०४ यजमानस्य दण्डादानमुष्टीकरणवाग्यमपूर्वक

०४ यजमानस्य दण्डादानमुष्टीकरणवाग्यमपूर्वकं नियमानुष्ठानम् ...{Loading}...

सोमऋषिः

मूलम् (संयुक्तम्)

वाग्वै दे॒वेभ्योऽपा॑क्रामद्य॒ज्ञायाति॑ष्ठमाना॒ सा वन॒स्पती॒न्प्रावि॑श॒त्सैषा वाग्वन॒स्पति॑षु वदति॒ या दु॑न्दु॒भौ या तूण॑वे॒ या वीणा॑याय्ँ॒यद्दी॑क्षितद॒ण्डम्प्र॒यच्छ॑ति॒ वाच॑मे॒वाव॑ रुन्द्ध॒

विश्वास-प्रस्तुतिः

वाग्वै दे॒वेभ्यो ऽपा॑क्रामद् य॒ज्ञायाति॑ष्ठमाना॒ सा वन॒स्पती॒न् प्रावि॑शत् ।
सैषा वाग् वन॒स्पति॑षु वदति॒ - या दु॑न्दु॒भौ , या तूण॑वे॒ , या वीणा॑याय्ँ॒ यद् दी॑क्षितद॒ण्डम् प्र॒यच्छ॑ति॒ , वाच॑म् ए॒वाव॑ रुन्धे ।

मूलम्

वाग्वै दे॒वेभ्यो ऽपा॑क्रामद् य॒ज्ञायाति॑ष्ठमाना॒ सा वन॒स्पती॒न् प्रावि॑शत् ।
सैषा वाग् वन॒स्पति॑षु वदति॒ - या दु॑न्दु॒भौ , या तूण॑वे॒ , या वीणा॑याय्ँ॒ यद् दी॑क्षितद॒ण्डम् प्र॒यच्छ॑ति॒ , वाच॑म् ए॒वाव॑ रुन्धे ।

पद-पाठः

वाक् । वै । दे॒वेभ्यः॑ । अपेति॑ । अ॒क्रा॒म॒त् । य॒ज्ञाय॑ । अति॑ष्ठमाना । सा । वन॒स्पती॑न् । प्रेति॑ । अ॒वि॒श॒त् ।
सा । ए॒षा । वाक् । वन॒स्पति॑षु । व॒द॒ति॒ ।
या । दु॒न्दु॒भौ । या । तूण॑वे । या । वीणा॑याम् । यत् । दी॒क्षि॒त॒द॒ण्डमिति॑ दीक्षित-द॒ण्डम् । प्र॒यच्छ॒तीति॑ प्र-यच्छ॑ति ।
वाच॑म् । ए॒व । अवेति॑ । रु॒न्द्धे॒ ।

भट्टभास्कर-टीका

1दीक्षितदण्डप्रदानं विधास्यन् आह - वाग्वा इत्यादि ॥ यज्ञार्थं देवेभ्योऽतिष्ठमाना अप्रकाशमाना अप्रकाशनहेतोः वाग्देवेभ्योऽपाक्रामत् । पूर्ववत्संप्रदानत्वमात्मनेपदत्वं च । ततस्सा वनस्पतीन्प्राविशत् । उक्तं पूर्वोत्तरपदयोर्युगपत्प्रकृतिस्वरत्वम्, सुडागमश्च । ततः प्रभृति सैषा वाग्वनस्पतिषु स्थिता वदति व्यक्तमुच्चरति । या दुन्दुभौ वदति, या च तूणवे वदति, या च वीणायां वदति । तस्माद्यद्दीक्षितदण्डं प्रददाति वाचमेवावरुन्धे यजमानः, तस्माद्दीक्षितदण्डं प्रयच्छतीति विधिरनुमीयते ॥

मूलम् (संयुक्तम्)

औदु॑म्बरो भव॒त्यूर्ग्वा उ॑दु॒म्बर॒ ऊर्ज॑मे॒वाव॑ रुन्द्धे॒

विश्वास-प्रस्तुतिः

औदु॑म्बरो भव॒त्य् ऊर्ग्वा उ॑दु॒म्बर॒ , + ऊर्ज॑म् ए॒वाव॑ रुन्धे ।

मूलम्

औदु॑म्बरो भव॒त्य् ऊर्ग्वा उ॑दु॒म्बर॒ , + ऊर्ज॑म् ए॒वाव॑ रुन्धे ।

पद-पाठः

औदु॑म्बरः । भ॒व॒ति॒ ।
ऊर्क् । वै । उ॒दु॒म्बरः॑ ।
ऊर्ज॑म् । ए॒व । अवेति॑ । रु॒न्द्धे॒ ।

भट्टभास्कर-टीका

2औदुम्बरो भवतीति विधिः ॥ स दीक्षितदण्डः औदुम्बरः कार्यः । उदुम्बरस्य विकार औदुम्बरः, ‘अनुदात्तादेश्च’ इत्यञ् । ऊर्ग्वा इत्यादि । ऊर्गन्नं तद्धेतुत्वादौदुम्बरस्य तत्प्रकृतेस्ताच्छब्द्यम् ॥

मूलम् (संयुक्तम्)

मुखे॑न॒ सम्मि॑तो भवति मुख॒त ए॒वास्मा॒ ऊर्ज॑न्दधाति॒ तस्मा॑न्मुख॒त ऊ॒र्जा भु॑ञ्जते [25]

विश्वास-प्रस्तुतिः

मुखे॑न॒ सम्मि॑तो भवति ।
मु॒ख॒त ए॒वास्मा॒ ऊर्ज॑न् दधाति ।
तस्मा॑न् मुख॒त ऊ॒र्जा भु॑ञ्जते ।[25]

मूलम्

मुखे॑न॒ सम्मि॑तो भवति ।
मु॒ख॒त ए॒वास्मा॒ ऊर्ज॑न् दधाति ।
तस्मा॑न् मुख॒त ऊ॒र्जा भु॑ञ्जते ।[25]

पद-पाठः

मुखे॑न । सम्मि॑त॒ इति॒ सम्-मि॒तः॒ । भ॒व॒ति॒ ।
मु॒ख॒तः । ए॒व । अ॒स्मै॒ । ऊर्ज॑म् । द॒धा॒ति॒ ।
तस्मा॑त् । मु॒ख॒तः । ऊ॒र्जा । भु॒ञ्ज॒ते॒ । [25]

भट्टभास्कर-टीका

3मुखेन सम्मितो भवतीति विधिः ॥ स दण्डो मुखेनास्येन सम्मितस्तुल्यः सुखप्रमाणः कर्तव्यः । ‘गतिरनन्तरः’ इति गतेः प्रकृतिस्वरत्वम् । मुखत एव अस्मै अन्नं दधाति, तस्मान्मुखे सेर्वेऽप्यन्नेन भुञ्जते भुजिक्रियां निर्वर्तयन्ति अन्नं भुञ्जते इति । विभक्तिव्यत्ययो वा । ‘आद्यादिभ्यस्तसिः’ ॥

मूलम् (संयुक्तम्)

क्री॒ते सोमे॑ मैत्रावरु॒णाय॑ द॒ण्डम्प्र य॑च्छति मैत्रावरु॒णो हि पु॒रस्ता॑दृ॒त्विग्भ्यो॒ वाचव्ँ॑वि॒भज॑ति॒ तामृ॒त्विजो॒ यज॑माने॒ प्रति॑ ष्ठापयन्ति॒

विश्वास-प्रस्तुतिः

क्री॒ते सोमे॑ मैत्रावरु॒णाय॑ द॒ण्डम् प्रय॑च्छति । मै॒त्रा॒व॒रु॒णो हि पु॒रस्ता॑द् ऋ॒त्विग्भ्यो॒ वाचव्ँ॑ वि॒भज॑ति । ताम् ऋ॒त्विजो॒ यज॑माने॒ प्रति॑ ष्ठापयन्ति ।

मूलम्

क्री॒ते सोमे॑ मैत्रावरु॒णाय॑ द॒ण्डम् प्रय॑च्छति । मै॒त्रा॒व॒रु॒णो हि पु॒रस्ता॑द् ऋ॒त्विग्भ्यो॒ वाचव्ँ॑ वि॒भज॑ति । ताम् ऋ॒त्विजो॒ यज॑माने॒ प्रति॑ ष्ठापयन्ति ।

पद-पाठः

क्री॒ते । सोमे॑ । मै॒त्रा॒व॒रु॒णायेति॑ मैत्रा-व॒रु॒णाय॑ । द॒ण्डम् । प्रेति॑ । य॒च्छ॒ति॒ । मै॒त्रा॒व॒रु॒ण इति॑ मैत्रा-व॒रु॒णः । हि । पु॒रस्ता॑त् । ऋ॒त्विग्भ्य॒ इत्यृ॒त्विक्-भ्यः॒ । वाच॑म् । वि॒भज॒तीति॑ वि-भज॑ति ।
ताम् । ऋ॒त्विजः॑ । यज॑माने । प्रतीति॑ । स्था॒प॒य॒न्ति॒ ।

भट्टभास्कर-टीका

4क्रीते सोमे इत्यादि विधिः ॥ मैत्रावरुणः पुरस्तात् । स हि प्रथमं सर्वर्त्विग्भ्यो वाचं विसृजति प्रैषेषु ऋतुग्रहप्रस्थितयाज्यासु होतृकेभ्यः । तामृत्विजो वाचं यजमाने प्रतिष्ठापयन्ति … न[तदधीन]त्वात् ॥

मूलम् (संयुक्तम्)

स्वाहा॑ य॒ज्ञम्मन॒सेत्या॑ह॒ मन॑सा॒ हि पुरु॑षो य॒ज्ञम॑भि॒गच्छ॑ति॒ स्वाहा॒ द्यावा॑पृथि॒वीभ्या॒मित्या॑ह॒ द्यावा॑पृथि॒व्योर्हि य॒ज्ञस्स्वाहो॒रोर॒न्तरि॑क्षा॒दित्या॑हा॒न्तरि॑क्षे॒ हि य॒ज्ञस्स्वाहा॑ य॒ज्ञव्ँ वाता॒दार॑भ॒ इत्या॑हा॒यम् [26]
वाव यᳶ पव॑ते॒ स य॒ज्ञस्तमे॒व सा॒क्षादा र॑भते

विश्वास-प्रस्तुतिः

स्वाहा॑ य॒ज्ञम् मन॒सेत्या॑ह॒ मन॑सा॒ हि पुरु॑षो य॒ज्ञम् अ॑भि॒गच्छ॑ति ।
स्वाहा॒ द्यावा॑पृथि॒वीभ्या॒मित्या॑ह॒ द्यावा॑पृथि॒व्योर् हि य॒ज्ञः ।
“स्वाहा॑ + उ॒रोर् अ॒न्तरि॑क्षा॒द्” इत्या॑ह । अ॒न्तरि॑क्षे॒ हि य॒ज्ञः ।
स्वाहा॑ य॒ज्ञव्ँ वाता॒दार॑भ॒ इत्या॑ह ।
अ॒यव्ँ वाव यᳶ पव॑ते॒ स य॒ज्ञस् , तमे॒व सा॒क्षाद् आ र॑भते ।[26]

मूलम्

स्वाहा॑ य॒ज्ञम् मन॒सेत्या॑ह॒ मन॑सा॒ हि पुरु॑षो य॒ज्ञम् अ॑भि॒गच्छ॑ति ।
स्वाहा॒ द्यावा॑पृथि॒वीभ्या॒मित्या॑ह॒ द्यावा॑पृथि॒व्योर् हि य॒ज्ञः ।
“स्वाहा॑ + उ॒रोर् अ॒न्तरि॑क्षा॒द्” इत्या॑ह । अ॒न्तरि॑क्षे॒ हि य॒ज्ञः ।
स्वाहा॑ य॒ज्ञव्ँ वाता॒दार॑भ॒ इत्या॑ह ।
अ॒यव्ँ वाव यᳶ पव॑ते॒ स य॒ज्ञस् , तमे॒व सा॒क्षाद् आ र॑भते ।[26]

पद-पाठः

स्वाहा॑ । य॒ज्ञम् । मन॑सा । इति॑ । आ॒ह॒ । मन॑सा । हि । पुरु॑षः । य॒ज्ञम् । अ॒भि॒गच्छ॒तीत्य॑भि-गच्छ॑ति ।
स्वाहा॑ । द्यावा॑पृथि॒वीभ्या॒मिति॒ द्यावा॑-पृ॒थि॒वीभ्या॑म् । इति॑ । आ॒ह॒ ।
द्यावा॑पृथि॒व्योरिति॒ द्यावा॑-पृ॒थि॒व्योः । हि । य॒ज्ञः । स्वाहा॑ । उ॒रोः । अ॒न्तरि॑क्षात् । इति॑ । आ॒ह॒ । अ॒न्तरि॑क्षे । हि । य॒ज्ञः । स्वाहा॑ । य॒ज्ञम् । वाता॑त् । एति॑ । र॒भे॒ । इति॑ । आ॒ह॒ । अ॒यम् । [26] वाव । यः । पव॑ते । सः । य॒ज्ञः ।
तम् । ए॒व । सा॒क्षादिति॑ स-अ॒क्षात् । एति॑ । र॒भ॒ते॒ ।

भट्टभास्कर-टीका

5अथ मुष्टीकरणात्पूर्णं यजमानं वाचयति यान्मन्त्रान् तान्व्याचष्टे - स्वाहा यज्ञमित्यादि ॥ अभिगच्छति आभिमुख्येन प्राप्नोति । द्यावापृथिव्योर्हि यज्ञ इति । तदधीनत्वात्तस्य । तद्विषयत्वाद्वा यज्ञफलस्य । अन्तरिक्षे हि यज्ञ इति । अन्तरिक्षेऽपि हि यज्ञ इत्यर्थः । स एव हेतुः । सर्वस्य स्थितिहेतुर्यज्ञ इति भावः । अयं वावेति । योयं पवते वातनामा अन्तरिक्षे वर्तमानः विश्वं पुनाति । स यज्ञः व्यापारात्मा, सर्वपरिस्पन्दानां तदधीनत्वात् । किं च - तत्र प्रतिष्ठितत्वात्ताच्छब्द्यम् । वाते हि यज्ञः प्रतिष्ठितः आत्मसमवेतक्रियाशक्तिरूपः प्रारिस्पन्दात्मा प्राणो वातः । कस्मात्? यस्मादाह यज्ञं वातादारभे इति तस्मात्तं यज्ञं साक्षादव्यवधानेन आरभते वातेन यज्ञं गृह्णाति तदेव साक्षद्ग्रहणमभिनयन्ति च ॥

मूलम् (संयुक्तम्)

मु॒ष्टी क॑रोति॒ वाचय्ँ॑यच्छति य॒ज्ञस्य॒ धृत्या॒

विश्वास-प्रस्तुतिः

मु॒ष्टी क॑रोति॒ , वाचय्ँ॑ यच्छति , य॒ज्ञस्य॒ धृत्यै॑ ।

मूलम्

मु॒ष्टी क॑रोति॒ , वाचय्ँ॑ यच्छति , य॒ज्ञस्य॒ धृत्यै॑ ।

पद-पाठः

मु॒ष्टी इति॑ । क॒रो॒ति॒ । वाच॑म् । य॒च्छ॒ति॒ । य॒ज्ञस्य॑ । धृत्यै॑ ।

भट्टभास्कर-टीका

6मुष्टी करोति, वाचं यच्छतीति विधिद्वयम् ॥ फलम् - यज्ञस्य धृत्यै धारणार्थम् । अनन्यमनस्कत्वापादनेन यज्ञधारणार्थम् ॥

मूलम् (संयुक्तम्)

अदी॑क्षिष्टा॒यम्ब्रा॑ह्म॒ण इति॒ त्रिरु॑पाँ॒श्वा॑ह दे॒वेभ्य॑ ए॒वैन॒म्प्राह॒ त्रिरु॒च्चैरु॒भये॑भ्य ए॒वैन॑न्देवमनु॒ष्येभ्य॒ᳶ प्राह॒

विश्वास-प्रस्तुतिः

अदी॑क्षिष्ट अ॒यम् ब्रा॑ह्म॒ण इति॒ त्रिरु॑पाँ॒श्वा॑ह । दे॒वेभ्य॑ ए॒वैन॒म् प्राह॒ त्रिर् , उ॒च्चैर् उ॒भये॑भ्य ए॒वैन॑न् देवमनु॒ष्येभ्य॒ᳶ प्राह॑ ।

मूलम्

अदी॑क्षिष्ट अ॒यम् ब्रा॑ह्म॒ण इति॒ त्रिरु॑पाँ॒श्वा॑ह । दे॒वेभ्य॑ ए॒वैन॒म् प्राह॒ त्रिर् , उ॒च्चैर् उ॒भये॑भ्य ए॒वैन॑न् देवमनु॒ष्येभ्य॒ᳶ प्राह॑ ।

पद-पाठः

अदी॑क्षिष्ट । अ॒यम् । ब्रा॒ह्म॒णः । इति॑ । त्रिः । उ॒पाँ॒श्वित्यु॑प-अँ॒शु । आ॒ह॒ । दे॒वेभ्यः॑ । ए॒व । ए॒न॒म् । प्रेति॑ । आ॒ह॒ । त्रिः । उ॒च्चैः । उ॒भये॑भ्यः । ए॒व । ए॒न॒म् । दे॒व॒म॒नु॒ष्येभ्य॒ इति॑ देव-म॒नु॒ष्येभ्यः॑ । प्रेति॑ । आ॒ह॒ ।

भट्टभास्कर-टीका

7अदीक्षिष्ठेति विधिः ॥ ब्राह्मणग्रहणं त्रयाणामपि प्रदर्शनार्थम् । प्राधान्यादस्योपादानम्, एवं यथावर्णं ब्रूयादिति । अन्य आहुः - सर्वोपि दीक्षितो ब्राह्मण एव भवति, न चोहो न्याय्य इति सर्वेषां ब्राह्मण इत्येवावेदनमिति । एतावदेवावेदनवाक्यमिति केचित् । प्रतीकं गृह्यते शाखान्तरीयस्येत्यन्ये । उपांशु नातिव्यक्तम् । ‘उपाद्व्यजजिनम्’ इत्युत्तरपदान्तोदात्तत्वम् । देवेभ्य एवेति । उपांशूक्तं देवा एव जानन्ति । उभयेभ्य इति । उच्चैरुक्तं हि सर्व एव जानते ॥

मूलम् (संयुक्तम्)

न पु॒रा नक्ष॑त्रेभ्यो॒ वाचव्ँ॒वि सृ॑जे॒द्यत्पु॒रा नक्ष॑त्रेभ्यो॒ वाचव्ँ॑विसृ॒जेद्य॒ज्ञव्ँविच्छि॑न्द्यात् [27]
उदि॑तेषु॒ नक्ष॑त्रेषु व्र॒तङ्कृ॑णु॒तेति॒ वाचव्ँ॒वि सृ॑जति य॒ज्ञव्र॑तो॒ वै दी॑क्षि॒तो य॒ज्ञमे॒वाभि वाचव्ँ॒वि सृ॑जति॒

विश्वास-प्रस्तुतिः

न पु॒रा नक्ष॑त्रेभ्यो॒ वाचव्ँ॒ वि सृ॑जेत् । यत् पु॒रा नक्ष॑त्रेभ्यो॒ वाचव्ँ॑ विसृ॒जेद् य॒ज्ञव्ँ विच्छि॑न्द्यात् ।[27]
उदि॑तेषु॒ नक्ष॑त्रेषु व्र॒तङ्कृ॑णु॒तेति॒ वाचव्ँ॒ वि सृ॑जति । य॒ज्ञव्र॑तो॒ वै दी॑क्षि॒तो य॒ज्ञम् ए॒वाभि वाचव्ँ॒ विसृ॑जति ।

मूलम्

न पु॒रा नक्ष॑त्रेभ्यो॒ वाचव्ँ॒ वि सृ॑जेत् ।
यत् पु॒रा नक्ष॑त्रेभ्यो॒ वाचव्ँ॑ विसृ॒जेद् य॒ज्ञव्ँ विच्छि॑न्द्यात् ।[27]
उदि॑तेषु॒ नक्ष॑त्रेषु व्र॒तङ्कृ॑णु॒तेति॒ वाचव्ँ॒ वि सृ॑जति ।
य॒ज्ञव्र॑तो॒ वै दी॑क्षि॒तो य॒ज्ञम् ए॒वाभि वाचव्ँ॒ विसृ॑जति ।

पद-पाठः

न । पु॒रा । नक्ष॑त्रेभ्यः । वाच॑म् । वीति॑ । सृ॒जे॒त् ।

यत् । पु॒रा । नक्ष॑त्रेभ्यः । वाच॑म् । वि॒सृ॒जेदिति॑ वि-सृ॒जेत् । य॒ज्ञम् । वीति॑ । छि॒न्द्या॒त् । [27]

उदि॑ते॒ष्वित्युत्-इ॒ते॒षु॒ । नक्ष॑त्रेषु । व्र॒तम् । कृ॒णु॒त॒ । इति॑ । वाच॑म् । वीति॑ । सृ॒ज॒ति॒ ।
य॒ज्ञव्र॑त॒ इति॑ य॒ज्ञ-व्र॒तः॒ । वै । दी॒क्षि॒तः । य॒ज्ञम् । ए॒व । अ॒भीति॑ । वाच॑म् । वीति॑ । सृ॒ज॒ति॒ ।

भट्टभास्कर-टीका

8न पुरेति प्रतिषेधः । नक्षत्रेभ्यः नक्षत्रोदयादित्यर्थः । तस्य तदुदयवृत्तित्वात् । विपर्यये दोषमाह - यदित्यादि । विच्छिन्द्यात् विच्छिन्नं कुर्यात् । तस्मादुदितेष्वित्यादिविधिः । ऊर्ध्वमितान्युदितानीति प्रादिसमासे अव्ययपूर्वपदप्रकृतिस्वरत्वम् । अनेन नक्षत्रोदयकाले व्रतकरणमिति; यदुक्तं व्रतं कृणुतेति वाचं विसृजतीति । तत्र कारणमाह - यज्ञव्रत इति । यज्ञविषयं व्रतं व्यापारस्सर्वः यस्य स यज्ञव्रतः, तस्मादस्य न केन चिदपि व्यापारेणायज्ञविषयेण भवितव्यम् । तस्माद्व्रतं कृणुतेति वाचं विसृजति । एवं यज्ञमेवाभिवाचं विसृजतीति यज्ञमेव लक्षीकृत्येति वाग्विसर्जनमपि यज्ञार्थमेव भविष्यतीत्यर्थः ॥

मूलम् (संयुक्तम्)

यदि॑ विसृ॒जेद्वै॑ष्ण॒वीमृच॒मनु॑ ब्रूयाद्य॒ज्ञो वै विष्णु॑र्य॒ज्ञेनै॒व य॒ज्ञँ सन्त॑नोति॒

विश्वास-प्रस्तुतिः

यदि॑ विसृ॒जेद् वै॑ष्ण॒वीम् ऋच॒म् अनु॑ ब्रूयाद् - य॒ज्ञो वै विष्णु॑र् य॒ज्ञेनै॒व य॒ज्ञँ सन्त॑नोति ।

मूलम्

यदि॑ विसृ॒जेद् वै॑ष्ण॒वीम् ऋच॒म् अनु॑ ब्रूयाद् - य॒ज्ञो वै विष्णु॑र् य॒ज्ञेनै॒व य॒ज्ञँ सन्त॑नोति ।

पद-पाठः

यदि॑ । वि॒सृ॒जेदिति॑ वि-सृ॒जेत् । वै॒ष्ण॒वीम् । ऋच॑म् । अन्विति॑ । ब्रू॒या॒त् ।
य॒ज्ञः । वै । विष्णुः॑ । य॒ज्ञेन॑ । ए॒व । य॒ज्ञम् । समिति॑ । त॒नो॒ति॒ ।

भट्टभास्कर-टीका

9यदुक्तं पुरा नक्षत्रेभ्यः इति, तदतिक्रमे समाधिमाह - यदीति ॥ सामर्थ्याद्वाग्यमनकाले यदि वाचं विसृजेत् वैष्णवीमृचं ‘विष्णो त्वं नो अन्तमः’ इति अनु ब्रूयात् । केचित् - ‘इदं विष्णुः’ इति । यज्ञो वै विष्णुरिति । व्यापकत्वसाम्यात् । यज्ञेनैव यज्ञं सन्तनोति अविच्छिन्नं करोति विच्छेददोषः समाहितो भवति ॥

मूलम् (संयुक्तम्)

दैवी॒न्धिय॑म्मनामह॒ इत्या॑ह य॒ज्ञमे॒व तन्म्र॑दयति सुपा॒रा नो॑ अस॒द्वश॒ इत्या॑ह॒ व्यु॑ष्टिमे॒वाव॑ रुन्द्धे [28]

विश्वास-प्रस्तुतिः

“दैवी॒न् धिय॑म् मनामह॒” इत्या॑ह - य॒ज्ञमे॒व तन् म्र॑दयति । सु॒पा॒रा नो॑ अस॒द् वश॒ इत्या॑ह॒ व्यु॑ष्टिम् ए॒वाव॑ रुन्धे । [28]

मूलम्

“दैवी॒न् धिय॑म् मनामह॒” इत्या॑ह - य॒ज्ञमे॒व तन् म्र॑दयति । सु॒पा॒रा नो॑ अस॒द् वश॒ इत्या॑ह॒ व्यु॑ष्टिम् ए॒वाव॑ रुन्धे । [28]

पद-पाठः

दैवी॑म् । धिय॑म् । म॒ना॒म॒हे॒ । इति॑ । आ॒ह॒ ।
य॒ज्ञम् । ए॒व । तत् । म्र॒द॒य॒ति॒ ।

सु॒पा॒रेति॑ सु-पा॒रा । नः॒ । अ॒स॒त् । वशे॑ । इति॑ । आ॒ह॒ ।
व्यु॑ष्टि॒मिति॒ वि-उ॒ष्टि॒म् । ए॒व । अवेति॑ । रु॒न्द्धे॒ । [28]

भट्टभास्कर-टीका

10अथ मध्यरात्रे प्रबुद्धस्य यजमानस्याचमनमन्त्रः - दैवीं धियमिति ॥ तत्र यदाह ‘मनामहे’ इति तेन यज्ञं म्रदयति । मृद मर्दने, मर्दनं क्षोदः पुनःपुनरभ्यासः । मना अभ्यासे । पुनःपुनरभ्यासं प्रार्थयते इति प्रतिपादयति । यद्वा - मृदु करोति सुखहेतुं यज्ञं करोति । अनेन ‘सुमृडीकां'13 इति यदुक्तं तत्प्रयोजनं प्रदर्शितम् । मृदुं करोतीति णिचि ‘रऋतो हलादेर्लघोः’ इति रत्वम् । ‘सुपारा नः’ इति यदुक्तम्, अनेन व्युष्टिं सुप्रभातमवरूधे । यद्वा - व्युष्टिः अविच्छेदेन कर्मसमाप्तिः, तामवरुन्धे । सुपारा शोभनकर्मसमाप्तिः । पार तीरकर्मसमाप्तौ, इत्यतो घञि बहुव्रीहौ ‘नञ्सुम्याम्’ इत्युत्तरपदान्तोदात्तत्वं मन्यन्ते । ‘तादौ च’ इति गतेः प्रकृतिस्वरत्वम्, ‘उदात्तस्वरितयोर्यणः’ इति ततः परस्स्वर्यते ॥

मूलम् (संयुक्तम्)

ब्र॒ह्म॒वा॒दिनो॑ वदन्ति होत॒व्य॑न्दीक्षि॒तस्य॑ गृ॒हा(३)इ न हो॑त॒व्या(३)मिति॑

विश्वास-प्रस्तुतिः

ब्र॒ह्म॒वा॒दिनो॑ वदन्ति - “होत॒व्य॑न् दीक्षि॒तस्य॑ गृ॒हा३इ न हो॑त॒व्या३मि"ति॑ ।

मूलम्

ब्र॒ह्म॒वा॒दिनो॑ वदन्ति - “होत॒व्य॑न् दीक्षि॒तस्य॑ गृ॒हा३इ न हो॑त॒व्या३मि"ति॑ ।

पद-पाठः

ब्र॒ह्म॒वा॒दिन॒ इति॑ ब्रह्म-वा॒दिनः॑ । व॒द॒न्ति॒ ।

हो॒त॒व्य॑म् । दी॒क्षि॒तस्य॑ । गृ॒हा(३)इ । न । हो॒त॒व्या(३)म् । इति॑ ।

भट्टभास्कर-टीका

11अथ व्रतमन्त्रः ‘ये देवा मनोजाताः'14 इति । तत्रार्थविशेषप्रदर्शनेन व्रतं संविधास्यन् तद्धेतुभूतं विचारं ब्रह्मवादिभिरुत्थापयति ॥ ब्रह्म देवः, तदर्थं वदितुं संशयपर्यनुयोगादिना याथातथ्येन जिज्ञासितुं शीलं येषां ते ब्रह्मवादिनः । ‘ब्रह्मणि वदः’ इति णिनिः । ते वदन्ति विचारयन्त आहुः । अद्यापि विचारहेतोरनुपरतत्वात् वर्तमानप्रत्ययः । विचारस्वरूपं प्रदर्श्यते - होतव्यमिति । दीक्षितस्य गृहे किमग्निहोत्रहोमः कर्तव्यः? उत न? इति विचारणा । उभयत्रापि ‘विचार्यमाणानाम्’ इत्युदात्तः प्लुतः, पूर्वत्र ‘एचोप्रगृह्यस्य’ इति पूर्वार्धस्याकारः, उत्तरार्धस्येकारः । गृहशब्दः कप्रत्ययान्तोन्तोदात्तः । तत्र यदि होतव्यं, तदा प्राणाग्निहोत्ररूपत्वात् व्रतं न कर्तव्यम्, अन्यदा नेति फलभेदः ॥

मूलम् (संयुक्तम्)

ह॒विर्वै दी॑क्षि॒तो यज्जु॑हु॒याद्यज॑मानस्याव॒दाय॑ जुहुया॒द्यन्न जु॑हु॒याद्य॑ज्ञप॒रुर॒न्तरि॑या॒द्

विश्वास-प्रस्तुतिः

ह॒विर्वै दी॑क्षि॒तो यज् जु॑हु॒याद् , यज॑मानस्याव॒दाय॑ जुहुयात् । यन्न जु॑हु॒याद् य॑ज्ञप॒रुर् अ॒न्तरि॑यात् ।

मूलम्

ह॒विर्वै दी॑क्षि॒तो यज् जु॑हु॒याद् , यज॑मानस्याव॒दाय॑ जुहुयात् । यन्न जु॑हु॒याद् य॑ज्ञप॒रुर् अ॒न्तरि॑यात् ।

पद-पाठः

ह॒विः । वै । दी॒क्षि॒तः ।
यत् । जु॒हु॒यात् । यज॑मानस्य । अ॒व॒दायेत्य॑व-दाय॑ । जु॒हु॒या॒त् ।
यत् । न । जु॒हु॒यात् । य॒ज्ञ॒प॒रुरिति॑ यज्ञ-प॒रुः । अ॒न्तः । इ॒या॒त् ।

भट्टभास्कर-टीका

12कुतः पुनस्संशय इत्याह - हविरित्यादि ॥ ‘सर्वाभ्यो वा एष देवताभ्य आत्मानमा लभते यो दीक्षितो यदस्याङ्गानां मीयते जुहोत्येव तत्’ इत्यादिदर्शनाद्दीक्ष्नितस्य हविष्ट्वम् । तत्र यदि जुहुयात् यजमानमेवावदाय जुहुयात् हविष्ट्वाविशेषात् । कर्मणस्संप्रदानत्वाच्चतुर्थ्यर्थे षष्ठी । तस्मान्न होतव्यम् । अथ यदि न जुहुयाद् यज्ञपरुः यज्ञपर्व अन्तरियान्नाशयेत् । यावज्जीवमनेन हि होतव्यमिदानीं विच्छिद्यते इति तद्धोतव्यमिति च प्रतिभाति । अतो भवति विचारणा ॥

मूलम् (संयुक्तम्)

ये दे॒वा मनो॑जाता मनो॒युज॒ इत्या॑ह प्रा॒णा वै दे॒वा मनो॑जाता मनो॒युज॒स्तेष्वे॒व प॒रोक्ष॑ञ्जुहोति॒

विश्वास-प्रस्तुतिः

“ये दे॒वा मनो॑जाता मनो॒युज॒” इत्या॑ह । प्रा॒णा वै दे॒वा मनो॑जाता मनो॒युजः॑ । तेष्वे॒व प॒रोक्ष॑ञ् जुहोति ।

मूलम्

“ये दे॒वा मनो॑जाता मनो॒युज॒” इत्या॑ह । प्रा॒णा वै दे॒वा मनो॑जाता मनो॒युजः॑ । तेष्वे॒व प॒रोक्ष॑ञ् जुहोति ।

पद-पाठः

ये । दे॒वाः । मनो॑जाता॒ इति॒ मनः॑-जा॒ताः॒ । म॒नो॒युज॒ इति॑ मनः-युजः॑ । इति॑ । आ॒ह॒ । प्रा॒णा इति॑ प्र-अ॒नाः । वै । दे॒वाः । मनो॑जाता॒ इति॒ मनः॑-जा॒ताः॒ । म॒नो॒युज॒ इति॑ मनः-युजः॑ ।

तेषु॑ । ए॒व । प॒रोक्ष॒मिति॑ परः-अक्ष॑म् । जु॒हो॒ति॒ ।

भट्टभास्कर-टीका

13एवं ब्रह्मवादिभिः विचारे उपक्षिप्ते समाधत्ते - ये देवा इति ॥ अग्निहोत्रप्रत्याम्नायतया व्रतनविधिरनुमीयते । चक्षुरादयः प्राणा देवाः देवनशीलाः मनोजाता, जातमनसः, मनोव्यापारमन्तरेण स्वकार्यकरणासंभवात् । ‘निष्ठायाः पूर्वनिपातः’ इत्यादिना जातशब्दस्य परवचनम्, ‘वाजाते’ इत्युत्तरपदान्तोदात्तत्वाभावे बहुव्रीहिस्वरः पर्वूपदप्रकृतिस्वरत्वम् । मनोयुजः विषयावधारणलक्षणमनेन युज्यन्ते इति मनोयुजः । यस्मादनेन मन्त्रेण तेभ्यस्स्वाहेति प्राणेभ्यो हूयते, तस्मात् तेषु प्राणेषु परोक्षं प्रच्छन्नं हुतं भवत्यग्रिहोत्रम् । परमक्ष्णः परोक्षम्, अक्षाण्यतीत्य वर्तते इति ‘अव्ययं विभक्ति’ इत्यादिना अत्यये अव्ययीभावः; ‘परो भावः परस्याक्ष्णाः’ इत्यादिना रूपसिद्धिः, ‘कूलतीरतूल’ इत्यादिनोत्तरपदाद्युदात्तत्वम् ॥

मूलम् (संयुक्तम्)

तन्नेव॑ हु॒तन्नेवाहु॑तँ

विश्वास-प्रस्तुतिः

तन् न + इव॑ हु॒तन् न + इवाहु॑तम् ।

मूलम्

तन् न + इव॑ हु॒तन् न + इवाहु॑तम् ।

पद-पाठः

तत् । न । इ॒व॒ । हु॒तम् । न । इ॒व॒ । अहु॑तम् ।

भट्टभास्कर-टीका

14इदानीमुक्तयोर्दोषयोरभावं प्रतिपादयति - तन्नेति ॥ हुतमिव च न भवति, परोक्षत्वात् । परोक्षं हि कृत्वा वक्तारो भवीन्त न किंचिदत्र कृतमिति । यजुषा अहुतत्वाच्च हुतमिव न भवति, यदुक्तं यजमानस्यावदाय जुहुयात् इति, तस्य दोषस्याप्रसङ्गः । अहुतमिव च न भवति, परोक्षं हुतत्वात् । तेन यज्ञपरुरन्तरियादित्यस्य दोषस्याप्रसङ्गः ॥

मूलम् (संयुक्तम्)

स्व॒पन्तव्ँ॒ वै दी॑क्षि॒तँ रक्षाँ॑सि जिघाँसन्त्य॒ग्निः [29]
खलु॒ वै र॑क्षो॒हाग्ने॒ त्वँ सु जा॑गृहि व॒यँ सु म॑न्दिषीम॒हीत्या॑हा॒ग्निमे॒वाधि॒पाङ्कृ॒त्वा स्व॑पिति॒ रक्ष॑सा॒मप॑हत्या

विश्वास-प्रस्तुतिः

स्व॒पन्तव्ँ॒ वै दी॑क्षि॒तँ रक्षाँ॑सि जिघाँसन्ति । अ॒ग्निः खलु॒ वै र॑क्षो॒हा । [29]
“अग्ने॒ त्वँ सु जा॑गृहि , व॒यँ सु म॑न्दिषीम॒ही"त्या॑ह । अ॒ग्निम् ए॒वाधि॒पाङ् कृ॒त्वा स्व॑पिति॒ रक्ष॑सा॒म् अप॑हत्यै ।

मूलम्

स्व॒पन्तव्ँ॒ वै दी॑क्षि॒तँ रक्षाँ॑सि जिघाँसन्ति । अ॒ग्निः खलु॒ वै र॑क्षो॒हा । [29]
“अग्ने॒ त्वँ सु जा॑गृहि , व॒यँ सु म॑न्दिषीम॒ही"त्या॑ह । अ॒ग्निम् ए॒वाधि॒पाङ् कृ॒त्वा स्व॑पिति॒ रक्ष॑सा॒म् अप॑हत्यै ।

पद-पाठः

स्व॒पन्त॑म् । वै । दी॒क्षि॒तम् । रक्षाँ॑सि । जि॒घाँ॒स॒न्ति॒ ।
अ॒ग्निः । [29] खलु॑ । वै । र॒क्षो॒हेति॑ रक्षः-हा ।
अग्ने॑ । त्वम् । स्विति॑ । जा॒गृ॒हि॒ । व॒यम् । स्विति॑ । म॒न्दि॒षी॒म॒हि॒ । इति॑ । आ॒ह॒ ।
अ॒ग्निम् । ए॒व । अ॒धि॒पामित्य॑धि-पाम् । कृ॒त्वा । स्व॒पि॒ति॒ । रक्ष॑साम् । अप॑हत्या॒ इत्यप॑-ह॒त्यै॒ ।

भट्टभास्कर-टीका

15अथ ‘अग्रे त्वं सु जागृहि’ इति संवेशनमन्त्रं व्याख्यातुमाह - स्वपन्तमित्यादि ॥ दीक्षितग्रहणमन्यस्याप्रसंगार्थम् । रक्षोहेति । ‘बहुलं छन्दसि’ इति क्विप् । अग्निमधिपामधिकं पातारं गोप्तारं कृत्वा स्वपिति । ‘आतो मनिन्क्वनिप्’ इति विच् । निर्भयं स्वपितीति भावः; यदाह मु मन्दिषीमहीति । मदि स्तुतिमोदमदस्वप्नगतिषु । अपहत्यै । ‘तादौ च’ इति गतेः प्रकृतिस्वरत्वम् ॥

मूलम् (संयुक्तम्)

अव्र॒त्यमि॑व॒ वा ए॒ष क॑रोति॒ यो दी॑क्षि॒तस्स्वपि॑ति॒ त्वम॑ग्ने व्रत॒पा अ॒सीत्या॑हा॒ग्निर्वै दे॒वाना॑व्व्ँर॒तप॑ति॒स्स ए॒वैन॑व्व्ँर॒तमा ल॑म्भयति

विश्वास-प्रस्तुतिः

अ॒व्र॒त्यमि॑व वा ए॒ष क॑रोति॒ यो दी॑क्षि॒तस् स्वपि॑ति । “त्वम् अ॑ग्ने व्रत॒पा अ॒सी"त्या॑ह ।
अ॒ग्निर्वै दे॒वानाव्ँ॑ व्र॒तप॑ति॒स् स ए॒वैनव्ँ॑ व्र॒तम् आ ल॑म्भयति ।

मूलम्

अ॒व्र॒त्यमि॑व वा ए॒ष क॑रोति॒ यो दी॑क्षि॒तस् स्वपि॑ति । “त्वम् अ॑ग्ने व्रत॒पा अ॒सी"त्या॑ह ।
अ॒ग्निर्वै दे॒वानाव्ँ॑ व्र॒तप॑ति॒स् स ए॒वैनव्ँ॑ व्र॒तम् आ ल॑म्भयति ।

पद-पाठः

अ॒व्र॒त्यम् । इ॒व॒ । वै । ए॒षः । क॒रो॒ति॒ । यः । दी॒क्षि॒तः । स्वपि॑ति ।
त्वम् । अ॒ग्ने॒ । व्र॒त॒पा इति॑ व्रत-पाः । अ॒सि॒ । इति॑ । आ॒ह॒ । अ॒ग्निः । वै । दे॒वाना॑म् । व्र॒तप॑ति॒रिति॑ व्र॒त-प॒तिः॒ । सः । ए॒व । ए॒न॒म् । व्र॒तम् । एति॑ । ल॒म्भ॒य॒ति॒ ।

भट्टभास्कर-टीका

16अथ प्रबुद्ध्य ‘त्वमग्ने व्रतपा असि’ इति यजमान आह । तद्व्याचष्टे - अव्रत्यमिति ॥ व्रते साधु न भवतीति यत्, ‘ययतोश्चातदर्थे’ इत्युत्तरपदान्तोदात्तत्वम् । अत्रापि दीक्षितग्रहणमन्यस्याप्रसंगार्थम् । व्रतं पातीति व्रतपाः, पर्वूवद्विच् । यस्मादेवं मन्त्र आह, यतश्च देवानां मध्ये अग्निरेव व्रतपतिः व्रतस्य पाता । ‘पत्यावैश्वर्ये’ इति पूर्वपदप्रकृतिस्वरत्वम् । तस्मात्सोग्निरेनं व्रतमालम्भयति स्वापनिमित्तव्रतलोपदोषापनोदनेन अधिकं व्रतमालम्भयति । यद्वा - व्रतमेवालम्भयति स्वापमिति [समपि] व्रतमेव करोति । शक्यते हि व्रतपतिना तथा कर्तुम् ॥

मूलम् (संयुक्तम्)

दे॒व आ मर्त्ये॒ष्वेत्या॑ह दे॒वः [30]
ह्ये॑ष सन्मर्त्ये॑षु॒

विश्वास-प्रस्तुतिः

दे॒व आ मर्त्ये॒ष्वेत्या॑ह - “दे॒वो ह्ये॑ष सन्मर्त्ये॑षु” ।[30]

मूलम्

दे॒व आ मर्त्ये॒ष्वेत्या॑ह - “दे॒वो ह्ये॑ष सन्मर्त्ये॑षु” ।[30]

पद-पाठः

दे॒वः । एति॑ । मर्त्ये॑षु । एति॑ । इति॑ । आ॒ह॒ ।
दे॒वः । [30] हि । ए॒षः । सन् । मर्त्ये॑षु ।

भट्टभास्कर-टीका

17देव इत्यादि ॥ मन्त्रे द्वावप्याकारौ समुच्चये । देव इति सप्तमीबहुवचनस्य ‘सुपां सुलुक्’ इति स्वादेशात् देवेषु च मर्त्येपु चेत्यर्थः । अत्र कि देवस्सन् व्रतपतित्वेन वर्तते? उत मर्त्यस्सन् देवेष्विति मन्त्रार्थे सन्दिग्धे ब्राह्मणेन विशेषः प्रतिपाद्यते - देवो ह्येष सन्मर्त्येष्विति । यस्मादेवं तस्मात् मर्त्येपु वर्तते इत्याहेत्यर्थः ॥

मूलम् (संयुक्तम्)

त्वय्ँ य॒ज्ञेष्वीड्य॒ इत्या॑है॒तँ हि य॒ज्ञेष्वीड॒ते

विश्वास-प्रस्तुतिः

त्वय्ँ य॒ज्ञेष्व् ईड्य॒ इत्या॑ह - ए॒तँ हि य॒ज्ञेष्व् ईड॒ते ।

मूलम्

त्वय्ँ य॒ज्ञेष्व् ईड्य॒ इत्या॑ह - ए॒तँ हि य॒ज्ञेष्व् ईड॒ते ।

पद-पाठः

त्वम् । य॒ज्ञेषु॑ । ईड्यः॑ । इति॑ । आ॒ह॒ ।
ए॒तम् । हि । य॒ज्ञेषु॑ । ईड॑ते ।

भट्टभास्कर-टीका

18त्वमित्यादि ॥ यस्मादेतं यज्ञेष्वीडते स्तुवन्ति याचन्ते वर्तयन्ति वा, तस्मात् यज्ञेष्वीड्य इत्याह । ‘ईडवन्द’ इत्याद्युदात्तत्वम् ॥

मूलम् (संयुक्तम्)

अप॒ वै दी॑क्षि॒तात्सु॑षु॒पुष॑ इन्द्रि॒यन्दे॒वताः॑ क्रामन्ति॒ विश्वे॑ दे॒वा अ॒भि मामाव॑वृत्र॒न्नित्या॑हेन्द्रि॒येणै॒वैन॑न्दे॒वता॑भि॒स्सन्न॑यति॒

विश्वास-प्रस्तुतिः

अप॒ वै दी॑क्षि॒तात् सु॑षु॒पुष॑ इन्द्रि॒यन् दे॒वताः॑ क्रामन्ति ।
“विश्वे॑ दे॒वा अ॒भि मामाव॑वृत्र॒न्न्” इत्या॑ह । इ॒न्द्रि॒येण + ए॒वैन॑न् दे॒वता॑भि॒स् सन्न॑यति ।

मूलम्

अप॒ वै दी॑क्षि॒तात् सु॑षु॒पुष॑ इन्द्रि॒यन् दे॒वताः॑ क्रामन्ति ।
“विश्वे॑ दे॒वा अ॒भि मामाव॑वृत्र॒न्न्” इत्या॑ह । इ॒न्द्रि॒येण + ए॒वैन॑न् दे॒वता॑भि॒स् सन्न॑यति ।

पद-पाठः

अपेति॑ । वै । दी॒क्षि॒तात् । सु॒षु॒पुषः॑ । इ॒न्द्रि॒यम् । दे॒वताः॑ । क्रा॒म॒न्ति॒ ।
विश्वे॑ । दे॒वाः । अ॒भीति॑ । माम् । एति॑ । अ॒व॒वृ॒त्र॒न् । इति॑ । आ॒ह॒ ।
इ॒न्द्रि॒येण॑ । ए॒व । ए॒न॒म् । दे॒वता॑भिः । समिति॑ । न॒य॒ति॒ ।

भट्टभास्कर-टीका

19अप वा इत्यादि ॥ सुषुपुषः सुप्तवतो दीक्षितात् इन्द्रियं देवताश्च अपक्रामन्ति, तस्मात् ‘विश्वे देवाः’ इति प्रबुद्ध्य जपति । पूषा सन्येति सनिहारान् संशास्तीत्यके । अपरे तु - ‘विश्वे देवाः'17 इत्यादिना सर्वेण सनिहारान् संशास्तीति ब्रुवते । तत्र ‘वै’ इत्यालस्यमुच्यते । द्रव्याभावेन सनिहारप्रेषणम् । स्वपेर्लिट; क्वसुरादेशः, ‘वचि स्वपि’ इति संप्रसारणं, ‘लिट्यभ्यासस्य’ इत्यभ्यासस्य पञ्चम्येकवचने वसोस्संप्रसारणम्, ‘शासिवसिघसीनां च’ इति षत्वम् । इन्द्रियेण देवताभिश्चैनं संनयति संयोजयति ॥

मूलम् (संयुक्तम्)

यदे॒तद्यजु॒र्न ब्रू॒याद्याव॑त ए॒व प॒शून॒भि दीक्षे॑त॒ ताव॑न्तोऽस्य प॒शव॑स्स्यू॒ रास्वेय॑त् [31]
सो॒मा भूयो॑ भ॒रेत्या॒हाप॑रिमिताने॒व प॒शूनव॑ रुन्द्धे

विश्वास-प्रस्तुतिः

यदे॒तद् यजु॒र् न ब्रू॒याद् , याव॑त ए॒व प॒शून॒भि दीक्षे॑त॒ , ताव॑न्तोऽस्य प॒शव॑स्स्यू॒ , रास्वेय॑त् । [31]
“सो॒म आ भूयो॑ भ॒रेत्य्” आ॒ह , अप॑रिमितान् ए॒व प॒शून् अव॑ रुन्धे ।

मूलम्

यदे॒तद् यजु॒र् न ब्रू॒याद् , याव॑त ए॒व प॒शून॒भि दीक्षे॑त॒ , ताव॑न्तोऽस्य प॒शव॑स्स्यू॒ , रास्वेय॑त् । [31]
“सो॒म आ भूयो॑ भ॒रेत्य्” आ॒ह , अप॑रिमितान् ए॒व प॒शून् अव॑ रुन्धे ।

पद-पाठः

यत् । ए॒तत् । यजुः॑ । न । ब्रू॒यात् ।
याव॑तः । ए॒व । प॒शून् । अ॒भीति॑ । दीक्षे॑त । ताव॑न्तः । अ॒स्य॒ । प॒शवः॑ । स्युः॒ । रास्व॑ । इय॑त् । [31]
सो॒म॒ । एति॑ । भूयः॑ । भ॒र॒ । इति॑ । आ॒ह॒ ।
अप॑रिमिता॒नित्यप॑रि-मि॒ता॒न् । ए॒व । प॒शून् । अवेति॑ । रु॒न्द्धे॒ ।

भट्टभास्कर-टीका

20यदेतदित्यादि ॥ ‘पूषा सन्या’ इत्यादिकं ‘विश्वे देवाः'18 इत्यादिकं वा यजुर्यदि न ब्रूयात् यद्यनेन सनिहारान्प्रेषयेत् तदा आगमाभावात् यावत एव पशूनभिदीक्षेत दीक्षाकाले यावद्भिः पशुभिरुपलक्षितो भवति तावन्त एवास्य पशवत्स्युः । नाधिका सनिरित्याहुः । तदेतदनन्तरं वक्ष्यमाणं यजुः ‘रास्व’ इत्यादिकं यत्र ‘भूयो भर'19 इति श्रूयते । यदि तन्न ब्रूयात् आहरन्तं दृष्ट्वा तन्न जपेत् यथोक्तदोषप्रसङ्ग इति । तस्मादस्य वचनात् अपरिमितान् पशुनूवरुन्धे, भूयोप्याहरेति पूर्वपरिमाणाभावस्याशास्यत्वात् ॥

मूलम् (संयुक्तम्)

च॒न्द्रम॑सि॒ मम॒ भोगा॑य भ॒वेत्या॑ह यथादेव॒तमे॒वैना॒ᳶ प्रति॑ गृह्णाति

विश्वास-प्रस्तुतिः

“च॒न्द्रम् अ॑सि॒ , मम॒ भोगा॑य भ॒वे"त्या॑ह । य॒था॒दे॒व॒तम् ए॒वैना॒ᳶ प्रति॑ गृह्णाति ।

मूलम्

“च॒न्द्रम् अ॑सि॒ , मम॒ भोगा॑य भ॒वे"त्या॑ह । य॒था॒दे॒व॒तम् ए॒वैना॒ᳶ प्रति॑ गृह्णाति ।

पद-पाठः

च॒न्द्रम् । अ॒सि॒ । मम॑ । भोगा॑य । भ॒व॒ । इति॑ । आ॒ह॒ ।
य॒था॒दे॒व॒तमिति॑ यथा-दे॒व॒तम् । ए॒व । ए॒नाः॒ । प्रतीति॑ । गृ॒ह्णा॒ति॒ ।

भट्टभास्कर-टीका

21’चन्द्रमसि’ ‘वस्त्रमसि’ इत्यादिहिरण्यादिप्रतिग्रहमन्त्राः - तत्र यस्माद्धिरण्यवस्त्रादीनि यथालिङ्गं प्रतिगृह्णाति, तस्माद्यथादेवतं या यस्या देवताया दक्षिणा ‘अग्नये हिरण्यम्, सोमाय वासः’ इति प्रसिद्धं तस्यैतस्यै देवतायै दक्षिणाभूतां गृह्णाति ॥

मूलम् (संयुक्तम्)

वा॒यवे॑ त्वा॒ वरु॑णाय॒ त्वेति॒ यदे॒वमे॒ता नानु॑दि॒शेदय॑थादेवत॒न्दक्षि॑णा गमये॒दा दे॒वता॑भ्यो वृश्च्येत॒ यदे॒वमे॒ता अ॑नुदि॒शति॑ यथादेव॒तमे॒व दक्षि॑णा गमयति॒ न दे॒वता॑भ्य॒ आ [32]
वृ॒श्च्य॒ते॒

विश्वास-प्रस्तुतिः

वा॒यवे॑ त्वा॒ , वरु॑णाय॒ त्वेति॒ , यदे॒वमे॒ता नानु॑दि॒शेद् अय॑थादेवत॒न् दक्षि॑णा गमये॒द् आ दे॒वता॑भ्यो वृश्च्येत ।

यदे॒वम् ए॒ता अ॑नुदि॒शति॑ , यथादेव॒तम् ए॒व दक्षि॑णा गमयति॒ , न दे॒वता॑भ्य॒ आ वृ॑श्च्यते [32] ।

मूलम्

वा॒यवे॑ त्वा॒ , वरु॑णाय॒ त्वेति॒ , यदे॒वमे॒ता नानु॑दि॒शेद् अय॑थादेवत॒न् दक्षि॑णा गमये॒द् आ दे॒वता॑भ्यो वृश्च्येत ।

यदे॒वम् ए॒ता अ॑नुदि॒शति॑ , यथादेव॒तम् ए॒व दक्षि॑णा गमयति॒ , न दे॒वता॑भ्य॒ आ वृ॑श्च्यते [32] ।

पद-पाठः

वा॒यवे॑ । त्वा॒ । वरु॑णाय । त्वा॒ । इति॑ । यत् । ए॒वम् । ए॒ताः । न । अ॒नु॒दि॒शेदित्य॑नु-दि॒शेत् । अय॑थादेवत॒मित्यय॑था-दे॒व॒त॒म् । दक्षि॑णाः । ग॒म॒ये॒त् । एति॑ । दे॒वता॑भ्यः । वृ॒श्च्ये॒त॒ ।

यत् । ए॒वम् । ए॒ताः । अ॒नु॒दि॒शतीत्य॑नु-दि॒शति॑ । य॒था॒दे॒व॒तमिति॑ यथा-दे॒व॒तम् । ए॒व । दक्षि॑णाः । ग॒म॒य॒ति॒ । न । दे॒वता॑भ्यः । एति॑ । [32] वृ॒श्च्य॒ते॒ ।

भट्टभास्कर-टीका

22वायवे त्वेत्यादयः नष्टानुदेशमन्त्राः ॥ यद्येवमेता एतैर्मन्त्रैर्नानुदिशेत् अयथास्वंग्राहिदेवताकं यथातथा दक्षिणामागमयेत्, देवताभ्यश्चावृश्च्येत सर्वतश्छिद्येत । यदेवमित्यादि । एवं यथोक्तानुदेशकरणात् न कश्चिद्द्वोष इति ॥

मूलम् (संयुक्तम्)

देवी॑रापो अपान्नपा॒दित्या॑ह॒ यद्वो॒ मेध्यय्ँ॑ य॒ज्ञियँ॒ सदे॑व॒न्तद्वो॒ माव॑ क्रमिष॒मिति॒ वावैतदा॒ह

विश्वास-प्रस्तुतिः

“देवी॑रापो अपान्नपा॒दि"त्या॑ह । यद्वो॒ मेध्यय्ँ॑ य॒ज्ञियँ॒ सदे॑व॒न् तद्वो॒ माऽव॑ क्रमिष॒म् इति॒ वाव एतदा॑ह ।

मूलम्

“देवी॑रापो अपान्नपा॒दि"त्या॑ह । यद्वो॒ मेध्यय्ँ॑ य॒ज्ञियँ॒ सदे॑व॒न् तद्वो॒ माऽव॑ क्रमिष॒म् इति॒ वाव एतदा॑ह ।

पद-पाठः

देवीः॑ । आ॒पः॒ । अ॒पा॒म् । न॒पा॒त् । इति॑ । आ॒ह॒ ।
यत् । वः॒ । मेध्य॑म् । य॒ज्ञिय॑म् । सदे॑व॒मिति॒ स-दे॒व॒म् । तत् । वः॒ । मा । अवेति॑ । क्र॒मि॒ष॒म् । इति॑ । वाव । ए॒तत् । आ॒ह॒ ।

भट्टभास्कर-टीका

23अथ ‘देवीरापः’ इति दीक्षितस्यापामुत्तरणे मन्त्रः । तस्यार्थमाह - यद्वो मेध्यमित्यादिना ॥ यत् वो युष्माकं मेध्यं मेधे साधु यज्ञियं यज्ञार्हं सदेवं देवैस्सहितं देवयोग्यं च रूपं, तद्वो युष्माकं संबन्धि युष्मास्वेव विद्यमानं माऽवक्रमिषमवक्रम्य मागाम्, इति खल्वेतदाहायं मन्त्रः । तस्मादपामुत्तरणकाले ‘वः’ इत्यादिकं मन्त्रमाह - ब्रूयात् ॥

मूलम् (संयुक्तम्)

अच्छि॑न्न॒न्तन्तु॑म्पृथि॒व्या अनु॑ गेष॒मित्या॑ह॒ सेतु॑मे॒व कृ॒त्वात्ये॑ति ॥ [33]

विश्वास-प्रस्तुतिः

“अच्छि॑न्न॒न् तन्तु॑म् पृथि॒व्या अनु॑ गेष॒मि"त्या॑ह । सेतु॑मे॒व कृ॒त्वाऽत्ये॑ति ॥ [33]

मूलम्

“अच्छि॑न्न॒न् तन्तु॑म् पृथि॒व्या अनु॑ गेष॒मि"त्या॑ह । सेतु॑मे॒व कृ॒त्वाऽत्ये॑ति ॥ [33]

पद-पाठः

अच्छि॑न्नम् । तन्तु॑म् । पृ॒थि॒व्याः । अन्विति॑ । गे॒ष॒म् । इति॑ । आ॒ह॒ । सेतु॑म् । ए॒व । कृ॒त्वा । अतीति॑ । ए॒ति॒ ॥ [33]

भट्टभास्कर-टीका

24ननु क्रियमाणमेवापक्रमणं कथमपह्नियते माऽवक्रमिषमिति? तत्राह - अच्छिन्नं तन्तुं यज्ञाख्यमहमनुगेषमनुगतो भूयासमित्यनेनाभिप्रायेण हि युष्मान् अपक्रामामि, को हि हविष्यत्वादिगुणं युष्मदीयमूर्मिं वृथाऽवक्रामेत्, तस्माद्यज्ञ एवायं मया युष्मदपक्रमणरूपोनुष्ठीयते । पृथिव्यास्तन्तुं पृथिव्यां तायमानं, अन्यत्र हि दीक्षते अन्यत्र देवान् यजते अन्यत्रावभृथमवयन्तीति तस्माद्यज्ञरूपत्वाद्युष्माभिः अपक्रमणं सोढव्यमिति भावः । यस्मादेवमाह तस्मात् सेतुमेव कृत्वाऽत्येति सेतुं कृत्वाऽपक्रामन्निव भवत्यपक्रमणदोषाभावात्; सेतुनाऽभिगच्छन् अतिक्रामन्नपि अपो नातिक्रामन्भवतीति । यद्वा - सेतुमेव यज्ञं कृत्वाऽत्येति । अपक्रमणदोषाभावहेतुत्वसाम्याद्यज्ञस्य सेतुत्वम् ॥

इति षष्ठे प्रथमे चतुर्थोनुवाकः ॥