०६ अरुणया गवा सोमक्रयणविधानम् ...{Loading}...
सोमऋषिः
मूलम् (संयुक्तम्)
क॒द्रूश्च॒ वै सु॑प॒र्णी चा॑त्मरू॒पयो॑रस्पर्धेताँ॒ सा क॒द्रूस्सु॑प॒र्णीम॑जय॒त्साब्र॑वीत्तृ॒तीय॑स्यामि॒तो दि॒वि सोम॒स्तमा ह॑र॒ तेना॒त्मान॒न्निष्क्री॑णी॒ष्वेती॒यव्ँ वै क॒द्रूर॒सौ सु॑प॒र्णी छन्दाँ॑सि सौपर्णे॒यास्
विश्वास-प्रस्तुतिः
क॒द्रूश्च॒ वै सु॑प॒र्णी च आ॑त्मरू॒पयो॑र् अस्पर्धेताम् । सा क॒द्रूस् सु॑प॒र्णीम् अ॑जयत् ।
सा ऽब्र॑वीत् -
“तृ॒तीय॑स्यामि॒तो दि॒वि सोम॒स् , तमा ह॑र॒ , तेन आ॒त्मान॒न् निष्क्री॑णी॒ष्वे"ति॑ ।
इ॒यव्ँ वै क॒द्रूर् अ॒सौ सु॑प॒र्णी , छन्दाँ॑सि सौपर्णे॒याः।
मूलम्
क॒द्रूश्च॒ वै सु॑प॒र्णी च आ॑त्मरू॒पयो॑र् अस्पर्धेताम् । सा क॒द्रूस् सु॑प॒र्णीम् अ॑जयत् ।
सा ऽब्र॑वीत् -
“तृ॒तीय॑स्यामि॒तो दि॒वि सोम॒स् , तमा ह॑र॒ , तेन आ॒त्मान॒न् निष्क्री॑णी॒ष्वे"ति॑ ।
इ॒यव्ँ वै क॒द्रूर् अ॒सौ सु॑प॒र्णी , छन्दाँ॑सि सौपर्णे॒याः।
पद-पाठः
क॒द्रूः । च॒ । वै । सु॒प॒र्णीति॑ सु-प॒र्णी । च॒ । आ॒त्म॒रू॒पयो॒रित्या॑त्म-रू॒पयोः॑ । अ॒स्प॒र्धे॒ता॒म् ।
सा । क॒द्रूः । सु॒प॒र्णीमिति॑ सु-प॒र्णीम् । अ॒ज॒य॒त् ।
सा । अ॒ब्र॒वी॒त् ।
तृ॒तीय॑स्याम् । इ॒तः । दि॒वि । सोमः॑ । तम् । एति॑ । ह॒र॒ । तेन॑ । आ॒त्मान॑म् । निरिति॑ । क्री॒णी॒ष्व॒ । इति॑ ।
इ॒यम् । वै । क॒द्रूः । अ॒सौ । सु॒प॒र्णीति॑ सु-प॒र्णी ।
छन्दाँ॑सि । सौ॒प॒र्णे॒याः ।
भट्टभास्कर-टीका
1अथ सवनगुणान्विधास्यन् तदर्थं गायत्रीं स्तोतुमाह - कद्रूरित्यादि ॥ दिव्यमातरावेते आत्मरूपयोर्निजसौन्दर्यनिमित्तमहं दर्शनीयाऽहं दर्शनीयेति सपत्नीत्वादस्पर्धेतां स्पर्धमाने विप्रतिपत्तिमकुरुताम् । ‘कद्रुकमण्डल्वोः’ इति कद्रुशब्दादूङ्प्रत्ययः । ‘पाककर्ण’ इत्यादिना सुपर्णशब्दात् ङीष् । ततस्सा कद्रूस्सुपर्णीमजयत् रूपवत्तया तां जित्वा दासीं जग्राह । ततस्सा कद्रूस्सुपर्णीमब्रवीत् । इतस्तृतीयस्यां दिवि सोमो यागात्मा वर्तते, तदानयनेन हेतुना आत्मानं निष्क्रीणीष्व त्वां दासीभावान्मोचयेति । देवनशीलत्वात्त्रयोपि लोका दिव इत्युच्यन्ते, तत्र भूमिष्ठा कद्रूराह - इतस्तृतीयस्यां दिवीति । यद्वा - द्यौरेव त्रिखण्डा, तत्र दिविष्ठैवाह - इतस्तृतीयस्मिन् द्युखण्डे सोमो वर्तते इति । ‘तीयस्य वा ङित्सूपसंख्यानम्’ इति स्याभावः । ‘ऊडिदम्’ इतीदमो विभक्तेरुदात्तत्वम् । इयं वा इत्यादि । दिवः पुत्रत्वेन प्रसिद्धानि छन्दांसि, तानि सौपर्णेयाः सुपर्णीपुत्राः केचन दिव्यजनाः, त एव छन्दांसि गायत्र्यादीनि । यद्वा - लिङ्गव्यत्ययः । छन्दांसि सुपर्णापत्यानीत्यर्थः । स्त्रीभ्यो ढकि ‘कितः’ इत्यन्तोदात्तत्वम् ॥
मूलम् (संयुक्तम्)
साब्र॑वीद॒स्मै वै पि॒तरौ॑ पु॒त्रान्बि॑भृतस्तृ॒तीय॑स्यामि॒तो दि॒वि सोम॒स्तमा ह॑र॒ तेना॒त्मान॒न्निष्क्री॑णीष्व [39]
इति॑ मा क॒द्रूर॑वोच॒दिति॒
विश्वास-प्रस्तुतिः
सा ऽब्र॑वीद् - “अ॒स्मै वै पि॒तरौ॑ पु॒त्रान् बि॑भृतस् तृ॒तीय॑स्यामि॒तो दि॒वि सोम॒स्, तम् आ ह॑र॒ , तेन आ॒त्मान॒न् निष्क्री॑णीष्व + इति॑ मा क॒द्रूर् अ॑वोच॒दि"ति॑ ।[39]
मूलम्
सा ऽब्र॑वीद् - “अ॒स्मै वै पि॒तरौ॑ पु॒त्रान् बि॑भृतस् तृ॒तीय॑स्यामि॒तो दि॒वि सोम॒स्, तम् आ ह॑र॒ , तेन आ॒त्मान॒न् निष्क्री॑णीष्व + इति॑ मा क॒द्रूर् अ॑वोच॒दि"ति॑ ।[39]
पद-पाठः
सा । अ॒ब्र॒वी॒त् ।
अ॒स्मै । वै । पि॒तरौ॑ । पु॒त्रान् । बि॒भृ॒तः॒ । तृ॒तीय॑स्याम् । इ॒तः । दि॒वि । सोमः॑ । तम् । एति॑ । ह॒र॒ । तेन॑ । आ॒त्मान॑म् । निरिति॑ । क्री॒णी॒ष्व॒ । [39]
इति॑ । मा॒ । क॒द्रूः । अ॒वो॒च॒त् । इति॑ ।
भट्टभास्कर-टीका
2अथ सा कद्र्वा तथोक्ता सा सुपर्णी पुत्रानब्रवीत् अस्मै ईदृशाय प्रयोजनाय आर्तिपरित्राणाय पितरौ माता च पिता च पुत्रान् दुःखात्त्रायकस्वभावान् सुतान् बिभृतः उत्पाद्य पोषयतः । ‘पिता मात्रा’ इत्येकशेषः, पूर्ववदिदमो विभक्तेरुदात्तत्वम् । किं तवागमनमिति चेत्? श्रूयतां पुत्रकाः - तृतीयस्यामिता दिवि सोमस्तमाहर तेनात्मानं निष्क्रीणीष्वेति मां कद्रूरवोचत् निजरूपवत्तया गर्विता दासीमिव मां मन्यमाना इत्थमवमन्यते । ततोस्मिन् व्यसनसंकटे नियग्नामितो मां त्रायध्वमिति ॥
मूलम् (संयुक्तम्)
जग॒त्युद॑पत॒च्चतु॑र्दशाक्षरा स॒ती साऽप्रा॑प्य॒ न्य॑वर्तत॒ तस्यै॒ द्वे अ॒क्षरे॑ अमीयेताँ॒ सा प॒शुभि॑श्च दी॒क्षया॒ चाग॑च्छ॒त्तस्मा॒ज्जग॑ती॒ छन्द॑साम्पश॒व्य॑तमा॒ तस्मा॑त्पशु॒मन्त॑न्दी॒क्षोप॑ नमति
विश्वास-प्रस्तुतिः
जग॒त्युद॑पत॒च् चतु॑र्दशाक्षरा स॒ती ।
साऽप्रा॑प्य॒ न्य॑वर्तत ।
तस्यै॒ द्वे अ॒क्षरे॑ अमीयेताम् ।
सा प॒शुभि॑श्च दी॒क्षया॒ चाग॑च्छत् ।
तस्मा॒ज् जग॑ती॒ छन्द॑साम् पश॒व्य॑तमा ।
तस्मा॑त् पशु॒मन्त॑न् दी॒क्षोप॑ नमति ।
मूलम्
जग॒त्युद॑पत॒च् चतु॑र्दशाक्षरा स॒ती ।
साऽप्रा॑प्य॒ न्य॑वर्तत ।
तस्यै॒ द्वे अ॒क्षरे॑ अमीयेताम् ।
सा प॒शुभि॑श्च दी॒क्षया॒ चाग॑च्छत् ।
तस्मा॒ज् जग॑ती॒ छन्द॑साम् पश॒व्य॑तमा ।
तस्मा॑त् पशु॒मन्त॑न् दी॒क्षोप॑ नमति ।
पद-पाठः
जग॑ती । उदिति॑ । अ॒प॒त॒त् । चतु॑र्दशाक्ष॒रेति॒ चतु॑र्दश-अ॒क्ष॒रा॒ । स॒ती ।
सा । अप्रा॒प्येत्यप्र॑-आ॒प्य॒ । नीति॑ । अ॒व॒र्त॒त॒ ।
तस्यै॑ । द्वे इति॑ । अ॒क्षरे॒ इति॑ । अ॒मी॒ये॒ता॒म् ।
सा । प॒शुभि॒रिति॑ प॒शु-भिः॒ । च॒ । दी॒क्षया॑ । च॒ । एति॑ । अ॒ग॒च्छ॒त् ।
तस्मा॑त् । जग॑ती । छन्द॑साम् । प॒श॒व्य॑त॒मेति॑ पश॒व्य॑-त॒मा॒ ।
तस्मा॑त् । प॒शु॒मन्त॒मिति॑ पशु-मन्त॑म् । दी॒क्षा । उपेति॑ । न॒म॒ति॒ ।
भट्टभास्कर-टीका
3अथ तछ्रुत्वा छन्दसां ज्येष्ठभूता जगती उदपतत् ऊर्ध्वं गता । सा चतुर्दशाक्षराऽपि सता सोममप्राप्य अलब्ध्वा न्यवर्तत तत्सकाशात्प्रतिनिवृत्ता । ‘शतुरनुमः’ इति नद्या उदात्तत्वम् । तस्यै तस्याः सोमेन रहितायाः द्वे अक्षरे अमीयेतामहीयेताम् । अशेस्सरप्रत्यये अक्षरम् । ततस्सा जगती तत्र तृतीयस्यां दिवि स्थितान् पशून् दीक्षां च दृष्ट्वा उपादाय तेनोभयेन सहिताऽऽगच्छत् । अन्य आहुः - चतुर्दशाक्षराऽपि सती सा अप्राप्य सोमसकाशमपि गन्तुमसमर्था न्यवर्तत । ततस्तस्याश्श्रान्तायाः द्वे अक्षरे अमीयेतां विशीर्णे अभवताम् । सा तादृशी तत्र स्थि- तान् पशून् दीक्षां च गृहीत्वा आगच्छदिति । तस्माच्छन्दसां मध्ये जगती पशव्यतमा अतिशयेन पशुभ्यो हिता । हितार्थे ‘उगवादिभ्यो यत्’ । यस्मादेवं पशुभिस्सह दीक्षा आगता, तस्मात्पशुमन्तं दीक्षोपनमति उपतिष्ठते दक्षिणा क्षीरादिसंपत्तेश्च । ‘ह्रस्वनुड्भ्यां मतुप्’ इति मतुप उदात्तत्वम् ॥
मूलम् (संयुक्तम्)
त्रि॒ष्टुगुद॑पत॒त्त्रयो॑दशाक्षरा स॒ती साऽप्रा॑प्य॒ न्य॑वर्तत॒ तस्यै॒ द्वे अ॒क्षरे॑ अमीयेताँ॒ सा दक्षि॑णाभिश्च [40]
तप॑सा॒ चाग॑च्छ॒त्तस्मा॑त्त्रि॒ष्टुभो॑ लो॒के माध्य॑न्दिने॒ सव॑ने॒ दक्षि॑णा नीयन्त ए॒तत्खलु॒ वाव तप॒ इत्या॑हु॒र्यस्स्वन्ददा॒तीति॑
विश्वास-प्रस्तुतिः
त्रि॒ष्टुग् उद॑पत॒त् त्रयो॑दशाक्षरा स॒ती
साऽप्रा॑प्य॒ न्य॑वर्तत ।
तस्यै॒ द्वे अ॒क्षरे॑ अमीयेताम् ।
सा दक्षि॑णाभिश् च , तप॑सा॒ चाग॑च्छत् ।[40]
तस्मा॑त् त्रि॒ष्टुभो॑ लो॒के , माध्य॑न्दिने॒ सव॑ने॒ दक्षि॑णा नीयन्ते ।
ए॒तत् खलु॒ वाव तप॒ इत्या॑हु॒र् - “यस् स्वन् ददा॒ती"ति॑ ।
मूलम्
त्रि॒ष्टुग् उद॑पत॒त् त्रयो॑दशाक्षरा स॒ती
साऽप्रा॑प्य॒ न्य॑वर्तत ।
तस्यै॒ द्वे अ॒क्षरे॑ अमीयेताम् ।
सा दक्षि॑णाभिश् च , तप॑सा॒ चाग॑च्छत् ।[40]
तस्मा॑त् त्रि॒ष्टुभो॑ लो॒के , माध्य॑न्दिने॒ सव॑ने॒ दक्षि॑णा नीयन्ते ।
ए॒तत् खलु॒ वाव तप॒ इत्या॑हु॒र् - “यस् स्वन् ददा॒ती"ति॑ ।
पद-पाठः
त्रि॒ष्टुक् । उदिति॑ । अ॒प॒त॒त् । त्रयो॑दशाक्ष॒रेति॒ त्रयो॑दश-अ॒क्ष॒रा॒ । स॒ती । सा । अप्रा॒प्येत्यप्र॑-आ॒प्य॒ । नीति॑ । अ॒व॒र्त॒त॒ ।
तस्यै॑ । द्वे इति॑ । अ॒क्षरे॒ इति॑ । अ॒मी॒ये॒ता॒म् ।
सा । दक्षि॑णाभिः । च॒ । [40] तप॑सा । च॒ । एति॑ । अ॒ग॒च्छ॒त् ।
तस्मा॑त् । त्रि॒ष्टुभः॑ । लो॒के । माध्य॑न्दिने । सव॑ने । दक्षि॑णाः । नी॒य॒न्ते॒ ।
ए॒तत् । खलु॑ । वाव । तपः॑ । इति॑ । आ॒हुः॒ । यः । स्वम् । ददा॑ति । इति॑ ।
भट्टभास्कर-टीका
4त्रिष्टुगुदपतदित्यादि ॥ गतम् । सा दक्षिणाभिश्च तपसा च दानलक्षणेन आगच्छत् । तस्मात्त्रिष्टुभो लोके स्थाने माध्यान्दिनसवने दक्षिणा नीयन्ते । उत्सादिर्मध्यन्दिनशब्दः । अधुना माध्यन्दिने सवने, दानमेव तप इत्याह - यत् स्वं ददाति एतदेव खलु तप इत्याहुः । ददातीति ‘अभ्यस्तानामादिः’ इत्याद्युदात्तत्वम् ॥
मूलम् (संयुक्तम्)
गाय॒त्र्युद॑पत॒च्चतु॑रक्षरा स॒त्य॑जया॒ ज्योति॑षा॒ तम॑स्या अ॒जाभ्य॑रुन्द्ध॒ तद॒जाया॑ अज॒त्वँ सा सोम॒ञ्चाह॑रच्च॒त्वारि॑ चा॒क्षरा॑णि साष्टाक्ष॑रा॒ सम॑पद्यत
विश्वास-प्रस्तुतिः
गा॒य॒त्र्य् उद॑पत॒च् चतु॑रक्षरा स॒त्य॑जया॒ ज्योति॑षा । तम॑स्या अ॒जाऽभ्य॑रुन्ध । तद् अ॒जाया॑ अज॒त्वम् ।
सा सोम॒ञ् चाऽऽह॑रच् ,च॒त्वारि॑ च अ॒क्षरा॑णि । सा ऽष्टाक्ष॑रा॒ सम॑पद्यत ।
मूलम्
गा॒य॒त्र्य् उद॑पत॒च् चतु॑रक्षरा स॒त्य॑जया॒ ज्योति॑षा । तम॑स्या अ॒जाऽभ्य॑रुन्ध । तद् अ॒जाया॑ अज॒त्वम् ।
सा सोम॒ञ् चाऽऽह॑रच् ,च॒त्वारि॑ च अ॒क्षरा॑णि । सा ऽष्टाक्ष॑रा॒ सम॑पद्यत ।
पद-पाठः
गा॒य॒त्री । उदिति॑ । अ॒प॒त॒त् । चतु॑रक्ष॒रेति॒ चतुः॑-अ॒क्ष॒रा॒ । स॒ती । अ॒जया॑ । ज्योति॑षा ।
तम् । अ॒स्यै॒ । अ॒जा । अ॒भीति॑ । अ॒रु॒न्द्ध॒ ।
तत् । अ॒जायाः॑ । अ॒ज॒त्वमित्य॑ज-त्वम् ।
सा । सोम॑म् । च॒ । एति॑ । अह॑रत् । च॒त्वारि॑ । च॒ । अ॒क्षरा॑णि ।
सा । अ॒ष्टाक्ष॒रेत्य॒ष्टा-अ॒क्ष॒रा॒ । समिति॑ । अ॒प॒द्य॒त॒ ।
भट्टभास्कर-टीका
5ततो गायत्र्युदपतत् चतुरक्षरैव सता अजया सहायभूतया अजामपि सहायभूतां गृहीत्वा ऊर्ध्वं गता, ततस्सा अजा ज्योतिषा आत्मीयया दीप्त्या तं सोमं गायत्र्यर्थमभ्यरुन्ध अभिरुद्धवती अभिगतवती । तदित्यादि । अज गतिक्षेपाणयोः, ‘ङ्यापोस्मंज्ञाछन्दसोर्बहुलम्’ ‘त्वे च’ इति ह्रस्वत्वम् । ततस्सा गायत्री सोमं चाजया वशीकृतमाहरत्, चत्वारि चाक्षराणि यानि त्रिष्टुब्जगत्योः तत्राहीयन्त तान्येव स्वयमाहरत् । ततः प्रभृति साऽष्टाक्षरा समपद्यत, पादाभिप्रायमिदम् । यथोक्तं ‘गायत्र्यष्टकैः’ इति । त्रयश्चास्याः पादाः, यथा वक्ष्यति - ‘पद्भ्यां द्वे सवने समगृह्नान्मुखेनैकम्’ इति । तेन चतुर्विंशत्यक्षरा गायत्री । त्रिष्टुब्जगत्यौ च ततः प्रभृत्येकादशद्वादशाक्षरपादे, द्वयोर्द्वयोर्हीनत्वात् । तेन चतुश्चत्वारिंशदक्षरा त्रिष्टुम्, अष्टाचत्वारिंशदक्षरा जगती ॥
मूलम् (संयुक्तम्)
ब्रह्मवा॒दिनो॑ वदन्ति [41]
कस्मा॑त्स॒त्याद्गा॑य॒त्री कनि॑ष्ठा॒ छन्द॑साँ स॒ती य॑ज्ञमु॒खम्परी॑या॒येति॒
विश्वास-प्रस्तुतिः
ब्रह्मवा॒दिनो॑ वदन्ति - “कस्मा॑त् स॒त्याद् गा॑य॒त्री कनि॑ष्ठा॒ छन्द॑साँ स॒ती य॑ज्ञमु॒खम् परी॑या॒ये"ति॑ [41]
मूलम्
ब्रह्मवा॒दिनो॑ वदन्ति - “कस्मा॑त् स॒त्याद् गा॑य॒त्री कनि॑ष्ठा॒ छन्द॑साँ स॒ती य॑ज्ञमु॒खम् परी॑या॒ये"ति॑ [41]
पद-पाठः
ब्र॒ह्म॒वा॒दिन॒ इति॑ ब्रह्म-वा॒दिनः॑ । व॒द॒न्ति॒ । [41]
कस्मा॑त् । स॒त्यात् । गा॒य॒त्री । कनि॑ष्ठा । छन्द॑साम् । स॒ती । य॒ज्ञ॒मु॒खमिति॑ यज्ञ-मु॒खम् । परीति॑ । इ॒या॒य॒ । इति॑ ।
भट्टभास्कर-टीका
6ब्रह्यवादिन इति ॥ सदर्हतीति सत्यं कारणमुच्यते । दण्डादिभ्यो यः । कस्मात्कारणाद्रायत्री छन्दसां प्रकृतानां त्रयाणां कनिष्ठा अल्पतमा सती यज्ञमुखं प्रातस्सवनं परीयाय परिगच्छतीति । ‘छन्दसि लुङ्लङ्लिटः’ इति लिट् । ‘युवाल्पयोः कनन्यतरस्याम्’ इति कन् ॥
मूलम् (संयुक्तम्)
यदे॒वादस्सोम॒माह॑र॒त्तस्मा॑द्यज्ञमु॒खम्पर्यै॒त्तस्मा॑त्तेज॒स्विनी॑तमा प॒द्भ्यान्द्वे सव॑ने स॒मगृ॑ह्णा॒न्मुखे॒नैकय्ँ॒यन्मुखे॑न स॒मगृ॑ह्णा॒त्तद॑धय॒त्तस्मा॒द्द्वे सव॑ने शु॒क्रव॑ती प्रातस्सव॒नञ्च॒ माध्य॑न्दिनञ्च॒ तस्मा॑त्तृतीयसव॒न ऋ॑जी॒षम॒भि षु॑ण्वन्ति धी॒तमि॑व॒ हि मन्य॑न्ते [42]
विश्वास-प्रस्तुतिः
यदे॒वादस् सोम॒म् आह॑र॒त् , तस्मा॑द् यज्ञमु॒खम् पर्यै॑त्। तस्मा॑त् तेज॒स्विनी॑तमा ।
प॒द्भ्यान् द्वे सव॑ने स॒मगृ॑ह्णा॒न् मुखे॒न + एक॑म् ।
यन् मुखे॑न स॒मगृ॑ह्णा॒त् तद॑धयत् ।
तस्मा॒द् द्वे सव॑ने शु॒क्रव॑ती प्रातस् सव॒नञ् च॒ माध्य॑न्दिनञ् च ।
तस्मा॑त् तृतीयसव॒न ऋ॑जी॒षम् अ॒भि षु॑ण्वन्ति ।
धी॒तमि॑व॒ हि मन्य॑न्ते । [42]
मूलम्
यदे॒वादस् सोम॒म् आह॑र॒त् , तस्मा॑द् यज्ञमु॒खम् पर्यै॑त्।
तस्मा॑त् तेज॒स्विनी॑तमा ।
प॒द्भ्यान् द्वे सव॑ने स॒मगृ॑ह्णा॒न् मुखे॒न + एक॑म् ।
यन् मुखे॑न स॒मगृ॑ह्णा॒त् तद॑धयत् ।
तस्मा॒द् द्वे सव॑ने शु॒क्रव॑ती प्रातस् सव॒नञ् च॒ माध्य॑न्दिनञ् च ।
तस्मा॑त् तृतीयसव॒न ऋ॑जी॒षम् अ॒भि षु॑ण्वन्ति ।
धी॒तमि॑व॒ हि मन्य॑न्ते । [42]
पद-पाठः
यत् । ए॒व । अ॒दः । सोम॑म् । एति॑ । अ॒ह॒र॒त् । तस्मा॑त् । य॒ज्ञ॒मु॒खमिति॑ यज्ञ-मु॒खम् । परीति॑ । ऐ॒त् ।
तस्मा॑त् । ते॒ज॒स्विनी॑त॒मेति॑ तेज॒स्विनी॑-त॒मा॒ ।
प॒द्भ्यामिति॑ पत्-भ्याम् । द्वे इति॑ । सव॑ने इति॑ । स॒मगृ॑ह्णा॒दिति॑ सम्-अगृ॑ह्णात् । मुखे॑न । एक॑म् ।
यत् । मुखे॑न । स॒मगृ॑ह्णा॒दिति॑ सम्-अगृ॑ह्णात् । तत् । अ॒ध॒य॒त् ।
तस्मा॑त् । द्वे इति॑ । सव॑ने इति॑ । शु॒क्रव॑ती॒ इति॑ शु॒क्र-व॒ती॒ । प्रा॒त॒स्स॒व॒नमिति॑ प्रातः-स॒व॒नम् । च॒ । माध्य॑न्दिनम् । च॒ ।
तस्मा॑त् । तृ॒ती॒य॒स॒व॒न इति॑ तृतीय-स॒व॒ने । ऋ॒जी॒षम् । अ॒भीति॑ । सु॒न्व॒न्ति॒ ।
धी॒तम् । इ॒व॒ । हि । मन्य॑न्ते । [42]
भट्टभास्कर-टीका
7इत्थं ब्रह्मवादिभिः पृष्टे उत्तरमाह कश्चिद्व्रह्मवादी - यदेवेति ॥ यदेवेदं कारणं सोममियमाहरत्, अदः एतस्मात् यज्ञमुखं परिगता । यद्वा - अदश्शब्दात्परस्याः पञ्चम्याः ‘सुपां सुलुक्’ इति लुक् । अमुष्माल्लोकादित्यर्थः । एतेर्लिङि इतश्च लोपे अडागमे ‘आटश्च’ इति वृद्धौ एदिति भवति । तस्मादेव कारणात् तेजस्विनीतमा अतिशयेन तेजस्विनी गायत्री बभूव । सा सोममाहरन्ती पद्भ्यां द्वे सवने प्रातस्सवनमाध्यन्दिने समगृह्णात् संगृहीतवती । मुखेन मुखस्थानीयेन पादेन एकं सवनं तृतीयं समगृह्णात् । छन्दसां पक्षिरूपत्वादेवमुक्तम् । द्वौ पादावस्य, तृतीयः पादो मुखमिति । यत् मुखेन सवनं समगृह्णात् तत् अधयत् अपिबत् । तस्मादित्यादि । शुक्रवती रसवती पद्भ्यां गृहीतत्वात् । ‘नपुंसकाच्च’ इति शीभावः । तस्मादित्यादि । यस्मात् घीतं पीतमिव तृतीयसवनं मन्यन्ते तस्मात्तृतीयसवने ऋजीषं किम्भूतं सोममभिषुण्वन्ति, तस्य पीतसारत्वात् एता- दृशस्यापीतत्वात् ॥
मूलम् (संयुक्तम्)
आ॒शिर॒मव॑ नयति सशुक्र॒त्वायाथो॒ सम्भ॑रत्ये॒वैन॒त्
विश्वास-प्रस्तुतिः
आ॒शिर॒म् अव॑ नयति सशुक्र॒त्वाय , अथो॒ सम्भ॑रत्य् ए॒वैन॑त् ।
मूलम्
आ॒शिर॒म् अव॑ नयति सशुक्र॒त्वाय , अथो॒ सम्भ॑रत्य् ए॒वैन॑त् ।
पद-पाठः
आ॒शिर॑म् । अवेति॑ । न॒य॒ति॒ । स॒शु॒क्र॒त्वायेति॑ सशुक्र-त्वाय॑ । अथो॒ इति॑ । समिति॑ । भ॒र॒ति॒ । ए॒व । ए॒न॒त् ।
भट्टभास्कर-टीका
8आशिरमित्यादिविधिः ॥ ऋजीषे आशिरं सोममवनयति सरसत्वार्थम् । अथो अपि च एतत्तृतीयसवनं संभरत्येव संपुष्टमेव करोतीति । एनादेशोऽनुदात्तः ॥
मूलम् (संयुक्तम्)
तँ सोम॑माह्रि॒यमा॑णङ्गन्ध॒र्वो वि॒श्वाव॑सु॒ᳶ पर्य॑मुष्णा॒त्स ति॒स्रो रात्री॒ᳶ परि॑मुषितोऽवस॒त्तस्मा॑त्ति॒स्रो रात्रीः॑ क्री॒तस्सोमो॑ वसति॒
विश्वास-प्रस्तुतिः
तँ सोम॑म् आह्रि॒यमा॑णङ् गन्ध॒र्वो वि॒श्वाव॑सु॒ᳶ पर्य॑मुष्णात् स ति॒स्रो रात्री॒ᳶ परि॑मुषितो ऽवसत् । तस्मा॑त् ति॒स्रो रात्रीः॑ क्री॒तस् सोमो॑ वसति ।
मूलम्
तँ सोम॑म् आह्रि॒यमा॑णङ् गन्ध॒र्वो वि॒श्वाव॑सु॒ᳶ पर्य॑मुष्णात् स ति॒स्रो रात्री॒ᳶ परि॑मुषितो ऽवसत् । तस्मा॑त् ति॒स्रो रात्रीः॑ क्री॒तस् सोमो॑ वसति ।
पद-पाठः
तम् । सोम॑म् । आ॒ह्रि॒यमा॑ण॒मित्या॑-ह्रि॒यमा॑णम् । ग॒न्ध॒र्वः । वि॒श्वाव॑सु॒रिति॑ वि॒श्व-व॒सुः॒ । परीति॑ । अ॒मु॒ष्णा॒त् ।
सः । ति॒स्रः । रात्रीः॑ । परि॑मुषित॒ इति॒ परि॑-मु॒षि॒तः॒ । अ॒व॒स॒त् ।
तस्मा॑त् । ति॒स्रः । रात्रीः॑ । क्री॒तः । सोमः॑ । व॒स॒ति॒ ।
भट्टभास्कर-टीका
9तमित्यादि ॥ तमानीयमानं सोमं विश्वावसुर्नाम गन्धर्वः पर्यमुष्णात् प्रतिरोधक इव भूत्वा आनयनविघ्नमाचरत् । स च परिमुषितः तिस्रो रात्रीः तत्रैव न्यवसत् । तस्मादित्यादि । अत्र त्रित्वसंख्याप्रयुक्तो निवासः दीक्षासमाप्तेः यावत्सुत्यादिवसं वसतीत्यर्थः । अत्रान्तराळदिवसानां त्रित्वात्तिस्र इत्युक्तम् । तेन त्रित्वाभावेऽपि वासो भवत्येव ॥
मूलम् (संयुक्तम्)
ते दे॒वा अ॑ब्रुव॒न्त्स्त्रीका॑मा॒ वै ग॑न्ध॒र्वास्स्त्रि॒या निष्क्री॑णा॒मेति॒ ते वाचँ॒ स्त्रिय॒मेक॑हायनीङ्कृ॒त्वा तया॒ निर॑क्रीण॒न्थ्
विश्वास-प्रस्तुतिः
ते दे॒वा अ॑ब्रुव॒न्थ् - “स्त्रीका॑मा॒ वै ग॑न्ध॒र्वास् स्त्रि॒या निष्क्री॑णा॒मे"ति॑ ।
मूलम्
ते दे॒वा अ॑ब्रुव॒न्थ् - “स्त्रीका॑मा॒ वै ग॑न्ध॒र्वास् स्त्रि॒या निष्क्री॑णा॒मे"ति॑ ।
पद-पाठः
ते । दे॒वाः । अ॒ब्रु॒व॒न् ।
स्त्रीका॑मा॒ इति॒ स्त्री-का॒माः॒ । वै । ग॒न्ध॒र्वाः । स्त्रि॒या । निरिति॑ । क्री॒णा॒म॒ । इति॑ ।
भट्टभास्कर-टीका
10एकहायन्या क्रीणातीति विधास्यन् तदर्थमाह - ते देवा इत्यादि ॥ ते देवाः गन्धर्वेण परिमुषितसोमाः तन्निष्क्रयोपायं विमृशन्तः इत्थमब्रुवन् - गन्धर्वा नाम स्त्रीकामा भवन्ति, तस्मात् स्त्रिया निष्क्रयणभूतया कया चित् सोमं निष्क्रीणामेति । पञ्चमषष्ठयोरन्यतरस्मिन् लकारे आडागमः । स्त्रीं कामयन्त इति स्त्रीकामाः, ‘शालिकामिभिक्षाचरिभ्यो णः’, ‘पूर्वपदप्रकृतिस्वरत्वं च वक्तव्यम्’ इति णः ।
विश्वास-प्रस्तुतिः
ते वाचँ॒ स्त्रिय॒म् एक॑हायनीङ् कृ॒त्वा तया॒ निर॑क्रीणन् ।
मूलम्
ते वाचँ॒ स्त्रिय॒म् एक॑हायनीङ् कृ॒त्वा तया॒ निर॑क्रीणन् ।
पद-पाठः
ते । वाच॑म् । स्त्रिय॑म् । एक॑हायनी॒मित्येक॑-हा॒य॒नी॒म् । कृ॒त्वा । तया॑ । निरिति॑ । अ॒क्री॒ण॒न् ।
भट्टभास्कर-टीका
ते वाचमित्यादि । ते तथाकृताध्यवसाया देवाः वाचं वाङ्मयाभिमानिनीं एकहायनीमेकवर्षां स्त्रियं कृत्वा तया सोमं निरक्रीणन् निष्क्रीतवन्तः । ‘दामहायनान्ताच्च’ इति ङीप् ॥
मूलम् (संयुक्तम्)
सा रो॒हिद्रू॒पङ्कृ॒त्वा ग॑न्ध॒र्वेभ्यः॑ [43]
अ॒प॒क्रम्या॑तिष्ठ॒त्तद्रो॒हितो॒ जन्म॒ ते दे॒वा अ॑ब्रुव॒न्नप॑ यु॒ष्मदक्र॑मी॒न्नास्मानु॒पाव॑र्तते॒ वि ह्व॑यामहा॒ इति॒ ब्रह्म॑ गन्ध॒र्वा अव॑द॒न्नगा॑यन्दे॒वास्सा दे॒वान्गाय॑त उ॒पाव॑र्तत॒ तस्मा॒द्गाय॑न्तँ॒ स्त्रिय॑ᳵ कामयन्ते॒ कामु॑का एनँ॒ स्त्रियो॑ भवन्ति॒ य ए॒वव्ँ वेदाथो॒ य ए॒वव्ँवि॒द्वानपि॒ जन्ये॑षु॒ भव॑ति॒ तेभ्य॑ ए॒व द॑दत्यु॒त यद्ब॒हुत॑याः [44]
भव॒न्त्य्
विश्वास-प्रस्तुतिः
सा रो॒हिद्रू॒पङ् कृ॒त्वा ग॑न्ध॒र्वेभ्यो॑ ऽप॒क्रम्या॑तिष्ठत् ।[43]
तद् रो॒हितो॒ जन्म॑ ।
ते दे॒वा अ॑ब्रुव॒न्न् - “अप॑ यु॒ष्मद् अक्र॑मी॒न् न अस्मान् उ॒पाव॑र्तते॒ वि ह्व॑यामहा॒” इति॑ ।
ब्रह्म॑ गन्ध॒र्वा अव॑द॒न्न् अगा॑यन् दे॒वाः। सा दे॒वान्गाय॑त उ॒पाव॑र्तत । तस्मा॒द् गाय॑न्तँ॒ स्त्रिय॑ᳵ कामयन्ते ।
कामु॑का एनँ॒ स्त्रियो॑ भवन्ति॒ य ए॒वव्ँ वेद , अथो॒ य ए॒वव्ँ वि॒द्वान् अपि॒ जन्ये॑षु॒ भव॑ति॒ , तेभ्य॑ ए॒व द॑दत्यु॒त यद् ब॒हुत॑याः भव॑न्ति ।[44]
मूलम्
सा रो॒हिद्रू॒पङ् कृ॒त्वा ग॑न्ध॒र्वेभ्यो॑ ऽप॒क्रम्या॑तिष्ठत् ।[43]
तद् रो॒हितो॒ जन्म॑ ।
ते दे॒वा अ॑ब्रुव॒न्न् - “अप॑ यु॒ष्मद् अक्र॑मी॒न् न अस्मान् उ॒पाव॑र्तते॒ वि ह्व॑यामहा॒” इति॑ ।
ब्रह्म॑ गन्ध॒र्वा अव॑द॒न्न् अगा॑यन् दे॒वाः। सा दे॒वान्गाय॑त उ॒पाव॑र्तत । तस्मा॒द् गाय॑न्तँ॒ स्त्रिय॑ᳵ कामयन्ते ।
कामु॑का एनँ॒ स्त्रियो॑ भवन्ति॒ य ए॒वव्ँ वेद , अथो॒ य ए॒वव्ँ वि॒द्वान् अपि॒ जन्ये॑षु॒ भव॑ति॒ , तेभ्य॑ ए॒व द॑दत्यु॒त यद् ब॒हुत॑याः भव॑न्ति ।[44]
पद-पाठः
सा । रो॒हित् । रू॒पम् । कृ॒त्वा । ग॒न्ध॒र्वेभ्यः॑ । [43] अ॒प॒क्रम्येत्य॑प-क्रम्य॑ । अ॒ति॒ष्ठ॒त् ।
तत् । रो॒हितः॑ । जन्म॑ ।
ते । दे॒वाः । अ॒ब्रु॒व॒न् ।
अपेति॑ । यु॒ष्मत् । अक्र॑मीत् । न । अ॒स्मान् । उ॒पाव॑र्तत॒ इत्यु॑प-आव॑र्तते । वीति॑ । ह्व॒या॒म॒है॒ । इति॑ ।
ब्रह्म॑ । ग॒न्ध॒र्वाः । अव॑दन् ।
अगा॑यन् । दे॒वाः ।
सा । दे॒वान् । गाय॑तः । उ॒पाव॑र्त॒तेत्यु॑प-आव॑र्तत ।
तस्मा॑त् । गाय॑न्तम् । स्त्रियः॑ । का॒म॒य॒न्ते॒ ।
कामु॑काः । ए॒न॒म् । स्त्रियः॑ । भ॒व॒न्ति॒ ।
यः । ए॒वम् । वेद॑ ।
अथो॒ इति॑ । यः । ए॒वम् । वि॒द्वान् । अपीति॑ । जन्ये॑षु । भव॑ति । तेभ्यः॑ । ए॒व । द॒द॒ति॒ । उ॒त । यत् । ब॒हुत॑या॒ इति॑ ब॒हु-त॒याः॒ । [44] भव॑न्ति ।
भट्टभास्कर-टीका
11इदानीं वाचा सोमं निष्क्रीयतामपि देवा वाचं गन्धर्वेभ्यः आहूतवन्त इति दर्शयितुमाह - सेत्यादि ॥ सा वागपाक्रमीत् अपक्रान्ता । ‘नेटि’ इति वृद्ध्यिप्रतिषेधः । अस्मांश्च नोपावर्तते अस्मत्समीपं च न गच्छति मध्ये तिष्ठति, तस्मात् यूयं च वयं च इमां विह्वयामहे विविधमाह्वयामः । ‘त्यदादीनां यत्परं तच्छिष्यते’ इत्यस्मदः शेषः, ‘निसमुपविभ्यो ह्रः’ इत्यात्मनेपदम् । ततो ब्रह्म मन्त्रमाह्वानसाधनं गन्धर्वा अवदन्, देवा अगायन् । सेत्यादि । सा रोहित् गायतो देवानुपावर्तत उपागच्छत् । तस्मात्ततःप्रभृति गायन्तं स्त्रियः कामयन्ते । अथ य एवमुक्तप्रकारमर्थं वेद एनं कामुकाः स्त्रियो भवन्ति । ‘लषपत’ इत्यादिना कमेस्ताच्छीलिक उकञ्, ‘नलोकाव्यय’ इति षष्ठीप्रतिषेधः । अथो इति । अपिचेत्यर्थः । कन्याया वरितारो जन्याः, तेष्वपि मध्ये एवं विद्वानपि कश्चिद्भवति, तेभ्य एव कन्यां ददति सत्स्वेवान्येषु वरेषु गुणान्तरवत्सु । एतदुक्तं भवति - ऊर्वास्मात्युता? तन्मध्ये एवं विद्वान् कोपि भवति, तेऽपि कन्यामर्हन्ति न केवलमेवंविद्वान्, तस्मात्तेभ्य एव ददति कन्याम् । उत यत् यद्यपीत्यर्थः । यद्यपि बहुतया बहुविधगुणान्तरशालिनन्येषु (ता) बहवो विद्यन्ते, अथापि तेभ्य एव ददति एषामेवं विद्वानेकोपि भवति । अन्य आहुः - एवं विद्वानेकोपि यदि जन्येषु भवति तेभ्य एव ददति, किंपुनः यद्बहुतया भवन्ति तेभ्यो ददतीति । अपरे ब्रुवते - जनेभ्यो हितानि जन्यानि जनपदानि । ‘उगवादिभ्यो यत्’ । ‘यतो नावः’ इत्याद्युदात्तत्वम् । समानमन्यत् । ‘बहुगुणवतुडतिसंख्या’ इति संख्यात्वात् ‘संख्याया अवयवे तयप्’ इति तयप् ॥
मूलम् (संयुक्तम्)
एक॑हायन्या क्रीणाति वा॒चैवैनँ॒ सर्व॑या क्रीणाति॒ तस्मा॒देक॑हायना मनु॒ष्या॑ वाचव्ँ॑वद॒न्त्य्
विश्वास-प्रस्तुतिः
एक॑हायन्या क्रीणाति । वा॒चैवैनँ॒ सर्व॑या क्रीणाति । तस्मा॒द् एक॑हायना मनु॒ष्या॑ वाचव्ँ॑ वदन्ति ।
मूलम्
एक॑हायन्या क्रीणाति । वा॒चैवैनँ॒ सर्व॑या क्रीणाति । तस्मा॒द् एक॑हायना मनु॒ष्या॑ वाचव्ँ॑ वदन्ति ।
पद-पाठः
एक॑हाय॒न्येत्येक॑-हा॒य॒न्या॒ । क्री॒णा॒ति॒ ।
वा॒चा । ए॒व । ए॒न॒म् । सर्व॑या । क्री॒णा॒ति॒ ।
तस्मा॑त् । एक॑हायना॒ इत्येक॑-हा॒य॒नाः॒ । म॒नु॒ष्याः॑ । वाच॑म् । व॒द॒न्ति॒ ।
भट्टभास्कर-टीका
12एकहायन्येत्यादिविधिः ॥ वाचैवेति । सर्वा हि वागेकहायन्यभवत् । तस्मादिति । एकहायनमुपादाय वाचः प्रादुर्भूताः ॥
मूलम् (संयुक्तम्)
अकू॑ट॒याऽक॑र्ण॒याऽका॑ण॒याऽश्लो॑ण॒याऽस॑प्तशफया क्रीणाति॒ सर्व॑यै॒वैन॑ङ्क्रीणाति॒
विश्वास-प्रस्तुतिः
अकू॑ट॒या ऽक॑र्ण॒या ऽका॑ण॒या ऽश्लो॑ण॒या ऽस॑प्तशफया क्रीणाति ।
सर्व॑यै॒व + एन॑ङ् क्रीणाति ।
मूलम्
अकू॑ट॒या ऽक॑र्ण॒या ऽका॑ण॒या ऽश्लो॑ण॒या ऽस॑प्तशफया क्रीणाति ।
सर्व॑यै॒व + एन॑ङ् क्रीणाति ।
पद-पाठः
अकू॑टया । अक॑र्णया । अका॑णया । अश्लो॑णया । अस॑प्तशफ॒येत्यस॑प्त-श॒फ॒या॒ । क्री॒णा॒ति॒ ।
सर्व॑या । ए॒व । ए॒न॒म् । क्री॒णा॒ति॒ ।
भट्टभास्कर-टीका
13अकूटयेत्यादिविधिः ॥ कुटिलशृङ्गी कूटा । एकशृङ्गीत्यन्ये । भग्नशृङ्गीत्यपरे । अकर्णा खण्डितकर्णा । अकाणा प्रसिद्धा । श्लोणा शून्या । अशिक्षिताङ्गीति केचित् । कुष्ठव्याधिदूषितेत्यन्ये । सप्तशफा द्युन[ऊन]खुरा या अष्टशफा न भवति सा सप्तशफेति कथ्यते । एताः कूटादयः पर्युदस्यन्ते - सर्वयैवेति । सर्वया अन्यूनया वाचा एनं सोमं क्रीणाति ॥
मूलम् (संयुक्तम्)
यच्छ्वे॒तया॑ क्रीणी॒याद्दु॒श्चर्मा॒ यज॑मानस्स्या॒द्यत्कृ॒ष्णया॑नु॒स्तर॑णी स्यात्प्र॒मायु॑को॒ यज॑मानस्स्या॒द्यद्द्वि॑रू॒पया॒ वात्र॑घ्नी स्या॒त्स वा॒न्यञ्जि॑नी॒यात्तव्ँवा॒न्यो जि॑नीयादरु॒णया॑ पिङ्गा॒क्ष्या क्री॑णात्ये॒तद्वै सोम॑स्य रू॒पँ स्वयै॒वैन॑न्दे॒वत॑या क्रीणाति ॥ [45]
विश्वास-प्रस्तुतिः
यच् छ्वे॒तया॑ क्रीणी॒याद् दु॒श्चर्मा॒ यज॑मानस् स्यात् ।
यत् कृ॒ष्णया॑ ऽनु॒स्तर॑णी स्यात् , प्र॒मायु॑को॒ यज॑मानस् स्यात् ।
यद् द्वि॑रू॒पया॒ वात्र॑घ्नी स्या॒त् , स वा॒ऽन्यञ् जि॑नी॒यात् , तव्ँ वा॒ऽन्यो जि॑नीयात् ।
अ॒रु॒णया॑ पिङ्गा॒क्ष्या क्री॑णाति ।
ए॒तद् वै सोम॑स्य रू॒पँ,
स्वयै॒वैन॑न् दे॒वत॑या क्रीणाति ॥ [45]
मूलम्
यच् छ्वे॒तया॑ क्रीणी॒याद् दु॒श्चर्मा॒ यज॑मानस् स्यात् ।
यत् कृ॒ष्णया॑ ऽनु॒स्तर॑णी स्यात् , प्र॒मायु॑को॒ यज॑मानस् स्यात् ।
यद् द्वि॑रू॒पया॒ वात्र॑घ्नी स्या॒त् , स वा॒ऽन्यञ् जि॑नी॒यात् , तव्ँ वा॒ऽन्यो जि॑नीयात् ।
अ॒रु॒णया॑ पिङ्गा॒क्ष्या क्री॑णाति ।
ए॒तद् वै सोम॑स्य रू॒पँ,
स्वयै॒वैन॑न् दे॒वत॑या क्रीणाति ॥ [45]
पद-पाठः
यत् । श्वे॒तया॑ । क्री॒णी॒यात् । दु॒श्चर्मेति॑ दुः-चर्मा॑ । यज॑मानः । स्या॒त् ।
यत् । कृ॒ष्णया॑ । अ॒नु॒स्तर॒णीत्य॑नु-स्तर॑णी । स्या॒त् ।
प्र॒मायु॑क॒ इति॑ प्र-मायु॑कः । यज॑मानः । स्या॒त् ।
यत् । द्वि॒रू॒पयेति॑ द्वि-रू॒पया॑ । वार्त्र॒घ्नीति॒ वार्त्र॑-घ्नी॒ । स्या॒त् ।
सः । वा॒ । अ॒न्यम् । जि॒नी॒यात् । तम् । वा॒ । अ॒न्यः । जि॒नी॒या॒त् ।
अ॒रु॒णया॑ । पि॒ङ्गा॒क्ष्येति॑ पिङ्ग-अ॒क्ष्या । क्री॒णा॒ति॒ ।
ए॒तत् । वै । सोम॑स्य । रू॒पम् ।
स्वया॑ । ए॒व । ए॒न॒म् । दे॒वत॑या । क्री॒णा॒ति॒ ॥ [45]
भट्टभास्कर-टीका
14यदित्यादि ॥ यदि श्वेतवर्णया क्रीणीयात्, दुश्चर्मा यजमानः स्यात् । यत्कृष्णयेति । क्रीणीयादित्येव । अनुस्तरणी मृतविषया इयं स्यात् । मरणानन्तरमास्तीर्यते हिंस्यते इत्यनुस्तरणी । यथा ‘मृतायानुस्तरणीं घ्रन्ति’ इति । ततश्च प्रमायुको मरणशीलः यजमानस्स्यात् । छान्दस उकञ् । यदि द्विरूपया व्यामिश्रवर्णया क्रीणीयात् वार्त्रघ्नी शत्रुघ्नी स्यात्, वृत्रस्य हन्तुरियमिति, उत्सादित्वादञ् । अत एव हि हननशीलानामियं स्वभूता स्यात् । ततश्चानया साधनभूतया वाचा यजमानः अन्यं जिनीयात् मारयेत् । ज्या वयोहानौ, ग्रहिज्यादिना संप्रसारागम्, ‘चवायोगे प्रथमा’ इति प्रथमा तिड्विभक्तिर्न निहन्यते, या सुट्, उदात्तत्वम् । शत्रौ हन्तव्ये को हनिष्यते को हनिष्यतीति न ज्ञायते, ततश्चाविशेषाद्यजमानोपि हन्तव्यस्सांभाव्येत, तस्मात् पाक्षिकदोषपरिहारार्यं द्विरूपया न क्रीणीयात् । तस्मादरुणया सन्ध्यावर्णया पिङ्गाक्ष्या सोमं क्रीणातीति विधिः । ‘बहुव्रीहौ सक्थ्यक्ष्णोः’ इति पच् समासान्तः, ‘विद्गौरादिभ्यश्च’ इति ङीषि ‘उदात्तयणः’ इति विभक्तेरुदात्तत्वम् । एतदित्यादि । अरुणं पिङ्गाक्षं चेति सोमस्यौषधीशस्य रूपम्, तस्मात्स्वयैव देवतया एनं वल्लीसोमं क्रीणाति ॥
इति षष्ठे प्रथमे षष्ठोनुवाकः ॥