०२ यज्ञशालां प्रविष्टस्य यजमानस्य दीक्षाहोमविधानम् ...{Loading}...
सोमऋषिः
मूलम् (संयुक्तम्)
याव॑न्तो॒ वै दे॒वा य॒ज्ञायापु॑नत॒ त ए॒वाभ॑व॒न्य ए॒वव्ँवि॒द्वान्य॒ज्ञाय॑ पुनी॒ते भव॑त्ये॒व
विश्वास-प्रस्तुतिः
याव॑न्तो॒ वै दे॒वा य॒ज्ञाया ऽपु॑नत॒ , त ए॒वाभ॑वन् ।
य ए॒वव्ँ वि॒द्वान् य॒ज्ञाय॑ पुनी॒ते भव॑त्ये॒व ।
मूलम्
याव॑न्तो॒ वै दे॒वा य॒ज्ञाया ऽपु॑नत॒ , त ए॒वाभ॑वन् ।
य ए॒वव्ँ वि॒द्वान् य॒ज्ञाय॑ पुनी॒ते भव॑त्ये॒व ।
पद-पाठः
याव॑न्तः । वै । दे॒वाः । य॒ज्ञाय॑ । अपु॑नत । ते । ए॒व । अ॒भ॒व॒न् ।
यः । ए॒वम् । वि॒द्वान् । य॒ज्ञाय॑ । पु॒नी॒ते । भव॑ति । ए॒व ।
भट्टभास्कर-टीका
1अथ पवनस्यैवार्थवादशेषः - यावन्त इत्यादि ॥ पुनर्वचनं प्राशस्त्यातिशयप्रदर्शनार्थम् । यत्परिमाणा देवा यज्ञार्थमपुनत सदर्भपुञ्जीलाभिरद्भिः दीक्षित्वा शुद्धाः ते तावन्त एवाभवन् भूतिमन्तस्सपन्नाः । एवं नाम प्रशस्ततममिदमिति यज्ञार्थेषु कर्मसु पवमानमादृतवन्त एव सिद्धिभाजो भवन्ति । यद्वा - यज्ञाय यज्ञसंपादने एव सर्वदा भूयास्मेत्यभिसन्धिना एतत्पवनमकुर्वन्निति । तस्माद्य एवं .विद्वान् यज्ञार्थमनेन विधिना शुद्धिमिच्छति स भवत्येव भूतिं भजते वर्धते इत्यर्थः ॥
मूलम् (संयुक्तम्)
ब॒हिᳶ प॑वयि॒त्वान्तᳶ प्र पा॑दयति मनुष्यलो॒क ए॒वैन॑म्पवयि॒त्वा पू॒तन्दे॑वलो॒कम्प्र ण॑य॒त्य्…
विश्वास-प्रस्तुतिः
ब॒हिᳶ प॑वयि॒त्वान्तᳶ प्र पा॑दयति । म॒नु॒ष्य॒लो॒क ए॒वैन॑म् पवयि॒त्वा पू॒तन् दे॑वलो॒कम् प्रण॑यति ।
मूलम्
ब॒हिᳶ प॑वयि॒त्वान्तᳶ प्र पा॑दयति । म॒नु॒ष्य॒लो॒क ए॒वैन॑म् पवयि॒त्वा पू॒तन् दे॑वलो॒कम् प्रण॑यति ।
पद-पाठः
ब॒हिः । प॒व॒यि॒त्वा । अ॒न्तः । प्रेति॑ । पा॒द॒य॒ति॒ ।
म॒नु॒ष्य॒लो॒क इति॑ मनुष्य-लो॒के । ए॒व । ए॒न॒म् । प॒व॒यि॒त्वा । पू॒तम् । दे॒व॒लो॒कमिति॑ देव-लो॒कम् । प्रेति॑ । न॒य॒ति॒ ।
भट्टभास्कर-टीका
2बहिः पवयित्वाऽन्तः प्र पादयतीति विधिः ॥ बहिरुदकसमीपे पवयित्वा शालायामन्तः प्रवेशयति । स्तौति - मनुष्यलोक इति । गतम् । प्रणयति प्रापयति ॥
मूलम् (संयुक्तम्)
अदी॑क्षित॒ एक॒याहु॒त्येत्या॑हुस्स्रु॒वेण॒ चत॑स्रो जुहोति दीक्षित॒त्वाय॑ स्रु॒चा प॑ञ्च॒मीम्पञ्चा॑क्षरा प॒ङ्क्तिᳶ पाङ्क्तो॑ य॒ज्ञो य॒ज्ञमे॒वाव॑ रुन्द्ध॒…
विश्वास-प्रस्तुतिः
अदी॑क्षित॒ एक॒या ऽऽहु॒त्या + इत्या॑हुः ।
स्रु॒वेण॒ चत॑स्रो जुहोति दीक्षित॒त्वाय॑ , स्रु॒चा प॑ञ्च॒मीम् ।
पञ्चा॑क्षरा प॒ङ्क्तिः ।
पाङ्क्तो॑ य॒ज्ञः ।
य॒ज्ञमे॒वाव॑ रुन्धे ।
मूलम्
अदी॑क्षित॒ एक॒या ऽऽहु॒त्या + इत्या॑हुः ।
स्रु॒वेण॒ चत॑स्रो जुहोति दीक्षित॒त्वाय॑ , स्रु॒चा प॑ञ्च॒मीम् ।
पञ्चा॑क्षरा प॒ङ्क्तिः ।
पाङ्क्तो॑ य॒ज्ञः ।
य॒ज्ञमे॒वाव॑ रुन्धे ।
पद-पाठः
अदी॑क्षितः । एक॑या । आहु॒त्येत्या-हु॒त्या॒ । इति॑ । आ॒हुः॒ ।
स्रु॒वेण॑ । चत॑स्रः । जु॒हो॒ति॒ । दी॒क्षि॒त॒त्वायेति॑ दीक्षित-त्वाय॑ । स्रु॒चा । प॒ञ्च॒मीम् ।
पञ्चा॑क्ष॒रेति॒ पञ्च॑-अ॒क्ष॒रा॒ । प॒ङ्क्तिः ।
पाङ्क्तः॑ । य॒ज्ञः ।
य॒ज्ञम् । ए॒व । अवेति॑ । रु॒न्द्धे॒ ।
भट्टभास्कर-टीका
3अथ दीक्षाहुतीर्विधास्यन् अभिमतसंख्याप्रतिपादनार्थमाह - अदीक्षित इति ॥ एकयेति चतसृणामभावो लक्ष्यते, यदि चतस्रो न जुहुयात् तदा एकया अदीक्षित एव स्यादित्याहुः । तस्मात्स्रुवेण चतस्रो जुहोतीति विधिः । अन्ये तु ब्रुवते - एकाहुतिः दीक्षणीया । दीक्षाहुतीनामनेकत्वात् यदीमा दीक्षाहुतीर्न जुहुयात्, तदा दीक्षणीयया एकयाऽऽहुत्या दीक्षितत्वाभावात् अदीक्षित एव स्यादित्याहुः । तस्माद्दीक्षाहुतीर्जुहुयादिति । तत्र चतुष्टयं विधातुं चतस्र इत्युक्तम् । आहुतिशब्दे ‘तादौ च’ इति गतेः प्रकृतिस्वरत्वम् । दीक्षितत्वाय दीक्षाहुतिभिरेव । दीक्षितस्संपद्यते इति कृत्वा तत उपपद्यते । मेखलया संयोजयति दीक्षितमित्यादि । ताश्च आकूत्या इत्याद्याः । स्रुचा पञ्चमीमिति । इयं च ‘आपो देवीः'3 इत्यादिका । स्रुचा । ‘सावेकाचः’ इति विभक्तेरुदात्तत्वम् । पञ्चाक्षरेति । व्याख्यातम् ॥
मूलम् (संयुक्तम्)
आकू॑त्यै प्र॒युजे॒ऽग्नये॑ [10]
स्वाहेत्या॒हाकू॑त्या॒ हि पुरु॑षो य॒ज्ञम॒भि प्र॑यु॒ङ्क्ते यजे॒येति॑
विश्वास-प्रस्तुतिः
आकू॑त्यै प्र॒युजे॒ऽग्नये॒ स्वाहेत्या॑ह ।[10]
आकूत्या॒ हि पुरु॑षो य॒ज्ञम् अ॒भि प्र॑यु॒ङ्क्ते यजे॒येति॑ ।
मूलम्
आकू॑त्यै प्र॒युजे॒ऽग्नये॒ स्वाहेत्या॑ह ।[10]
आकूत्या॒ हि पुरु॑षो य॒ज्ञम् अ॒भि प्र॑यु॒ङ्क्ते यजे॒येति॑ ।
पद-पाठः
आकू॑त्या॒ इत्या-कू॒त्यै॒ । प्र॒युज॒ इति॑ प्र-युजे॑ । अ॒ग्नये॑ । [10] स्वाहा॑ । इति॑ । आ॒ह॒ ।
आकू॒त्येत्या-कू॒त्या॒ । हि । पुरु॑षः । य॒ज्ञम् । अ॒भीति॑ । प्र॒यु॒ङ्क्त इति॑ प्र-यु॒ङ्क्ते । यजे॑य । इति॑ ।
भट्टभास्कर-टीका
4मन्त्रार्थमनुसन्धत्ते - आकूत्या इत्यादि ॥ आकूत्या संकल्पेन हि पुरुषो यजेयेति यज्ञमभि प्रयुङ्क्ते आभिमुख्येन मनसा यज्ञं प्रयोजयति । यस्मादेवं तस्मात् आकूत्यै प्रयुजे अग्नये स्वाहेति मन्त्रमाह ॥
मूलम् (संयुक्तम्)
मे॒धायै॒ मन॑से॒ऽग्नये॒ स्वाहेत्या॑ह मे॒धया॒ हि मन॑सा॒ पुरु॑षो य॒ज्ञम॑भि॒गच्छ॑ति॒ सर॑स्वत्यै पू॒ष्णे॑ऽग्नये॒ स्वाहेत्या॑ह॒ वाग्वै सर॑स्वती
विश्वास-प्रस्तुतिः
मे॒धायै॒ मन॑से॒ऽग्नये॒ स्वाहेत्या॑ह ।
मे॒धया॒ हि मन॑सा॒ पुरु॑षो य॒ज्ञम् अ॑भि॒गच्छ॑ति ।
सर॑स्वत्यै पू॒ष्णे॑ऽग्नये॒ स्वाहेत्या॑ह ।
वाग्वै सर॑स्वती ।
मूलम्
मे॒धायै॒ मन॑से॒ऽग्नये॒ स्वाहेत्या॑ह ।
मे॒धया॒ हि मन॑सा॒ पुरु॑षो य॒ज्ञम् अ॑भि॒गच्छ॑ति ।
सर॑स्वत्यै पू॒ष्णे॑ऽग्नये॒ स्वाहेत्या॑ह ।
वाग्वै सर॑स्वती ।
पद-पाठः
मे॒धायै॑ । मन॑से । अ॒ग्नये॑ । स्वाहा॑ । इति॑ । आ॒ह॒ ।
मे॒धया॑ । हि । मन॑सा । पुरु॑षः । य॒ज्ञम् । अ॒भि॒गच्छ॒तीत्य॑भि-गच्छ॑ति ।
सर॑स्वत्यै । पू॒ष्णे । अ॒ग्नये॑ । स्वाहा॑ । इति॑ । आ॒ह॒ ।
वाक् । वै । सर॑स्वती ।
भट्टभास्कर-टीका
5मेधा ग्रन्थार्थधारणशक्तिः । तद्वत्त्वेन हि हेतुना पुरूषो मनसा यज्ञमभिगच्छति अभिप्राप्नोति ऊहापोहादिविज्ञानेन निश्चिनोति । सर्वत्र ‘हि च’ इति निघाताभावः ॥
मूलम् (संयुक्तम्)
पृथि॒वी पू॒षा वा॒चैव पृ॑थि॒व्या य॒ज्ञम्प्र यु॑ङ्क्त॒…
विश्वास-प्रस्तुतिः
पृ॒थि॒वी पू॒षा । वा॒चैव पृ॑थि॒व्या य॒ज्ञम्प्र यु॑ङ्क्ते ।
मूलम्
पृ॒थि॒वी पू॒षा । वा॒चैव पृ॑थि॒व्या य॒ज्ञम्प्र यु॑ङ्क्ते ।
पद-पाठः
पृ॒थि॒वी । पू॒षा ।
वा॒चा । ए॒व । पृ॒थि॒व्या । य॒ज्ञम् । प्रेति॑ । यु॒ङ्क्ते॒ । ।
भट्टभास्कर-टीका
6पृथिवी पूषा; वृष्टिहेतुत्वात् । वाचा पृथिव्या च यज्ञं प्रयुङ्क्ते प्रवर्तयति । एकत्र ‘सावेकाचः’ इति विभक्तेरुदात्तत्वम् । इतरत्र ‘उदात्तयणो हल्पूर्वात्’ इति ॥
मूलम् (संयुक्तम्)
आपो॑ देवीर्बृहतीर्विश्वशम्भुव॒ इत्या॑ह॒ या वै वर्ष्या॒स्ताः [11]
आपो॑ दे॒वीर्बृ॑ह॒तीर्वि॒श्वश॑म्भुवो॒
विश्वास-प्रस्तुतिः
आपो॑ देवीर् बृहतीर् विश्वशम् भुव॒ इत्या॑ह ।
या वै वर्ष्या॒स् , ता आपो॑ दे॒वीर् बृ॑ह॒तीर्वि॒श्वश॑म् भुवः [11] ।
मूलम्
आपो॑ देवीर् बृहतीर् विश्वशम् भुव॒ इत्या॑ह ।
या वै वर्ष्या॒स् , ता आपो॑ दे॒वीर् बृ॑ह॒तीर्वि॒श्वश॑म् भुवः [11] ।
पद-पाठः
आपः॑ । दे॒वीः॒ । बृ॒ह॒तीः । वि॒श्व॒श॒म्भु॒व॒ इति॑ विश्व-श॒म्भु॒वः॒ । इति॑ । आ॒ह॒ ।
याः । वै । वर्ष्याः॑ । ताः । [11] आपः॑ । दे॒वीः । बृ॒ह॒तीः । वि॒श्वश॑म्भुव॒ इति॑ वि॒श्व-श॒म्भु॒वः॒ ।
भट्टभास्कर-टीका
7आप इत्यादि ॥ या वर्ष्या वर्षे भवा आपः, ता देव्यो बृहत्यो विश्वशम्भुवश्च । वर्षशब्दात् ‘भवे छन्दसि’ इति यत् । अत्र मन्त्रे आप इत्यादीनामामन्त्रितत्वादामन्त्रितस्वरो भवति, तश्च आप इत्यपदात्परत्वात् षाष्ठिकमामन्त्रिताद्युदात्तत्वम् । ‘विभाषितं विशेषवचने बहुवचनम्’ इति तस्याविद्यमानत्वनिषेधात् शेषाणामाष्टमिकमामन्त्रिताद्युदात्तत्वम् । ब्राह्मणे त्वनामन्त्रितत्वात् यथास्वं स्वरप्रवृत्तिः । तत्र देवीशब्दः पचादिषु देवडिति पाठात् ‘टिड्ढाणञ्’ इति ङीप्, उदात्तनिवृत्तिस्वरेणान्तोदात्तः । बृहतीशब्दः गौरादिङीषन्तः । उभयत्रापि ‘वा छन्दसि’ इति पूर्वसवर्णदीर्घत्वम् । विश्वाऽपि प्रवृत्तिर्यासां प्रजानां सुखस्य भावयित्री । अन्तर्भावितण्यर्थात् भवतेः क्विप् । ण्यन्ताद्वा क्विपि ‘बहुलमन्यत्रापि संज्ञाछन्दसोः’ इति णिलुक् । ‘बहुव्रीहौ विश्वं संज्ञायाम्’ इति विश्वशब्दोन्तोदात्तः । वर्णाः खल्वापः सस्यादिनिष्पत्तिद्वारेण विश्वस्य लोकस्य सुखं भावयन्तीत्येवमुच्यते ॥
मूलम् (संयुक्तम्)
यदे॒तद्यजु॒र्न ब्रू॒याद्दि॒व्या आपोऽशा॑न्ता इ॒मल्ँ लो॒कमा ग॑च्छेयु॒रापो॑ देवीर्बृहतीर्विश्वशम्भुव॒ इत्या॑हा॒स्मा ए॒वैना॑ लो॒काय॑ शमयति॒ तस्मा॑च्छा॒न्ता इ॒मल्ँ लो॒कमा ग॑च्छन्ति॒
विश्वास-प्रस्तुतिः
यद् ए॒तद् यजु॒र्न ब्रू॒याद्
दि॒व्या आपोऽशा॑न्ता इ॒मल्ँ लो॒कम् आ ग॑च्छेयुः ।
आपो॑ देवीर् बृहतीर् विश्वशम् भुव॒ इत्या॑ह ।
अ॒स्मा ए॒वैना॑ लो॒काय॑ शमयति ।
तस्मा॑च् छा॒न्ता इ॒मल्ँ लो॒कम् आ ग॑च्छन्ति ।
मूलम्
यद् ए॒तद् यजु॒र्न ब्रू॒याद्
दि॒व्या आपोऽशा॑न्ता इ॒मल्ँ लो॒कम् आ ग॑च्छेयुः ।
आपो॑ देवीर् बृहतीर् विश्वशम् भुव॒ इत्या॑ह ।
अ॒स्मा ए॒वैना॑ लो॒काय॑ शमयति ।
तस्मा॑च् छा॒न्ता इ॒मल्ँ लो॒कम् आ ग॑च्छन्ति ।
पद-पाठः
यत् । ए॒तत् । यजुः॑ । न । ब्रू॒यात् ।
दि॒व्याः । आपः॑ । अशा॑न्ताः । इ॒मम् । लो॒कम् । एति॑ । ग॒च्छे॒युः॒ ।
आपः॑ । दे॒वीः॒ । बृ॒ह॒तीः । वि॒श्व॒श॒म्भु॒व॒ इति॑ विश्व-श॒म्भु॒वः॒ । इति॑ । आ॒ह॒ ।
अ॒स्मै । ए॒व । ए॒नाः॒ । लो॒काय॑ । श॒म॒य॒ति॒ ।
तस्मा॑त् । शा॒न्ताः । इ॒मम् । लो॒कम् । एति॑ । ग॒च्छ॒न्ति॒ । ।
भट्टभास्कर-टीका
8मन्त्रपदानि व्याख्याय मन्त्रप्रयोजनमिदानीमाह - यदिति ॥ नन्वियं त्रिपदा विराडेकादशाक्षरा, तत्किमुच्यते यदेतद्यजुरिति? अनवसानत्वमात्रेण यजुष्ट्वमुपचर्यते इत्यदोषः । यद्वा - स्वाहाकाराधिक्येन ऋग्यजुषसमुदायात्मकत्वात् अवयवधर्मेण समुदायो व्यपदिश्यते इति । दिवमन्तरिक्षं अर्हन्तीति दिव्याः, दण्डादित्वाद्यः । भवार्थे वा दिगादित्वाद्यति उत्सादित्वादन्तोदात्तत्वम् । अशान्ताः असुखा रोगाद्युपद्रवहेतवः इमं मनुष्यलोकमागच्छेयुः अस्मिन् मनुष्यलोके पतेयुः । तस्मात् ‘आपः’ इत्युदितं यजुः यस्मादाह तस्मात् अस्मै दिव्याय लोकाय एना दिव्या आपः शमयति स्तोत्रेण प्रसाद्यास्य सुखाः करोति । तस्माच्छान्ताः इदानीमिमं लोकमागच्छन्ति ॥
मूलम् (संयुक्तम्)
द्यावा॑पृथि॒वी इत्या॑ह॒ द्यावा॑पृथि॒व्योर्हि य॒ज्ञ उ॒र्व॑न्तरि॑क्ष॒मित्या॑हा॒न्तरि॑क्षे॒ हि य॒ज्ञो बृह॒स्पति॑र्नो ह॒विषा॑ वृधातु [12]
इत्या॑ह॒ ब्रह्म॒ वै दे॒वाना॒म्बृह॒स्पति॒र्ब्रह्म॑णै॒वास्मै॑ य॒ज्ञमव॑ रुन्द्धे॒
विश्वास-प्रस्तुतिः
द्यावा॑पृथि॒वी इत्या॑ह॒ -
द्यावा॑पृथि॒व्योर्हि य॒ज्ञः ।
उ॒र्व॑न्तरि॑क्ष॒मित्या॑ह - अ॒न्तरि॑क्षे॒ हि य॒ज्ञः ।
बृह॒स्पति॑र् नो ह॒विषा॑ वृधातु + इत्या॑ह । [12]
ब्रह्म॒ वै दे॒वाना॒म् बृह॒स्पतिः॑ ।
ब्रह्म॑णै॒वास्मै॑ य॒ज्ञमव॑ रुन्धे ।
मूलम्
द्यावा॑पृथि॒वी इत्या॑ह॒ -
द्यावा॑पृथि॒व्योर्हि य॒ज्ञः ।
उ॒र्व॑न्तरि॑क्ष॒मित्या॑ह - अ॒न्तरि॑क्षे॒ हि य॒ज्ञः ।
बृह॒स्पति॑र् नो ह॒विषा॑ वृधातु + इत्या॑ह । [12]
ब्रह्म॒ वै दे॒वाना॒म् बृह॒स्पतिः॑ ।
ब्रह्म॑णै॒वास्मै॑ य॒ज्ञमव॑ रुन्धे ।
पद-पाठः
द्यावा॑पृथि॒वी इति॒ द्यावा॑-पृ॒थि॒वी । इति॑ । आ॒ह॒ ।
द्यावा॑पृथि॒व्योरिति॒ द्यावा॑-पृ॒थि॒व्योः । हि । य॒ज्ञः ।
उ॒रु । अ॒न्तरि॑क्षम् । इति॑ । आ॒ह॒ ।
अ॒न्तरि॑क्षे । हि । य॒ज्ञः ।
बृह॒स्पतिः॑ । नः॒ । ह॒विषा॑ । वृ॒धा॒तु॒ । [12] इति॑ । आ॒ह॒ ।
ब्रह्म॑ । वै । दे॒वाना॑म् । बृह॒स्पतिः॑ ।
ब्रह्म॑णा । ए॒व । अ॒स्मै॒ । य॒ज्ञम् । अवेति॑ । रु॒न्द्धे॒ ।
भट्टभास्कर-टीका
9द्यावाष्टथिवी इत्याहेति ॥ द्यावाष्टथिव्यौ वर्धयितव्ये मन्त्र आह । क उपकारो भवति यज्ञस्येति चेत् आह - द्यावाष्टथिव्योर्हि यज्ञः, वृष्ट्यन्नादिना तदाश्रयत्वाद्यज्ञस्य । यद्वा - द्यावापृथिव्योः यज्ञफलं वर्तते तस्य तयोस्सुखार्थत्वात् । ‘देवताद्वन्द्वे च’ इति पुर्वोत्तरपदयोर्युगपत्प्रकृतिस्वरत्वम् । ततः ‘उदात्तयणः’ इति विभक्तेरुदात्तत्वम् । अन्तरिक्षे हि यज्ञ इति । अन्तरिक्षेऽपि हि यज्ञ इत्यर्थः । अन्तरिक्षाश्रयत्वान्मनसा द्रव्यप्रक्षेपादौ । यद्वा - अन्तरिक्षचारिणामपि सुखार्थत्वात् अन्तरिक्षेऽपि यज्ञफलम् । बृहस्पतिर्न इत्यादि । गतम् । बृहस्पतिशब्दो वनस्पत्यादिः पारस्करादिश्च ॥
मूलम् (संयुक्तम्)
यद्ब्रू॒याद्वि॑धे॒रिति॑ यज्ञस्था॒णुमृ॑च्छेद्वृधा॒त्वित्या॑ह यज्ञस्था॒णुमे॒व परि॑ वृणक्ति
विश्वास-प्रस्तुतिः
यद्ब्रू॒याद्वि॑धे॒रिति॑ । य॒ज्ञ॒स्था॒णुम् ऋ॑च्छेत् ।
वृ॒धा॒त्वित्या॑ह यज्ञस्था॒णुम् ए॒व परि॑ वृणक्ति ।
मूलम्
यद्ब्रू॒याद्वि॑धे॒रिति॑ । य॒ज्ञ॒स्था॒णुम् ऋ॑च्छेत् ।
वृ॒धा॒त्वित्या॑ह यज्ञस्था॒णुम् ए॒व परि॑ वृणक्ति ।
पद-पाठः
यत् । ब्रू॒यात् । वि॒धेः॒ । इति॑ । य॒ज्ञ॒स्था॒णुमिति॑ यज्ञ-स्था॒णुम् । ऋ॒च्छे॒त् ।
वृ॒धा॒तु॒ । इति॑ । आ॒ह॒ । य॒ज्ञ॒स्था॒णुमिति॑ यज्ञ-स्था॒णुम् । ए॒व । परीति॑ । वृ॒ण॒क्ति॒ ।
भट्टभास्कर-टीका
10यद्बूयादिति ॥ अत्र शाखान्तरे ‘बृहस्पतिर्नो हविषा वृधेः’ इत्याम्नायते । वृधेर्लिङि विधेः । तन्निन्दति ब्राह्मणमितरविधानार्थम् । यज्ञस्थाणुं यज्ञप्रतिबन्धं यजमान ऋच्छेत् प्राप्नुयात्तस्मात् वृधात्वित्याह । उभयोरप्यनुकरणत्यात् तिङः परत्वेऽपि निघातो न निवर्तते । यस्माद्वृधात्वित्याह, तस्माद्यज्ञस्थाणुं परिवृणक्ति सर्वतो वर्जयति । वृजी वर्जने । वृधेर्ण्यन्ताल्लोटि ‘बहुलमन्यत्रापि’ इति णिलुक्, विकरणव्यत्ययेन शः, वर्णव्यत्ययेन दीर्घत्वम् । वृधातु वर्धयत्वित्यर्थः ॥
मूलम् (संयुक्तम्)
प्र॒जाप॑तिर्य॒ज्ञम॑सृजत॒ सो॑ऽस्मात्सृ॒ष्टᳶ परा॑ङै॒त्स प्र यजु॒रव्ली॑ना॒त्प्र साम॒ तमृगुद॑यच्छ॒द्यदृगु॒दय॑च्छ॒त्तदौ॑द्ग्रह॒णस्यौ॑द्ग्रहण॒त्वमृ॒चा [13] जु॒हो॒ति॒ य॒ज्ञस्योद्य॑त्या अनु॒ष्टुप्छन्द॑सा॒मुद॑यच्छ॒दित्या॑हु॒स्तस्मा॑दनु॒ष्टुभा॑ जुहोति य॒ज्ञस्योद्य॑त्यै॒
विश्वास-प्रस्तुतिः
प्र॒जाप॑तिर् य॒ज्ञम् अ॑सृजत ।
सो॑ ऽस्मात् सृ॒ष्टᳶ परा॑ङैत् । स प्र यजु॒रव्ली॑ना॒त्प्र साम॒ , तम् ऋगुद॑यच्छत् ।
यद् ऋगु॒दय॑च्छ॒त् , तदौ॑द्ग्रह॒णस्यौ॑द्ग्रहण॒त्वम् । ऋ॒चा जु॒हो॒ति॒ , य॒ज्ञस्योद्य॑त्यै । [13]
अ॒नु॒ष्टुप् छन्द॑सा॒म् उद॑यच्छ॒द् इत्या॑हुः । तस्मा॑द् अनु॒ष्टुभा॑ जुहोति , य॒ज्ञस्योद्य॑त्यै ।
मूलम्
प्र॒जाप॑तिर् य॒ज्ञम् अ॑सृजत ।
सो॑ ऽस्मात् सृ॒ष्टᳶ परा॑ङैत् ।
स प्र यजु॒रव्ली॑ना॒त्प्र साम॒ , तम् ऋगुद॑यच्छत् ।
यद् ऋगु॒दय॑च्छ॒त् , तदौ॑द्ग्रह॒णस्यौ॑द्ग्रहण॒त्वम् । ऋ॒चा जु॒हो॒ति॒ , य॒ज्ञस्योद्य॑त्यै । [13]
अ॒नु॒ष्टुप् छन्द॑सा॒म् उद॑यच्छ॒द् इत्या॑हुः ।
तस्मा॑द् अनु॒ष्टुभा॑ जुहोति , य॒ज्ञस्योद्य॑त्यै ।
पद-पाठः
प्र॒जाप॑ति॒रिति॑ प्र॒जा-प॒तिः॒ । य॒ज्ञम् । अ॒सृ॒ज॒त॒ ।
सः । अ॒स्मा॒त् । सृ॒ष्टः । पराङ्॑ । ऐ॒त् ।
सः । प्रेति॑ । यजुः॑ । अव्ली॑नात् । प्रेति॑ । साम॑ ।
तम् । ऋक् । उदिति॑ । अ॒य॒च्छ॒त् ।
यत् । ऋक् । उ॒दय॑च्छ॒दित्यु॑त्-अय॑च्छत् । तत् । औ॒द्ग्र॒ह॒णस्येत्यौ॑त्-ग्र॒ह॒णस्य॑ । औ॒द्ग्र॒ह॒ण॒त्वमित्यौ॑द्ग्रहण-त्वम् ।
ऋ॒चा । [13] जु॒हो॒ति॒ । य॒ज्ञस्य॑ । उद्य॑त्या॒ इत्युत्-य॒त्यै॒ ।
अ॒नु॒ष्टुबित्य॑नु-स्तुप् । छन्द॑साम् । उदिति॑ । अ॒य॒च्छ॒त् । इति॑ । आ॒हुः॒ ।
तस्मा॑त् । अ॒नु॒ष्टुभेत्य॑नु-स्तुभा॑ । जु॒हो॒ति॒ ।
य॒ज्ञस्य॑ । उद्य॑त्या॒ इत्युत्-य॒त्यै॒ ।
भट्टभास्कर-टीका
11अथौद्ग्रहणहोमं विधास्यन् पदं तावन्निर्वक्तुमाह - प्रजापतिरित्यादि ॥ प्रजापतिना सृष्टो यज्ञः अस्मात्प्रजापतिसकाशात् पराङैत् पराङ्मुखोगच्छत् । परागञ्चतीति ऋत्विगादिना क्विनि हल्ङ्यादिसंयोगान्तलोपयोः ‘क्विन्प्रत्ययस्य कुः’ इति कुत्वम्, ‘अनिगन्तोञ्चतौ’ इति गतेः प्रकृतिस्वरत्वम् । अथ स यज्ञ आत्मानमानेतुमागतं यजुः प्राव्लीनात् प्रावृणोत्प्राच्छादयत् । व्ली वरणे । साम च प्राव्लीनात् । ‘चादिलोपे विभाषा’ इति तिङ्विभक्तिर्न निहन्यते । अय ‘विश्वे देवस्य’ इत्यादिका ऋक्तं यज्ञमुदयच्छत् उद्गृह्यानीतवती । यस्मादियमृगुदयच्छत् तस्मादियमृगुद्ग्रहणी । ‘कृत्यल्युटो बहुलम्’ इति कर्तरि ल्युट् । यस्मादियमृगुद्ग्रहणी तस्मादनेन मन्त्रेण क्रियमाणस्य औद्ग्रहणहोमस्य औद्ग्रहणत्वम् । ‘तस्माद्यज्ञस्यानयनार्थमौद्ग्रहणं जुहुयात्’ इति विधिरनुमीयते । ऋचा जुहोतीति ऋक्त्वस्य विधिः । फलमाह - यज्ञस्योद्यत्यै ‘तादौ च निति’ इति पूर्वपदप्रकृतिस्वरत्वम् । छन्दसां मध्ये अनुष्टुबुदयच्छदित्याहुः । तस्मादनुष्टुभा जुहोतीत्यनुष्टप्त्वस्य विधिः । तदेव फलम् । एवमस्य मन्त्रस्य ऋक्त्वमनुष्टुप्त्वं च ज्ञात्वैव होमः कर्तव्य इति भावः ॥
मूलम् (संयुक्तम्)
द्वाद॑श वात्सब॒न्धान्युद॑यच्छ॒न्नित्या॑हु॒स्तस्मा॑द्द्वाद॒शभि॑र्वात्सबन्ध॒विदो॑ दीक्षयन्ति॒
विश्वास-प्रस्तुतिः
द्वाद॑श वात्सब॒न्धान्य् उद॑यच्छ॒न्न् इत्या॑हुः ।
तस्मा॑द् द्वाद॒शभि॑र् वात्सबन्ध॒विदो॑ दीक्षयन्ति ।
मूलम्
द्वाद॑श वात्सब॒न्धान्य् उद॑यच्छ॒न्न् इत्या॑हुः ।
तस्मा॑द् द्वाद॒शभि॑र् वात्सबन्ध॒विदो॑ दीक्षयन्ति ।
पद-पाठः
द्वाद॑श । वा॒त्स॒ब॒न्धानीति॑ वात्स-ब॒न्धानि॑ । उदिति॑ । अ॒य॒च्छ॒न् । इति॑ । आ॒हुः॒ ।
तस्मा॑त् । द्वा॒द॒शभि॒रिति॑ द्वाद॒श-भिः॒ । वा॒त्स॒ब॒न्ध॒विद॒ इति॑ वात्सबन्ध-विदः॑ । दी॒क्ष॒य॒न्ति॒ ।
भट्टभास्कर-टीका
12कथमिदं चापि ज्ञातव्यमित्याह - द्वादशेति ॥ वत्सस्य बन्धनानि वत्सबन्धाः, वत्सो यैर्बद्ध्वा आनीयते, त इव वात्सबन्धामि, ‘शर्करादिभ्योण्’ इतीवार्थेऽण् । तानि द्वादश यज्ञमुदयच्छन्नित्याहुः । वत्स इव यज्ञो द्वादशभिर्बन्धैर्बद्ध अनीयते इत्याहुः । तानि च विश्वे इत्यादीनि द्वादश पदानि एतदृक्संबन्धीनि । तस्मादेभिः द्वादशिभिः पदैः ज्ञायमानैः वात्सबन्धविदस्सन्तोध्वर्यवो दीक्षयन्ति । ‘झल्युपोत्तमम्’ इत्युपोत्तमस्योदात्तत्वम् । एवमस्या ऋचः पदसंख्या स्तुता । केचिदाहुः - आकूत्या इत्यादीनि ध्रुवाहुतिसंबन्धीनि । अस्वाहाकाराणि पदानि द्वादश वात्सबन्धानीति । अथवा - अग्निरेक एव सर्वत्रेति आकूत्या इत्यादीनि नव पदानि ऋचि पितृदेवत्यव्यतिरिक्तानि त्रीणि द्वादशेति । उद्ग्रहण्यधिकारे कः प्रसंगोन्येषामिति चिन्त्यमेतत् ॥
मूलम् (संयुक्तम्)
सा वा ए॒षर्ग॑नु॒ष्टुग्वाग॑नु॒ष्टुग्यदे॒तय॒र्चा दी॒क्षय॑ति वा॒चैवैनँ॒ सर्व॑या दीक्षयति॒
विश्वास-प्रस्तुतिः
सा वा ए॒षा + ऋग॑नु॒ष्टुक् ।
वाग् अ॑नु॒ष्टुक् ।
यदे॒तया॑ + ऋ॒र्चा दी॒क्षय॑ति , वा॒चैवैनँ॒ सर्व॑या दीक्षयति ।
मूलम्
सा वा ए॒षा + ऋग॑नु॒ष्टुक् ।
वाग् अ॑नु॒ष्टुक् ।
यदे॒तया॑ + ऋ॒र्चा दी॒क्षय॑ति , वा॒चैवैनँ॒ सर्व॑या दीक्षयति ।
पद-पाठः
सा । वै । ए॒षा । ऋक् । अ॒नु॒ष्टुगित्य॑नु-स्तुक् ।
वाक् । अ॒नु॒ष्टुगित्य॑नु-स्तुक् ।
यत् । ए॒तया॑ । ऋ॒चा । दी॒क्षय॑ति ।
भट्टभास्कर-टीका
13अथ प्रकारान्तरेणानुष्टुप्त्वं स्तूयते - सा वा एषेति ॥ ऋक्सर्वा अनुष्टुप् ‘वागनुष्टुक्’ इति प्रदेशान्तरे दर्शनात् सैषा वागनुष्टुक् । तस्मादेतया अनुष्टुभा ऋचा दीक्षयति सर्वया वाचा एनं दीक्षयति ॥
मूलम् (संयुक्तम्)
विश्वे॑ दे॒वस्य॑ ने॒तुरित्या॑ह सावि॒त्र्ये॑तेन॒ मर्तो॑ वृणीत स॒ख्यम् [14]
इत्या॑ह पितृदेव॒त्यै॑तेन॒ विश्वे॑ रा॒य इ॑षुध्य॒सीत्या॑ह वैश्वदे॒व्ये॑तेन॑ द्यु॒म्नव्ँवृ॑णीत पु॒ष्यस॒ इत्या॑ह पौ॒ष्ण्ये॑तेन॒ सा वा ए॒षर्क्स॑र्वदेव॒त्या॑ यदे॒तय॒र्चा दी॒क्षय॑ति॒ सर्वा॑भिरे॒वैन॑न्दे॒वता॑भिर्दीक्षयति
विश्वास-प्रस्तुतिः
विश्वे॑ दे॒वस्य॑ ने॒तुर् इत्या॑ह ।
सा॒वि॒त्र्ये॑तेन॒ मर्तो॑ वृणीत स॒ख्यम् इत्या॑ह । [14]
पि॒तृ॒दे॒व॒त्यै॑तेन॒ विश्वे॑ रा॒य इ॑षुध्य॒सीत्या॑ह ।
वै॒श्व॒दे॒व्ये॑तेन॑ द्यु॒म्नव्ँ वृ॑णीत पु॒ष्यस॒ इत्या॑ह पौ॒ष्ण्य् ए॑तेन॑ ।
सा वा ए॒षर्क्स॑र्वदेव॒त्या॑ यदे॒तय॒र्चा दी॒क्षय॑ति ।
सर्वा॑भिर् ए॒वैन॑न् दे॒वता॑भिर् दीक्षयति ।
मूलम्
विश्वे॑ दे॒वस्य॑ ने॒तुर् इत्या॑ह ।
सा॒वि॒त्र्ये॑तेन॒ मर्तो॑ वृणीत स॒ख्यम् इत्या॑ह । [14]
पि॒तृ॒दे॒व॒त्यै॑तेन॒ विश्वे॑ रा॒य इ॑षुध्य॒सीत्या॑ह ।
वै॒श्व॒दे॒व्ये॑तेन॑ द्यु॒म्नव्ँ वृ॑णीत पु॒ष्यस॒ इत्या॑ह पौ॒ष्ण्य् ए॑तेन॑ ।
सा वा ए॒षर्क्स॑र्वदेव॒त्या॑ यदे॒तय॒र्चा दी॒क्षय॑ति ।
सर्वा॑भिर् ए॒वैन॑न् दे॒वता॑भिर् दीक्षयति ।
पद-पाठः
विश्वे॑ । दे॒वस्य॑ । ने॒तुः । इति॑ । आ॒ह॒ । सा॒वि॒त्री । ए॒तेन॑ ।
मर्तः॑ । वृ॒णी॒त॒ । स॒ख्यम् । इति॑ । आ॒ह॒ । पि॒तृ॒दे॒व॒त्येति॑ पितृ-दे॒व॒त्या॑ । ए॒तेन॑ ।
विश्वे॑ । रा॒यः । इ॒षु॒ध्य॒सि॒ । इति॑ । आ॒ह॒ । वै॒श्व॒दे॒वीति॑ वैश्व-दे॒वी । ए॒तेन॑ ।
द्यु॒म्नम् । वृ॒णी॒त॒ । पु॒ष्यसे॑ । इति॑ । आ॒ह॒ । पौ॒ष्णी । ए॒तेन॑ ।
सा । वै । ए॒षा । ऋक् । स॒र्व॒दे॒व॒त्येति॑ सर्व-दे॒व॒त्या॑ ।
यत् । ए॒तया॑ । ऋ॒चा । दी॒क्षय॑ति । सर्वा॑भिः । ए॒व । ए॒न॒म् । दे॒वता॑भिः । दी॒क्ष॒य॒ति॒ ।
भट्टभास्कर-टीका
14अथ सर्वदेवत्यतया ऋगियं स्तूयते - सावित्री सवितृदेवत्या नेता देवस्सवितेति कृत्वा । उदात्तनिवृत्तिस्वरेण ङीप उदात्तत्वम्, ‘उदात्तस्वरितयोर्यणः’ इति संहितायां ततः परस्स्वर्यते । पितृदेवत्या, मर्त इति म्रियत्यर्थश्रुतेः । देवतान्तात्तादर्थ्ये यत् । वैश्वदेवी; विश्वश्रुतेः । पोष्णी; पुष्यसे इति पुष्ट्यर्थश्रुतेः । सा तादृश्येषा ऋक् सर्वदेवत्या । पूर्ववद्यत् । यदेतयेत्यदि । गतम् ॥
मूलम् (संयुक्तम्)
स॒प्ताक्ष॑रम्प्रथ॒मम्प॒दम॒ष्टाक्ष॑राणि॒ त्रीणि॒
विश्वास-प्रस्तुतिः
स॒प्ताक्ष॑रम् प्रथ॒मम् प॒दम् अ॒ष्टाक्ष॑राणि॒ त्रीणि ।
मूलम्
स॒प्ताक्ष॑रम् प्रथ॒मम् प॒दम् अ॒ष्टाक्ष॑राणि॒ त्रीणि ।
पद-पाठः
स॒प्ताक्ष॑र॒मिति॑ स॒प्त-अ॒क्ष॒र॒म् । प्र॒थ॒मम् । प॒दम् । अ॒ष्टाक्ष॑रा॒णीत्य॒ष्टा-अ॒क्ष॒रा॒णि॒ । त्रीणि॑ ।
भट्टभास्कर-टीका
15अथ सर्वच्छन्दस्त्वेन स्तूयते - सप्ताक्षरं प्रथमं पदं प्रथमः पादः । अष्टाक्षराणि त्रीणि शिष्टानि पदानि द्वितीयतृतीयचतुर्थानि । ननु द्वितीयं सप्ताक्षरम्? इयादिपूरणेनाष्टाक्षरं भविष्यति । तर्ह्यनेन न्यायेन प्रथममप्यष्टाक्षरं स्यात्? प्रयोजनाभावादियादिपूरणाप्रवृतेः । द्वितीये त्वस्ति प्रयोजनम् । अष्टाक्षराणि त्रीण्येतत्संपादनार्थत्वात् । ननु समाने सप्ताक्षरत्वे किं कारणमेकं यथा समाम्नातं सप्ताक्षरमाह, इतरं त्वियादिपूरणेनाष्टाक्षरम् । उच्यते - न न्यूनाक्षरत्वमात्रेणेयादिना पूरयितव्यम्, अपि तु वृत्त्यनुरोधेन, तत्राष्टाक्षरस्य पादस्य वृत्तिलक्षणं पञ्चममक्षरं सप्तमं च लघु स्यात्, षष्ठं गुर्विति, न च प्रथमे पादे इयादिपूरिते अभीष्टवृत्तिलाभः; सत्यप्यस्मिन् सप्तमस्य गुरुत्वात् षष्ठस्य लघुत्वापत्तेः, पञ्चमस्य प्रागेव लघुत्वात् । तस्मादियादिपूरणाप्रसंगात् सप्ताक्षरं प्रथममित्याह । द्वितीये त्वियादिपूरणे सप्तमस्य लघुवृत्तित्वं क्रियते इति तस्येयादिपूरणस्य युक्तत्वात् अष्टाक्षराणि त्रीण्याहेति वेदितव्यम् ॥
मूलम् (संयुक्तम्)
यानि॒ त्रीणि॒ तान्य॒ष्टावुप॑ यन्ति॒ यानि॑ च॒त्वारि॒ तान्य॒ष्टौ यद॒ष्टाक्ष॑रा॒ तेन॑ [15]
गा॒य॒त्री यदेका॑दशाक्षरा॒ तेन॑ त्रि॒ष्टुग्यद्द्वाद॑शाक्षरा॒ तेन॒ जग॑ती॒ सा वा ए॒षर्क्सर्वा॑णि॒ छन्दाँ॑सि॒ यदे॒तय॒र्चा दी॒क्षय॑ति॒ सर्वे॑भिरे॒वैन॒ञ्छन्दो॑भिर्दीक्षयति
विश्वास-प्रस्तुतिः
यानि॒ त्रीणि॒ तान्य॒ष्टावुप॑ यन्ति ।
यानि॑ च॒त्वारि॒ तान्य॒ष्टौ ।
यद॒ष्टाक्ष॑रा॒ तेन॑ गा॒य॒त्री ।[15]
यदेका॑दशाक्षरा॒ तेन॑ त्रि॒ष्टुग् ।
यद् द्वाद॑शाक्षरा॒ तेन॒ जग॑ती॒ सा वा ए॒षर्क्सर्वा॑णि॒ छन्दाँ॑सि ।
यदे॒तय॒र्चा दी॒क्षय॑ति॒ , सर्वे॑भिर् ए॒वैन॒ञ् छन्दो॑भिर् दीक्षयति ।
मूलम्
यानि॒ त्रीणि॒ तान्य॒ष्टावुप॑ यन्ति ।
यानि॑ च॒त्वारि॒ तान्य॒ष्टौ ।
यद॒ष्टाक्ष॑रा॒ तेन॑ गा॒य॒त्री ।[15]
यदेका॑दशाक्षरा॒ तेन॑ त्रि॒ष्टुग् ।
यद् द्वाद॑शाक्षरा॒ तेन॒ जग॑ती॒ सा वा ए॒षर्क्सर्वा॑णि॒ छन्दाँ॑सि ।
यदे॒तय॒र्चा दी॒क्षय॑ति॒ , सर्वे॑भिर् ए॒वैन॒ञ् छन्दो॑भिर् दीक्षयति ।
पद-पाठः
यानि॑ । त्रीणि॑ । तानि॑ । अ॒ष्टौ । उपेति॑ । य॒न्ति॒ ।
यानि॑ । च॒त्वारि॑ । तानि॑ । अ॒ष्टौ ।
यत् । अ॒ष्टाक्ष॒रेत्य॒ष्टा-अ॒क्ष॒रा॒ । तेन॑ । [15] गा॒य॒त्री ।
यत् । एका॑दशाक्ष॒रेत्येका॑दश-अ॒क्ष॒रा॒ । तेन॑ । त्रि॒ष्टुक् ।
यत् । द्वाद॑शाक्ष॒रेति॒ द्वाद॑श-अ॒क्ष॒रा॒ । तेन॑ । जग॑ती ।
सा । वै । ए॒षा । ऋक् । सर्वा॑णि । छन्दाँ॑सि ।
यत् । ए॒तया॑ । ऋ॒चा । दी॒क्षय॑ति । सर्वे॑भिः । ए॒व । ए॒न॒म् । छन्दो॑भि॒रिति॒ छन्दः॑-भिः॒ । दी॒क्ष॒य॒ति॒ । ।
भट्टभास्कर-टीका
16अथ छन्दसां संख्याविशेषानुत्पादयति- यमिति ॥ इयमेकत्रिंशदक्षरा, अष्टौ, एकादश च, द्वादश च एकत्रिंशद्भवन्ति । तत्र प्रथमस्य सप्ताक्षरस्य यानि त्रीण्यक्षराणि तान्यष्टौ तृतीयपादात्मकान्यक्षराणि उपयन्ति उपगच्छन्ति । अथ यान्यवशिष्टानि चत्वारि, तानि चाष्टौ चतुर्थपादाक्षराण्युपयन्ति । द्वितीयः पादोष्टाक्षर एवावतिष्ठते । तथा सति यस्मादियमष्टाक्षरा द्वितीयेन पादेन, तेनेयं गायत्री । यस्मादियमेकादशाक्षरा तृतीयेन पादेन, तेनेयं त्रिष्टुक् । यस्माच्चेयं द्वादशाक्षरा चतुर्थेन पादेन, तेनेयमृग्जगती । एतान्येव प्रधानानि सवनत्रयगतानि छन्दांसि । तस्मात्तादृश्येषा ऋक् सर्वाणि छन्दांसि । यदेतयेत्यादि । गतम् । यद्द्वाभ्यामष्टाक्षराभ्यां द्वादशाक्षरेण च एकोनोष्णिगिति उष्णिक्परिगृहीता । चतर्भिरष्टाक्षरैरनुष्टुप् इत्यनुष्टुप्परिगृहीता । बृहती, द्वादशाक्षरा त्रयश्चाष्टाक्षरा इति बृहती परिगृहीता । पङ्क्तिः, द्वादशाक्षरा अष्टाक्षरा चेति पक्ङ्तिः परिगृहीता । गायत्र्यादयस्तु प्राधान्याद्ब्राह्मणेन दर्शिता इति वेदितव्यम् ॥
मूलम् (संयुक्तम्)
स॒प्ताक्ष॑रम्प्रथ॒मम्प॒दँ स॒प्तप॑दा॒ शक्व॑री प॒शव॒श्शक्व॑री प॒शूने॒वाव॑ रुन्द्ध॒ एक॑स्माद॒क्षरा॒दना॑प्तम्प्रथ॒मम्प॒दन्तस्मा॒द्यद्वा॒चोऽना॑प्त॒न्तन्म॑नु॒ष्या॑ उप॑ जीवन्ति
विश्वास-प्रस्तुतिः
स॒प्ताक्ष॑रम् प्रथ॒मम् प॒दम्। स॒प्तप॑दा॒ शक्व॑री । प॒शव॒श् शक्व॑री । प॒शून् ए॒वाव॑ रुन्धे । एक॑स्माद् अ॒क्षरा॒द् अना॑प्तम् प्रथ॒मम् प॒दम् । तस्मा॒द् यद् वा॒चोऽना॑प्त॒न् तन्म॑नु॒ष्या॑ उप॑ जीवन्ति ।
मूलम्
स॒प्ताक्ष॑रम् प्रथ॒मम् प॒दम्। स॒प्तप॑दा॒ शक्व॑री । प॒शव॒श् शक्व॑री । प॒शून् ए॒वाव॑ रुन्धे । एक॑स्माद् अ॒क्षरा॒द् अना॑प्तम् प्रथ॒मम् प॒दम् । तस्मा॒द् यद् वा॒चोऽना॑प्त॒न् तन्म॑नु॒ष्या॑ उप॑ जीवन्ति ।
पद-पाठः
स॒प्ताक्ष॑र॒मिति॑ स॒प्त-अ॒क्ष॒र॒म् । प्र॒थ॒मम् । प॒दम् ।
स॒प्तप॒देति॑ सप्त-प॒दा॒ । शक्व॑री ।
प॒शवः॑ । शक्व॑री ।
प॒शून् । ए॒व । अवेति॑ । रु॒न्द्धे॒ ।
एक॑स्मात् । अ॒क्षरा॑त् । अना॑प्तम् । प्र॒थ॒मम् । प॒दम् ।
तस्मा॑त् । यत् । वा॒चः । अना॑प्तम् । तत् । म॒नु॒ष्याः॑ । उपेति॑ । जी॒व॒न्ति॒ ।
भट्टभास्कर-टीका
17इदानीं प्रथमस्य सप्ताक्षरत्वमपि महते गुणायेत्याह - यस्मादियं प्रथमपादे सप्तत्वसंख्ययाऽवरुद्धा, यतश्च सप्तपदा शक्वरी सप्तभिरष्टाक्षरैश्शक्वरी षट्पञ्चाशदक्षरेति, यस्माच्च पशवः शक्वरी शाक्वराः पशव इति तस्मादेतयर्चा दीक्षितः पशूनवरुन्धे । किं चेत्याह - एकस्मादिति । यस्मादियं प्रथमे पादे एकस्मादक्षरादनाप्ता एकमक्षरमभिसमीक्ष्य अपूर्णा वर्तते तस्मादनया ईदृक्स्वभावया आहुतिकरणात् यद्बाचोनाप्तमपरिपूर्णं तुरीयं तदेवाद्यापि मनुप्या उपजीवन्ति । ‘तुरीयं वाचो मनुष्या वदन्ति’ इति ॥
मूलम् (संयुक्तम्)
पू॒र्णया॑ जुहोति पू॒र्ण इ॑व॒ हि प्र॒जाप॑तिᳶ प्र॒जाप॑ते॒राप्त्यै॒ न्यू॑नया जुहोति॒ न्यू॑ना॒द्धि प्र॒जाप॑तिᳶ प्र॒जा असृ॑जत प्र॒जानाँ॒ सृष्ट्यै॑ ॥ [16]
विश्वास-प्रस्तुतिः
पू॒र्णया॑ जुहोति । पू॒र्ण इ॑व॒ हि प्र॒जाप॑तिᳶ , प्र॒जाप॑ते॒राप्त्यै॑ । न्यू॑नया जुहोति । न्यू॑ना॒द्धि प्र॒जाप॑तिᳶ प्र॒जा असृ॑जत , प्र॒जानाँ॒ सृष्ट्यै॑ ॥ [16]
मूलम्
पू॒र्णया॑ जुहोति । पू॒र्ण इ॑व॒ हि प्र॒जाप॑तिᳶ , प्र॒जाप॑ते॒राप्त्यै॑ । न्यू॑नया जुहोति । न्यू॑ना॒द्धि प्र॒जाप॑तिᳶ प्र॒जा असृ॑जत , प्र॒जानाँ॒ सृष्ट्यै॑ ॥ [16]
पद-पाठः
पू॒र्णया॑ । जु॒हो॒ति॒ ।
पू॒र्णः । इ॒व॒ । हि । प्र॒जाप॑ति॒रिति॑ प्र॒जा-प॒तिः॒ ।
प्र॒जाप॑ते॒रिति॑ प्र॒जा-प॒तेः॒ । आप्त्यै॑ ।
न्यू॑न॒येति॒ नि-ऊ॒न॒या॒ । जु॒हो॒ति॒ ।
न्यू॑ना॒दिति॒ नि-ऊ॒ना॒त् । हि । प्र॒जाप॑ति॒रिति॑ प्र॒जा-प॒तिः॒ । प्र॒जा इति॑ प्र-जाः । असृ॑जत । प्र॒जाना॒मिति॑ प्र-जाना॑म् । सृष्ट्यै॑ ॥ [16]
भट्टभास्कर-टीका
18एवं न्यूनत्वं निन्दितम् । अधुना पूर्णत्वं न्यूनत्वं च स्तूयते - पूर्णयेति ॥ यस्माद्द्वितीयादिभिः पादैः पूर्णस्वभावा वाक् तस्मादनया होमः प्रजानां सृष्ट्यै भवति । कुतः? न्यूनाद्धि प्रजापतिः प्रजा असृजत, नितरामूनं न्यूनं प्रशान्तविकारमुपादानम् । एतस्माद्धि प्रजास्सृष्टाः मृत्पिण्डादिव घटशरावादिविकाराः । प्रजापतिशब्दे ‘पत्यावैश्वर्ये’ इति पूर्वपदप्रकृतिस्वरत्वम् । अव्ययपूर्वपदप्रकृतिस्वरत्वेन न्यनूशब्दे ‘उदात्तस्वरितयोर्यणः’ इति संहितायां ततः परः ऊकारस्स्वर्यते । असृजतेति ‘हि च’ इति निघाताभावे अनुदात्तत्वम् ॥
इति षष्ठे प्रथमे द्वितीयोनुवाकः ॥