व इत्या॑ह ।
स॒वि॒तृ॒प्र॑सूताम् ए॒व वाच॒मव॑ रुन्धे ।
पद-पाठः
विष्ण॑वे । इति॑ । आ॒ह॒ । [47]
य॒ज्ञः । वै । विष्णुः॑ ।
य॒ज्ञाय॑ । ए॒व । ए॒ना॒म् । जुष्टा॑म् । क॒रो॒ति॒ ।
तस्याः॑ । ते॒ । स॒त्यस॑वस॒ इति॑ स॒त्य-स॒व॒सः॒ । प्र॒स॒व इति॑ प्र-स॒वे । इति॑ । आ॒ह॒ ।
स॒वि॒तृप्र॑सूता॒मिति॑ सवि॒तृ-प्र॒सू॒ता॒म् । ए॒व । वाच॑म् । अवेति॑ । रु॒न्द्धे॒ ।
भट्टभास्कर-टीका
8विष्णव इति ॥ व्यापकत्वाद्यज्ञ उच्यते । तस्यास्त इति । सत्यसवास्सविता, तस्य प्रसवे अनुज्ञाता[या]मिति यदाह तस्मात्सवितृप्रसूतां सवित्राऽनुज्ञातां वाचमवरुन्धे । ‘तृतीया कर्मणि’ इति पूर्वपदप्रकृतिस्वरत्वम् ॥
मूलम् (संयुक्तम्)
काण्डे॑काण्डे॒ वै क्रि॒यमा॑णे य॒ज्ञँ रक्षाँ॑सि जिघाँसन्त्ये॒ष खलु॒ वा अर॑क्षोहत॒ᳶ पन्था॒ यो॑ऽग्नेश्च॒ सूर्य॑स्य च॒ सूर्य॑स्य॒ चक्षु॒रारु॑हम॒ग्नेर॒क्ष्णᳵ क॒नीनि॑का॒मित्या॑ह॒ य ए॒वार॑क्षोहत॒ᳶ पन्था॒स्तँ स॒मारो॑हति [48]
विश्वास-प्रस्तुतिः
काण्डे॑काण्डे॒ वै क्रि॒यमा॑णे य॒ज्ञँ रक्षाँ॑सि जिघाँसन्ति ।
ए॒ष खलु॒ वा अर॑क्षोहत॒ᳶ पन्था॒ यो॑ऽग्नेश्च॒ सूर्य॑स्य च ।
“सूर्य॑स्य॒ चक्षु॒रारु॑हम् अ॒ग्नेर॒क्ष्णᳵ क॒नीनि॑का॒मि"त्या॑ह ।
य ए॒वार॑क्षोहत॒ᳶ पन्था॒स्तँ स॒मारो॑हति [48]।
मूलम्
काण्डे॑काण्डे॒ वै क्रि॒यमा॑णे य॒ज्ञँ रक्षाँ॑सि जिघाँसन्ति ।
ए॒ष खलु॒ वा अर॑क्षोहत॒ᳶ पन्था॒ यो॑ऽग्नेश्च॒ सूर्य॑स्य च ।
“सूर्य॑स्य॒ चक्षु॒रारु॑हम् अ॒ग्नेर॒क्ष्णᳵ क॒नीनि॑का॒मि"त्या॑ह ।
य ए॒वार॑क्षोहत॒ᳶ पन्था॒स्तँ स॒मारो॑हति [48]।
पद-पाठः
काण्डे॑काण्ड॒ इति॒ काण्डे॑-का॒ण्डे॒ । वै । क्रि॒यमा॑णे । य॒ज्ञम् । रक्षाँ॑सि । जि॒घाँ॒स॒न्ति॒ ।
ए॒षः । खलु॑ । वै । अर॑क्षोहत॒ इत्यर॑क्षः-ह॒तः॒ । पन्थाः॑ । यः । अ॒ग्नेः । च॒ । सूर्य॑स्य । च॒ ।
सूर्य॑स्य । चक्षुः॑ । एति॑ । अ॒रु॒ह॒म् । अ॒ग्नेः । अ॒क्ष्णः । क॒नीनि॑काम् । इति॑ । आ॒ह॒ ।
यः । ए॒व । अर॑क्षोहत॒ इत्यर॑क्षः-ह॒तः॒ । पन्थाः॑ । तम् । स॒मारो॑ह॒तीति॑ सम्-आरो॑हति । [48]
भट्टभास्कर-टीका
9हिरण्यमन्तर्धाय यजमानमादित्यमुद्वीक्षयति - सूर्यस्येति ॥ तदभिप्रायमाह - काण्डेकाण्डे इति ॥ काण्डं पर्व अवयव इति पर्यायाः । सर्वस्मिन् यज्ञावयवे क्रियमाणे आरभ्यमाणे यज्ञं रक्षांसि हन्तुमिच्छन्ति । तस्मादनेनारक्षोहतं पन्थानमारूढेन वर्तितव्यमित्याह - एष खल्विति । अरक्षोहतः रक्षोभिरहतः हन्तुमशक्यः अग्नेश्च सूर्यस्य च पन्थाः । तस्मादयं ‘सूर्यस्य चक्षुरारुहम्’ इत्याद्याह । तेनारक्षोहतं पन्थानमारूढो भवति यथा रक्षोभिर्न बाध्यते । सूर्यस्य संबन्धि सर्वेषां चक्षुस्थानीयं अग्नेरक्ष्णः कनीनिकास्थानीयं मण्डलमारूढोस्मीति मण्डलान्तर्गतेन पुरुषेण सह स्वात्मन एकीभावभावनया न केन चिदपि बाध्यते इति मन्त्रेण प्रतिपाद्यते इति ब्राह्मणाभिप्रायः । मण्डलरेरवाऽरक्षोहतः पन्थाः, तद्धि सूर्येणाग्निना चारूढः पन्था इति । यथा ‘उद्यन्तं वावादित्यमग्निरनु समारोहति’ इति ॥
मूलम् (संयुक्तम्)
वाग्वा ए॒षा यत्सो॑म॒क्रय॑णी॒ चिद॑सि म॒नाऽसीत्या॑ह॒ शास्त्ये॒वैना॑मे॒तत्तस्मा॑च्छि॒ष्टाᳶ प्र॒जा जा॑यन्ते॒
विश्वास-प्रस्तुतिः
वाग्वा ए॒षा यत्सो॑म॒क्रय॑णी ।
“चिद॑सि म॒नाऽसी"त्या॑ह ।
शास्त्य् ए॒वैना॑मे॒तत् ।
तस्मा॑च् छि॒ष्टाᳶ प्र॒जा जा॑यन्ते ।
मूलम्
वाग्वा ए॒षा यत्सो॑म॒क्रय॑णी ।
“चिद॑सि म॒नाऽसी"त्या॑ह ।
शास्त्य् ए॒वैना॑मे॒तत् ।
तस्मा॑च् छि॒ष्टाᳶ प्र॒जा जा॑यन्ते ।
पद-पाठः
वाक् । वै । ए॒षा । यत् । सो॒म॒क्रय॒णीति॑ सोम-क्रय॑णी ।
चित् । अ॒सि॒ । म॒ना । अ॒सि॒ । इति॑ । आ॒ह॒ ।
शा॒स्ति॒ । ए॒व । ए॒ना॒म् । ए॒तत् ।
तस्मा॑त् । शि॒ष्टाः । प्र॒जा इति॑ प्र-जाः । जा॒य॒न्ते॒ ।
भट्टभास्कर-टीका
10अथ सोमक्रयण्यनुमन्त्र्यते - चिदिति ॥ तत्र वाग्रूपेण सोमक्रयणी वर्ण्यते इति प्रतिपादयितुमाह - वाग्वा इत्यादि । यथोक्तं ‘ते वाचं स्त्रियम्’ इत्यादि । चिदसि मनाऽसीत्याहेति । ‘चिदसि’ इत्यारभ्य ‘पुनरेहि सह रय्या’ इत्यन्तं यदाह एतदेनां सोमक्रयणीं वाग्रूपां शास्ति शिक्षयति ईदृशी त्वमसि, इत्थं त्वया कर्तव्यमिति बोधयति । यद्वा - एतस्मिन् काले यज्ञे एवैनां शास्ति । सप्तम्या अलुक् । तस्मात् शिष्टाः शिक्षिता एव प्रजा जायन्ते ॥
मूलम् (संयुक्तम्)
चिद॒सीत्या॑ह॒ यद्धि मन॑सा चे॒तय॑ते॒ तद्वा॒चा वद॑ति म॒नाऽसीत्या॑ह॒ यद्धि मन॑साभि॒गच्छ॑ति॒ तत्क॒रोति॒ धीर॒सीत्या॑ह॒ यद्धि मन॑सा॒ ध्याय॑ति॒ तद्वा॒चा [49]
वद॑ति॒ दक्षि॑णा॒सीत्या॑ह॒ दक्षि॑णा॒ ह्ये॑षा य॒ज्ञिया॒सीत्या॑ह य॒ज्ञिया॑मे॒वैना॑ङ्करोति क्ष॒त्रिया॒सीत्या॑ह क्ष॒त्रिया॒ ह्ये॑षादि॑तिरस्युभ॒यत॑श्शी॒र्ष्णीत्या॑ह॒ यदे॒वादि॒त्यᳶ प्रा॑य॒णीयो॑ य॒ज्ञाना॑मादि॒त्य उ॑दय॒नीय॒स्तस्मा॑दे॒वमा॑ह॒
विश्वास-प्रस्तुतिः
“चिद॑सी"त्या॑ह ।
यद्धि मन॑सा चे॒तय॑ते॒ , तद् वा॒चा वद॑ति ।
“म॒नाऽसी"त्या॑ह ।
यद्धि मन॑साऽभि॒गच्छ॑ति॒ , तत् क॒रोति॑ ।
“धीर॑सी"त्या॑ह ।
यद्धि मन॑सा॒ ध्याय॑ति॒ तद् वा॒चा वद॑ति [49]।
“दक्षि॑णाऽसी"त्या॑ह ।
दक्षि॑णा॒ ह्ये॑षा ।
“य॒ज्ञिया॒सी"त्या॑ह ।
य॒ज्ञिया॑म् ए॒वैना॑ङ्करोति ।
“क्ष॒त्रिया॑ऽसी"त्या॑ह ।
क्ष॒त्रिया॒ ह्ये॑षाऽदि॑तिरस्य् उभ॒यतः॑ ।
शी॒र्ष्णीत्या॑ह ।
यदे॒वादि॒त्यᳶ प्रा॑य॒णीयो॑ य॒ज्ञाना॑मादि॒त्य उ॑दय॒नीय॒स् तस्मा॑दे॒वमा॑ह ।
मूलम्
“चिद॑सी"त्या॑ह ।
यद्धि मन॑सा चे॒तय॑ते॒ , तद् वा॒चा वद॑ति ।
“म॒नाऽसी"त्या॑ह ।
यद्धि मन॑साऽभि॒गच्छ॑ति॒ , तत् क॒रोति॑ ।
“धीर॑सी"त्या॑ह ।
यद्धि मन॑सा॒ ध्याय॑ति॒ तद् वा॒चा वद॑ति [49]।
“दक्षि॑णाऽसी"त्या॑ह ।
दक्षि॑णा॒ ह्ये॑षा ।
“य॒ज्ञिया॒सी"त्या॑ह ।
य॒ज्ञिया॑म् ए॒वैना॑ङ्करोति ।
“क्ष॒त्रिया॑ऽसी"त्या॑ह ।
क्ष॒त्रिया॒ ह्ये॑षाऽदि॑तिरस्य् उभ॒यतः॑ ।
शी॒र्ष्णीत्या॑ह ।
यदे॒वादि॒त्यᳶ प्रा॑य॒णीयो॑ य॒ज्ञाना॑मादि॒त्य उ॑दय॒नीय॒स् तस्मा॑दे॒वमा॑ह ।
पद-पाठः
चित् । अ॒सि॒ । इति॑ । आ॒ह॒ । यत् । हि । मन॑सा । चे॒तय॑ते । तत् । वा॒चा । वद॑ति ।
म॒ना । अ॒सि॒ । इति॑ । आ॒ह॒ ।
यत् । हि । मन॑सा । अ॒भि॒गच्छ॒तीत्य॑भि-गच्छ॑ति । तत् । क॒रोति॑ ।
धीः । अ॒सि॒ । इति॑ । आ॒ह॒ । यत् । हि । मन॑सा । ध्याय॑ति । तत् । वा॒चा । [49] वद॑ति ।
दक्षि॑णा । अ॒सि॒ । इति॑ । आ॒ह॒ ।
दक्षि॑णा । हि । ए॒षा ।
य॒ज्ञिया॑ । अ॒सि॒ । इति॑ । आ॒ह॒ । य॒ज्ञिया॑म् । ए॒व । ए॒ना॒म् । क॒रो॒ति॒ ।
क्ष॒त्रिया॑ । अ॒सि॒ । इति॑ । आ॒ह॒ । क्ष॒त्रिया॑ । हि । ए॒षा ।
अदि॑तिः । अ॒सि॒ । उ॒भ॒यत॑श्शी॒र्ष्णीत्यु॑भ॒यतः॑-शी॒र्ष्णी॒ । इति॑ । आ॒ह॒ ।
यत् । ए॒व । आ॒दि॒त्यः । प्रा॒य॒णीय॒ इति॑ प्र-अ॒य॒नीयः॑ । य॒ज्ञाना॑म् । आ॒दि॒त्यः । उ॒द॒य॒नीय॒ इत्यु॑त्-अ॒य॒नीयः॑ । तस्मा॑त् । ए॒वम् । आ॒ह॒ ।
भट्टभास्कर-टीका
11इदानीं शिक्षाविशेषानेकैकशः आचष्टे - चिदसीत्याहेति ॥ मनसा चेतनीयं ज्ञातव्यं हि वाचा वदति, तस्माच्चित्कार्यत्वात् चिदिति वागुच्यते । मनसा चेतनीयाभावे वाचोनुत्पत्तेः । तस्माच्चिदसीति वाग्धर्मेण सोमक्रयण्युच्यते । मनाऽसीत्याहेति । यद्धि मनसाऽभिगच्छति अध्यवस्यति तत्करोति वदतीत्यर्थः । कर्मेन्द्रियत्वादेवमुक्तम् । इन्द्रियकार्यत्वान्मनेति वागुच्यते । धीरिति । यन्मनसा ध्यायति प्रजानाति तद्वाचा वदति । तस्माद्धीकार्यत्वाद्धीरित्युच्यते । एवं चिच्चेत्यचित्तत्रितयात्मना वर्तमानत्व[नस्त्व]मेव यागं निर्वर्तयसीति स्तुतिः । दक्षिणा शीघ्रकारिणी ह्येषा । यद्वा - दानसामान्यात् दक्षिणोक्ता । यज्ञियां यज्ञार्हामेनां करोति यज्ञकर्मार्हाम् । ‘यज्ञर्त्विग्भ्यां तत्कर्मार्हति’ इति यः । क्षत्रियेति । क्षतात्त्राणसमर्थे बले भवा यज्ञद्वारेणापत्यत्वविवक्षया ‘तत्राद्घः’ । अदितिरस्युभयतश्शीर्ष्णी यस्मादादित्यः अदितिदेवत्यः प्रायाणीयश्चोदयनीयश्च यज्ञानाम् । तस्मादेवमुभयतश्शीर्ष्णीत्येतामाह । उभयतो यज्ञानामाद्यन्तयोः शिरस्स्थानीयौ प्रायणीयोदयनीयाख्यौ चरू यस्यास्सा तथोक्तेति ॥
मूलम् (संयुक्तम्)
यदब॑द्धा॒ स्यादय॑ता स्या॒द्यत्प॑दिब॒द्धानु॒स्तर॑णी स्यात्प्र॒मायु॑को॒ यज॑मानस्स्यात् [50]
यत्क॑र्णगृही॒ता वार्त्र॑घ्नी स्या॒त्स वा॒न्यञ्जि॑नी॒यात्तव्ँवा॒न्यो जि॑नीयान्मि॒त्रस्त्वा॑ प॒दि ब॑ध्ना॒त्वित्या॑ह मि॒त्रो वै शि॒वो दे॒वाना॒न्तेनै॒वैना॑म्प॒दि ब॑ध्नाति पू॒षाध्व॑नᳶ पा॒त्वित्या॑हे॒यव्ँ वै पू॒षेमामे॒वास्या॑ अधि॒पाम॑क॒स्सम॑ष्ट्या॒ इन्द्रा॒याध्य॑क्षा॒येत्या॒हेन्द्र॑मे॒वास्या॒ अध्य॑क्षङ्करोति [51]
अनु॑ त्वा मा॒ता म॑न्यता॒मनु॑ पि॒तेत्या॒हानु॑मतयै॒वैन॑या क्रीणाति॒ सा दे॑वि दे॒वमच्छे॒हीत्या॑ह दे॒वी ह्ये॑षा दे॒वस्सोम॒ इन्द्रा॑य॒ सोम॒मित्या॒हेन्द्रा॑य॒ हि सोम॑ आह्रि॒यते॒
विश्वास-प्रस्तुतिः
यदब॑द्धा॒ स्यादय॑ता स्यात् ।
यत् प॑दिब॒द्धा +++(स्यात्)+++, ऽनु॒स्तर॑णी स्यात् ।
प्र॒मायु॑को॒ यज॑मानस् स्यात् ।[50]
मूलम्
यदब॑द्धा॒ स्यादय॑ता स्यात् ।
यत् प॑दिब॒द्धा +++(स्यात्)+++, ऽनु॒स्तर॑णी स्यात् ।
प्र॒मायु॑को॒ यज॑मानस् स्यात् ।[50]
पद-पाठः
यत् । अब॑द्धा । स्यात् । अय॑ता । स्या॒त् ।
यत् । प॒दि॒ब॒द्धेति॑ पदि-ब॒द्धा । अ॒नु॒स्तर॒णीत्य॑नु-स्तर॑णी । स्या॒त् ।
प्र॒मायु॑क॒ इति॑ प्र-मायु॑कः । यज॑मानः । स्या॒त् । [50]
भट्टभास्कर-टीका
12यदित्यादि ॥ यदि नयनकाले एकहायनी अबद्धा स्यात् अयता अनियमिता स्यात् । उभयत्राप्यव्ययपूर्वपदप्रकृतिस्वरत्वम् । यदि पदिबद्धा पादेन वद्धा स्यात्, अनुस्तरणी स्यादित्यादि । व्याख्यातम् । ‘तत्पुरुषे कृति बहुलम्’ इत्यलुक्, ‘पद्दन्’ इति पद्भावः ।
विश्वास-प्रस्तुतिः
यत् क॑र्णगृही॒ता +++(स्यात्)+++, वार्त्र॑घ्नी स्यात् ।
स वा॒ऽन्यञ् जि॑नी॒यात् , तव्ँ वा॒ऽन्यो जि॑नीयात् ।
मूलम्
यत् क॑र्णगृही॒ता +++(स्यात्)+++, वार्त्र॑घ्नी स्यात् ।
स वा॒ऽन्यञ् जि॑नी॒यात् , तव्ँ वा॒ऽन्यो जि॑नीयात् ।
पद-पाठः
यत् । क॒र्ण॒गृ॒ही॒तेति॑ कर्ण-गृ॒ही॒ता । वार्त्र॒घ्नीति॒ वार्त्र॑-घ्नी॒ । स्या॒त् ।
सः । वा॒ । अ॒न्यम् । जि॒नी॒यात् । तम् । वा॒ । अ॒न्यः । जि॒नी॒या॒त् ।
भट्टभास्कर-टीका
यदि कर्णे गृहीता स्यात्, वार्त्रघ्नी स्यादित्यादि । व्याख्यातम् ।
विश्वास-प्रस्तुतिः
“मि॒त्रस्त्वा॑ प॒दि ब॑ध्ना॒त्वि"त्या॑ह ।
मि॒त्रो वै शि॒वो दे॒वाना॒न् , तेनै॒वैना॑म् प॒दि ब॑ध्नाति ।
“पू॒षाध्व॑नᳶ पा॒त्वि"त्या॑ह ।
इ॒यव्ँ वै पू॒षा ।
इ॒मामे॒वास्या॑ अधि॒पाम॑क॒स् , सम॑ष्ट्यै ।
“इन्द्रा॒याध्य॑क्षा॒ये"त्या॑ह ।
इन्द्र॑मे॒वास्या॒ अध्य॑क्षङ् करोति ।[51]
“अनु॑ त्वा मा॒ता म॑न्यता॒म् अनु॑ पि॒ते"त्या॑ह ।
अनु॑मतयै॒वैन॑या क्रीणाति ।
“सा दे॑वि दे॒वमच्छे॒ही"त्या॑ह ।
दे॒वी ह्ये॑षा दे॒वस् सोमः॑ ।
“इन्द्रा॑य॒ सोम॒मि"त्या॑ह ।
इन्द्रा॑य॒ हि सोम॑ आह्रि॒यते॑ ।
मूलम्
“मि॒त्रस्त्वा॑ प॒दि ब॑ध्ना॒त्वि"त्या॑ह ।
मि॒त्रो वै शि॒वो दे॒वाना॒न् , तेनै॒वैना॑म् प॒दि ब॑ध्नाति ।
“पू॒षाध्व॑नᳶ पा॒त्वि"त्या॑ह ।
इ॒यव्ँ वै पू॒षा ।
इ॒मामे॒वास्या॑ अधि॒पाम॑क॒स् , सम॑ष्ट्यै ।
“इन्द्रा॒याध्य॑क्षा॒ये"त्या॑ह ।
इन्द्र॑मे॒वास्या॒ अध्य॑क्षङ् करोति ।[51]
“अनु॑ त्वा मा॒ता म॑न्यता॒म् अनु॑ पि॒ते"त्या॑ह ।
अनु॑मतयै॒वैन॑या क्रीणाति ।
“सा दे॑वि दे॒वमच्छे॒ही"त्या॑ह ।
दे॒वी ह्ये॑षा दे॒वस् सोमः॑ ।
“इन्द्रा॑य॒ सोम॒मि"त्या॑ह ।
इन्द्रा॑य॒ हि सोम॑ आह्रि॒यते॑ ।
पद-पाठः
मि॒त्रः । त्वा॒ । प॒दि । ब॒ध्ना॒तु॒ । इति॑ । आ॒ह॒ ।
मि॒त्रः । वै । शि॒वः । दे॒वाना॑म् ।
तेन॑ । ए॒व । ए॒ना॒म् । प॒दि । ब॒ध्ना॒ति॒ ।
पू॒षा । अध्व॑नः । पा॒तु॒ । इति॑ । आ॒ह॒ ।
इ॒यम् । वै । पू॒षा ।
इ॒माम् । ए॒व । अ॒स्याः॒ । अ॒धि॒पामित्य॑धि-पाम् । अ॒कः॒ । सम॑ष्ट्या॒ इति॒ सम्-अ॒ष्ट्यै॒ ।
इन्द्रा॑य । अध्य॑क्षा॒येत्यधि॑-अ॒क्षा॒य॒ । इति॑ । आ॒ह॒ ।
इन्द्र॑म् । ए॒व । अ॒स्याः॒ । अध्य॑क्ष॒मित्यधि॑-अ॒क्ष॒म् । क॒रो॒ति॒ । [51]
अन्विति॑ । त्वा॒ । मा॒ता । म॒न्य॒ता॒म् । अन्विति॑ । पि॒ता । इति॑ । आ॒ह॒ । अनु॑मत॒येत्यनु॑-म॒त॒या॒ । ए॒व । ए॒न॒या॒ । क्री॒णा॒ति॒ ।
सा । दे॒वि॒ । दे॒वम् । अच्छ॑ । इ॒हि॒ । इति॑ । आ॒ह॒ ।
दे॒वी । हि । ए॒षा । दे॒वः । सोमः॑ ।
इन्द्रा॑य । सोम॑म् । इति॑ । आ॒ह॒ ।
इन्द्रा॑य । हि । सोमः॑ । आ॒ह्रि॒यत॒ इत्या॑-ह्रि॒यते॑ ।
भट्टभास्कर-टीका
तस्मात् ‘मित्रस्त्वा’ इत्यादिवचनेन देवतानां मध्ये शिवेन मित्रेणैव एनां पादे बध्नाति, तस्मादुक्तदोषाप्रसंग इत्यवयवस्तुतिः । ‘ऊडिदम्’ इति सप्तम्युदात्तत्वम् । एवं ‘पूषाऽध्वनः'36 इति मन्त्रैकदेशवचनेन पूषशब्दवाच्यां पृथिवीमेव अस्या एकहायन्याः अधिपां अधिकं पालयित्रीमकः करोति । ‘छन्दसि लुङ्लङ्लिटः’ इति लुञ्, ‘मन्त्रे घस’ इति च्लेर्लुक् । इदमोन्वादेशोनुदात्तः । अधिकं पातीति ‘आतो मनिन्’ इति विच् । एवं पूष्णा आधिपत्यकरणं समष्टयै सम्यगवाप्त्यै भवति अस्याः । अश्नोतेः क्तिनि ‘तितुत्र’ इतीट्प्रतिषेधः, ‘तादौ च’ इति गतेः प्रकृतिस्वरत्वम् । इन्द्रमेवेत्यादि । सुबोधम् । अनुमतयैव मात्रादिभिः । देवी ह्येषा सोमक्रयणी । देवस्सोमः । तस्मात्सा देवि देवमच्छेहीत्याह ॥
मूलम् (संयुक्तम्)
यदे॒तद्यजु॒र्न ब्रू॒यात्परा॑च्ये॒व सो॑म॒क्रय॑णीयाद्रु॒द्रस्त्वा व॑र्तय॒त्वित्या॑ह रु॒द्रो वै क्रू॒रः [52]
दे॒वाना॒न्तमे॒वास्यै॑ प॒रस्ता॑द्दधा॒त्यावृ॑त्त्यै क्रू॒रमि॑व॒ वा ए॒तत्क॑रोति॒ यद्रु॒द्रस्य॑ की॒र्तय॑ति मि॒त्रस्य॑ प॒थेत्या॑ह॒ शान्त्यै॑
विश्वास-प्रस्तुतिः
यदे॒तद् यजु॒र्न ब्रू॒यात् , परा॑च्ये॒व सो॑म॒क्रय॑णीयाद् ।
“रु॒द्रस्त्वाऽऽव॑र्तय॒त्वि"त्या॑ह ।
रु॒द्रो वै क्रू॒रो दे॒वाना॑म् ।[52]
तमे॒वास्यै॑ प॒रस्ता॑द् दधा॒त्यावृ॑त्त्यै ।
मूलम्
यदे॒तद् यजु॒र्न ब्रू॒यात् , परा॑च्ये॒व सो॑म॒क्रय॑णीयाद् ।
“रु॒द्रस्त्वाऽऽव॑र्तय॒त्वि"त्या॑ह ।
रु॒द्रो वै क्रू॒रो दे॒वाना॑म् ।[52]
तमे॒वास्यै॑ प॒रस्ता॑द् दधा॒त्यावृ॑त्त्यै ।
पद-पाठः
यत् । ए॒तत् । यजुः॑ । न । ब्रू॒यात् ।
परा॑ची । ए॒व । सो॒म॒क्रय॒णीति॑ सोम-क्रय॑णी । इ॒या॒त् ।
रु॒द्रः । त्वा॒ । एति॑ । व॒र्त॒य॒तु॒ । इति॑ । आ॒ह॒ ।
रु॒द्रः । वै । क्रू॒रः । [52] दे॒वाना॑म् ।
तम् । ए॒व । अ॒स्यै॒ । प॒रस्ता॑त् । द॒धा॒ति॒ । आवृ॑त्त्या॒ इत्या-वृ॒त्त्यै॒ ।
भट्टभास्कर-टीका
13यदेतदिति ॥ ‘रुद्रस्त्वाऽऽवर्तयतु'36 इति यदेतद्यजुर्न ब्रूयात् पराची अनिवर्तमानैव सोमक्रयणीयात् गच्छेत् । पराङ्मुखी अञ्चतीति ऋत्विगादिना क्विनि ‘अञ्चतेश्चोपसंख्यानम्’ इति डीप्, ‘अनिगन्तोञ्चतौ’ इति गतेः प्रकृतिस्वरत्वम् । तस्मादेतस्य यजुषो वचनेन देवानां मध्ये क्रूरं अप्रधृष्यं पुरस्तादग्रतो दधाति स्थापयति आवृत्त्यै आवृत्त्यर्थमेवास्या एतत् भवति । अप्रधृष्यं देवमग्रतो दृष्ट्वा भयादावर्तते, न पराची गच्छतीत्यर्थः । ‘तादौ च’ इति गतेः प्रकृतिस्वरत्वम् ।
विश्वास-प्रस्तुतिः
क्रू॒रमि॑व॒ वा ए॒तत्क॑रोति॒ , यद् रु॒द्रस्य॑ की॒र्तय॑ति ।
“मि॒त्रस्य॑ प॒थे"त्या॑ह । शान्त्यै॑ ।
मूलम्
क्रू॒रमि॑व॒ वा ए॒तत्क॑रोति॒ , यद् रु॒द्रस्य॑ की॒र्तय॑ति ।
“मि॒त्रस्य॑ प॒थे"त्या॑ह । शान्त्यै॑ ।
पद-पाठः
क्रू॒रम् । इ॒व॒ । वै । ए॒तत् । क॒रो॒ति॒ । यत् । रु॒द्रस्य॑ । की॒र्तय॑ति ।
मि॒त्रस्य॑ । प॒था । इति॑ । आ॒ह॒ । शान्त्यै॑ ।
भट्टभास्कर-टीका
कूरमिवेति । कर्मणि षष्ठी । यद्रुद्रं कीर्तयति क्रूरमेव तत्करोति क्रूरस्य कीर्तितमिति, तस्मात् ‘मित्रस्य पथा'36 इति यदाह तदेवास्य शान्त्यै भवति निजकार्तनापराधमनादृत्य मित्रस्य पथा प्रस्थानेन आवर्तयतीत्याशास्ते ॥
- रु॒द्रस्त्वाऽऽव॑र्तयतु ।
मि॒त्रस्य॑ प॒था +++(त्वाऽऽव॑र्तयतु )+++।
-किञ्च - रुद्रस्त्वा वर्तयतु कृतकृत्यानस्मान्प्रति अविनष्टामानयतु । ‘यदेतद्यजुर्न ब्रूयात्पराच्येव सोमक्रयणीयात्’ इत्यादि ब्राह्मणम् । रुद्रोपि न रौद्रभावेन, किन्तु मित्रस्य पथा त्वामावर्तयतु निजकीर्तनापराधमनादृत्य शान्तो भूत्वा वर्तयतु उदात्तनिवृत्तिस्वरेण तृतीयाया उदात्तत्वम् । ‘कूरमिव वा एतत्करोति यद्रुद्रस्य कीर्तयति’ इत्यादि ब्राह्मणम् ।
मूलम् (संयुक्तम्)
वा॒चा वा ए॒ष वि क्री॑णीते॒ यस्सो॑म॒क्रय॑ण्या स्व॒स्ति सोम॑सखा॒ पुन॒रेहि॑ स॒ह र॒य्येत्या॑ह वा॒चैव वि॒क्रीय॒ पुन॑रा॒त्मन्वाच॑न्ध॒त्तेऽनु॑पदासुकास्य॒ वाग्भ॑वति॒ य ए॒वव्ँ वेद॑ ॥ [53]
विश्वास-प्रस्तुतिः
वा॒चा वा ए॒ष वि क्री॑णीते॒ , यस् सो॑म॒क्रय॑ण्या ।
“स्व॒स्ति सोम॑सखा॒ पुन॒रेहि॑ स॒ह र॒य्ये"त्या॑ह ।
वा॒चैव वि॒क्रीय॒ पुन॑रा॒त्मन्वाच॑न्ध॒त्ते ।
अनु॑पदासुकाऽस्य॒ वाग्भ॑वति॒ , य ए॒वव्ँ वेद॑ ॥ [53]
मूलम्
वा॒चा वा ए॒ष वि क्री॑णीते॒ , यस् सो॑म॒क्रय॑ण्या ।
“स्व॒स्ति सोम॑सखा॒ पुन॒रेहि॑ स॒ह र॒य्ये"त्या॑ह ।
वा॒चैव वि॒क्रीय॒ पुन॑रा॒त्मन्वाच॑न्ध॒त्ते ।
अनु॑पदासुकाऽस्य॒ वाग्भ॑वति॒ , य ए॒वव्ँ वेद॑ ॥ [53]
पद-पाठः
वा॒चा । वै । ए॒षः । वीति॑ । क्री॒णी॒ते॒ । यः । सो॒म॒क्रय॒ण्येति॑ सोम-क्रय॑ण्या ।
स्व॒स्ति । सोम॑स॒खेति॒ सोम॑-स॒खा॒ । पुनः॑ । एति॑ । इ॒हि॒ । स॒ह । र॒य्या । इति॑ । आ॒ह॒ ।
वा॒चा । ए॒व । वि॒क्रीयेति॑ वि-क्रीय॑ । पुनः॑ । आ॒त्मन् । वाच॑म् । ध॒त्ते॒ ।
अनु॑पदासु॒केत्यनु॑प-दा॒सु॒का॒ । अ॒स्य॒ । वाक् । भ॒व॒ति॒ । यः । ए॒वम् । वेद॑ ॥ [53]
भट्टभास्कर-टीका
14वाचा वा एष इत्यादि ॥ विरूपक्रयो विक्रयः, अयुक्तरूपत्वात् । अयमर्थः - सोमक्रयण्या सोमं क्रीणाति, एष यजमानः वाचा विक्रीणीते अयुक्तरूपं क्रयं करोति; एकहायन्याः वाक्त्वात् वाचो व्ययस्यायुक्तत्वात् । सोमः क्रीयतेऽनयेति सोमक्रयणी, तेन यः सोमक्रयण्या क्रीणाति तेनेति गम्यते । न हि क्रयकरणेन विक्रयः क्रियते । तस्मात् स्वस्तीत्यादिवचनेन कृत्वापि वाचारूपं क्रयं पुनरात्मन्येष धत्ते; पुनरादास्यमानत्वात् । वाचमपि दत्वा सोमस्तावत्क्रीयते इति । यद्वा - विशिष्टः क्रयो विक्रयः आलस्यादिश्लाघ्यत्वात् । अयमर्थः - यस्सोमक्रयण्या क्रीणाति एष खलु वाचा विक्रीणीते वाचमपि प्रदाय विशिष्टं क्रयं करोति, तस्मात्क्रयस्य वैशिष्ट्यार्थं वाचमेव तावद्दत्वा क्रयः क्रियते । पूनः क्रीते सोमे स्वस्त्यादिवचनेन आत्मनि वाचं धत्ते, क्रयश्च विशिष्टो भवति, वाचश्च व्ययो न कृतो भवति । एवमेतदर्थरूपं यो वेद तस्यानुपदासुका वाग्भवति उपक्षयशीला कदाचिदपि न भवति । दसु उपक्षये, छान्दस उकञ् । ‘परिव्यवेभ्यः क्रियः’ इति क्रीणातेरात्मनेपदम् । ‘सावेकाचः’ इति वाचस्तृतीयाया उदात्तत्वम् ॥
इति षष्ठे प्रथमे सप्तमोनुवाकः ॥