०५ प्रायणीयेष्टिविधानम् ...{Loading}...
सोमऋषिः
मूलम् (संयुक्तम्)
दे॒वा वै दे॑व॒यज॑नमध्यव॒साय॒ दिशो॒ न प्राजा॑न॒न्तेऽ३॒॑ न्यो॑न्यमुपा॑धाव॒न्
विश्वास-प्रस्तुतिः
दे॒वा वै दे॑व॒यज॑नम् अध्यव॒साय॒ दिशो॒ न प्राजा॑न॒न् , ते ऽ३॒॑न्यो॑न्यम् उपा॑धावन् ।
मूलम्
दे॒वा वै दे॑व॒यज॑नम् अध्यव॒साय॒ दिशो॒ न प्राजा॑न॒न् , ते ऽ३॒॑न्यो॑न्यम् उपा॑धावन् ।
पद-पाठः
दे॒वाः । वै । दे॒व॒यज॑न॒मिति॑ देव-यज॑नम् । अ॒ध्य॒व॒सायेत्य॑धि-अ॒व॒साय॑ । दिशः॑ । न । प्रेति॑ । अ॒जा॒न॒न् । ते । अ॒न्यः । अ॒न्यम् । उपेति॑ । अ॒धा॒व॒न् ।
भट्टभास्कर-टीका
1अत्र ‘भद्रादभि श्रेयः’ इत्यादीनां दीक्षितवादानां ब्राह्मणमौपानुवाक्यस्य प्रथमानुवाके द्रष्टव्यम् । अथ प्रायणीयोदयनीययोः कांश्चिद्विशेषान्विधातुमाह - देवा वै देवयजनमित्यादि ॥ देवा इज्यन्तेऽस्मिन्निति देवयजनम्; कृदुत्तरपदप्रकृतिस्वरत्वेन लित्स्वरः । देवा वै देवयजनमध्यवसाय ‘अत्र देवा यष्टव्याः’ इति स्थानविशेषाध्यवसायानन्तरं दिशः प्रागादिकाः न प्राजानन् इयं प्राचीयं दक्षिणेत्यादि निश्चेतुं नाशकुवन् । ततश्च व्यामुग्धचित्ताः दिग्विशेषापरिज्ञानेन प्राग्वंशादिकरणासमर्थाः अभवन् । ततस्ते अन्योन्यमुपाधावन् अन्यमन्योऽन्यं चान्य इत्येवं परस्परस्य समीपमगच्छन् । ‘कर्मव्यतिहारे सर्वनाम्नो द्वे भवतः समासवच्च बहुलम् । यदा समासवत्तदा पूर्वस्य प्रथमैकवचनम्’ इति रूपसिद्धिः ॥
मूलम् (संयुक्तम्)
त्वया॒ प्र जा॑नाम॒ त्वयेति॒ तेऽदि॑त्याँ॒ सम॑ध्रियन्त॒ त्वया॒ प्र जा॑ना॒मेति॒
विश्वास-प्रस्तुतिः
त्वया॒ प्र जा॑नाम॒ त्वयेति॒ , तेऽदि॑त्याँ॒ सम॑ध्रियन्त॒ , त्वया॒ प्र जा॑ना॒मेति॑ ।
मूलम्
त्वया॒ प्र जा॑नाम॒ त्वयेति॒ , तेऽदि॑त्याँ॒ सम॑ध्रियन्त॒ , त्वया॒ प्र जा॑ना॒मेति॑ ।
पद-पाठः
त्वया॑ । प्रेति॑ । जा॒ना॒म॒ । त्वया॑ । इति॑ ।
ते । अदि॑त्याम् । समिति॑ । अ॒ध्रि॒य॒न्त॒ ।
त्वया॑ । प्रेति॑ । जा॒ना॒म॒ । इति॑ ।
भट्टभास्कर-टीका
2केनाभिप्रायेणोपाधावन्नित्याह - त्वया प्र जानाम दिशः त्वं नो दिशः प्रज्ञापयेति वदन्तो देवास्मंभूय एकमुपाधावन्निति । उपगन्तव्यस्य वीप्स्यमानत्वाद्द्विर्वचनं - त्वया त्वया च [त्वयेति] । वीप्सायाश्च सुब्विषयत्वादाख्यातं न द्विरुच्यते । यथा - ‘पुरुष इष्टकामुपादधात्पुरुष इष्टकाम्’ इति । अथ देवा अन्यतोनुत्पन्नदिग्ज्ञानाः अदित्यां समघ्रियन्त अदितिसकाशे संभूयातिष्ठन्त त्वया प्र जानामेति । धृङ् अवस्थाने, तौदादिकः, ‘रिङ्शयग्लिङ्क्षु’ ॥
मूलम् (संयुक्तम्)
साब्र॑वी॒द्वरव्ँ॑वृणै॒ मत्प्रा॑यणा ए॒व वो॑ य॒ज्ञा मदु॑दयना अस॒न्निति॒ तस्मा॑दादि॒त्यᳶ प्रा॑य॒णीयो॑ य॒ज्ञाना॑मादि॒त्य उ॑दय॒नीय॒ᳶ
विश्वास-प्रस्तुतिः
साब्र॑वी॒द् - “वरव्ँ॑ वृणै॒ मत् प्रा॑यणा ए॒व वो॑ य॒ज्ञा मदु॑दयना अस॒न्न्"इति॑ ।
मूलम्
साब्र॑वी॒द् - “वरव्ँ॑ वृणै॒ मत् प्रा॑यणा ए॒व वो॑ य॒ज्ञा मदु॑दयना अस॒न्न्"इति॑ ।
पद-पाठः
सा । अ॒ब्र॒वी॒त् ।
वर॑म् । वृ॒णै॒ ।
मत्प्रा॑यणा॒ इति॒ मत्-प्रा॒य॒णाः॒ । ए॒व । वः॒ । य॒ज्ञाः । मदु॑दयना॒ इति॒ मत्-उ॒द॒य॒नाः॒ । अ॒स॒न् । इति॑ ।
भट्टभास्कर-टीका
3अधुना अदितिः दिशः प्रज्ञापयितुमना अब्रवीत् - वरं वृणै युष्मत्तः युष्माकं दिशः प्रज्ञापयिष्यामि यूयमिदमनुज्ञातुमर्हथ । कः पुनर्वर इत्याह - मत्वप्रायण इति ॥ प्रासंगिकमुदयनीयविषयं देवताविधानं, समानन्यायत्वात् । प्रयन्ति प्रारभंन्तेऽनेनेति प्रायणं प्रारम्भः देवता । उद्यन्ति उत्तिष्ठन्ति संस्थापयन्त्यनेनेति उदयनं समाप्तिः देवता । उभत्रापि करणे ल्युट्, सामान्यविवक्षया नपुंसकत्वम् । अहं प्रायणं येषामहमुदयनं येषामिति बहुव्रीहिः, ‘त्वमावेकवचने’ इति मादेशः । युष्माकं यज्ञाः मत्प्रायणा मदुदयना असन् सन्त्विति साऽब्रवीत्, वरं च देवेभ्यो लब्धवती ।
विश्वास-प्रस्तुतिः
तस्मा॑द् आदि॒त्यᳶ प्रा॑य॒णीयो॑ य॒ज्ञाना॑म् आदि॒त्य उ॑दय॒नीयः॑ ।
मूलम्
तस्मा॑द् आदि॒त्यᳶ प्रा॑य॒णीयो॑ य॒ज्ञाना॑म् आदि॒त्य उ॑दय॒नीयः॑ ।
पद-पाठः
तस्मा॑त् । आ॒दि॒त्यः । प्रा॒य॒णीय॒ इति॑ प्र-अ॒य॒नीयः॑ । य॒ज्ञाना॑म् । आ॒दि॒त्यः । उ॒द॒य॒नीय॒ इत्यु॑त्-अ॒य॒नीयः॑ ।
भट्टभास्कर-टीका
तस्मात् यज्ञानां प्रायणीय उदयनीयश्च आदित्यः अदितिदेवत्यः । ‘दित्यदिति’ इति ण्यः । प्रायणीयः प्रारम्भयागः, उदयनीयस्समाप्तियागः । उभयत्रापि ‘कृत्यल्युटो बहुलम्’ इति करणे अनीयर्, ‘उपोत्तमं रिति’ इत्युपोत्तमस्योदात्तत्वम् । यद्वा - प्रायणं प्रारम्भः, उदयनं समाप्तिः, तत्र भवो याग इति ग्रहादित्वाच्छप्रत्ययः, प्रत्ययाद्युदात्तत्वम् ॥
मूलम् (संयुक्तम्)
पञ्च॑ दे॒वता॑ यजति॒ पञ्च॒ दिशो॑ दि॒शाम्प्रज्ञा॑त्यै [34]
अथो॒ पञ्चा॑क्षरा प॒ङ्क्तिᳶ पाङ्क्तो॑ य॒ज्ञो य॒ज्ञमे॒वाव॑ रुन्द्धे॒ पथ्याँ॑ स्व॒स्तिम॑यज॒न्प्राची॑मे॒व तया॒ दिश॒म्प्राजा॑नन्न॒ग्निना॑ दक्षि॒णा सोमे॑न प्र॒तीचीँ॑ सवि॒त्रोदी॑ची॒मदि॑त्यो॒र्ध्वाम्पथ्याँ॑ स्व॒स्तिय्ँय॑जति॒
विश्वास-प्रस्तुतिः
पञ्च॑ दे॒वता॑ यजति॒ पञ्च॒ दिशो॑ , दि॒शाम् प्रज्ञा॑त्यै [34] ।
अथो॒ पञ्चा॑क्षरा प॒ङ्क्तिᳶ । पाङ्क्तो॑ य॒ज्ञः । य॒ज्ञमे॒वाव॑ रुन्धे ।
पथ्याँ॑ स्व॒स्तिम् अ॑यजन् , प्राची॑मे॒व तया॒ दिश॒म् प्राजा॑नन् ।
अ॒ग्निना॑ दक्षि॒णा , सोमे॑न प्र॒तीचीँ॑ , सवि॒त्रोदी॑ची॒म् , अदि॑त्यो॒र्ध्वाम् +++( प्राजानन्)+++।
पथ्याँ॑ स्व॒स्तिय्ँ य॑जति ।
मूलम्
पञ्च॑ दे॒वता॑ यजति॒ पञ्च॒ दिशो॑ , दि॒शाम् प्रज्ञा॑त्यै [34] ।
अथो॒ पञ्चा॑क्षरा प॒ङ्क्तिᳶ । पाङ्क्तो॑ य॒ज्ञः । य॒ज्ञमे॒वाव॑ रुन्धे ।
पथ्याँ॑ स्व॒स्तिम् अ॑यजन् , प्राची॑मे॒व तया॒ दिश॒म् प्राजा॑नन् ।
अ॒ग्निना॑ दक्षि॒णा , सोमे॑न प्र॒तीचीँ॑ , सवि॒त्रोदी॑ची॒म् , अदि॑त्यो॒र्ध्वाम् +++( प्राजानन्)+++।
पथ्याँ॑ स्व॒स्तिय्ँ य॑जति ।
पद-पाठः
पञ्च॑ । दे॒वताः॑ । य॒ज॒ति॒ । पञ्च॑ । दिशः॑ । दि॒शाम् । प्रज्ञा॑त्या॒ इति॒ प्र-ज्ञा॒त्यै॒ । [34]
अथो॒ इति॑ । पञ्चा॑क्ष॒रेति॒ पञ्च॑-अ॒क्ष॒रा॒ । प॒ङ्क्तिः । पाङ्क्तः॑ । य॒ज्ञः । य॒ज्ञम् । ए॒व । अवेति॑ । रु॒न्द्धे॒ ।
पथ्या॑म् । स्व॒स्तिम् । अ॒य॒ज॒न् । प्राची॑म् । ए॒व । तया॑ । दिश॑म् । प्रेति॑ । अ॒जा॒न॒न् ।
अ॒ग्निना॑ । द॒क्षि॒णा । सोमे॑न । प्र॒तीची॑म् । स॒वि॒त्रा । उदी॑चीम् । अदि॑त्या । ऊ॒र्ध्वाम् । पथ्या॑म् । स्व॒स्तिम् । य॒ज॒ति॒ ।
भट्टभास्कर-टीका
4पञ्चेत्यादिविधिः ॥ ताश्च वक्ष्यमाणाः पथ्यास्वस्त्यादयो वेदितव्याः । दिशाम् । ‘सावेकाचः’ इति विभक्तेरुदात्तत्वम् । प्रज्ञात्यै प्रज्ञानाय भवति देवतायागः । ‘तादौ च’ इति गतेः प्रत्कृतिस्वरत्वम् । अथो इति । अपि चेत्यर्थः । पाङ्क्तत्वं यज्ञस्योक्तम् । पङ्क्तिशब्द उत्सादिः । पञ्चानां योगो यज्ञावरुद्ध्यै च भवति । काः पुनस्ता देवता इत्याह - पथ्यामित्यादि । पथि साधु पथ्या प्रजानां हितंकरः आदित्य इति केचित् । उषा इत्यन्ये । प्रजापतिरित्यपरे । अस्तेः ‘क्तिचूक्तौ च संज्ञायाम्’ इति क्तिच्, छान्दसो भूभावाभावः । ‘छन्दस्युभयथा’ इति सार्वधातुकत्वाद्वा । असतेर्वा क्तिचि ‘तितुत्र’ इतीट्प्रतिषेधः । तया देवतया प्राचीं प्राजानन् । प्राच्यादयश्शब्दा व्युत्पादिताः । अग्निनेत्यादि । अग्निमयजन् तेन दक्षिणामजानन् । एवं सर्वत्र । दक्षिणशब्दाद्द्वितीयैकवचनस्याजादेशः । यस्मादेवं पथ्यास्वस्त्यादीनां यागेन देवाः प्राच्याद्याः प्राजानन् तस्मात्पथ्यां स्वस्तिं यजति यजेत् इत्यादयो विधयः ॥
मूलम् (संयुक्तम्)
प्राची॑मे॒व तया॒ दिश॒म्प्र जा॑नाति॒ पथ्याँ॑ स्व॒स्तिमि॒ष्ट्वाग्नीषोमौ॑ यजति॒ चक्षु॑षी॒ वा ए॒ते य॒ज्ञस्य॒ यद॒ग्नीषोमौ॒ ताभ्या॑मे॒वानु॑ पश्यति [35]
अ॒ग्नीषोमा॑वि॒ष्ट्वा स॑वि॒तारय्ँ॑यजति सवि॒तृप्र॑सूत ए॒वानु॑ पश्यति सवि॒तार॑मि॒ष्ट्वादि॑तिय्ँयजती॒यव्ँ वा अदि॑तिर॒स्यामे॒व प्र॑ति॒ष्ठायानु॑ पश्य॒त्य्
विश्वास-प्रस्तुतिः
प्राची॑मे॒व तया॒ दिश॒म् प्र जा॑नाति ।
पथ्याँ॑ स्व॒स्तिमि॒ष्ट्वा ऽग्नीषोमौ॑ यजति ।
चक्षु॑षी॒ वा ए॒ते य॒ज्ञस्य॒ ,
यद् अ॒ग्नीषोमौ॒ ताभ्या॑म् ए॒वानु॑ पश्यति [35]।
अ॒ग्नीषोमा॑व् इ॒ष्ट्वा स॑वि॒तारय्ँ॑ यजति ।
स॒वि॒तृप्र॑सूत ए॒वानु॑ पश्यति ।
स॒वि॒तार॑म् इ॒ष्ट्वाऽदि॑तिय्ँ यजति ।
इ॒यव्ँ वा अदि॑तिर् अ॒स्यामे॒व प्र॑ति॒ष्ठायानु॑ पश्यति ।
मूलम्
प्राची॑मे॒व तया॒ दिश॒म् प्र जा॑नाति ।
पथ्याँ॑ स्व॒स्तिमि॒ष्ट्वा ऽग्नीषोमौ॑ यजति ।
चक्षु॑षी॒ वा ए॒ते य॒ज्ञस्य॒ ,
यद् अ॒ग्नीषोमौ॒ ताभ्या॑म् ए॒वानु॑ पश्यति [35]।
अ॒ग्नीषोमा॑व् इ॒ष्ट्वा स॑वि॒तारय्ँ॑ यजति ।
स॒वि॒तृप्र॑सूत ए॒वानु॑ पश्यति ।
स॒वि॒तार॑म् इ॒ष्ट्वाऽदि॑तिय्ँ यजति ।
इ॒यव्ँ वा अदि॑तिर् अ॒स्यामे॒व प्र॑ति॒ष्ठायानु॑ पश्यति ।
पद-पाठः
प्राची॑म् । ए॒व । तया॑ । दिश॑म् । प्रेति॑ । जा॒ना॒ति॒ ।
पथ्या॑म् । स्व॒स्तिम् । इ॒ष्ट्वा । अ॒ग्नीषोमा॒वित्य॒ग्नी-सोमौ॑ । य॒ज॒ति॒ ।
चक्षु॑षी॒ इति॑ । वै । ए॒ते । य॒ज्ञस्य॑ । यत् । अ॒ग्नीषोमा॒वित्य॒ग्नी-सोमौ॑ । ताभ्या॑म् । ए॒व । अन्विति॑ । प॒श्य॒ति॒ । [35]
अ॒ग्नीषोमा॒वित्य॒ग्नी-सोमौ॑ । इ॒ष्ट्वा । स॒वि॒तार॑म् । य॒ज॒ति॒ ।
स॒वि॒तृप्र॑सूत॒ इति॑ सवि॒तृ-प्र॒सू॒तः॒ । ए॒व । अन्विति॑ । प॒श्य॒ति॒ ।
स॒वि॒तार॑म् । इ॒ष्ट्वा । अदि॑तिम् । य॒ज॒ति॒ ।
इ॒यम् । वै । अदि॑तिः । अ॒स्याम् । ए॒व । प्र॒ति॒ष्ठायेति॑ प्रति-स्थाय॑ । अन्विति॑ । प॒श्य॒ति॒ ।
भट्टभास्कर-टीका
5प्राचीमेवेत्यादीनि फलानि ॥ अग्नीषोमौ । ‘ईदग्नेः’ इतीत्वम्, ‘अग्नेस्तुत्स्तोमसोमाः’ इति षत्वम्; ‘देवताद्वन्द्वे च’ इति द्वयोर्युगपत्प्रकृतिस्वरत्वम् । चक्षुषी इत्यादि । यज्ञचक्षुर्भूताभ्यां ताभ्यामनुपश्यति अनुक्रमेण जानाति, अनन्तरे दिशौ दक्षिणां प्रतीचीं च जानाति । सवितृप्रसूतः सवित्रा प्रेरितः अनुज्ञातो षा अनन्तरामुदींची दिशं जानाति । ‘तृतीया कर्मणि’ इति पूर्वपदप्रकृतिस्वरत्वम् । इयमित्यादि । अस्यां पृथिव्यां प्रतिष्ठाय प्रतिष्ठितो भूत्वा अनन्तरामूर्ध्वां दिशं जानाति । अत्र सर्वत्रेष्ट्वेति क्त्वाप्रत्ययेन यष्टव्यानां देवतानां क्रमं दर्शयति ॥
मूलम् (संयुक्तम्)
अदि॑तिमि॒ष्ट्वा मा॑रु॒तीमृच॒मन्वा॑ह म॒रुतो॒ वै दे॒वानाव्ँ॒विशो॑ देववि॒शङ्खलु॒ वै कल्प॑मानम्मनुष्यवि॒शमनु॑ कल्पते॒ यन्मा॑रु॒तीमृच॑म॒न्वाह॑ वि॒शाङ्कॢप्त्यै॑
विश्वास-प्रस्तुतिः
अदि॑तिमि॒ष्ट्वा मा॑रु॒तीम् ऋच॒म् अन्वा॑ह - म॒रुतो॒ वै दे॒वानाव्ँ॒ विशः॑ ।
दे॒व॒वि॒शङ् खलु॒ वै कल्प॑मानम् मनुष्यवि॒शम् अनु॑ कल्पते । यन् मा॑रु॒तीम् ऋच॑म् अ॒न्वाह॑ वि॒शाङ्कॢप्त्यै॑ ।
मूलम्
अदि॑तिमि॒ष्ट्वा मा॑रु॒तीम् ऋच॒म् अन्वा॑ह - म॒रुतो॒ वै दे॒वानाव्ँ॒ विशः॑ ।
दे॒व॒वि॒शङ् खलु॒ वै कल्प॑मानम् मनुष्यवि॒शम् अनु॑ कल्पते । यन् मा॑रु॒तीम् ऋच॑म् अ॒न्वाह॑ वि॒शाङ्कॢप्त्यै॑ ।
पद-पाठः
अदि॑तिम् । इ॒ष्ट्वा । मा॒रु॒तीम् । ऋच॑म् । अन्विति॑ । आ॒ह॒ ।
म॒रुतः॑ । वै । दे॒वाना॑म् । विशः॑ ।
दे॒व॒वि॒शमिति॑ देव-वि॒शम् । खलु॑ । वै । कल्प॑मानम् । म॒नु॒ष्य॒वि॒शमिति॑ मनुष्य-वि॒शम् । अन्विति॑ । क॒ल्प॒ते॒ ।
यत् । मा॒रु॒तीम् । ऋच॑म् । अ॒न्वाहेत्य॑नु-आह॑ । वि॒शाम् । कॢप्त्यै॑ ।
भट्टभास्कर-टीका
6अदितिमिष्ट्वेत्यादि ॥ मारुत्या अनुवचनविधिः । यां कांचिन्मरुद्देवत्यामन्वाह । विशः प्रजाः प्रकृतयः । देवविशमित्यादि । देवानां विशो देवविशम् । मनुष्याणां विशो मनुष्यविशम् । जातावेकवचनम्, ‘अच्’ इति योगाविभागात्समासान्तः । यथोक्तम् - ‘अन्यत्रापि दृश्यते’ इति । लिङ्गस्वाभाव्यान्नपुंसकत्वम्, यथोक्तं - ‘लिङ्गमशिष्यम्’ इति । अयमर्थः - यदा देवानां विशः कल्पन्ते संपद्यन्ते तदा तेनैव हेतुना लक्षणेन वा मनुष्याणां विशः कल्पन्ते संपन्ना भवन्ति । लक्षणेनोः कर्मप्रवचनीयत्वम् । तस्मान्मारुत्या अनुवचनं विशां कॢप्त्यै भवति ॥
मूलम् (संयुक्तम्)
ब्रह्मवा॒दिनो॑ वदन्ति प्रया॒जव॑दननूया॒जम्प्रा॑य॒णीय॑ङ्का॒र्य॑मनूया॒जव॑त् [36]
अ॒प्र॒या॒जमु॑दय॒नीय॒मिति
विश्वास-प्रस्तुतिः
ब्र॒ह्म॒वा॒दिनो॑ वदन्ति - “प्रया॒जव॑दननूया॒जम् प्रा॑य॒णीय॑ङ् का॒र्य॑म् अनूया॒जव॑द् अप्रया॒जम् मु॑दय॒नीयम्"इति॑ ।[36]
मूलम्
ब्र॒ह्म॒वा॒दिनो॑ वदन्ति - “प्रया॒जव॑दननूया॒जम् प्रा॑य॒णीय॑ङ् का॒र्य॑म् अनूया॒जव॑द् अप्रया॒जम् मु॑दय॒नीयम्"इति॑ ।[36]
पद-पाठः
ब्र॒ह्म॒वा॒दिन॒ इति॑ ब्रह्म-वा॒दिनः॑ । व॒द॒न्ति॒ ।
प्र॒या॒जव॒दिति॑ प्रया॒ज-व॒त् । अ॒न॒नू॒या॒जमित्यन॑नु-या॒जम् । प्रा॒य॒णीय॒मिति॑ प्र-अ॒य॒नीय॑म् । का॒र्य॑म् । अ॒नू॒या॒जव॒दित्य॑नूया॒ज-व॒त् । [36] अ॒प्र॒या॒जमित्य॑प्र-या॒जम् । उ॒द॒य॒नीय॒मित्यु॑त्-अ॒य॒नीय॑म् । इति॑ ।
भट्टभास्कर-टीका
7ब्रह्मवादिन इत्यादि ॥ प्रारम्भे यष्टव्याः प्रयाजाः । अनु पश्चात् समाप्तौ यष्टव्याः अनूयाजाः । ‘प्रयाजानूयाजौ यज्ञाङ्गे’ इति कुत्वाभावो निपात्यते, थाथादिनोत्तरपदान्तोदात्तत्वम् । ‘उपसर्गस्य घञ्यमनुष्ये बहुलम्’ इत्यनोर्दीर्घत्वम् । प्रयाजयुक्तमविद्यमानानूयाजं प्रायणीयं कार्यं अनूयाजयुक्तमविद्यमानप्रयाजमुदयनीयं कार्यमिति ब्रह्मवादिन आहुः । अत्र पूर्वयोः ‘नञ्सुभ्याम्’ इत्युत्तरपदान्तोदात्तत्वम् । प्रायणीयोदयनीयशब्दौ अर्धर्चादिद्रष्टव्यौ ॥
मूलम् (संयुक्तम्)
इ॒मे वै प्र॑या॒जा अ॒मी अ॑नूया॒जास्सैव सा य॒ज्ञस्य॒ सन्त॑ति॒स्
विश्वास-प्रस्तुतिः
इ॒मे वै प्र॑या॒जा, अ॒मी अ॑नूया॒जाः । सै॒व सा य॒ज्ञस्य॒ सन्त॑तिः ।
मूलम्
इ॒मे वै प्र॑या॒जा, अ॒मी अ॑नूया॒जाः । सै॒व सा य॒ज्ञस्य॒ सन्त॑तिः ।
पद-पाठः
इ॒मे । वै । प्र॒या॒जा इति॑ प्र-या॒जाः । अ॒मी इति॑ । अ॒नू॒या॒जा इत्य॑नु-या॒जाः । सा । ए॒व । सा । य॒ज्ञस्य॑ । सन्त॑ति॒रिति॒ सम्-त॒तिः॒ ।
भट्टभास्कर-टीका
8अथ ब्रह्मवादिन उक्तेऽर्थे कारणं वदन्ति - इमे इत्यादि ॥ सन्निहितपुरोवर्तिविषय इदंशब्दः, विपरीतविषयोदश्शब्दः । अयमर्थः - इमे प्रयाजाः अस्मिन् यागारम्भकाले सन्निहिताः प्रयाजाः । अमी अनूयाजाः उत्तरस्मिन् यागसमाप्तिकाले भविष्यन्त्यनूयाजाः । तस्मात्सैव प्रायणीये प्रयाजप्रभृति प्रवृत्ता सा यज्ञस्य सन्ततिः । या उदयनीयानूयाजकाले सन्तन्यते । एतावन्तं कालमेकैकाविच्छेदेन यज्ञस्य सन्ततिः संपन्ना भवति । अन्यथा यदि प्रायणीये अनूयाजास्स्युः, तेषां यज्ञसमाप्तिविषयत्वात् यज्ञसन्ततिः प्रस्तुता विच्छिन्ना स्यात् । अथ यद्युदयनीये प्रयाजास्स्युः तेषां यज्ञारम्भविषयत्वात् प्रस्तुतयज्ञसन्ततिविच्छिदोनेनानुमीयते । तस्मादुभयाभावात् सैव सा यज्ञस्य सन्ततिर्भवति । यद्वा - इमे वै प्रयाजा आरम्भयागाः खलु प्रयाजाः, तस्मात्त एवारम्भयागे प्रायणीये स्युरिति युज्यते । अथामी अनूयाजाः समाप्तियागाः, त एव समाप्तियागाः उदयनीये भवितुमर्हन्तीत्यर्थः । एतदेव समर्थयते - सैवेति । सैव हि यज्ञस्य प्रायणनीयस्य सैवोदयनीयस्य च सन्ततिरिति । यद्वा - इमे इदंरूपाः भूलोकात्मानः प्रयाजाः । अमी अदोरूपाः स्वर्लोकात्मानोनूयाजाः । सैव सा उदयनीयसमाप्तिः एतल्लोकसंबन्धिन्येव यज्ञस्य सन्ततिर्भवति, तथा यजमानोस्मिन् लोके प्रतिष्ठितो भवतीति ॥
मूलम् (संयुक्तम्)
तत्तथा॒ न का॒र्य॑मा॒त्मा वै प्र॑या॒जाᳶ प्र॒जानू॑या॒जा यत्प्र॑या॒जान॑न्तरि॒यादा॒त्मान॑म॒न्तरि॑या॒द्यद॑नूया॒जान॑न्तरि॒यात्प्र॒जाम॒न्तरि॑या॒द्यत॒ᳵ खलु॒ वै य॒ज्ञस्य॒ वित॑तस्य॒ न क्रि॒यते॒ तदनु॑ य॒ज्ञᳶ परा॑ भवति य॒ज्ञम्प॑रा॒भव॑न्तय्ँ॒यज॑मा॒नोऽनु॑ [37]
परा॑भवति
विश्वास-प्रस्तुतिः
तत् तथा॒ न का॒र्य॑म् , आ॒त्मा वै प्र॑या॒जाᳶ प्र॒जा ऽनू॑या॒जाः । यत् प्र॑या॒जान् अ॑न्तरि॒याद् , आ॒त्मान॑म् अ॒न्तरि॑या॒द् , यद॑नूया॒जान् अ॑न्तरि॒यात् , प्र॒जाम् अ॒न्तरि॑यात् ।
यत॒ᳵ खलु॒ वै य॒ज्ञस्य॒ वित॑तस्य॒ न क्रि॒यते॒ तदनु॑ य॒ज्ञᳶ परा॑ भवति ।
य॒ज्ञम् प॑रा॒भव॑न्तय्ँ॒ यज॑मा॒नोऽनु॑ परा॑भवति ।[37]
मूलम्
तत् तथा॒ न का॒र्य॑म् , आ॒त्मा वै प्र॑या॒जाᳶ प्र॒जा ऽनू॑या॒जाः । यत् प्र॑या॒जान् अ॑न्तरि॒याद् , आ॒त्मान॑म् अ॒न्तरि॑या॒द् , यद॑नूया॒जान् अ॑न्तरि॒यात् , प्र॒जाम् अ॒न्तरि॑यात् ।
यत॒ᳵ खलु॒ वै य॒ज्ञस्य॒ वित॑तस्य॒ न क्रि॒यते॒ तदनु॑ य॒ज्ञᳶ परा॑ भवति ।
य॒ज्ञम् प॑रा॒भव॑न्तय्ँ॒ यज॑मा॒नोऽनु॑ परा॑भवति ।[37]
पद-पाठः
तत् । तथा॑ । न । का॒र्य॑म् । आ॒त्मा । वै । प्र॒या॒जा इति॑ प्र-या॒जाः । प्र॒जेति॑ प्र-जा । अ॒नू॒या॒जा इत्य॑नु-या॒जाः । यत् । प्र॒या॒जानिति॑ प्र-या॒जान् । अ॒न्त॒रि॒यादित्य॑न्तः-इ॒यात् । आ॒त्मान॑म् । अ॒न्तः । इ॒या॒त् । यत् । अ॒नू॒या॒जानित्य॑नु-या॒जान् । अ॒न्त॒रि॒यादित्य॑न्तः-इ॒यात् । प्र॒जामिति॑ प्र-जाम् । अ॒न्तः । इ॒या॒त् ।
यतः॑ । खलु॑ । वै । य॒ज्ञस्य॑ । वित॑त॒स्येति॒ वि-त॒त॒स्य॒ । न । क्रि॒यते॑ । तत् । अन्विति॑ । य॒ज्ञः । परेति॑ । भ॒व॒ति॒ ।
य॒ज्ञम् । प॒रा॒भव॑न्त॒मिति॑ परा-भव॑न्तम् । यज॑मानः । अन्विति॑ । [37] परेति॑ । भ॒व॒ति॒ ।
भट्टभास्कर-टीका
9एवं देवतासाम्येनानयोर्यागयोरैक्यं मन्यमानैः ब्रह्मवादिभिरुक्ते एतद्दूषयति - तत्तथेति ॥ अयमभिप्रायः - भिन्नावेतौ यागौ भिन्नकालौ व्यवहितौ च । न च देवताया अभेदमात्रेणैकत्वं भवति अध्वरकल्पवदिति । यथोक्तं ब्रह्मवादिभिस्तथा न कर्तव्यं; कुत इत्याह - आत्मेत्यादि । प्रथमजातत्वादात्मत्वम्, पश्चाज्जातत्वात्प्रजात्वम् । अन्तरियात् विनाशयेत् । तस्मादन्यतरान्तरयेऽन्यतरान्तरयस्स्यात् । यच्चोक्तं यज्ञसन्ततिस्संपन्ना भवतीति तदपि नेत्याह - यतः खल्विति । यज्ञस्य विततस्य अप्रतिषिद्धप्रसरस्य यतः प्रदेशात्प्रभृति न क्रियते तदनु यज्ञः पराभवति । यज्ञं पराभवन्तं यजमानोनुपराभवति । तस्मादसमीचीनं ब्रह्मवादिवचनमिति ॥
मूलम् (संयुक्तम्)
प्रया॒जव॑दे॒वानू॑या॒जव॑त्प्राय॒णीय॑ङ्का॒र्य॑म्प्रया॒जव॑दनूया॒जव॑दुदय॒नीय॒न्नात्मान॑मन्त॒रेति॒ न प्र॒जान्न य॒ज्ञᳶ प॑रा॒भव॑ति॒ न यज॑मानᳶ
विश्वास-प्रस्तुतिः
प्र॒या॒जव॑द् ए॒वानू॑या॒जव॑त् प्राय॒णीय॑ङ् का॒र्य॑म् , प्रया॒जव॑द् अनूया॒जव॑द् उदय॒नीय॒न् , न आत्मान॑म् अन्त॒रेति॒ , न प्र॒जाम् । न य॒ज्ञᳶ प॑रा॒भव॑ति॒ , न यज॑मानः ।
मूलम्
प्र॒या॒जव॑द् ए॒वानू॑या॒जव॑त् प्राय॒णीय॑ङ् का॒र्य॑म् , प्रया॒जव॑द् अनूया॒जव॑द् उदय॒नीय॒न् , न आत्मान॑म् अन्त॒रेति॒ , न प्र॒जाम् । न य॒ज्ञᳶ प॑रा॒भव॑ति॒ , न यज॑मानः ।
पद-पाठः
प्र॒या॒जव॒दिति॑ प्रया॒ज-व॒त् । ए॒व । अ॒नू॒या॒जव॒दित्य॑नूया॒ज-व॒त् । प्रा॒य॒णीय॒मिति॑ प्र-अ॒य॒नीय॑म् । का॒र्य॑म् ।
प्र॒या॒जव॒दिति॑ प्रया॒ज-व॒त् । अ॒नू॒या॒जव॒दित्य॑नूया॒ज-व॒त् । उ॒द॒य॒नीय॒मित्यु॑त्-अ॒य॒नीय॑म् ।
न । आ॒त्मान॑म् । अ॒न्त॒रेतीत्य॑न्तः-एति॑ । न । प्र॒जामिति॑ प्र-जाम् । न । य॒ज्ञः । प॒रा॒भव॒तीति॑ परा-भव॑ति । न । यज॑मानः ।
भट्टभास्कर-टीका
10कथं तर्हि कर्तव्यमित्याह - प्रयाजवदेवेत्यादि ॥ उभयमुभयवदेव कर्तव्यमिति नात्मानं न च प्रजामन्तरेति, न यज्ञो न च यजमानः पराभवति ॥
मूलम् (संयुक्तम्)
प्राय॒णीय॑स्य निष्का॒स उ॑दय॒नीय॑म॒भि निर्व॑पति॒ सैव सा य॒ज्ञस्य॒ सन्त॑ति॒र्
विश्वास-प्रस्तुतिः
प्रा॒य॒णीय॑स्य निष्का॒स उ॑दय॒नीय॑म् अ॒भि निर्व॑पति॒ , सैव सा य॒ज्ञस्य॒ सन्त॑तिः ।
मूलम्
प्रा॒य॒णीय॑स्य निष्का॒स उ॑दय॒नीय॑म् अ॒भि निर्व॑पति॒ , सैव सा य॒ज्ञस्य॒ सन्त॑तिः ।
पद-पाठः
प्रा॒य॒णीय॒स्येति॑ प्र-अ॒य॒नीय॑स्य । नि॒ष्का॒से । उ॒द॒य॒नीय॒मित्यु॑त्-अ॒य॒नीय॑म् । अ॒भि । निरिति॑ । व॒प॒ति॒ । सा । ए॒व । सा । य॒ज्ञस्य॑ । सन्त॑ति॒रिति॒ सम्-त॒तिः॒ ।
भट्टभास्कर-टीका
11यज्ञसन्ततिमपि दर्शयाम इत्याह - प्रायणीयस्य निष्कास इति विधिः ॥ प्रायणीयस्य निष्कासे स्थाल्यां मेक्षणे च लग्नं यदन्नकल्पमन्नं तस्योपर्युदयनीयं निर्वपति । एतेन प्रायणीयोदयनीययोरेका यज्ञस्य सन्ततिः कृता भवति ॥
मूलम् (संयुक्तम्)
याᳶ प्रा॑य॒णीय॑स्य या॒ज्या॑ यत्ता उ॑दय॒नीय॑स्य या॒ज्याः॑ कु॒र्यात्परा॑ङ॒मुल्ँ लो॒कमा रो॑हेत्प्र॒मायु॑कस्स्या॒द्
विश्वास-प्रस्तुतिः
याᳶ प्रा॑य॒णीय॑स्य या॒ज्या॑ यत्ता उ॑दय॒नीय॑स्य या॒ज्याः॑ कु॒र्यात् , परा॑ङ् अ॒मुल्ँ लो॒कम् आ रो॑हेत् प्र॒मायु॑कस् स्यात् ।
मूलम्
याᳶ प्रा॑य॒णीय॑स्य या॒ज्या॑ यत्ता उ॑दय॒नीय॑स्य या॒ज्याः॑ कु॒र्यात् , परा॑ङ् अ॒मुल्ँ लो॒कम् आ रो॑हेत् प्र॒मायु॑कस् स्यात् ।
पद-पाठः
याः । प्रा॒य॒णीय॒स्येति॑ प्र-अ॒य॒नीय॑स्य । या॒ज्याः॑ । यत् । ताः । उ॒द॒य॒नीय॒स्येत्यु॑त्-अ॒य॒नीय॑स्य । या॒ज्याः॑ । कु॒र्यात् । पराङ्॑ । अ॒मुम् । लो॒कम् । एति॑ । रो॒हे॒त् । प्र॒मायु॑क॒ इति॑ प्र-मायु॑कः । स्या॒त् ।
भट्टभास्कर-टीका
12अत्र तैर्ब्रह्मवादिभिर्यदुक्तं ‘याः प्रायणीयस्य याज्यास्ता एवोदयनीयस्य याज्याः कार्याः’ इति तदपि दूषयति - यत् यदि तथा कुर्यात् पराङपुनरावृत्त एव एनं लोकं मुक्त्वा अमुमूर्ध्वलोकमारोहेत्; ततश्च प्रमायुकः परागतासुः स्यात् । यजत्याभिरिति याज्याः, ‘कृत्यल्युटो बहुलम्’ इति करणे ल्युट्, ‘यजयाचरुचप्रवचर्चश्च’ इति कुत्वाभावः । पराऽञ्चतीति पराङ्, ऋत्विगादिना क्विनि अनुनासिकलोपे संयोगान्तलोपे च ‘क्विन्प्रत्ययस्य कुः’ इति कुत्वम्, ‘अनिगन्तोञ्चतावप्रत्यये’ इति गतेः प्रकृतिस्वरत्वम् । मीयतेः छान्दस उकञ्, कृदुत्तरपदप्रकृतिस्वरत्वम् ॥
मूलम् (संयुक्तम्)
याᳶ प्रा॑य॒णीय॑स्य पुरोनुवा॒क्या॑स्ता उ॑दय॒नीय॑स्य या॒ज्याः॑ करोत्य॒स्मिन्ने॒व लो॒के प्रति॑ तिष्ठति ॥ [38]
विश्वास-प्रस्तुतिः
याᳶ प्रा॑य॒णीय॑स्य पुरोनुवा॒क्या॑स् , ता उ॑दय॒नीय॑स्य या॒ज्याः॑ करोत्य् , अ॒स्मिन्न् ए॒व लो॒के प्रति॑ तिष्ठति ॥ [38]
मूलम्
याᳶ प्रा॑य॒णीय॑स्य पुरोनुवा॒क्या॑स् , ता उ॑दय॒नीय॑स्य या॒ज्याः॑ करोत्य् , अ॒स्मिन्न् ए॒व लो॒के प्रति॑ तिष्ठति ॥ [38]
पद-पाठः
याः । प्रा॒य॒णीय॒स्येति॑ प्र-अ॒य॒नीय॑स्य । पु॒रो॒नु॒वा॒क्या॑ इति॑ पुरः-अ॒नु॒वा॒क्याः॑ । ताः । उ॒द॒य॒नीय॒स्येत्यु॑त्-अ॒य॒नीय॑स्य । या॒ज्याः॑ । क॒रो॒ति॒ । अ॒स्मिन् । ए॒व । लो॒के । प्रतीति॑ । ति॒ष्ठ॒ति॒ ॥ [38]
भट्टभास्कर-टीका
13एवं परोक्तं दूषयित्वा स्वसिद्धिमाह - याः प्रायणीयस्य पुरोनुवाक्या इत्यादिविधिः ॥ पुरस्तादनूच्यन्ते इति पुरोनुवाक्याः पथ्यास्वस्त्यादीनाम् । ण्यति कृदुत्तरपदप्रकृतिस्वरत्वम् । याः प्रायणीयस्य याज्याः ता उदयनीयस्य पुरोनुवाक्याः कुर्यादित्ययमपि गम्यते । उक्तदोषाभावमिदानीमाह - अस्मिन्नित्यादि । यागान्ते न्यायप्राप्तयाज्यां मुक्त्वा प्रायणीयपुरोनुवाक्यास्वीकारेणामुष्माल्लोकादिमं लोकमागत इवायं भवतीति पुनरावृत्तोस्मिन्नेव लोके प्रतितिष्ठतीति; दीर्घायुर्भवतीति यावत् । ‘ऊडिदम्’ इत्यादिना इदमो विभक्तेरुदात्तत्वम् ॥
इति षष्ठे प्रथमे पञ्चमोनुवाकः ॥